श्रीबहुरूपगर्भस्तोत्रम्

श्रीबहुरूपगर्भस्तोत्रम्

ॐ ब्रह्मादिकारणातीतं स्वशक्त्यानन्दनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ १॥ कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ २॥ श्रीदेव्युवाच - प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥ छिद्रस्थानेषु सर्वेषु सदुपायं वद प्रभो । येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥ श्रीभैरवः उवाच - श‍ृणु देवि परं गुह्यं रहस्यं परमाद्भुतम् । सर्वपापप्रशमनं सर्वदुःखनिवारणम् ॥ ५॥ प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विमोचनम् । सर्वच्छिद्रापहरणं सर्वार्तिविनिवारकम् ॥ ६॥ समयोल्लङ्घने घोरे जपादेव विमोचनम् । भोगमोक्षप्रदं देवि सर्वसिद्धिफलावहम् ॥ ७॥ (सर्वसिद्धिफलप्रदम्) शतजाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये । तदर्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ ८॥ कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् । प्रमादादिच्छया वापि सकृज्जाप्येन शुद्धयति ॥ ९॥ यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १०॥ नित्ये नैमित्तिके काम्ये परस्याप्यात्मनोऽपि वा । निश्छिद्रकरणं प्रोक्तमभावपरिपूरकम् ॥ ११॥ (प्रोक्तं स्वभावपरिपूरणम्) द्रव्यहीने मन्त्रहीने ज्ञानयोगविवर्जिते । (यज्ञयोगविवर्जिते) भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः ॥ १२॥ मनोविक्षेपदोषे च विलोमे पशुवीक्षिते । (विलोपे) विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु ॥ १३॥ नातः परतरो मन्त्रो नातः परतरा स्तवः । (स्तुतिः) नातः परतरा काचित्सम्यक्प्रत्यङ्गिरा प्रिये! ॥ १४॥ इयं समयविद्यानां राजराजेश्वरीश्वरि । परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् ॥ १५॥ प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् । स्तवराजमिमं पुण्यं श‍ृणुष्वावहिता देवि! ॥ १६॥ (प्रिये) अथ विनियोगः - अस्य श्रीमदघोरभट्टारक-सकल-स्वच्छन्द-भैरवमन्त्रस्य श्रीकालाग्निरुद्रभैरव ऋषिः, पङ्क्तिश्छन्दः, सकलभट्टारकाघोरमूर्तिर्देवता, ॐ बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकं, श्रीबहुरूपगर्भप्रीत्यर्थं पाठे विनियोगः । (श्री गुरवे नमः । श्रीमत्स्वच्छन्दभट्टारकाय प्रह्वीभावोऽस्तु । मद्वंश परम्परागतस्वेष्टदेवाय स्वच्छन्दनाथाय नमो नमः । अस्य श्रीबहुरूपभट्टारकस्तोत्रस्य श्रीवामदेव ऋषिः, अनुष्टुप्छन्दः, श्रीबहुरूपभट्टारको देवता, आत्मनो वाङ्मनः कायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्ध्यर्थे पाठे विनियोगः ॥ (अघोरमन्त्रेण न्यासं कृत्वा)। अघोरेभ्यो अङ्गुष्ठाभ्यां नमः । अथ घोरेभ्यो तर्जनीभ्यां नमः । घोरघोरतरीभ्यश्च/तरेभ्यश्च मध्यमाभ्यां नमः । सर्वतः अनामिकाभ्यां नमः । शर्व! सर्वेभ्यो कनिष्ठिकाभ्यां नमः । नमस्ते रुद्ररूपेभ्यः करतलकरपृष्ठाभ्यां नमः । अघोरेभ्यो हृदयाय नमः । अथ घोरेभ्यो शिरसे स्वाहा । घोरघोरतरीभ्यश्च/तरेभ्यश्च शिखायै वषट् । सर्वतः कवचायहुम् । शर्व! सर्वेभ्यो नेत्राभ्यां वौषट् । नमस्ते रुद्ररूपेभ्यः अस्त्राय फट् । अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरीभ्यश्च (तरेभ्यश्च) । सर्वतः शर्व! सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥) अथ ध्यानम् - वामे खेटकपाशशार्ङ्गविलसद्दण्डं च वीणाष्टिके बिभ्राणं ध्वजमुद्गरौ स्वनिभदे व्यङ्कं कुठारं करे । दक्षेऽप्यङ्कुशकन्दलेषु-डमरून् वज्रं त्रिशूलाभयान् रुद्रस्थं शरवक्त्रमिन्दुधवलं स्वच्छन्दनाथं स्तुमः ॥ (अथ गायत्री ॐ बहुरूपाय विद्महे कोटराक्षाय धीमहि । तन्नोऽघोरः प्रचोदयात् ॥ ३॥ अथ मूलम् - ॐ हूं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च । सर्वथा शर्व सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः) १०८, ॐ श्रीभैरवः ॥) (Notice the stotra verses start with letters from this aghora mantra) श्रीभैरव उवाच- ॐ नमः परमाकाशशायिने परमात्मने । शिवाय परसंशान्तनिरानन्दपदाय ते ॥ १॥ अवाच्यायाप्रमेयाय प्रमात्रे विश्वहेतवे । महासामान्यरूपाय सत्तामात्रैकरूपिणे ॥ २॥ घोषादि-दशधा शब्दबीजभूताय शम्भवे । नमः शान्तोग्रघोरादिमन्त्रसन्दर्भगर्भिणे ॥ ३॥ रेवतीसङ्गविस्रम्भसमाश्लेषविलासिने । नमः समरसास्वादपरानन्दोपभोगिने ॥ ४॥ भोगपाणे नमस्तुभ्यं योगीशपूजितात्मने । (योगीशैः पूजितात्मने) द्वयनिर्दलनोद्योगसमुल्लासितमूर्तये ॥ ५॥ थरत्प्रसरविक्षोभविसृष्टाखिलजन्तवे । नमो मायास्वरूपाय स्थाणवे परमेष्ठिने ॥ ६॥ घोरसंसारसम्भोगदायिने स्थितिकारिणे । कालादिक्षितिपर्यन्तं पालिने विभवे नमः ॥ ७॥ रेहणाय महामोहध्वान्तविध्वंसहेतवे । हृदयाम्बुजसङ्कोचभेदिने शिवभानवे ॥ ८॥ (हृदयाम्भोज) भोगमोक्षफलप्राप्तिहेतुयोगविधायिने । नमः परमनिर्वाणदायिने चन्द्रमौलये ॥ ९॥ घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये । नमः शर्वाय सर्वाय सर्वपापापहारिणे ॥ १०॥ (सर्वपाशापहारिणे) रवणाय रवान्ताय नमस्तेऽरावराविणे । नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते ॥ ११॥ घोषाय परनादान्तश्चराय खचराय ते । नमो वाक्पतये तुभ्यं भवाय भवभेदिने ॥ १२॥ रमणाय रतीशाङ्गदाहिने चित्रकर्मिणे । नमः शैलसुताभर्त्रे विश्वकर्त्रे महात्मने ॥ १३॥ नमः पारप्रतिष्ठाय सर्वान्तपदगाय ते । नमः समस्ततत्त्वाध्वव्यापिने चित्स्वरूपिणे ॥ १४॥ रेवद्वराय रुद्राय नमस्तेऽरूपरूपिणे । परापरपरिस्पन्दमन्दिराय नमो नमः ॥ १५॥ भरिताखिलविश्वाय योगगम्याय ते नमः । (योगगम्याय योगिने) नमः सर्वेश्वरेशाय महाहंसाय शम्भवे ॥ १६॥ चर्च्याय चर्चनीयाय चर्चकाय चराय ते । रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः ॥ १७॥ सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये । सर्वभक्षाय सर्वाय नमस्ते सर्ववेदिने ॥ १८॥ रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने । नमः प्रपन्नदुष्प्राप्यसौभाग्यफलदायिने ॥ १९॥ तन्महेशाय तत्त्वार्थवेदिने भवभेदिने । (भववेदिने) महाभैरवनाथाय भक्तिगम्याय ते नमः ॥ २०॥ शक्तिगर्भप्रबोधाय शरण्यायाशरीरिणे । शान्तिपुष्ट्यादिसाध्यार्थसाधकाय नमोऽस्तु ते ॥ २१॥ रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये । उत्स्फोटनापटुप्रौढपरमाक्षरमूर्तये ॥ २२॥ समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदरात्मने । नमस्तुभ्यं महामीनरूपिणे विश्वगर्भिणे ॥ २३॥ रेवारणिसमुद्भूतवह्निज्वालावभासिने । घनीभूतविकल्पात्मविश्वबन्धविलापिने ॥ २४॥ (विश्वबन्धविभेदिने) भोगिनीस्यन्दनारूढिप्रौढिमालब्धगर्विणे । नमस्ते सर्वभक्ष्याय परमामृतलाभिने ॥ २५॥ नफकोटिसमावेशभरिताखिलसृष्टये । नमः शक्तिशरीराय कोटिद्वितयसङ्गिने ॥ २६॥ महामोहमलाक्रान्तजीववर्गप्रबोधिने । महेश्वराय जगतां नमः कारणबन्धवे ॥ २७॥ स्तेनोन्मूलनदक्षैकस्मृतये विश्वमूर्तये । नमस्तेऽस्तु महादेवनाम्ने परस्वधात्मने ॥ २८॥ रुग्द्राविणे महावीर्यरुरुवंशविनाशिने । रुद्राय द्राविताशेषबन्धनाय नमोनमः ॥ २९॥ द्रवत्पररसास्वादचर्वणोद्यतशक्तये । (चर्वणोद्युक्तशक्तये) नमस्त्रिदशपूज्याय सर्वकारणहेतवे ॥ ३०॥ रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे । त्र्यम्बकाय त्रिधामान्तश्चारिणे च त्रिचक्षुषे ॥ ३१॥ (चित्रचक्षुषे ) पेशलोपायलभ्याय भक्तिभाजां महात्मने । (भ्रान्तिभाजां) दुर्लभाय मलाक्रान्तचेतसां तु नमोनमः ॥ ३२॥ भवप्रदाय दुष्टानां भवाय भवभेदिने । भव्यानां त्वन्मयानां तु सर्वदाय नमोनमः ॥ ३३॥ (तन्मयानां) अणूनां मुक्तये घोरघोरसंसारदायिने । घोरातिघोरमूढानां तिरस्कर्त्रे नमोनमः ॥ ३४॥ (उपसंहारः - सर्वकारणकलापकल्पितोल्लाससङ्कुलसमाधिविष्टम् । हार्दकोकनदसंस्थितामपि तं प्रणौमि शिववल्लभाजाम् ॥ सर्वजन्तुहृदयाब्जमण्डलोद्भूतभावमधुपानलन्पटाम् । वर्णभेदविभवान्तरस्थितां तं प्रणौमी शिववल्लभाजाम् ॥) फलश्रुतिः - इत्येवं स्तोत्रराजेशं महाभैरवभाषितम् । योगिनीनां परं सारं न दद्याद्यस्य कस्यचित् ॥ अदीक्षिते शठे क्रूरे निःसत्ये शुचिवर्जिते । नास्तिके च खले मूर्खे प्रमत्ते विप्लुतौजसे ॥ (विप्लुतेऽलसे) गुरुशास्त्रसदाचारदूषके कलहप्रिये । निन्दके जम्भके क्षुत्रे समयघ्ने च दाम्भिके ॥ (चुम्भके क्षुद्रेऽसमयज्ञे) दाक्षिण्यरहिते पापे धर्महीने च गर्विते । भक्तियुक्ते प्रदातव्यं न देयं परदीक्षिते ॥ पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् । अस्यैव स्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥ गुह्यका यातुधानाश्च वेताला राक्षसादयः । डाकिन्यश्च पिशाचाश्च क्रूरसत्वाश्च पूतनाः ॥ नश्यन्ति सर्वे पठितस्तोत्रस्यास्य प्रभावतः । खेचरी भूचरी चैव डाकिनी शाकिनी तथा ॥ ये चान्ये बहुधा भूता दुष्टसत्त्वा भयानकाः । व्याधिदुर्भिक्षदौर्भाग्यमारीमोहविषादयः ॥ गजव्याघ्रादयो भीताः पलायन्ते दिशो दश । सर्वे दुष्टाः प्रणश्यन्ति चेत्याज्ञा पारमेश्वरी ॥ इति श्रीबहुरूपगर्भस्तोत्रं सम्पूर्णम् । इति शुभम् । श्रीललितस्वच्छन्दे अथवा वृद्धस्वच्छन्दतन्त्रप्रोक्तं Proofread by Aruna Narayanan, Ruma Dewan
% Text title            : Bahurupagarbha Stotram
% File name             : bahurUpagarbhastotram.itx
% itxtitle              : bahurUpagarbhastotram
% engtitle              : bahurUpagarbhastotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan, Ruma Dewan
% Description/comments  : See dhyAnam in a separate file.
% Indexextra            : (1, 2, 3, 4, dhyAnam)
% Latest update         : February 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org