बटुकभैरवलहरी
(बटुकभैरवाष्टोत्तरशतनामगर्भिता)
भजन्ते यद्भर्गप्रभवभुवनाभोगभरितं
प्रभाभिर्भास्वन्तं भगवति भवे भाविततनुम् ।
भयार्त्ता भक्तायं भुवनभयभङ्गाय भुवि तं
भजे भव्यैभवैर्भवभयहरं ``भैरव''महम् ॥ १॥
बिभेति क्लेशोऽस्मादथ जगदिदं भीषणतमाद्
भयं विन्ते किं वा त्रिदिवपतयो विभ्यति यतः ।
रवं भीमं कृत्वा दितिजगणमामर्दयति यः
स ``भूतानां नाथः'' किरतु करुणादृष्टि किरणान् ॥ २॥
समूहं दुःखानां परिहरति यो भैरववरो
भिया सर्वान् भीरून् रवयति तथा रोदयति च ।
बिभर्ति स्वात्मानं भरति च जगत् सोऽतिमतिमान्
विधत्तां ``भूतात्मा'' मतिमलितमां तच्चरणयोः ॥ ३॥
अमेयात्मा नित्यं निजमतिमतामुन्नतिविधौ
दयार्द्रः कृत्स्नानि क्वथयति कुकृत्यानि तरसा ।
विधत्ते यः सत्यं शरणमुपयातं गतभयं
स भव्यो ``भूतानां'' हृदि विलसताद्``भावन'' इह ॥ ४॥
वपुश्चैतत् क्षेत्रं क्षितिजलहविर्वायुनभसां
समष्ट्या सम्पन्नं तदपि न विना क्षेत्रपतिना ।
समर्थं सर्वोर्थे भवति भगवन् ! भव्यद् ! ततः
सुरेशं ``क्षेत्रज्ञं'' नमति न जनः कोऽत्र मतिमान् ॥ ५॥
रसां राज्यं रामां वपुरथ वयस्तत्त्वघटितं
समष्टया व्यष्ट्या यो विकृतिसंहितं भूपतिरिव ।
अल पालं पालं स्वलति भुवि भक्तानविकलं
स भद्रं ``क्षेत्राणा'' मनवरत ``पालः'' कलयतु ॥ ६॥
प्रभुर्बालो दीप्तः स्फटिकसदृशः कुन्तलरुचा
स्फुरद्वक्त्रो दिव्यैर्नवमणिगणैर्भासिततनुः ।
त्रिशूलं दण्डं च स्वकरयुगले धारणा परः
प्रसादं भक्तेभ्यो वितरतु सदा ``क्षेत्रद'' इह ॥ ७॥
सदोद्यत्सूर्याभस्त्रिनयनयुतः पाणिषु दधत्
कपालं शूलं चाभयवरदयुग्मं स्मितमुखः ।
अलङ्कारै रम्यैरपि विलसितः शोणवसनः
क्षतात् त्रान्तु सद्यो भवतु सदयः ``क्षत्रिय'' वरः ॥ ४॥
सृणिं खड्गं पांश डमरुमभयं नागमसितं
कपालं घण्टाञ्च स्वकरकमलैर्विभ्रदनिशम् ।
नृमुण्डानां मालां शशधरकलां पिङ्गचिकुरान्
दर्धानो दिग्वासाः सकलसुखदाताऽवतु ``विराट्'' ॥ ९॥
शवोभूत्वा यस्मिन् प्रलयसमये भूतनिवहः
स्वयं शेते किंवा विजनवसतौ निष्ठति च यः ।
अहङ्कारे काश्यां वसति सितसानौ हिमगिरेः
``श्मशाने वासी'' मे शमयतु स नित्यं यमभयम् ॥ १०॥
सदा मां लक्ष्मीं यः स्यति विकुरुते दुर्व्यसनिनं
तमश्नात्याहोस्वित् कुसृतिरहितैर्ज्ञानसहितैः ।
सुभक्तैः प्राप्तव्यो निजजनरिपूणामपि तथा
स ``मांसाशी'' मांसं मम रिपुगणस्यात्तु सततम् ॥ ११॥
विधत्ते यो धातुर्दुहितृकमितुः पञ्चमशिरः-
कपाले रुद्रः सन्नशनमथवा यः रवरपरम् ।
स्वयं रामो भूत्वा दशवदनमर्वत्यपि स ``रव-
र्पराशी'' दत्त्वाशीर्वचनमघनाशी भवतु नः ॥ १२॥
तनीयस्या स्मृत्याऽप्यहमतनुरुद्भूय मनसि
प्रकामं वैकल्यं सपदि जनयामीत्यतिमदात् ।
तपस्यन्तं शम्भुं वशयितुमयैच्छधृदि तदा
``स्मरस्यान्तं'' कृत्वा ह्यगमद्भिधामन्तकमयीम् ॥ १३॥
सुराणां मर्त्यानां चरणशरणं संश्रितवतां
दयापारावारो दमयति दलं द्वेषणरतम् ।
तथाप्युद्दामा ये प्रशममुपयान्तीह न तदा
पिबंस्तेषां रक्तं भवति बटुको ``रक्तप'' इति ॥ १४॥
जलेनेन्द्रो भूत्वाजगदिमलं पाति कृपया
तथाऽज्ञानं पानं हरति परितो राति सुमतिम् ।
कदाचिल्लोकानां विकृतिमतिदृष्टया पिबति यो
मुदेऽसौ मद्यं वा मदयति तदा ``पानप'' वरः ॥ १५॥
सदा सद्भिः सेव्यः सकलवसुधाऽऽसेचनपरः
सुराराध्यः साध्यः सरलसरलैः स्वान्तरसितैः ।
सुसंस्कारेः सिक्तान् स्वजनसहितान् साधु विदधत्
स्वयं सिद्धः ``सिद्धः'' सततमवतात् सिद्धसहितः ॥ १६॥
सकामं स्मर्तृभ्यो दिशति रुचिमत्सिद्धिमतुलां
भजद्भ्यो निष्कामं वितरति तथा मुक्तिममलाम् ।
अखण्डब्रह्माण्डप्रथितमहिमोद्यद्युतिमयी
यतः सर्वा सम्पद्विलसति सदा ``सिद्धिद''विभौ ॥ १७॥
अयन्ते तत्रैव प्रसभमखिलाः किन्तु मधुपाः
प्रफुल्लः पुष्पौधो भवति मधुभृत्सरसः ।
निधानं सिद्धीनां लसति हि तथैवात्र बटुके
समृद्धैः सत्``सिद्धैः'' शुभति सततः ``सेवित'' इह ॥ १८॥
मुखद्वारे पूज्यः प्रथममहि कङ्कालबटुक-
स्तृतीयेनाक्ष्णा स क्रुधमुपगतः शोषयति कम् ।
सुखञ्चात्मीयानां कलयति करालोऽपि नितरां
स ``कङ्काल'' कङ्केष्ववलति च शिरोऽजस्य चुटति ॥ १९॥
जगज्जाले कालः प्रबल इति लोकोऽपि मनुते
बलं स्वीयं क्षीणं हतमतिरलं हन्त ! तनुते ।
धृतव्यालो भाले लसदमृतसूः शूलधरणः
परं तस्यापीशो जयति नहि किं ``कालशमनः'' ? ॥ २०॥
कलानां याः काष्ठा बटुकवपुषस्ताः परिणता-
स्तथा दिङ्नाथः सन्निह हि सकलास्ताः स तनुते ।
कलातीता कल्या कलुषमखिलं सा क्षपयतात्
``कलाकाष्ठा'' रूपा त्रिदशमहिता तस्य च ``तनुः'' ॥ २१॥
सिता श्यामा रक्ता स्फुरितवपुषो राजति छवि-
र्विपद्भूद्भृद्भित्त्यै भवति निजभक्तस्य च पविः ।
जडानां जाऽयं यः प्रखरकिरणैरस्यति रवि-
र्मुदस्ताच्छास्त्राणां चयमपि बटुः कौति स ``कविः'' ॥ २२॥
त्रयीगीतः प्रीतः पशुपतिरधीशस्त्रि जगतां
गुणातीतः शीतद्युतिकर कलालङ्कृत जटः ।
महादेवो दुष्टग्रहकृतसपत्राकृतिहरः
``त्रिनेत्रः'' त्राता मे जगति न परः कोऽपि विबुधः ॥ २३॥
लघून् स्थूलान् सूक्ष्मान् किमणुपरमाणूनथ ततो-
ऽप्यतीव क्षीणान् यः करबदरवत् पश्यति सदा
अतो लोकः स्तोकः प्रथितमहिमा तं प्रति यतः
प्रणामैः सम्प्रीणन् गदति ``बहुनेत्रः'' कृपयतु ॥ २४॥
त्रिलोक्यां यद्भक्तान् दनुजचरिताः के चन यदा
व्यथन्ते तान् हन्तुं स इह नयने पिङ्गलयति ।
सदा ते ते दृष्टवा सपदि विलयं यान्ति तदनु
ब्रुवन्तीशं तं ``पिंङ्गलपदयुतो'' ``लोचन'' इति ॥ २५॥
सदा पाणौ शूलं वहति भगवान् भैरव इति
प्रतीत्या निश्चिन्ता यजनभजनध्याननिरताः ।
प्रभोर्भक्तौ रक्ता द्रुतमिह लभन्तेऽभिलषितान्
स आस्ते श्री ``शूल'' स्थितिपरिलसत्''पाणि'' महिमा । २६॥
समर्थानां सार्थं सुखयति समन्तादसुमतां
स्वकीयानां सृष्टिं सरसमथ सौम्यं निशमनम् ।
परं विश्वासार्थं बटुक ! भवता योऽतिनिशितो
धृतः ``खड्गः पाणौ'' स हि भवति तेषामिह न किं ? ॥ २७॥
अयं देवः क्रूरः किमु समितिशूरः किमथवा
कृपापूरोऽदूरः शरणमुपनीताय किमु वा ? ।
सुसंवित्त्यै सूरः प्रथितचरितो विस्मयकरः
स कङ्काली शङ्कावलिमपनयत्वाशु वितताम् ॥ २८॥
तमस्यात्मानं यः परिणमयते स्वेप्सित धिया ।
तदा धूम्रे कृत्वा दहनसदृशो लोचनवरे ।
निहन्ति प्रच्छन्नान् दनुजमनुजान दुष्टमतिका-
नतो ``धूम्रप्रख्यः'' स जयति तथा लौचन (?)युतः ॥ २९॥
कुतोऽपि स्वामी मे स हि नहि विभेतीति सुदृढ़ं
हृदि स्वे मन्वानान् बटुकमनुजापार्पित हृदः ।
ततो विघ्नैर्निघ्नान् क्वचिदपि विलोकैयष भगवा-
नियर्ति स्वान् भक्तानवितुमभितो``ऽभीरु''रनिशम् ॥ ३०॥
क्षितौ डाकिन्याद्या विविधघृत देहाः परिवृता
व्यथन्ते जीवान् याः कुलिश हृदया नाथयति ताः ।
अनाथानां नाथो भयजनकशब्दोद्गिरणकृद्र्
रवप्रोद्यद्भैरव्युदितगणनाथो ह्यवतु सः ॥ ३१॥
॥ इति बटुकभैरवलहरी सम्पूर्णा ॥
Proofread by Ruma Dewan