श्रीबटुकभैरवहृदयस्तोत्रम्

श्रीबटुकभैरवहृदयस्तोत्रम्

बटुकहृदयं ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ पूर्वपीठिका कैलाशशिखरासीनं देवदेवं जगद्गुरुम् । देवी पप्रच्छ सर्वज्ञं (सर्वेशं) शङ्करं वरदं शिवम् ॥ १॥ ॥ श्रीदेव्युवाच ॥ देवदेव परेशान भक्ताभीष्टप्रदायक । प्रब्रूहि मे महाभाग गोप्यं यद्यपि न प्रभो ॥ २॥ बटुकस्यैव हृदयं साधकानां हिताय च । ॥ श्रीशिव उवाच ॥ श‍ृणु देवि प्रवक्ष्यामि हृदयं बटुकस्य च ॥ ३॥ गुह्याद्गुह्यतरं गुह्यं तच्छृणुष्व तु मध्यमे । हृदयास्यास्य देवेशि बृहदारण्यको ऋषिः ॥ ४॥ छन्दोऽनुष्टुप् समाख्यातो देवता बटुकः स्मृतः । प्रयोगाभीष्टसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ ५॥ ॥ सविधि हृदयस्तोत्रस्य विनियोगः ॥ ॐ अस्य श्रीबटुकभैरवहृदयस्तोत्रस्य श्रीबृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्रीबटुकभैरवः देवता । अभीष्टसिद्ध्यर्थं पाठे विनियोगः ॥ ॥ अथ ऋष्यादिन्यासः ॥ श्री बृहदारण्यकऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीबटुकभैरवदेवतायै नमः हृदये । अभीष्टसिद्ध्यर्थं पाठे विनियोगाय नमः सर्वाङ्गे ॥ ॥ इति ऋष्यादिन्यासः ॥ ॐ प्रणवेशः शिरः पातु ललाटे प्रमथाधिपः । कपोलौ कामवपुषो भ्रूभागे भैरवेश्वरः ॥ १॥ नेत्रयोर्वह्निनयनो नासिकायामघापहः । ऊर्ध्वोष्ठे दीर्घनयनो ह्यधरोष्ठे भयाशनः ॥ २॥ चिबुके भालनयनो गण्डयोश्चन्द्रशेखरः । मुखान्तरे महाकालो भीमाक्षो मुखमण्डले ॥ ३॥ ग्रीवायां वीरभद्रोऽव्याद् घण्टिकायां महोदरः । नीलकण्ठो गण्डदेशे जिह्वायां फणिभूषणः ॥ ४॥ दशने वज्रदशनो तालुके ह्यमृतेश्वरः । दोर्दण्डे वज्रदण्डो मे स्कन्धयोः स्कन्दवल्लभः ॥ ५॥ कूर्परे कञ्जनयनो फणौ फेत्कारिणीपतिः । अङ्गुलीषु महाभीमो नखेषु अघहावतु ॥ ६॥ कक्षे व्याघ्रासनो पातु कट्यां मातङ्गचर्मणी । कुक्षौ कामेश्वरः पातु वस्तिदेशे स्मरान्तकः ॥ ७॥ शूलपाणिर्लिङ्गदेशे गुह्ये गुह्येश्वरोऽवतु । जङ्घायां वज्रदमनो जघने जृम्भकेश्वरः ॥ ८॥ पादौ ज्ञानप्रदः पातु धनदश्चाङ्गुलीषु च । दिग्वासो रोमकूपेषु सन्धिदेशे सदाशिवः ॥ ९॥ पूर्वाशां कामपीठस्थः उड्डीशस्थोऽग्निकोणके । याम्यां जालन्धरस्थो मे नैरृत्यां कोटिपीठगः ॥ १०॥ वारुण्यां वज्रपीठस्थो वायव्यां कुलपीठगः । उदीच्यां बाणपीठस्थः ऐशान्यामिन्दुपीठगः ॥ ११॥ ऊर्ध्वं बीजेन्द्रपीठस्थः खेटस्थो भूतलोऽवतु । रुरुः शयानेऽवतु मां चण्डो वादे सदावतु ॥ १२॥ गमने तीव्रनयनः आसीने भूतवल्लभः । युद्धकाले महाभीमो भयकाले भवान्तकः ॥ १३॥ रक्ष रक्ष परेशान भीमदंष्ट्र भयापह । महाकाल महाकाल रक्ष मां कालसङ्कटात् ॥ १४॥ ॥ फलश्रुतिः ॥ इतीदं हृदयं दिव्यं सर्वपापप्रणाशनम् । सर्वसम्पत्प्रदं भद्रे सर्वसिद्धिफलप्रदम् ॥ ॥ इति श्रीबटुकभैरवहृदयस्तोत्रं सम्पूर्णम् ॥ Notes: One needs to understand the sequence of HṛdayaM हृदयम्, Japa जप and KavacaM कवचम्. Some pointers are given in the referenced source publication, which also has Hindi translation. The hridayam text has verse numbering different, and is with viniyoga, as per other publication used (not linked). Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay, NA, Ruma Dewan
% Text title            : Batuka Hridayam or Batukabhairava Hridayam
% File name             : baTukabhairavahRidayastotram.itx
% itxtitle              : baTukabhairavahRidayastotram athavA baTukahRidayaM 
% engtitle              : baTukabhairavahRidayastotram or baTukahRidayaM 
% Category              : hRidaya, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay, Ruma Dewan
% Proofread by          : Gopal Upadhyay, NA, Ruma Dewan
% Indexextra            : (Scan)
% Latest update         : October 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org