अश्वायुजमासकृते शिवशताष्टनामस्तोत्रम् मास ७
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
त्र्यम्बकायाम्बिकाभर्त्रे शम्बराङ्कधराय च ।
नमो वन्याय फेन्याय मान्याय च नमोनमः ॥ ५१॥
नमो भवाय भव्याय भावनायोद्भवाय च ।
अनन्तबलवीर्याय भूतानां पतये नमः ॥ ५२॥
संहर्त्रे चाथ शर्वाय अव्यथाय व्यथाय च ।
गङ्गासलिलधाराय आधाराय गुणात्मने ॥ ५३॥
कन्दर्पदर्पघाताय मेध्याय च सुशिल्पिने ।
वातचक्रप्रवृत्ताय क्रतूनां प्रभवे नमः ॥ ५४॥
क्रतुपूज्याय ईड्याय सज्जमानाय ते नमः ।
शङ्कराय वृषाङ्काय गणानां पतये नमः ॥ ५५॥
दण्डहस्ताय कालाय पाशहस्ताय ते नमः ।
सहमानाय शान्ताय चक्रप्रहरणाय च ॥ ५६॥
त्रयीमयाय सत्राय सुहोत्राय कपर्दिने ।
वेदतन्त्रप्रधानाय शतजिह्वाय वेधसे ॥ ५७॥
गानप्रियाय तुष्टाय वैद्युताय प्रभावते ।
धाराधराय पाराय सुपाराय रणाय च ॥ ५८॥
जञ्जपूकाय धर्माय दंष्ट्रिणे घोषिणे नमः ।
विचाराय हरायाथ घोराय पशुपाय च ॥ ५९॥
उरगाभरणायाथ दूरगायामराय च ।
करन्धमाय धौम्याय शर्मवर्मकराय च ॥ ६०॥
गह्वरेष्टाय शिष्टाय विशिष्टायाक्षताय च ।
उरुगव्याय सेव्याय उर्वर्याय गराय च ॥ ६१॥
स्तवाय स्तव(स्तूय)मानाय स्तवप्रीताय ते नमः ।
भर्गाय भजमानाय यजमानात्मने नमः ॥ ६२॥
सोमाय सोमचूडाय सोमास्कन्दाय ते नमः ।
भूतये स्वस्तये चैव भूतये हेतये नमः ॥ ६३॥
शताष्टनामभिर्देवि पूजयेदाश्विने शिवे । ६४.१
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तमश्वायुजमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २० अश्वायुजार्चनम् । ५१-६४.१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 20 ashvAyujArchanam . 51-64.1..
Notes:
Śiva शिव delivers to Devī देवी; Aśvāyujamāsakṛte ŚivaŚatāṣṭanāmaStotram अश्वायुजमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Aśvāyuja māsa अश्वायुज मास.
The count from the source text comes to less than 108 though. Perhaps there are/were meant to be more Śloka-s.
The corresponding Aśvāyujamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ अश्वायुजमासकृते शिवशताष्टनामावलिः derived from the Aśvāyujamāsakṛte ŚivaŚatāṣṭanāmaStotram अश्वायुजमासकृते शिवशताष्टनामस्तोत्रम्, and a Aśvāyujamāsakṛte ŚivaStutiḥ अश्वायुजमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 20 are presented on this page.
Proofread by Ruma Dewan