बटुकभैरवलहरी

बटुकभैरवलहरी

(बटुकभैरवाष्टोत्तरशतनामगर्भिता) भजन्ते यद्भर्गप्रभवभुवनाभोगभरितं प्रभाभिर्भास्वन्तं भगवति भवे भाविततनुम् । भयार्त्ता भक्तायं भुवनभयभङ्गाय भुवि तं भजे भव्यैभवैर्भवभयहरं ``भैरव''महम् ॥ १॥ बिभेति क्लेशोऽस्मादथ जगदिदं भीषणतमाद् भयं विन्ते किं वा त्रिदिवपतयो विभ्यति यतः । रवं भीमं कृत्वा दितिजगणमामर्दयति यः स ``भूतानां नाथः'' किरतु करुणादृष्टि किरणान् ॥ २॥ समूहं दुःखानां परिहरति यो भैरववरो भिया सर्वान् भीरून् रवयति तथा रोदयति च । बिभर्ति स्वात्मानं भरति च जगत् सोऽतिमतिमान् विधत्तां ``भूतात्मा'' मतिमलितमां तच्चरणयोः ॥ ३॥ अमेयात्मा नित्यं निजमतिमतामुन्नतिविधौ दयार्द्रः कृत्स्नानि क्वथयति कुकृत्यानि तरसा । विधत्ते यः सत्यं शरणमुपयातं गतभयं स भव्यो ``भूतानां'' हृदि विलसताद्``भावन'' इह ॥ ४॥ वपुश्चैतत् क्षेत्रं क्षितिजलहविर्वायुनभसां समष्ट्या सम्पन्नं तदपि न विना क्षेत्रपतिना । समर्थं सर्वोर्थे भवति भगवन् ! भव्यद् ! ततः सुरेशं ``क्षेत्रज्ञं'' नमति न जनः कोऽत्र मतिमान् ॥ ५॥ रसां राज्यं रामां वपुरथ वयस्तत्त्वघटितं समष्टया व्यष्ट्या यो विकृतिसंहितं भूपतिरिव । अल पालं पालं स्वलति भुवि भक्तानविकलं स भद्रं ``क्षेत्राणा'' मनवरत ``पालः'' कलयतु ॥ ६॥ प्रभुर्बालो दीप्तः स्फटिकसदृशः कुन्तलरुचा स्फुरद्वक्त्रो दिव्यैर्नवमणिगणैर्भासिततनुः । त्रिशूलं दण्डं च स्वकरयुगले धारणा परः प्रसादं भक्तेभ्यो वितरतु सदा ``क्षेत्रद'' इह ॥ ७॥ सदोद्यत्सूर्याभस्त्रिनयनयुतः पाणिषु दधत् कपालं शूलं चाभयवरदयुग्मं स्मितमुखः । अलङ्कारै रम्यैरपि विलसितः शोणवसनः क्षतात् त्रान्तु सद्यो भवतु सदयः ``क्षत्रिय'' वरः ॥ ४॥ सृणिं खड्गं पांश डमरुमभयं नागमसितं कपालं घण्टाञ्च स्वकरकमलैर्विभ्रदनिशम् । नृमुण्डानां मालां शशधरकलां पिङ्गचिकुरान् दर्धानो दिग्वासाः सकलसुखदाताऽवतु ``विराट्'' ॥ ९॥ शवोभूत्वा यस्मिन् प्रलयसमये भूतनिवहः स्वयं शेते किंवा विजनवसतौ निष्ठति च यः । अहङ्कारे काश्यां वसति सितसानौ हिमगिरेः ``श्मशाने वासी'' मे शमयतु स नित्यं यमभयम् ॥ १०॥ सदा मां लक्ष्मीं यः स्यति विकुरुते दुर्व्यसनिनं तमश्नात्याहोस्वित् कुसृतिरहितैर्ज्ञानसहितैः । सुभक्तैः प्राप्तव्यो निजजनरिपूणामपि तथा स ``मांसाशी'' मांसं मम रिपुगणस्यात्तु सततम् ॥ ११॥ विधत्ते यो धातुर्दुहितृकमितुः पञ्चमशिरः- कपाले रुद्रः सन्नशनमथवा यः रवरपरम् । स्वयं रामो भूत्वा दशवदनमर्वत्यपि स ``रव- र्पराशी'' दत्त्वाशीर्वचनमघनाशी भवतु नः ॥ १२॥ तनीयस्या स्मृत्याऽप्यहमतनुरुद्भूय मनसि प्रकामं वैकल्यं सपदि जनयामीत्यतिमदात् । तपस्यन्तं शम्भुं वशयितुमयैच्छधृदि तदा ``स्मरस्यान्तं'' कृत्वा ह्यगमद्भिधामन्तकमयीम् ॥ १३॥ सुराणां मर्त्यानां चरणशरणं संश्रितवतां दयापारावारो दमयति दलं द्वेषणरतम् । तथाप्युद्दामा ये प्रशममुपयान्तीह न तदा पिबंस्तेषां रक्तं भवति बटुको ``रक्तप'' इति ॥ १४॥ जलेनेन्द्रो भूत्वाजगदिमलं पाति कृपया तथाऽज्ञानं पानं हरति परितो राति सुमतिम् । कदाचिल्लोकानां विकृतिमतिदृष्टया पिबति यो मुदेऽसौ मद्यं वा मदयति तदा ``पानप'' वरः ॥ १५॥ सदा सद्भिः सेव्यः सकलवसुधाऽऽसेचनपरः सुराराध्यः साध्यः सरलसरलैः स्वान्तरसितैः । सुसंस्कारेः सिक्तान् स्वजनसहितान् साधु विदधत् स्वयं सिद्धः ``सिद्धः'' सततमवतात् सिद्धसहितः ॥ १६॥ सकामं स्मर्तृभ्यो दिशति रुचिमत्सिद्धिमतुलां भजद्भ्यो निष्कामं वितरति तथा मुक्तिममलाम् । अखण्डब्रह्माण्डप्रथितमहिमोद्यद्युतिमयी यतः सर्वा सम्पद्विलसति सदा ``सिद्धिद''विभौ ॥ १७॥ अयन्ते तत्रैव प्रसभमखिलाः किन्तु मधुपाः प्रफुल्लः पुष्पौधो भवति मधुभृत्सरसः । निधानं सिद्धीनां लसति हि तथैवात्र बटुके समृद्धैः सत्``सिद्धैः'' शुभति सततः ``सेवित'' इह ॥ १८॥ मुखद्वारे पूज्यः प्रथममहि कङ्कालबटुक- स्तृतीयेनाक्ष्णा स क्रुधमुपगतः शोषयति कम् । सुखञ्चात्मीयानां कलयति करालोऽपि नितरां स ``कङ्काल'' कङ्केष्ववलति च शिरोऽजस्य चुटति ॥ १९॥ जगज्जाले कालः प्रबल इति लोकोऽपि मनुते बलं स्वीयं क्षीणं हतमतिरलं हन्त ! तनुते । धृतव्यालो भाले लसदमृतसूः शूलधरणः परं तस्यापीशो जयति नहि किं ``कालशमनः'' ? ॥ २०॥ कलानां याः काष्ठा बटुकवपुषस्ताः परिणता- स्तथा दिङ्नाथः सन्निह हि सकलास्ताः स तनुते । कलातीता कल्या कलुषमखिलं सा क्षपयतात् ``कलाकाष्ठा'' रूपा त्रिदशमहिता तस्य च ``तनुः'' ॥ २१॥ सिता श्यामा रक्ता स्फुरितवपुषो राजति छवि- र्विपद्भूद्भृद्भित्त्यै भवति निजभक्तस्य च पविः । जडानां जाऽयं यः प्रखरकिरणैरस्यति रवि- र्मुदस्ताच्छास्त्राणां चयमपि बटुः कौति स ``कविः'' ॥ २२॥ त्रयीगीतः प्रीतः पशुपतिरधीशस्त्रि जगतां गुणातीतः शीतद्युतिकर कलालङ्कृत जटः । महादेवो दुष्टग्रहकृतसपत्राकृतिहरः ``त्रिनेत्रः'' त्राता मे जगति न परः कोऽपि विबुधः ॥ २३॥ लघून् स्थूलान् सूक्ष्मान् किमणुपरमाणूनथ ततो- ऽप्यतीव क्षीणान् यः करबदरवत् पश्यति सदा अतो लोकः स्तोकः प्रथितमहिमा तं प्रति यतः प्रणामैः सम्प्रीणन् गदति ``बहुनेत्रः'' कृपयतु ॥ २४॥ त्रिलोक्यां यद्भक्तान् दनुजचरिताः के चन यदा व्यथन्ते तान् हन्तुं स इह नयने पिङ्गलयति । सदा ते ते दृष्टवा सपदि विलयं यान्ति तदनु ब्रुवन्तीशं तं ``पिंङ्गलपदयुतो'' ``लोचन'' इति ॥ २५॥ सदा पाणौ शूलं वहति भगवान् भैरव इति प्रतीत्या निश्चिन्ता यजनभजनध्याननिरताः । प्रभोर्भक्तौ रक्ता द्रुतमिह लभन्तेऽभिलषितान् स आस्ते श्री ``शूल'' स्थितिपरिलसत्''पाणि'' महिमा । २६॥ समर्थानां सार्थं सुखयति समन्तादसुमतां स्वकीयानां सृष्टिं सरसमथ सौम्यं निशमनम् । परं विश्वासार्थं बटुक ! भवता योऽतिनिशितो धृतः ``खड्गः पाणौ'' स हि भवति तेषामिह न किं ? ॥ २७॥ अयं देवः क्रूरः किमु समितिशूरः किमथवा कृपापूरोऽदूरः शरणमुपनीताय किमु वा ? । सुसंवित्त्यै सूरः प्रथितचरितो विस्मयकरः स कङ्काली शङ्कावलिमपनयत्वाशु वितताम् ॥ २८॥ तमस्यात्मानं यः परिणमयते स्वेप्सित धिया । तदा धूम्रे कृत्वा दहनसदृशो लोचनवरे । निहन्ति प्रच्छन्नान् दनुजमनुजान दुष्टमतिका- नतो ``धूम्रप्रख्यः'' स जयति तथा लौचन (?)युतः ॥ २९॥ कुतोऽपि स्वामी मे स हि नहि विभेतीति सुदृढ़ं हृदि स्वे मन्वानान् बटुकमनुजापार्पित हृदः । ततो विघ्नैर्निघ्नान् क्वचिदपि विलोकैयष भगवा- नियर्ति स्वान् भक्तानवितुमभितो``ऽभीरु''रनिशम् ॥ ३०॥ क्षितौ डाकिन्याद्या विविधघृत देहाः परिवृता व्यथन्ते जीवान् याः कुलिश हृदया नाथयति ताः । अनाथानां नाथो भयजनकशब्दोद्गिरणकृद्र् रवप्रोद्यद्भैरव्युदितगणनाथो ह्यवतु सः ॥ ३१॥ ॥ इति बटुकभैरवलहरी सम्पूर्णा ॥ Proofread by Ruma Dewan
% Text title            : Batukabhairava Lahari
% File name             : baTukabhairavalaharI.itx
% itxtitle              : baTukabhairavalaharI
% engtitle              : baTukabhairavalaharI
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scan)
% Latest update         : October 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org