बटुकभैरवस्तवराजः
उक्तं च रुद्रयामले ।
आचम्य प्राणानायम्य ।
मेरुपृष्ठे सुखासीनं देवदेव त्रिलोचनम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १॥
श्रीपार्वत्युवाच ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारकं मन्त्रं सर्वसिद्धिप्रदं नृणाम् ॥ २॥
सर्वेषां चैव भूतानां हितार्थ वाञ्छितं मया ।
विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रदायकम् ॥ ३॥
प्रसाधनमिति वा पाठः ।
अङ्गन्यासकरन्यासदेहन्याससमन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥ ४॥
ईश्वर उवाच ।
श्रृणु देवि महामन्त्रमापदुद्धरहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम् ॥ ५॥
अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६॥
ग्रहराजभयानां च नाशनं सुखवर्द्धनम् ।
स्नेहाद्वक्ष्यामि ते मन्त्रं सर्वसारमिमं प्रिये ॥ ७॥
सर्वकामार्थदं मन्त्रं राजभोगप्रदं नृणाम् ।
आपदुद्धारमन्त्रस्य मूलविद्यां शृणु प्रिये ॥ ८॥
यस्य संस्मरणादेव भूतानां नाशनं वरम् ।
प्रणवं पूर्वमुद्धृत्य देवीप्रणवमुद्धरेत् ॥ ९॥
बटुकायेति वै पश्चादापदुद्धारणाय च ।
कुरु द्वयं ततः पश्चाद्बटुकाय पुनर्वदेत् ॥ १०॥
देवीप्रणवमुद्धृत्य मन्त्रोद्धारमिम प्रिये ।
एकविंशतिवर्णास्तु मन्त्रे सत्यं प्रकाशितः ॥ ११॥
यन्त्रोद्धारमिमं देवि त्रैलोक्ये चातिदुर्लभम् ।
तद्यन्त्रं च प्रवक्ष्यामि यन्त्रे देवं च पूजयेत् ॥ १२॥
त्रिकोणं श्च तथा दत्त्वा षट्कोणं च ततो न्यसेत् ।
ततश्च वलये कुर्याच्चतुष्कोण ततश्चरेत् ॥ १३॥
मन्त्रं दलं समारभ्य मन्त्राक्षराणि पूरयेत् ।
उपरि तानि सव्येन सर्वाणि पूरयेत् क्रमात् ॥ १४॥
उर्वरितदले तत्र लक्ष्मीबीजं न्यसेत्सदा ।
दिक्पालाश्चसमारोप्यकोणेऽष्टभैर्वान् लिखेत् ॥ १५॥
एवं यन्त्रं च सम्पूज्य स्वस्थो भूत्वा जपेन्नरः ।
मन्त्राक्षराणां सङ्ख्याकैस्तन्तुभिर्ब्रह्मसूत्रजैः ।
वर्त्ति दत्त्वा घृतेनैव दीपं तत्र प्रदापयेत् ॥ १६॥
दीप दानमन्त्रो यथा ।
ॐ ह्रीं श्रीं क्लीं ह्रीं श्रीं बं सर्वज्ञाय महाबलपराक्रमाय बटुकाय
इमं दीपं गृहाण सर्वकार्यार्थसाधकाय दुष्टान्नाशय दुष्टान्नाशय
त्रासय त्रासय सर्वतो मम रक्षां कुरु कुरु फट् स्वाहा ॥ १७॥
त्रिराचम्य च मन्त्रैश्च हस्तं प्रक्षाल्य वै तदा ।
हस्ते जलं ततो गृह्य विनियोगं पठेद्द्वयम् ॥ १८॥
अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ।
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ॥ १९॥
विद्रवन्त्यतिमीता वै कालरुद्रादिव प्रजाः ।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ २०॥
नाग्निचोरभयं तत्र ग्रहराजभयं तथा ।
न च मारीभयं क्वापि सर्वत्र सुख भाग्भवेत् ॥ २१॥
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसम्पदः ।
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ॥ २२॥
पार्वत्युवाच ।
य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवः कल्प उत्तमः ॥ २३॥
तस्य नामसहस्राणि प्रयुतान्यर्बुदानि च ।
सारसुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ २४॥
यानि सङ्कीर्तयन्मर्त्यः सर्वदुःखविवर्जितः ।
सर्वान्कामानवाप्नोति साधकः सिद्धिमेव च ॥ २५॥
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।
आपदुद्धारणस्येह नामाष्टशतमुत्तमम् ॥ २६॥
सर्वपापहरं पुण्यं सर्वापद्विनिवारणम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ २७॥
सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् ।
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २८॥
नामाष्टशतकस्यास्य छन्दोऽनुष्टुप् प्रकीर्तितम् ।
बृहदारण्यको नाम ऋषिर्देवोऽथ भैरवः ॥ २९॥
अष्टबाहुत्रिनयनं बीजशक्ती समीरिते ।
ॐ कीलकं शेषमिष्टसिद्धौ तु विनियोजयेत् ॥ ३०॥
सर्वकामार्थसिद्ध्यर्थं विनियोगः प्रकीर्तितः ।
आदौ कृत्वा पडङ्गं च ह्रां वां बीजादिनिर्मितिम् ॥ ३१॥
अङ्गुष्ठादिकरान्तं च यथोक्त हृदयादिकम् ।
न्यासं कुर्याच्च विधिवद्भक्त्या भैरवतुष्टये ॥ ३२॥
सद्योजातादिभिर्मन्त्रैः कनिष्ठिकादिपूर्वकम् ।
देहाङ्गन्यासकं चैव पूर्व कुर्याच्च साधकः ॥ ३३॥
यथाकामनया ध्यात्वा ध्यानं च त्रिविधं यतः ।
आद्यन्ते स्तोत्रपाठस्य मूलमन्त्रं जपेन्नरः ॥ ३४॥
अष्टोत्तरशतं धीमान्यथासङ्ख्यमथापि वा ।
जपान्तेऽप्युत्तरन्यासाः कर्तव्या जपसिद्धये ॥ ३५॥
एवं न्यासविधिं देवि भैरवस्य महात्मनः ।
नामाष्टशतकं पश्चाज्जपेदापन्निवारकम् ॥ ३६॥
स्थानेषु येषु नामानि शृणु मत्प्राणवल्लभे ।
अथ देहन्यासनामानि ।
भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ॥ ३७॥
अक्ष्णोर्भूताश्रयं न्यस्य कर्णयोर्भूतनायकम् ।
नासिकायां त्रिशूलं च जिह्वायां रक्तपं न्यसेत् ॥ ३८॥
कण्ठमध्ये नागहारं नागहारोपवीतकम् ।
क्षेत्रज्ञं करयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥ ३९॥
क्षेत्रदं नाभिदेशे तु कट्यां सर्वाघनाशनम् ।
त्रिनेत्रमूवर्विन्यस्य जङ्घयो रक्तपायिनम् ॥ ४०॥
पादयोर्देवदेवेशं सर्वाङ्गे बटुकं न्यसेत् ।
एवं न्यासविधिं कृत्वा स साक्षाद्भैरवो भवेत् ॥ ४१॥
अथातः सम्प्रवक्ष्यामि अङ्गुली न्यासमुत्तमम् ।
न्यसेद्भैरवमङ्गुष्ठे तर्जन्यां भीमदर्शनम् ॥ ४२॥
भूतश्रेष्ठं मध्यमायामनाम्यां भूतनायकम् ।
कनिष्ठि काय क्षत्रियं क्षेत्रपालं करद्वये ॥ ४३॥
क्षेत्रज्ञं दिग्दिशायां वै भैरवं सर्वतः पुनः ।
अथाङ्गन्यासाः ।
भैरवं शिरसि न्यस्य ललाटे भीमदर्शनम् ॥ ४४॥
नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः ।
कर्णयोर्भूतनाथं च प्रेतवाहं कपोलयोः ॥ ४५॥
नासापुटोष्ठयोश्चैव भस्माङ्गसर्पभूषणम् ।
अनादिनाथमास्ये च शक्तिहस्तं गले न्यसेत् ॥ ४६॥
स्कन्धयोर्दैत्यशमनं बाह्वोरतुलतेजसम् ।
पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् ॥ ४७॥
शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ।
उदरे च सदा तुष्टं क्षेत्रेशं पार्श्वयोस्तथा ॥ ४८॥
क्षेत्रपालं पृष्ठदेशे क्षेत्रज्ञं नाभिदेशके ।
पापौघनाशनं कट्यां बटुकं लिङ्गदेशके ॥ ४९॥
गुदे रक्षाकरं न्यस्य तथोवों रक्तपायिनम् ।
जानुनोर्घुर्घुरारावं जङ्घयो रक्तपायिनम् ॥ ५०॥
गुल्फयोः पादुकासिद्धं पादपृष्ठे सुरेश्वरम् ।
आपादमस्तकं चैव आपदुद्धारकं तथा ॥ ५१॥
``ओं ह्रीं क्ष्मौं ब्रौं ह्रीं ॐ स्वाहा आपदुद्धारणभैरवाय नमः ॥ ``॥
अनेन व्यापकम् ।
पूर्वं डमरुहस्तं च दक्षिणे दण्डधारिणम् ।
खड्गहस्तं पश्चिमायां घण्टावादिनमुत्तरे ॥ ५२॥
आग्रेय्यामग्निवर्णे च नैरृत्यां च दिगम्बरम् ।
वायव्यां सर्वभूतस्थमीशान्यां चाष्टसिद्धिदम् ॥ ५३॥
ऊर्ध्वे खेचारिणं न्यस्य पाताले रौद्ररूपिणम् ।
एवं विन्यस्य देहेषु कगङ्गेषु ततो न्यसेत् ॥ ५४॥
रुद्रमङ्गुष्ठयोर्न्यस्य तर्जन्योस्तु शिखीसखम् ।
शिवं मध्यमयोर्न्यस्यानामिक्योस्तु त्रिशूलिनम् ॥ ५५॥
ब्रह्माणं तु कनिष्ठायां तलयोस्त्रिपुरान्तकम् ।
मांसाशिनं कराये तु करपृष्ठे दिगम्बरम् ॥ ५६॥
हृदये भूतनाथाय आदिनाथाय मूर्द्धनि ।
आनन्दपदपूर्वाय नाथायाथ शिखासु च ॥ ५७॥
सिद्धशाबरनाथाय कवचे विन्यसेत्तथा ।
सहजानन्दनाथाय न्यसेन्नेत्रत्रये तथा ॥ ५८॥
श्रीमदानन्दनाथाय अस्त्रे चैव प्रयोजयेत् ।
बीजपूर्वोद्धृतं मन्त्रं न्यासं कुर्याद्विचक्षणः ॥ ५९॥
देवीबीजादृते ब्रूयात्सिद्धिर्भवति नान्यथा ।
एवं न्यासविधिं कृत्वा ध्यायेच्च तदनन्तरम् ॥ ६०॥
ध्यानं तस्य प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ६१॥
अथ त्रिगुणात्मकं ध्यानम् ।
शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूत सङ्काशं नीलाञ्जनसमप्रभम् ॥ ६२॥
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विवाहुकम् ।
दंष्ट्राकरालवदनं नृपुरारावसङ्कुलम् ॥ ६३॥
भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।
दिगम्बर कुमारेशं बटुकाख्यं महाबलम् ॥ ६४॥
खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥ ६५॥
आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥ ६६॥
अथ सात्त्विकं ध्यानम् ।
वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिताङ्गं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताग्राभ्यां बटुकसदृशं शूलदण्डोपधानम् ॥ ६७॥
अथ राजसं ध्यानम् ।
उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्त्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणयुतं शीतांशुखण्डोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ ६८॥
अथ तामसं ध्यानम् ।
ध्यायेन्नीलादिकान्तं शशि शकलघरं मुण्डमालं महेशं
दिग्वस्त्र पिङ्गकेशं डमरुमथ सृणिं खड्गपाशाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं
दिव्याकल्पं त्रिनेत्रं मणिमयविलसकिङ्किणीनूपुराढयम् ॥ ६९॥
अथ साधारणं ध्यानम् ।
करकलितकपालः कुण्डलीदण्डपाणिस्तरुणतिमिरनीलो व्यालयज्ञोपवीती ।
ऋतुसमयसपर्याविघ्नविच्छेदहेतुर्जयति बटुकनाथः सिद्धिदः साधकानाम् ॥ ७०॥
आनीलकुन्तलमलक्तकरक्तवर्णं मौनीकृतं कृतमनोज्ञ मुखारविन्दम् ।
कल्याणकीर्तिकमनीयकपालपाणिं वन्दे महाबटुकनाथमभीष्टसिद्ध्यै ॥ ७१॥
आननसर्वगीर्वाणशिरोभृगाङ्गसङ्गिनम् ।
भैरवस्य पदाम्भोजं भूयोऽस्य नौमि भूतये ॥ ७२॥
ध्यात्वा जपेत्सुसन्दृष्टः सर्वान्कामानवाप्नुयात् ।
आयुरारोग्यमैश्वर्यं सिद्धार्थे विनियोजयेत् ॥ ७३॥
साधकः सर्वलोकेषु सत्यं सत्यं न संशयः ।
लक्षवारं जपेन्मन्त्रं होमं कुर्याद्यथाविधि ॥ ७४॥
ॐ अस्य श्री बटुकभैरवस्तोत्रमन्त्रस्य बृहदारण्यक ऋषिः ।
अनुष्टुप छन्दः । श्रीबटुकभैरवो देवता ।
अष्टबाहुमिति बीजम् ।
त्रिनयनमिति शक्तिः ।
प्रणवः कीलकम् ।
ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
बृहदारण्यकऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
बटुकभैरवदेवतायै नमः हृदये ।
अष्टबाहुमिति बीजाय नमः गुह्ये ।
त्रिनयनमिति शक्तये नमः पादयोः ।
ॐ कीलकाय नमः नाभौ ।
ॐ विनियोगाय नमः सर्वाङ्गे ।
ॐ ह्रां बां ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ।
अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं बीं तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ।
तर्जनीभ्यां नमः ॥
ॐ हूं बूं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ।
मध्यमाभ्यां नमः ॥
ॐ हैं बैं वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय
नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय
नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ।
अनामिकाभ्यां नमः ॥
ॐ ह्रौं बौं सद्योजातं प्रपद्यामि सद्योजाताय वै नमोनमः ।
कनिष्टिकाभ्यां नमः ॥
ॐ ह्रः बः पञ्चवक्राय महादेवाय नमः ।
करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासः ।
ॐ ह्रां बां ईशानः हृदयाय नमः ।
ॐ ह्रीं बीं तत्पुरुषाय शिरसे स्वाहा ।
ॐ हूं बूं अघोराय शिखायै वैषट् ॥
ॐ ह्रैं बैं वामदेवाय कवचाय हुम् ।
ॐ ह्रौं बौं सद्योजाताय नेत्रत्रयाय वौषट् ।
ॐ ह्रः बः पञ्चवक्राय महादेवाय नमः अस्त्राय फट् ।
अथ देहन्यासः ।
ॐ ह्रीं भैरवाय नमः मूर्ध्नि ।
ॐ ह्रीं भीमदर्शनाय नमः ललाटे ।
ॐ ह्रीं भूताश्रयाय नेत्रयोः ।
ॐ ह्रीं भूतनायकाय कर्णयोः ॐ ह्रीं त्रिशूलाय नासिकायाम् ।
ॐ ह्रीं रक्तपाय जिह्वायाम् ।
ॐ ह्रीं नागहारनागयज्ञोपवीतिने कण्ठमध्ये ।
ॐ ह्रीं क्षेत्रज्ञाय करयोः ।
ॐ ह्रीं क्षेत्रपालाय हृदये ।
ॐ ह्रीं क्षेत्रदाय नाभौ ।
ॐ ह्रीं सर्वाघनाशनाय कट्याम् ।
ॐ ह्रीं त्रिनेत्राय ऊर्वोः ।
ॐ ह्रीं रक्तपायिने जङ्घयोः ।
ॐ ह्रीं देवदेवेशाय सर्वाङ्गे ।
अथ करन्यासः -
ॐ ह्रीं भैरवाय अङ्गुष्ठाभ्यां नमः ॥
ॐ ह्रीं भीमदर्शनाय तर्जनीभ्यां नमः ॥
ॐ ह्रीं भूतश्रेष्ठाय मध्यमाभ्यां नमः ॥
ॐ ह्रीं भूतनायकाय अनामिकाभ्यां नमः ॥
ॐ ह्रीं क्षत्रियाय कनिष्ठिकाभ्यां नमः ॥
ॐ ह्रीं क्षेत्रपालाय करतलकरपृष्ठाभ्यां नमः ॥
ॐ ह्रीं क्षेत्रज्ञाय दिग्दिशायाम् ।
ॐ भैरवाय सर्वाङ्गे ।
अथाङ्गन्यासः ।
ॐ ह्रीं भैरवाय शिरसि ।
ॐ ह्रीं भीमदर्शनाय ललाटे ।
ॐ ह्रीं भूतहननाय नेत्रयोः ।
ॐ ह्रीं सारमेयानुगाय भ्रुवोः ।
ॐ ह्रीं भूतनाथाय कर्णयोः ।
ॐ ह्रीं प्रेतवाहकाय कपोलयोः ।
ॐ ह्रीं भस्माङ्गाय नासापुटे ।
ॐ ह्रीं सर्पभूषणाय ओष्ठयोः ।
ॐ ह्रीं आदिनाथाय मुखे ।
ॐ ह्रीं शक्तिहस्ताय गले ।
ॐ ह्रीं दैत्यशमनाय स्कन्धयोः ।
ॐ ह्रीं अतुलतेजसे बाह्वोः ।
ॐ ह्रीं कपालिने करयोः ।
ॐ ह्रीं मुण्डमालिने नमः हृदये ।
ॐ ह्रीं शान्ताय वक्षस्थले ।
ॐ ह्रीं कामचारिणे नम स्तनयोः ।
ॐ ह्रीं सदातुष्टाय उदरे ।
ॐ ह्रीं क्षेत्रेशाय पार्श्वयोः ।
ॐ ह्रीं क्षेत्रपालाय पृष्ठे ।
ॐ ह्रीं क्षेत्रज्ञाय नाभौ ।
ॐ ह्रीं पापौघनाशनाय कट्याम् ।
ॐ ह्रीं बटुकाय लिङ्गे ॥
ॐ ह्रीं रक्षाकराय गुदे ॥
ॐ ह्रीं रक्तलोचनाय ऊर्वोः ।
ॐ ह्रीं घुर्घुराय जानुनोः ॥
ॐ ह्रीं रक्तपायिने० जङ्घयोः ॥
ॐ ह्रीं सिद्धपादुकाय गुल्फयोः ॥
ॐ ह्रीं सुरेश्वराय पादपृष्ठे ॥
ॐ ह्रीं आपदुद्धारकाय आपादतलमस्तकपर्यन्त न्यसेत् ।
ॐ ह्रीं क्ष्म्रौं बौं ह्रीं ॐ स्वाहा आपदुद्धारणभैरवाय नमः ।
अनेन सर्वाङ्गे व्यापकं कुर्यात् ।
अथ दिङ्न्यासः ।
ॐ ह्रीं डमरुहस्ताय नमः पूर्वे ।
ॐ ह्रीं दण्डधारिणे नमः दक्षिणे ॥
ॐ ह्रीं खड्गहस्ताय पश्चिमे ॥
ॐ ह्रीं घण्टावादिने उत्तरे ॥
ॐ ह्रीं अग्निवणीय आग्नेय्याम् ॥
ॐ ह्रीं दिगम्बराय निरृत्ये ॥
ॐ ह्रीं सर्वभूतस्थाय वायव्ये ॥
ॐ ह्रीं अष्टसिद्धिदाय ईशान्ये ॥
ॐ ह्रीं खेचारिणे ऊर्ध्वम् ।
ॐ ह्रीं रौद्ररूपिणे पाताले ।
अथ करन्यासः ॥
ॐ ह्रीं भैरवाय अङ्गुष्ठाभ्यां नमः ॥
ॐ ह्रीं भीमदर्शनाय तर्जनीभ्यां नमः ॥
ॐ ह्रीं भूतश्रेष्ठाय मध्यमाभ्यां नमः ॥
ॐ ह्रीं भूतनायकाय अनामिकाभ्यां नमः ॥
ॐ ह्रीं क्षत्रियाय कनिष्ठिकाभ्यां नमः ॥
ॐ ह्रीं क्षेत्रपालाय करतलकरपृष्ठाभ्यां नमः ॥
ॐ ह्रीं रुद्राय नमः अङ्गुष्ठाभ्याम् ॥
ॐ ह्रीं शिखीसखाय नमः तर्जनीभ्याम् ॥
ॐ ह्रीं शिवाय नमः मध्यमाभ्याम् ॥
ॐ ह्रीं त्रिशूलिने नमः अनामिकाभ्याम् ॥
ॐ ह्रीं ब्रह्मणे नमः कनिष्ठिकाभ्याम् ॥
ॐ ह्रीं त्रिपुरान्तकाय नमः करतलयोः ।
ॐ ह्रीं मांसाशिने नमः कराग्रेषु ।
ॐ ह्रीं दिगम्बराय नमः करपृष्ठयोः ।
अथ षडङ्गन्यासः ।
ॐ ह्रीं भूतनाथाय नमः हृदये ।
ॐ ह्रीं आदिनाथाय मूर्धनि ।
ॐ ह्रीं आनन्दनाथाय शिरसे स्वाहा ॥
ॐ ह्रीं सिद्धशाबरनाथाय कवचाय हुम् ॥
ॐ ह्रीं सहजानन्दनाथाय नेत्रत्रयाय वौषट् ॥
ॐ ह्रीं श्रीआनन्दनाथाय अस्त्राय फट् ॥
ॐ अस्य श्रीबटुकभैरवमन्त्रस्य बृहदारण्यक ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीबटुकभैरवो देवता ।
बं बीजम् ।
ह्रीं शक्तिः ।
ॐ कीलकम् ।
श्रीबटुकभैरव प्रसादसिद्धयर्थं स्तोत्रादौ
अष्टोत्तरशतमूलमन्त्रजपे विनियोगः ।
अथ मन्त्रन्यासः ।
ॐ ह्रीं अङ्गुः ।
ॐ बटुकाय न० ॐ आपदुद्धारणाय० म० ॐ कुरुकुरु अ०॥ ?
अथ सकलमनोरथप्राप्त्यर्थमिदं ध्यानम् ।
शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ ७५॥
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम ॥ ७६॥
भुजङ्गमखिलं देवमग्निवर्णशिरोरुहम् ।
दिगम्बरं कुमारेशं बटुकाख्यं महाबलम् ॥ ७७॥
खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ।
डमरूं च कपालं च वरदं भुजगं तथा ।
आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥ ७८॥
एवं ध्यात्वा ``ओं ह्रीं भैरव भयकरहर मां रक्षरक्ष हुं फट् स्वाहा ॥ ``
इति मन्त्रेण प्रार्थयित्वा पूर्वोक्तयन्त्रपीठे आवाहनादिमुद्रा प्रदर्शयेत् ।
षोडशोपचारैरभ्यर्चयेत् ।
अथ बलिदानम् ।
शुद्धासन उपविश्य ।
हां हीं कुं एभिर्बीजैः त्रिभिराचम्य मूलेन प्राणायामं कृत्वा
देशकालौ सङ्कीर्त्य ।
ममासुकफलावाप्तये श्रीबटुकप्रीतये बलिदानमहं करिष्ये ।
इति सङ्कप्य ।
गणपतिं दुर्गां रक्तैश्चन्दनाक्षतपुष्पैरभ्यर्च्य देवस्याग्रे त्रिकोणं
चतुरस्रं मण्डलं कृत्वा तत्र गन्धाद्यैरभ्यर्च्य पात्रस्थं
कवलाकारं सम्पादितं बलिं निधाय गन्धपुष्पाभ्यां मूलान्ते बलिरूपाय नमः इति बलिं सम्पूज्य देवं तत्र सञ्चित्य सम्पूज्य हस्ते जलमादाय मूलमन्त्रमुच्चार्य जलं भूमौ निक्षिप्य स्वहस्ते बलिमादाय देवाय समर्पयेत् । ततः सङ्कल्पं कुर्यात् ।
मम सकलकामना सिद्धयर्थे
श्रीबटुकभैरवस्तोत्रस्यैकादशसहस्रपुरश्चरणाङ्गत्वेन
प्रतिस्तोत्रं मूलमन्त्रस्योत्तरशत सङ्ख्याजपसम्पुटितपं
चाशत्सङ्ख्यापाठमहं करिष्ये वा यथाशक्त्यैकप्रभृतिपाठमहं
करिष्ये । मूलमन्त्रमष्टोत्तरशतवारं जपेत् ।
मूलमन्त्रः ।
``ओं ह्रीं बटुकाय आपदुद्धारणाय कुरुकुरु बटुकाय ह्रीं ओम् ॥ ``
एवं अष्टोत्तरशतमूलमंलत्रजपकृतेन श्रीबटुकभैरवः प्रीयताम् ।
बटुकाय नमस्कृत्य पञ्चोपचारैः सम्पूज्य स्तोत्रं पठेत् ।
ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ ७९॥
श्मशानवासी मांसाशी खर्प राशी स्मरान्तकृत् ।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ ८०॥
कङ्कालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ८१॥
शूलपाणिः खड्डपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ८२॥
धनदो धनहारी च धनवान्प्रीतिभावितः ।
नागहारो नागपाशो व्योमकेशः कपालभृत् ॥ ८३॥
कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपः ॥ ८४॥
त्रिनेत्रतनयो डिम्भः शान्त शान्तजनप्रियः ।
बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥ ८५॥
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शूरो हरिण पाण्डुलोचनः ॥ ८६॥
प्रशान्तः शान्तिदः सिद्धः शङ्करः प्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ८७॥
अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ॥ ८८॥
कङ्कालधारी मुण्डी च नागयज्ञोपवीतवान् ।
जृम्भणो मोहन स्तम्भी मारणः क्षोभणस्तथा ॥ ८९॥
शुद्धनीलाञ्जनप्रख्यो दैत्यहामुण्डभूषितः ।
बलिभुग्बलिभुड्नाथो बालो बालपराक्रमः ॥ ९०॥
सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशद्वशी ॥ ९१॥
सर्वसिद्धिप्रदो वैद्यो प्रभुर्विष्णुरितीव हि ।
अष्टोत्तरशतं नाम्नां भैरवस्य महात्मनः ॥ ९२॥
मया ते कथितं देवि रहस्यं सर्वकामदम् ।
य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ॥ ९३॥
न तस्य दुरितं किञ्चिन्न च भूतभयं तथा ।
न च मारीभयं तस्य गृहराजभयं तथा ॥ ९४॥
न शत्रुभ्यो भयं क्वापि प्राप्नुयान्मानवः क्वचित् ।
पातकानां भयं नैव पठेत्स्तोत्रमनुत्तमम् ॥ ९५॥
मारीभये राजभये तथा चौराग्निजे भये ।
उत्पत्तिके महाघोरे तथा दुःस्वप्नदर्शने ॥ ९६॥
बन्धने च तथा घोरे पठेत्स्तोत्रमनन्यधीः ।
सर्वे प्रशमनं याति भयं भैरवकीर्तनात् ॥ ९७॥
एकादशसहस्रं तु पुरश्चरणमुच्यते ।
यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः ॥ ९८॥
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ।
षण्मासं भूमिकामस्तु जपित्वा प्राप्नुयान्महीम् ॥ ९९॥
राजशत्रुविनाशाय जपेन्मासाष्टकं पुनः ।
रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ॥ १००॥
जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् ।
धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ॥ १०१॥
जपेन्मासत्रयं देवि वारमेकं तथा निशि ।
धनं पुत्रं तथा दारान्प्राप्नुयान्नात्र संशयः ॥ १०२॥
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः ॥ १०३॥
निगडैश्चापि बद्धौ यः कारागारे निपातितः ।
शृङ्खलाबन्धनं प्राप्तं पठेच्चैव दिवानिशम् ॥ १०४॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥ १०५॥
सुकुलीनाय शान्ताय ॠजवे दम्भवर्जिते ।
दद्यात्स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ॥ १०६॥
इति श्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
जजाप परया भक्त्या सदा सर्वेश्वरेश्वरि ॥ १०७॥
भैरवस्य प्रदृष्टोऽभूत्सर्वलोकमहेश्वरः ।
वरं ददाति भक्तेभ्यो पठेत्स्तोत्रमनन्यधीः ॥ १०८॥
सन्तोषं परमं प्राप्य भैरवस्य महात्मनः ॥ १०९॥
वारं वारं भुवनजननी प्रोच्यते साधुवादः
सत्यं सत्यं जगति सकले भैरवो देव एकः ।
यां यां सिद्धिं भुवनजठरे कामयेन्मानवो य-
स्तां तां सिद्धिं वितरति सदा भैरवः सुप्रसन्नः ॥ ११०॥
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च
ब्रह्माण्डं सकलं प्रचालितरसालोच्चैः फलाभं मुहुः ।
पायम्पायमपाययत्रिजगति उन्मत्तवत्तै रसे-
र्नृत्यंस्ताण्डवमम्बरेण शिरसा पायान्महाभैरवः ॥ १११॥
बिभ्राणः शुभ्रवर्णं द्विगुणनवभुजं पञ्चवक्त्रं त्रिनेत्रं
ज्ञानं मुद्रेन्द्रशस्त्रं सविषमसुतकं (१)शङ्खभैषज्यचापम् ।
शूलं खट्वाङ्गबाणान्डमरुमसिगदावह्निमारोग्यमाला-
मिष्टाभीतिं च दोर्भिर्जयति खलु महाभैरवः सर्वसिद्ध्यै ॥ ११२॥
क्वाकाशः क्व समीरणः क्व दहनः क्वापश्च विश्वं भरः
क्व ब्रह्मा क्व जनार्दनः क्व तरणिः क्वेन्दुश्च देवासुराः ।
कल्पान्तेभदिशाटनप्रमुदितः श्रीसिद्धयोगीश्वरो
क्रीडानाटकनायको विजयते देवो महाभैरवः ॥ ११३॥
लिखित्वा परया भक्त्या भैरवस्तोत्रमुत्तमम् ।
अष्टानां ब्राह्मणानां च देयं पुस्तकमादरात् ॥ ११४॥
यान्यान्समीहते कामांस्तांस्तान्माप्नोत्यसंशयम् ।
इह लोके सुखं प्राप्य पुस्तकस्य प्रसादतः ।
शिवलोकमनु प्राप्य शिवेन सह मोदते ॥ ११५॥
लिखित्वा भूर्जपत्रे तु त्रिलोहपरिवेष्टितम् ।
सौम्ये च वस्तुवसने कर्पटे च सुशोभने ॥ ११६॥
करे बाहौ गले कट्यां मूर्ध्नि त्रिलोह गोपितम् ।
यस्तु धारयते स्तोत्रं सर्वत्र जयमाप्नुयात् ॥ ११७॥
इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे
उपासनास्तबके श्रीबटुकभैरवोपासनाध्याये
रुद्रयामलोक्तापदुद्धारक श्री बटुकभैरवस्तोत्रनिरूपणं
नाम प्रकरणमेकादशम् ॥ ११॥
Proofread by Rajesh Thyagarajan