अर्धनारीश्वरस्तोत्रम् ६
(कल्हणकृतम्)
भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन्संमृत-
क्रीडकुण्डलि जृम्भितं जलधिजच्छायाच्छकण्ठच्छविः ।
वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्धस्य वो
भागः पुङ्गवलक्ष्मणोऽस्तु यशसे वामोऽथवा दक्षिणः ॥ १॥
वामे साञ्जनमक्षि दक्षिणदिशि श्यामायमानो गलः
पाणौ तिष्ठति दर्पणोऽत्र मुकुटेऽमुत्र स्थितश्चन्द्रमाः ।
तन्मातेयमयं पितेति सुचिरात्सप्रत्यभिज्ञं शनै-
र्यस्योत्सङ्गमगाद्गुहो भवतु वः प्रीत्यै सं गौरीश्वरः ॥ २॥
मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचाग्रोचिताः
किं भालज्वलनेन कज्जलमतः कार्यं तवाक्ष्णोः कृते ।
सन्धाने वपुरर्धयोर्भगवतोरित्थं निषेधेऽप्यहेः
कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ ३॥
विहितमजगोशृङ्गाग्रामाभ्यां धनुर्घटितं तथा
नरकरटिनोर्देहार्धाभ्यां गणं प्रतिगृह्णतः ।
द्विविधरचनावाल्लभ्यानां निधेरुचिता विभो-
र्जयति लटभापुम्भागाभ्यां शरीरविनिर्मितिः ॥ ४॥
नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षौरगौ
पश्यैतावत एव सम्प्रति कृतौ तन्मात्रवृत्ती बहिः ।
प्रेम्णैवार्धमिदं चराचरगुरोः प्राप्तेयमात्मस्तुती-
रित्थं देववधूमुखाच्छ्रुतिसुखाः शृण्वत्यपर्णावतात् ॥ ५॥
काप्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते
गोभिः कण्ठतटस्य हृष्यति पुरो दृक्श्य चक्षुःश्रुतेः ।
सन्धानेऽभिनवे मिथो भगवतोर्जिह्वा पृथक्स्पर्धिनी
भिन्नार्था सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ ६॥
दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कज्जलं
भौजङ्गं च भुजेऽङ्गदं घटयितुं वामेऽपि वामेतरः ।
इत्थं स्वं स्वमशिक्षितं भगवतोरर्धं पश्यतोः
साधाररस्मितलाञ्छितं दिशतु वो वक्रं मनोवाञ्छितम् ॥ ७॥
गाढालिङ्गन मङ्गलं भवतु ते स्वस्त्यस्तु वश्चाआटवः
किं ब्रूमः प्रियया विलासकलह श्रद्धेय एवासि न ।
इत्युक्ते निबिडप्रवासचकितैर्यावद्गणैः स्थीयते
सङ्घट्टः शिवयोः स तावदधिकस्पष्टः शिवायास्तु वः ॥ ८॥
तदर्धनारीश्वरमूर्धरत्नमर्धं विधोरस्तु समृद्धये वः ।
यदद्रिकन्यावदनातिरिक्तद्वितीयभागभ्रममातनोति ॥ ९॥
तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभव-
न्निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः ।
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता
जूटाहेरपि यत्र भाति दयितामूर्त्येव पृक्ता तनुः ॥ १०॥
प्रौढाः कञ्चुकिनो जरद्वृषरः कुब्जस्तुषारद्युति-
र्नित्याप्तोऽपि बहिष्कृतः परिकरः सोऽयं समस्तोऽप्यहो ।
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा
सा भिद्याद्दुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ ११॥
लीलोद्यानवनश्मशानगमने स्वेच्छापराधीनयोः
सम्यक्साम्बरतादिगम्बरदशासव्रीडनिर्व्रीडयोः ।
पर्याप्तातुलरामणीयकमहाश्रीभैरवाकारयोः
क्षेमं वः शिवयोः समासमदृशोर्दिश्यादचिन्त्यं वपुः ॥ १२॥
चूडेन्दोरिव रोचिषा मुकुलितं वातायनाभं श्रियः
पानार्थं परिषेवितं मधुकराकारैः कुमाराननैः ।
औन्नत्यादधिवास्य वक्त्रपवनैर्घ्राणोपयोगीकृतं
कस्योरोजसरोजमस्ति न मनस्तोषाय गौरीशयोः ॥ १३॥
अर्धं स्निग्धविमुग्धमिद्धहुतभुग्दिग्धं तथार्धं जग-
त्पायादीश्वरयोस्तदक्षि तिलकस्थानस्थितं वीक्ष्य यत् ।
क्रीडाकर्मणि कार्मुकं करतले कर्तुं किरीटेन्दुना
सोत्सेकश्च निरुत्सुकश्च युगपद्देवः स्मरो जायते ॥ १४॥
व्याला वायुभुजस्तृणेढि च तृणान्युक्षा बुभुक्षातुरो
निष्कौपीनपटः कुटुम्बभरणो किं त्वस्मि चिन्ताकुलः ।
दौर्गत्यादिति पिण्डमेकमकरोद्गौरीशरूपेण यो
यश्चाभीष्टफलप्रदस्त्रिजगतः कस्मैचिदस्मै नमः ॥ १५॥
ज्याघोषैर्बधिरीकरोति ककुभो बाहू मुहुः पश्यति
स्वस्य स्वेन विकत्थते रचयति प्रोच्चैस्तरां तर्जनीम् ।
यस्मिन्केवलमेव केलिरभसाज्जातेऽर्धनारीश्वरे
वीरंमन्यतया स मन्मथभटो वातूलितस्तं स्तुमः ॥ १६॥
वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः
शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः ।
तथापि प्रत्यग्रं शरणमुपयातं प्रति विभो-
रखण्डो व्यापारो जगति करुणाया विजयते ॥ १७॥
प्रेमार्धं वपुषो विलोक्य मिलितं देव्या समं स्वामिनो
मौलौ यस्य निशापतिर्नगसुतावेणीनिशामिश्रितः ।
आस्ते स्वाम्यनुवर्तनार्थमिव तत्कृत्वा वपुः खण्डितं
देयादद्वयभावनां स भगवान्देवोऽर्धनारीश्वरः ॥ १८॥
इति काश्मीरकमहाकविश्रीकल्हणकृतं अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ।
Notes:
The ArdhanārīśvaraStotram अर्धनारीश्वरस्तोत्रम् has been composed by Mahākavi Kalhaṇa महाकवि कल्हण of Kāśmīra काश्मीर.
Śloka-s श्लोकाः of this composition are found in the Kalhaṇa's RājaTaraṅgiṇī कल्हणविरचिता राजतरङ्गिणी. The English Translation by M. A. Stein about Kalhaṇa's RājaTaraṅgiṇī कल्हणविरचिता राजतरङ्गिणी provides more details about Mahākavi Kalhaṇa महाकवि कल्हण of Kāśmīra काश्मीर.
Encoded and proofread by Ruma Dewan