अर्धनारीश्वरस्तोत्रम्

अर्धनारीश्वरस्तोत्रम्

वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १॥ तद्वन्दे गिरिपतिपुत्रिकार्धमिश्रं श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ २॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभाग- प्रालेयक्षितिधरश‍ृङ्गभङ्गिमेति ॥ ३॥ यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च क्रशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ ४॥ साभोगं घननिबिडं नितम्बबिम्बं पादोपि स्फुटमणिनूपुराभिरामः । आलोक्य क्षणमिति नन्दिनोप्यकस्मा- दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ ५॥ यत्रार्धं घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् । अर्धं च प्रणिहितकुङ्कुमाङ्गराग- म्पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६॥ यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् । विभ्राणं मुकुटमुपोढचारुचन्द्रं सन्धत्ते सपदि परस्परोपमानम् ॥ ७॥ आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् । अन्योन्यं गतमिति वाक्यमेकवक्त्र- प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८॥ प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं वामार्धं भुजगभयादिवैति यत्र । यत्रापि स्फुटपुलकं चकास्ति शीत- स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९॥ एकत्र स्फुरति भुजङ्गभोगभङ्गि- र्नीलेन्दीवरदलमालिका परत्र । एकत्र प्रथयति भस्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ १०॥ एकत्राऽर्पयति विषं गलस्य कार्ष्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र । एकत्र द्युतिरमलाऽस्थिमालिकाना- मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ ११॥ एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र । इत्यादीन्यपि हि परस्परं विरुद्धा- न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ १२॥ दन्तानां सितिमनि कज्जलप्रयुक्ते- मालिन्येऽप्यलिकविलोचनस्य यत्र । रक्तत्वे करचरणाधरस्य चान्यो नाऽन्योन्यं समजनि नूतनो विशेषः ॥ १३॥ कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे । अर्धं वा कनकसदृग्रुचिः कचानां सन्त्यज्य न्यविशत किं गलैकदेशे ॥ १४॥ सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः । क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ १५॥ यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे । संरम्भाद्गलितमदस्तदेव नूनं विश्रान्तं घनकठिने नितम्बबिम्बे ॥ १६॥ इत्यादीन्प्रविदधुरेव यत्र ताव- त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः । यावत्स प्रणतिविधौ पदारविन्दं भृङ्गीशः परिहरति स्म नाऽम्बिकायाः ॥ १७॥ किमयं शिवः किमु शिवाऽथ शिवा- विति यत्र वन्दनविधौ भवति । अविभाव्यमेव वचनं विदुषा- मविभाव्यमेव वचनं विदुषाम् ॥ १८॥ एकः स्तनः समुचितोन्नतिरेकमक्षि लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति । लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि यत्राऽव्ययत्वमविखण्डितमेव भाति ॥ १९॥ यत्र ध्रुवं हृदय एव यदैक्यमासी- द्वाक्काययोरपि पुनः पतितं तदेव । यस्मात्सतां हृदि यदेव तदेव वाचि यच्चैव वाचि करणेऽप्युचितं तदेव ॥ २०॥ कान्ते शिवे त्वयि विरूढमिदं मनश्च मूर्तिश्च मे हृदयसम्मददायिनीति । अन्योन्यमभ्यभिहितं वितनोति यत्र साधारणस्मितमनोरमतां मुखस्य ॥ २१॥ उद्यन्निरुत्तरपरस्परसामरस्य- सम्भावनव्यसनिनोरनवद्यहृद्यम् । अद्वैतमुत्तमचमत्कृतिसाधनं त- द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ २२॥ लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि । साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥ २३॥ जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं भागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः । धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु- र्युष्माकं स पयोधरो भगवतोर्हर्षामृतं वर्षतु ॥ २४॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ ``अर्धनारीश्वरस्तोत्रं'' नामैकविंशं स्तोत्रं सम्पूर्णम् । Notes: Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः is a composition by Kāśmīra Mahākavi काश्मीर महाकवि Jagaddhara Bhaṭṭa जगद्धरभट्ट who belongs to the lineage of Ratnadhara रत्नधर (father) and Gauradhara गौरधर (grandfather). The complete composition of Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः can be accessed from one of the links given below. Proofread by Ruma Dewan
% Text title            : ArdhanArishvara Stotram 4
% File name             : ardhanArIshvarastotram4.itx
% itxtitle              : ardhanArIshvarastotram 4 (jagaddharabhaTTavirachitam vandemahyamalamayUkhamauliratnam)
% engtitle              : ardhanArIshvarastotram 4
% Category              : shiva, jagaddharabhatta, kAshmIrashaivadarshanam, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : jagaddharabhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Indexextra            : (1, 2, stutikusumAnjaliH)
% Latest update         : June 24, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org