भावलिङ्गमहिमानुवर्णनम्
श्रीमन्निर्मलभावलिङ्गममराराध्यं प्रसन्नं सदा
पूज्यं मत्कुलसम्भवैरनुदिनं त्यक्त्वाऽन्यदेवार्चनम् ।
एवं शङ्करशासनं च न समुल्लङ्घयं शिवासंयुतः
शम्भुर्नृत्यति लिङ्गमेतदमलं दृष्ट्वा सुराभीष्टदः ॥ १॥
एतद्दर्शनमात्रतोऽपि सकलाभीष्टाम्बुराशिः स्वयं
नित्यं स्वाङ्गणमेत्य भावललितं लिङ्गं प्रपश्यत्ययम् ।
स्वामिन् अस्य वशे वसामि तव चेदाज्ञा त्वदाराधकं
त्यक्त्वाऽन्यत्र न संवसामि शपथः शम्भो त्वदङ्घ्र्यम्बुजे ॥ २॥
त्वत्पादाम्बुरुहं विहाय न कदाप्यन्यत्र गन्तुं मतिः
शम्भो निर्मलभावलिङ्गसदृशं लिङ्गं क्व वा भूतले ।
पातालेऽपि न मन्दरेऽपि सुतरां मेरौ महेशालये
सत्यं सत्यमिदं पुनः पुनरिन्दं सन्देहवार्ताऽपि न ॥ ३॥
कल्याणानि पदे पदे सुखमपि स्वामिंस्त्वदाराधने
सिद्धानामपि सिद्धिदं बहुविधाभीष्टप्रदानोन्मुखम् ।
नित्यं शङ्करभावालिङ्गमधुना सिद्धिप्रदं जातम-
प्यग्रे सिद्धिकरं करोति सततं सिद्धिप्रसिद्धिं प्रभो ॥ ४॥
शेषाशेषफणामणिस्फुरदुरु श्रीकण्ठकण्ठ प्रभो
गङ्गा तुङ्गतरङ्गति क्वचिदयं लिङ्गैकदेशे पुनः ।
आनीला यमुना तरङ्गति पुनः सा वाक् तरङ्गत्यहो
सा वाचां विषयो भवत्यपि कथं श्रीनीलकण्ठ प्रभो ॥ ५॥
लिङ्ग मङ्गलदं मनोरथततिं तावत् तनोत्यादरात्
आदौ दृष्टमदृष्टभेदजनकं सृष्टं विसृष्टं फलम् ।
तद्भक्तप्रणतं प्रपश्यति मुहुः चिन्तासमालिङ्गितं
ध्यातं पूजितमप्यनन्यसदृशं देयं किमस्तीत्यपि ॥ ६॥
अन्यालोकनदूनमस्य नयनाम्भोजं मदालोकन-
प्रेमाविष्करणप्रभाकरसमुत्फुल्लं किमस्मै मया ।
दातव्यं भुवनत्रयेऽपि न तथा भूतं फलं दृश्यते
धर्माद्यर्थचतुष्टयान्यदधिकं देयं न दृष्टं फलम् ॥ ७॥
शाठ्येनाप्यथ माययापि सकृदप्यालोकितं दैवतं
सर्वाभीष्टफलप्रदत्वमभवत् यद्भावलिङ्गस्य मे ।
तस्यैतस्य किमस्ति देयमसकृत् सानन्दमालोकने
शैवायेत्यतिचिन्तया परमिदं कालं नयत्यन्वहम् ॥ ८॥
यः पश्यत्यसकृन्मुदा परमिदं मे भावलिङ्गं प्रगे
भक्त्या तद्वशतामुपेत्य निवसाम्यन्यन्न कृत्यं च मे ।
तस्यास्मिन्नधमर्णतामुपगते मय्यप्यदेये स किं
कर्तुं पारयतीति पापविमुखश्चिन्ताब्धिमध्यं गतः ॥ ९॥
धर्माद्यर्थचतुष्टयाधिकफलापेक्षा न भक्तस्य मे
यद्यप्यस्ति तथाप्यनन्यसदृशं किं न प्रदेयं फलम् ।
मत्पूजानिरताय तन्मम न चेत् किं देयमित्यन्वहं
चिन्तासिद्धिसमृद्धिरेव बहुधा मत्पूजनाभ्युच्चये ॥ १०॥
यत्किञ्चिज्जलमल्पमप्युपहृतं भक्त्या विनाप्यर्पितं
दास्यत्येव फलानि निर्मलजलैरासेचने किं फलम् ।
देयं कोमलबिल्वपल्लवनवाम्भोजादिभिः पूजने
किंवा देयमिति प्रशान्तिरहिता चिन्ता न जातापि किम् ॥ ११॥
किञ्चिच्चेद् अपरिष्कृतान्नमपि मे दद्यात् तदा तत्फलं
स्यादस्यान्नपतित्वमुत्तममधुक्षीराज्यदध्यन्नदः ।
मह्यं किं फलमाप्नुयादिति न किं चिन्ताऽपि मे जायते
जाता वृद्धिपरम्परामुपगता सद्भावलिङ्गस्य मे ॥ १२॥
दिव्यैः कुङ्कुमकेसरैर्मृगमदेः कर्पूरखण्डैर्नवेः
अन्यैरप्यतिगन्धसुन्दरर नद्रव्यैः युतं चन्दनैः ।
दत्तं चेत् तुहिनान्वितं मयि तदा देयं मया किं फलं
शैवायेति विचारसागरमहाकल्लोलमालाकुलः ॥ १३॥
यो नित्यं नवपट्टकूलवपनैः धूपैः प्रदीपैर्मुहुः
माणिक्याभरणार्पणेन विलसच्छत्रस्तथा चामरैः ।
आदर्शैः ध्वजसंयुतैरपि महापूजां करोत्यादरात्
तस्मै किं मम देयमित्यनुदिनं चिन्ता निरन्ता न किम् ॥ १४॥
यो भक्त्या प्रणतो निधाय धरणीपृष्ठे शिरः सादरं
तं देवाः प्रणमन्ति तावदसकृत् दण्डप्रणामोद्यताः ।
किं तावत्फलमाप्नुयादिति न किं चिन्ताऽपि मे जायते
गन्धाधिष्ठितभावलिङ्गनिलये वेदप्रमेये मयि ॥ १५॥
यो भक्त्या नियतः प्रदोषसमये पञ्चामृतैर्निर्मलैः
नीरैरप्यभिषिच्य वस्त्रविमलश्रीचन्दनालेपनैः ।
पुष्पैश्चम्पकमालिकाभिरभितः श्रीभावलिङ्गार्चनं
कृत्वा नृत्यति तन्मनस्यनुदिनं वृत्तिर्हि मे चिन्तया ॥ १६॥
रुद्राध्यायसहस्रनामपठनैः मत्सन्निधाने नयेत्
यः कालं स विभूतिपूतहृदयो मुक्तो महापातकैः ।
स्यादित्यत्र किमद्भुतं शिवमनुस्मृत्याऽपि तत्सन्निधिं
यास्यत्याप्ततमत्वमेष्यति न सन्देहोऽत्र चित्रं च किम् ॥ १७॥
मां द्रष्टुं यदि जायते मतिरपि प्रातः प्रमोदान्वितो
मुक्तः पापगणैरपारसुकृतैः युक्तः स मां पश्यति ।
आधारः सुखसम्पदामपि भवत्यायुः परं प्राप्नुयात्
आरोग्यं निगमागमादिविहितं श्रीभावलिङ्गार्चने ॥ १८॥
यो मद्भक्तपदार्चकः सकृदपि प्राप्नोति शैवं पदं
मत्पूजानिरतो भवेद्यदि तदा वक्तव्यमत्रास्ति किम् ।
तस्मादन्वहमर्चनीयममलं श्रीभावलिङ्गं गणैः
आराध्यं तदनन्यसक्तमनसा सन्त्यज्य धर्मान्तरम् ॥ १९॥
किं तैरध्वरकोटिभिर्बहुविधद्रव्यापहारोद्यतैः
दानैः सामपदक्रमादिसहितैः किं वेदपारायणैः ।
किं योगैस्तपसाऽपि किन्तु सकृदप्यश्रद्धयाऽप्यर्चितं
दास्यत्येव हि भावलिङ्गममराः प्राप्यातिभाग्यान्यपि ॥ २०॥
श्रीमृत्युञ्जय भावलिङ्गनिलयापायामयानां लयः
त्वन्नामस्मरणोद्यमे सति परं वृत्तः पुनरतद्भयम् ।
न स्वप्ने प्रलयेस्पि नापि मरणेऽप्यस्यान्तकाद्वा भयं
तेनेत्थं दृढनिश्चये सति फलं किं नामसङ्कीर्तने ॥ २१॥
भो शम्भो भव भावलिङ्गनिलय त्वत्पूजनोद्योगिनं
लक्ष्मीस्तावदुपेत्य किं तव मतं वाञ्छाऽस्ति ते कुत्र वा ।
अक्लेशाङ्गणरिङ्खणप्रणतिभिः स्थेयं मया त्वद्गृहे
स्वामिन्नित्यपधावतीति भगवन् किं किं फलं पूजने ॥ २२॥
त्वत्पूजानिरतातिशाङ्करपुरद्वारेषु तावत् सुराः
सानन्दाञ्जलिमस्तकाः प्रतिदिनं तद्दर्शनाकाङ्क्षया ।
तिष्ठन्त्यत्र किमद्भुतं त्वयि महादेवे प्रसन्ने फलं
किं किं नास्य भविष्यति प्रतिदिनं श्रीभावलिङ्गालये ॥ २३॥
आशास्यं मम भावलिङ्ग सकलं सिद्धं त्वदन्याश्रयं
व्यावृत्तं यदि मानसं तदिति ते ध्यानेन किं पूजया ।
किं वा त्वत्परिचर्ययापि फलमित्यस्मिन् विचारे कृते
तावव्द्याकुलता न ते भवतु सा त्याज्येति सम्प्रार्थ्यते ॥ २४॥
एतावद्वद भावलिङ्गनिलय स्वामिन् ममाद्यावधि
त्वत्पादाम्बुरुहान्यचिन्तनपरावृत्तं विकारैर्विना ।
चेतस्तत्पुरुषार्थभिन्नमपि ते देयं ममास्त्वित्यपि
प्रत्याशा शिवपूजनस्य फलमस्त्यन्यन्मम स्यादिति ॥ २५॥
किं नम्रामरभूरुहैः निजगृहद्वाराश्रितैराश्रितैः
किं चिन्तामणिकामधेनुनिवहैः किं वा निधीनां गणैः ।
आकल्पं कमलापतिप्रभृतिभिः वृन्दारकैराश्रितैः
आनम्राञ्जलिमस्तकैरनुदिनं श्रीभावलिङ्गार्चने ॥ २६॥
॥ इति शिवरहस्यान्तर्गते भावलिङ्गमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। १८१-२०६ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 181-206 ..
Proofread by Ruma Dewan