नन्दिकेशप्रोक्तं भावलिङ्गमहिमानुवर्णनम्
अलमलमनुवेलं कालकालं सलीलं
कलय कलय काले व्यालमूलं सशूलम् ।
परिहर गुरुभारं क्रूरसंसारमारात्
अनुसर गिरिकन्यास्मेरधारानुरागम् ॥ १॥
त्रिपुरहरपदाब्जामन्दमन्दारमाला-
ललितपरिमलश्रीसंश्रयानां प्रभावः ।
कथमपि मम शक्यो वक्तुमित्येव मन्ये
गिरिशचरणसेवापुण्यपुण्यार्णवानाम् ॥ २॥
अनुदिनमनुमोदैरिन्दुखण्डावतंसं
सकृदपि सकलाशापाशनाशावकाशम् ।
निटिलतटतडिद्भूभूतभूतानुवेशं
गिरिशमनिशमीशं संस्मरामि स्मरामि ॥ ३॥ (स्मरारिम्)
शिव हर भव शम्भो भर्ग भीम स्मरारे
त्रिपुरहर यमारे घोररूपान्धकारे ।
परिहर दुरितं मे पाहि पाहीति धन्यो
जपति मुहुरपारानन्दसन्दोहकन्दम् ॥ ४॥
कमलविमलबिल्वाराधितं शङ्गसङ्गं
करतलकमलश्रीसंश्रितं भावलिङ्गम् ।
कलय कलय चेतश्चारुचामीकराङ्गं
सकलभयविभङ्गं मङ्गलाङ्गानुषङ्गम् ॥ ५॥
हिततरमिदमेकं चिन्तनीयं मनस्ते
किमपि कितववार्तावर्तनं तद्विहाय ।
प्रतिपदमभिलापादोषवेषापहारं
कुरु कुरु निगमानां भावलिङ्गं शुभाङ्गम् ॥ ६॥
इदमिह हितवाञ्छातीतमच्छं फलं ते
वितरति नवबिल्वाराधितं भावलिङ्गम् ।
विमलकमललेशाराधितं वा प्रदोषे
किमपि किमपि कार्यं चिन्तनीय मनो मे ॥ ७॥
मम हितमिदमेकं वाञ्छितार्थप्रदान-
प्रवणकरणमेतत् भावलिङ्गं सशाङ्गम् ।
सकलहितकराङ्गं पापसङ्घातभङ्गं
करकलिततुरङ्गासङ्गतुङ्गं सुखाङ्गम् ॥ ८॥
इदमिह कमलानां मालया पूजितं चेत्
कलयति कमलानां वाससंवादमोदम् ।
इदमिह वसतिर्मे तत्तदेतत् तवेदं
तव तव तदिति श्रीसंश्रितं भावलिङ्गम् ॥ ९॥
मम हितमिदमेतत् प्रायशः पूरयिष्य-
त्यहितममितदैन्यं वारयिष्यत्यमोघम् ।
सकृदपि हृदयाब्जारूढमेवास्ति गूढं
दृढमिति दृढभक्तिर्भावलिङ्गे शुभाङ्गे ॥ १०॥
संसाराब्धिविशोषणाय विविधाघौघान्धकाराचल-
प्रध्वंसाय विपत्कुलानलकुलापाराम्बुरूपाय ते ।
भो शङ्गामलभावलिङ्गनिलयामेयप्रभाव प्रभो
शम्भो भर्ग भवाब्धिभावक कृतः कोऽपि प्रणामोऽधुना ॥ ११॥
आशापारविनाशनाय विविधापारापदाधिव्यथा-
धाराध्वान्तनिवारणाय निगमश्रेणीप्रमोदाहृतम् ।
वन्दे सुन्दरभावलिङ्गनिलयं मृत्युञ्जयं चाव्ययं
नित्यानन्दमयं निरामयमहं मोहं विहायाधुना ॥ १२॥
अश्रान्तश्रुतिकोटिकोटिविदितश्रीभावलिङ्गार्चन-
व्यापारप्रभवं प्रभुत्वमभयं चादृष्टमव्याकुलम् ।
तद्भिन्नं सकलं भयाकुलमिति ज्ञेयं ततः सर्वथा
कर्तव्यं खलु भावलिङ्गभजनं सौभाग्यसंवर्धनम् ॥ १३॥
अन्यत् किञ्चिदिहोच्यते मुहुरिदं सङ्गोपनीयं सुरैः
सर्वैरप्यनिशं शिवार्चनशिवध्याने निधाने परे ।
तेनैवाखिलसिद्धयः प्रतिदिनं संवादमोदैश्चिरं
हारं सुन्दरमन्दिरं हरपदाधारं श्रिताः सादरम् ॥ १४॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं भावलिङ्गमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४२। ८८-१०१ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 42. 88-101 ..
Proofread by Ruma Dewan