अश्वायुजमासकृते शिवस्तुतिः मास ७
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
जय जय विजितारिसङ्घभूम्ने
श्रुतिसीम्नेऽन्तकहारिपादधाम्ने ।
जय जय करवीरपुष्पमाला-
धर हर शङ्कर दिव्यदेहधाम्ने ॥ ६५॥
जय जय तुरगारिवाहपूज्य
जय जय त्रिपुरारये हराय
धृतसोमाय वराय ते नमोऽस्तु ॥ ६६॥
हर हर भगवन् पिनाकपाणे
गरधर शङ्कर चारुदेहमूर्ते ॥ ६७॥
पुरहर भवहर शिवतर सुखकर ।
पुरहर शम्भोहर गङ्गाधर साम्ब रुद्रपाहि ॥ ६८॥
शश्वत्प्रसीद परमेश्वर पञ्चवक्त्र
रुद्र त्रिणेत्र शशिखण्डकलाललाम ।
विश्वाधिकान्तकहर प्रमथेश शम्भो
पाहि प्रपन्नजनतां सुनतां महेश ॥ ६९॥
असमकुसुमायुधतातबाणपाणे
हर भीमामर पूज्यपादपद्म ।
श्रुति वाजिवराङ्गहेषगीतकीर्ते
प्रसभं शङ्कर पाहिमां दयाक्ष्णा ॥ ७०॥
एवं स्तवं प्रयुञ्जीत तस्मिन् मासि महेश्वरि ।
ब्राह्मणान्दापयेद्गौरं सवत्सं गोद्वयं शिवे ॥ ७१॥
दक्षिणादिभिरभ्यर्च्य मासान्ते भोक्तुमर्हसि ।
नित्यं नक्तशनो भक्तो मुक्त एव भवेद्ध्रुवम् ॥ ७२॥
आश्वयुज्यां च पौर्णम्यां होमः कार्यो विशेषतः ।
दीनानाथान् भोजयित्वा स्वयं भुञ्जीत बन्धुभिः ॥ ७३॥
आश्वयुज्यां पूर्णिमायामश्विन्यामन्नवारिभिः ॥ ७४॥
सायमभ्यर्चयन् लिङ्गं स्थिरं वा चरमेव वा ।
तावदन्नकणाब्दान्तं शिवलोके महीयते ॥ ७५॥
एवं यः कुरुते मासि सोऽश्वमेधायुतं लभेत् ।
सोऽत्यर्कराजसंराजद्विमानेन सवंशकम् ॥ ७६॥
याति मत्सदनं देवि गणैन्द्रैरनुमोदितः ॥ ७७॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तमश्वायुजमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २० अश्वायुजार्चनम् । ६५-७७॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 20 ashvAyujArchanam . 65-77..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Aśvāyuja māsa अश्वायुज मास. He mentions about conducting Homam होमम् during Aśvāyuja Pūrṇimā अश्वायुज पूर्णिमा.
The Aśvāyujamāsakṛte ŚivaŚatāṣṭanāmaStotram अश्वायुजमासकृते शिवशताष्टनामस्तोत्रम् and the Aśvāyujamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ अश्वायुजमासकृते शिवशताष्टनामावलिः comprising of 108 Names १०८ नामानि of Śiva शिव, derived from the same can be accessed from one of the links provided below. The count from the source text comes to less than 108 though. Perhaps there are/were meant to be more Śloka-s.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 20 are presented on this page.
Proofread by Ruma Dewan