बृहस्पतिकृतं १ शिवस्तोत्रम्
बृहस्पतिरुवाच ।
सूक्ष्मं परं जो(ज्यो)तिरनन्तरूपमोङ्कारमात्रं प्रकृतेः परं यत् ।
चिद्रूपमानन्दमयं समस्तमेवं वदन्तीश मुमुक्षवस्त्वाम् ॥ ७४॥
आराधयन्त्यत्र भवन्तमीशं महामखैः पञ्चभिरप्यकामाः ।
संसारसिन्धोः परमाप्तकामा विशन्ति दिव्यं भुवनं वपुस्ते ॥ ७५॥
सर्वेषु सत्त्वेषु समत्वबुद्ध्या संवीक्ष्य षट्सूर्मिषु शान्तभावाः ।
ज्ञानेन ते कर्मफलानि हित्वा ध्यानेन ते त्वां प्रविशन्ति शम्भो ॥ ७६॥
न जाति धर्माणि न वेदशास्त्रं न ध्यानयोगो न समाधिधर्मः ।
रुद्रं शिवं शङ्करं शान्तचित्तं भक्त्या देवं सोममहं नमस्ये ॥ ७७॥
मूर्खोऽपि शम्भो तव पादभक्त्या समाप्नुयान्मुक्तिमयीं तनुं ते ।
ज्ञानेषु यज्ञेषु तपःसु चैव ध्यानेषु होमेषु महाफलेषु ॥ ७८॥
सम्पन्नमेतत्फलमुत्तमं यत्सोमेश्वरे भक्तिरहर्निशं यत् ।
स्वर्गस्य जीवस्य सदा प्रियस्य फलस्य दृष्टस्य तथा श्रुतस्य ॥ ७९॥
स्वर्गस्य मोक्षस्य जगन्निवास सोपानपङ्क्तिस्तव भक्तिरेषा ।
त्वत्पादसम्प्राप्तिफलाप्तये तु सोपानपङ्क्तिं न वदन्ति धीराः ॥ ८०॥
तस्माद्दयालो मम भक्तिरस्तु नैवास्त्युपायस्तव रूपसेवा ।
आत्मीयमालोक्य महत्त्वमीश पापेषु चास्मासु कुरु प्रसादम् ॥ ८१॥
स्थूलं च सूक्ष्मं त्वमनादि नित्यं पिता च माता यदसच्च सच्च ।
एवं स्तुतो यः श्रुतिभिः पुराणैर्नमामि सोमेश्वरमीशितारम् ॥ ८२॥
इति ब्रह्मपुराणे द्वाविंशाधिकशततमाध्यायान्तर्गतं
बृहस्पतिकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १२२/७४-८२॥
brahmapurANa . adhyAya 122/74-82..
Proofread by PSA Easwaran