भावलिङ्गस्तोत्रम्

भावलिङ्गस्तोत्रम्

- शिवं देहि मे भावलिङ्गालयाशु प्रसीद प्रसीद प्रसीदादरेण । त्वदाराधनायत्तचित्ताय नित्यं विकारान्तरायापकाराय भूयः ॥ - नमो भावलिङ्गाय भावालयाय स्मरापारगर्वापहारोद्यताय । नमः पुण्यकल्याणपूर्णार्णवाय प्रमाणाग्रगण्याग्रगण्याय तुभ्यम् ॥ १॥ इदं भावलिङ्गं गतानङ्गसङ्गं यदङ्गोपसङ्गं प्रसङ्गेन शङ्गम् । विलीनाभिषङ्ग महारोगभङ्गं करोतीति मन्ये ततस्ते नमोऽस्तु ॥ २॥ यदर्धाङ्गमर्धेन्दुखण्डं प्रचण्डं प्रभामण्डलाखण्डलाराध्यमीड्यम् । तदाराध्यमाराध्यकाराध्यकाढ्यं मुहुर्भावलिङ्गं विपद्भोगभङ्गम् ॥ ३॥ यदाराधनेनामराराध्यता स्यात् नरस्याधमस्यापि सिद्धिप्रसिद्धिः । तदाराध्यमस्माकमस्मत्कुलस्याप्यपास्यान्यदेवं सदा भावलिङ्गम् ॥ ४॥ प्रभूतेषु पुण्येष्वगण्येषु भक्तिः भवेद्भावलिङ्गे भवेद्भावनापि । भवे भावलिङ्गप्रभावप्रबोधे प्रमोदेन मोदाय सम्पादनीयः ॥ ५॥ सरत्याशु संसारघोरान्धकारः स्फुरद्भावलिङ्गाङ्गसूर्यप्रकाशे । विशिष्टा विशिष्टाऽद्य खद्योतवार्ता कृतान्तान्तवार्ताऽपि तस्मिन् कुतः स्यात् ॥ ६॥ अविद्यामहावर्तगर्तानुवृत्तिः कुतो भावलिङ्गार्ककोटिप्रकाशे । तदाराधनामोदमानन्दसिन्धो शिवज्ञानचन्द्रोऽपि कोऽपि प्रजातः ॥ ७॥ अहो भाग्यमस्माकमस्मत्कुलस्याप्यभूद्भावलिङ्गं परं दैवतं नः । वयं धन्यधन्याग्रगण्याग्रगण्याः सदा भावलिङ्गार्चनासक्तचित्ताः ॥ ८॥ यदा भावलिङ्गार्चनाभक्तिलेशः तदा तावदापत्समूहप्रणाशः । तदाराधनासक्तलेशप्रकाशे महानन्दराशिप्रवेशोऽनुवेलम् ॥ ९॥ नमन्तः स्मरन्तः सकृत् पूजयन्तः भवं भावलिङ्गे मुदा भावयन्तः । लभन्ते गणेशत्वमप्राप्यमन्यैः इह प्राप्य दुष्प्रापमोदाम्बुराशिम् ॥ १०॥ न चान्नाभिलाषाऽऽस्पदालाभशङ्का नचान्यत्र वा भावलिङ्गार्चकानाम् । इहामुत्र सौख्याभिवृद्धिर्भवित्री भुजं सम्यगुद्द्धृत्य सत्यं मयोक्तम् ॥ ११॥ न चन्द्रवाञ्छा न चेन्द्रत्ववाञ्छा न चोपेन्द्रताब्जासनत्वादिवाञ्छा । यतस्तान्यपायान्वितानीति मन्ये परं त्वीप्सितं भावलिङ्गार्चनं मे ॥ १२॥ इदं भावलिङ्गार्चन कामधेनुः समस्तामराशास्यकल्पद्रुमो वा । इदं मर्त्यदुष्प्रापचिन्तामणिर्णा फलानि प्रसूते विचित्राणि नित्यम् ॥ १३॥ यतोऽनन्यलभ्यानि सूते फलानि प्रकृष्टानि वाञ्छास्पदान्यानि तानि । अतः कामधेनुर्न कल्पो मणिर्वा परं त्वन्यदेवाद्भुतं भावलिङ्गम् ॥ १४॥ क्षणार्धाधकोट्यंशकोट्यंशमात्रं वयं भावलिङ्गं स्मरामो यतोऽतः । प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्टाः ॥ १५॥ महाभूत जाताप्रजातातिभीतिः महामृत्युदूत प्रभूतातिभीतिः । महारोगसङ्घातजाताऽपि भीतिः कुतो भावलिङ्गस्य सङ्गेऽङ्गभागे ॥ १६॥ सकृज्जन्ममध्ये मुदा भावलिङ्गं स्मरन्तं स्मरन्तं कृतान्तस्य दूतः । प्रमत्तोऽपि तन्मागसंसर्गभीतः प्रभूतप्रतापोऽपि दूरं प्रयाति ॥ १७॥ नमो भावलिङ्गार्चकाराधकेभ्यः तदाराधकेभ्यस्तदाराधकेभ्यः । तदाराधकेभ्यस्तदाराध केभ्यः तदाराधकेभ्यस्तदाराधकेभ्यः ॥ १८॥ यमः कम्पयन् पापतापोपभीतः स्वदूतान् समाहूय तत्कर्णदेशे । मुहुर्भावलिङ्गार्चकागारमार्गे न गन्तव्यमित्येव जल्पत्यनुचैः ॥ १९॥ कृते भावलिङ्गार्चनोद्योगमात्रे त्रिनेत्रोऽपि किं देयमस्मै मयेति । विचारैरपोरैर्नयत्येव कालं ततः कालवार्ताप्रवृत्तिः कुतोऽत्र ॥ २०॥ प्रभावं भवो भावलिङ्गार्चकानां परं वेद वेदोऽपि तन्नैव वेद । अतस्तद्विचारे विरिञ्चिः कुलञ्चः कथं चञ्चुरास्तद्विचारे तदन्ये ॥ २१॥ वरं भावलिङ्गाङ्गदौवारिकोरुस्फुरद्वेत्रपात्रत्वमित्यादरेण । तदिच्छामुपेन्द्रेन्द्रचन्द्रादिदेवाः प्रकुर्वन्ति धर्मं विहाय स्वकीयम् ॥ २२॥ रमा भावलिङ्गाङ्ग तुङ्गोत्तमाङ्गे विचित्रातपत्रामितछायया सा । अविच्छिन्नमेवापरिच्छिन्नया चापरिच्छिन्नमेव प्रकामं करोति ॥ २३॥ न संसारपङ्काङ्कितो निष्कलङ्को निरातङ्क एवातिरङ्कोऽप्यशङ्कः । शशाङ्काङ्कितं भावलिङ्गाधिवासं स्मरन् वासवत्वादिवाञ्छां जहाति ॥ २४॥ रमा भावलिङ्गार्चकार्चापरा सा नुतिं तस्य कर्तुं प्रदत्तैव वाणी । तदङ्घ्र्यर्ह्वणां रोहिणी सा शची च अवश्यं सुराशास्यमाशास्यमस्य ॥ २५॥ चिरं भावलिङ्गेशपादारविन्दं मनचश्चरीकश्चकार स्थितिं मे । स धर्मार्थकामापवर्गस्वरूपैः मरन्दैरमन्दैर्विनोदं करोति ॥ २६॥ अहं भावलिङ्गेशपादारविन्दं स्वचित्तेन मूर्ध्ना प्रबद्धं करोमि । मदीयं हृतं मानसं किं त्वयेति त्रिलोक्यां न कोऽप्यस्ति ते मोचकोऽपि ॥ २७॥ नमः सुन्दरामन्दमन्दारकुन्दस्फुरन्नीरनीहारहाराकराय । निराकारताराचिरापारहीर स्वरासागराकार ते शङ्कराय ॥ २८॥ (स्वरः सागराकार) नलव्यालबालामलव्यालमालाकुलानीललोलालसत्कुन्तलाय । सनीलाचलानीलनीलोत्पलश्रीविलासाय ते कालकाल प्रणामः ॥ २९॥ नमः स्फारकर्पूरपूराभ्रगौरज्वरापारसंसारभारापकार । पुराखर्वगर्वप्रसारापहार स्मरान्धान्धकारे स्मरारे हराय ॥ ३०॥ नमश्चारुकाकोदरानद्धरुद्धप्रबुद्धाप्रबुद्धेन्दुखण्डार्धमौले । महाकालकालानलानीलभालप्रबालप्रवालाधराधीरलोल ॥ ३१॥ नमश्चारुचामीकराकरवीर प्रभापूरसम्पूर्ण सम्पूर्णकाम । न किं कामकामाय कामं प्रकामं करोषि प्रदोषे न रोषं कुरुष्व ॥ ३२॥ प्रदोषेषु तोषेण नाट्यं करोषि प्रदोषेषु रोषो न तेऽतः प्रदोषे । प्रदोषेषु रोषो न मय्यप्यतो मां प्रदोषेषु वा भावयन्नास्त्रदोषम् ॥ ३३॥ (भावयन्नास्प्रदोषम्, भावय स्वास्र) नरं सर्वदोषाकरं राजसं मां सदा तामसं घोरसंसारलीनम् । हराराधनानन्दसन्दोहहीनं सहीनं वराहीनहीन> प्रपश्य ॥ ३४॥ न साद्यसंस्कारपारं गतोऽहं न सारस्वतेष्टिप्रचारादरोऽहम् । (न साद्यस्क संस्कार) न चात्रातिरात्राद्य पूर्वाश्रयोऽहं दयापात्रमात्रं त्रिनेत्राव मां त्वम् ॥ ३५॥ मदीयापराधानगाधानबाधान् विधिव्याधसम्बन्धबोधप्रबुद्वान् । अवीतानधीतप्रद्धाप्रबुद्धश्रिया भ्रान्तमत्रान्तमीशाशु पाहि ॥ ३६॥ मदीयानि पापान्यपाराम्बुराशिप्रपूरापकाराणि नाशं प्रयान्ति । तवानुग्रहादुष्टदुष्टग्रहाणां क्व वार्ताऽपि सा स्यात् कुतोऽक्ग्रहाणाम् ॥ ३७॥ मदीयं मनः पादपद्मे तवाद्य प्रविष्टं प्रकृष्टं निकृष्टं न जातम् । अतस्तन्न माऽऽयातु माया तु मामा प्रयातु प्रयातु प्रयातु प्रयातु ॥ ३८॥ भवत्पादपद्माश्रितं तन्मनो मे मदीयापराधान् क्षमस्वेति मन्दम् । कदाचिन्निवेद्यानिवेद्यानपीश प्रसादाय सिद्धिं करोतु प्रसन्नम् ॥ ३९॥ मनो जन्मजन्मान्तरानन्तपुण्यैः त्वदङ्घ्र्यम्बुजाराधनाय प्रवृत्तम् । निवृत्तं न तन्मास्तु मास्तु स्वतन्त्रप्रवृत्तं निवृत्तं कथं वा महेश ॥ ४०॥ शरण्यः शरण्येषु को वा त्वदन्यो मदन्योऽपि दीनः क्व वा भूतलेऽस्मिन् । अतस्तद्द्वयं वीक्ष्य भालाक्षलक्षं क्षणं वा क्षणार्धं प्रविश्यादरेण ॥ ४१॥ न मे शारदादिप्रसादाद्यपेक्षा न वेदादिबोधप्रसादाद्यपेक्षा । क्षणार्धं त्वदङ्घ्र्यम्बुजाराधने मे सदैवास्तु वाञ्छा न चान्यत्र वाञ्छा ॥ ४२॥ यदि त्वं मदीयं मनोबुद्धिगम्यं प्रसादं प्रदातुं प्रवृत्तस्तदा मे । भवन्नाममात्रानुरक्तं मदीयं मनः सर्वदाप्यस्तु शम्भो प्रसीद ॥ ४३॥ वदान्याग्रगण्याग्रगण्याग्रगण्यः वदान्यातिमान्यातिमान्यस्त्वमीश । अनन्याग्रगण्याग्रगण्याग्रगण्यः कलौ कालकालाहमेवेति मन्ये ॥ ४४॥ न ते देयमप्यस्ति भक्त्या विनान्यत् तदन्यन्न मे प्रार्थनीयं च लोके । न सा चञ्चलातिस्थिरा त्वत्पदाब्जे महाकल्पकोटिष्वनन्तेष्वपीश ॥ ४५॥ दृढा सैव जन्याप्यनन्ता प्ररूढा पुनर्वर्धमाना नवैवानुवेलम् । न जन्यत्वभावत्वशङ्कास्तु तस्यां प्रसादस्य ते दुर्लभं भावि किंवा ॥ ४६॥ न जन्यस्वभावस्य नित्यत्वमस्तीत्यवश्यं त्वया नैव वक्तव्यमीश । किमस्त्यप्यशक्यं तवापि त्रिलोक्यां शिवान्यायवार्ता न मे रोचतेऽपि ॥ ४७॥ न ते गौतमाकाशनित्यत्ववादो मतो वेदवेदान्ततत्त्वज्ञमूर्ते । न ते जैमिनेः शब्दनित्यत्ववादो न मिथ्यात्ववादोऽपि वेदान्तिनस्ते ॥ ४८॥ न बन्धोऽपि मोक्षोऽपि वेदान्तशास्त्रे तथा दृष्टिसृष्टिप्रवादोऽपि दृष्टः । अविद्याविलासो न कोऽपीह कल्प्यो विलासैर्यतस्ते जगज्जालमासीत् ॥ ४९॥ न चानन्तवेदान्तवार्ताविचारे हराराधकाराध्यभावाभिमानः । स चेन्नाधुना कर्ममार्गो विनष्टः शिवाराधनामार्गवार्ता कुतः स्यात् ॥ ५०॥ शिवाराधनं चेत् कदाचित्प्रमादात् विहायैकदापि स्थिते यातना स्यात् । महापातकानां विनाशः कदाचित् शिवाराधनेनेह सम्भावितोऽपि ॥ ५१॥ वरं मद्यपाचारमार्गाभिमानो वरं चण्डचण्डालमार्गप्रवेशः । वरं नेश्वराराधनत्यागमार्गः स मार्गो महायातनामार्ग एव ॥ ५२॥ न नीरं हरानर्पितं पानयोग्यं सुराकल्पमल्पं हि तन्मूत्रकल्पम् । प्रमोदेन पीत्वापि तत् तावदन्ते सदा यातनां प्राप्नुवन्त्येव विप्राः ॥ ५३॥ शिवाराधने नास्ति यस्याभिमानः स चण्डालचण्डाल एवेति मन्ये । शिवाराधने यस्य भक्तिः प्रवृद्धा स वृद्धः सुराणामपीति प्रसिद्धः ॥ ५४॥ शिवानर्पितानानि भुक्त्वातिमोहात् मलाशी भवत्येव राशिस्त्वघानाम् । स पापस्वरूपः सदा यातनायां निमग्नोऽतिदुःखानि भुङ्क्ते सुरोऽपि ॥ ५५॥ कृतानन्तपापो विहायेश्वरार्चां शिवान्यासक्तचित्तोऽपि मत्तः । मृते यातनान्ते शुनीगर्भवासं समासाद्य तस्मानिवृत्तो न नूनम् ॥ ५६॥ वधूभोगकालेऽपि यः कालकालस्वरूपानुसन्धानहीनः स हीनः । प्रतप्तायसाकारनारीशरीरं समालिङ्ग्य दुःखानि भुङ्क्ते कदाचित् ॥ ५७॥ यदेवापि रम्यं स्वभोगोपयुक्तं तदीशाय सर्वं निवेद्येशशेषः । अयं मह्यमित्यादरेणापि भुङ्क्ते महापुण्यराशिः स भुङ्क्ते सुखानि ॥ ५८॥ सुतं वा समालिङ्ग्य तज्जन्यसौख्यं निवेद्याम्बिकावल्लभायादरेण । अनन्तं सुखाम्भोधिमाप्नोति सत्यं प्रवृद्धापि तत्सन्ततिः सर्वदा स्यात् ॥ ५९॥ शिवाराधनाय प्रवृत्तस्य वंशो न नश्यत्यवश्यं प्रसिद्धिं प्रयाति । महानन्दकन्दत्वमाप्नोति सत्यं मुकुन्दादिवृन्दारवृन्दाभिवन्द्यः ॥ ६०॥ वरं वन्ध्यभावो वरं गर्भनाशो वरं जन्मकालप्रणाशोऽपि सत्यम् । वरं नैव कस्याप्यशैवत्वमेतत् फलं पापराशेरभाग्याम्बुराशेः ॥ ६१॥ अशैवत्वमाप्नोत्यभाग्यैरभङ्गैः वरं जारजत्वं वरं मद्यपत्वम् । वरं सर्वपापौघसञ्जातमूर्तिस्वरूपत्वमित्येव मन्ये महेश ॥ ६२॥ वरं पुल्कसस्यापि सम्प्राप्य जन्म स्थितस्यापि गोमांसमात्राशनस्य । वरं ब्रह्महत्यासहस्रादरस्याप्यशैवत्वमत्यन्तमेवापकृष्टम् ॥ ६३॥ अशैवत्वमासाद्य कृत्वा स्वनिन्दां ज्वलद्वह्निमध्ये प्रविष्टोऽनुतप्तः । मृतः सद्गतिं प्राप्य शैवत्वमेत्य प्रसादेन शम्भोः स मुक्तिं प्रयाति ॥ ६४॥ वरं दासदासानुदासानुदासीसुतत्त्वं यतस्तस्य शैवानुबन्धः । स शैवानुबन्धेन संसारबन्धात् विमुक्तोऽपि मुक्तो भवेत् पापसङ्घात् ॥ ६५॥ वरं शैवगेहाङ्गणे कीटभावः कदाचित् यतो भूतलेशानुयोगः । तदुच्छिष्टपात्राभिघातोऽप्यघघ्नः यतस्तस्य भाग्येन सम्भावितः स्यात् ॥ ६६॥ महादेवनैवेद्यशेषाशनानां पवित्राणि गात्राणि तद्गन्धवाहान् । सुरास्तावदिच्छन्ति पापापनुत्त्यै सदा गन्धवाहप्रवेशप्रवृद्धान् ॥ ६७॥ यदा यत्र शैवः प्रचारं करोति प्रभूतैरगण्यैः स्वपुण्याब्धिसङ्घैः । तदा तत्र नृत्यन्ति यत् तत्पितॄणां समूहाः स्वतः स्वर्गभोगं बिहाय ॥ ६८॥ न च स्वर्गमार्गे तदानन्दयोगः ततस्तद्विहायामरैः साकमेते । प्रनृत्यन्ति शैवं चरन्तं वसन्तं हसन्तो नमन्तो मुदा पूजयन्तः ॥ ६९॥ शिवः शैवमालोक्य तत्रातिहृष्टो निवासं करोत्यम्बिकालोलदृष्टिः । इतः किं ममापि प्रकृष्टं प्रकृष्टं निवासस्थलं सद्विलासानुकूलम् ॥ ७०॥ (मद्विलासानुकूलम्) स शैवप्रभावं प्रभुः शम्भुरेकः प्रजानाति जानाति गौरी गणेशः । कुमारोऽपि जानाति वेदोऽपि जानात्यतप्तं विधिर्वा हरिर्वा तदन्यः ॥ ७१॥ सती शैवमाता त्वशैवस्य माता परं जारिणी गार्दभी वा शुनी वा । वरं सूकरी वा वरं कर्कटी वा वरं कर्कशा वा वरं राक्षसी वा ॥ ७२॥ पितुः शैवपुत्रस्य तस्यैव भाग्यं सभाग्यस्तदन्यो न लोकेषु दृष्टः । अशैवस्य लोके पिता दुर्भगानां वरिष्ठः विष्ठासु जातः कृमिः स्यात् ॥ ७३॥ शुभः शाम्भवानां प्रभावः स्वभावः कथं मादृशैर्वर्णनीयोऽपि मूढैः । कथं भावभावप्रभावप्रभावः श्रुतीनामगम्यो मया वर्णनीयः ॥ ७४॥ यया जिह्वया शाम्भवानां प्रभावः प्रभूतो महापुण्यसंयुक्तयाऽयम् । मया वर्णनीयोऽपि वाणी विचित्रा पवित्रा भवत्वित्यवश्यं न चित्रम् ॥ ७५॥ कृपा शङ्करस्यापि मय्यप्यपारा यतो हारचर्याविचारप्रवृत्तः । अहं तावदप्यस्मि धन्यो मदन्यो न भावप्रभावस्तवेषु प्रवृत्तः ॥ ७६॥ अहं धन्य एवास्मि मातापि धन्या पिता मे सखा बन्धुवर्गोऽपि धन्यः । यतो भावमार्गप्रवृत्तानुरक्तो विरक्तोऽपि संसारवार्तासु शम्भो ॥ ७७॥ अशैवानुकूलं मनो मास्तु मास्तु प्रमादेन वा स्वप्रकालेऽपि मास्तु । अयं तावदेको वरः प्रार्थनीयो ममेशान सर्वात्मनामुं प्रयच्छ ॥ ७८॥ इयं तावदिच्छा कथञ्चित्प्रजाता शिवानुग्रहेणैव मे पालनीयः । ययातिप्रवृद्धा प्रजाता तथा मे प्रसीद प्रसीद प्रभो चन्द्रमौले ॥ ७९॥ अशैवैः सहैतस्य वासः कदाचित् यदि स्यात् तदा तस्य विघ्नोऽस्तु शीघ्रम् । न तन्मित्रमित्रैः न तन्मित्रमित्रैः महेशान संलापवार्ताऽपि मास्तु ॥ ८०॥ यथा चण्डचण्डालगेहाधिवासः तथा स्वादशैवैः सहैकत्र वासः । अतस्तत्सहावासविघ्नोदयः स्यात् दया चेदुमाकान्त ते मय्यवश्यम् ॥ ८१॥ यदि स्यादशैवानुरक्तं मनो मे तदा स्युः कृतान्तस्य दूताः प्रमत्ताः । प्रवृत्ताः प्रवृत्तं प्रकुर्वन्त एव प्रबद्ध्वा प्रणेयो ममायं ममेति ॥ ८२॥ अशैवैः सहैतस्य शैवस्य वासो महापत्समूहप्रवेशोऽपि मास्तु । स यस्मादगाधव्यथाहेतुभूतो न चापत्समूहस्तथा दुःखहेतुः ॥ ८३॥ अहं चेदपात्रं शिवानुग्रहस्य त्रिनेत्राशु मृत्युं परं प्रेरयस्व । न चाशैवसङ्गाय मां प्रेरयस्व प्रसादोऽयमेवेश ते मह्यमद्य ॥ ८४॥ असन्ध्यादिकर्मानुरागानुरागो यथा शङ्कराराधने साधने मे । (न सन्ध्यादि) असाध्ये शिवानुग्रहे सङ्ग्रहे वा समग्रस्य पुण्याम्बुराशेर्महेश ॥ ८५॥ न नित्येन नैमित्तिकेनापि केनाप्यपूर्वा क्रियाहेतुभूतेन मुक्तिः । यतः शङ्करानुग्रहेणैव मुक्तिः स तावच्छिवाराधनेनैव लभ्यः ॥ ८६॥ जडाः केवलं कर्मणा मुक्तिमेके वदन्तः श्रुतापारवेदान्तमार्गाः । न तैरस्मदीयानि शास्त्राणि तावत् श्रुतानीति मन्ये बहूनि प्रमत्तैः ॥ ८७॥ किमेतादृशं कर्म मोक्षोपयुक्तं न मीमांसया तावदेतद्विवेकः । विधिः कुत्र वा द्वादशाध्यायमध्ये न कुत्रापि दृष्टो न वा वार्तिकेऽपि ॥ ८८॥ न च ब्रह्ममीमांसया तद्विवेको न चोपासनामार्गभिन्नोऽपि मार्गः । न तस्याः फलं मोक्षरूपं प्रकृष्टं प्रकृष्टं फलं तत्त्वविज्ञानसाध्यम् ॥ ८९॥ न चोपासना चित्तशुद्धिं विनान्यत् फलं कर्तुमेकं समर्था समर्था । कथं वा स साध्योऽपि मोक्षः स नित्यः वदाद्याशु वेदान्तमार्गप्रविष्टः ॥ ९०॥ मितं भावनायाः स्वरूपं न केनाप्यतस्तत्परिज्ञानशून्येन केन । कथं तस्य मोक्षस्य साध्यत्ववादः स्वनिर्वाह्यमध्ये बलात् पातनीयः ॥ ९१॥ य एवाक्षपादस्य मोक्षः स साध्यः स तावत् परं ध्वंस एवाविनाशी । (परिध्वंसः) स तत्त्वावबोधस्य साध्यः स तावत्स वेदान्तशास्त्राविरुद्वो विरुद्धः ॥ ९२॥ अलं शास्त्रवार्ताभिरस्माकमेकः शिवानुग्रहो मोक्षहेतुः स तावत् । शिवाराधनेनैव तत्राधिकारी परं शाम्भवः कोऽपि धन्योऽतिधन्यः ॥ ९३॥ शिवाद्वैतवार्ता परं रोचते मे शिवाराधनाग्रेसराग्रेसरस्य । शिवाराधनाबोधकं शास्त्रमेकं प्रमाणं प्रमाणेषु विश्वासबीजम् ॥ ९४॥ परं जन्मजन्मान्तराभ्यस्तमेकं शिवाराधनाबोधकं शास्त्रमेव । यतस्तद्विरुद्धेन मानाभिमानो ममेशान पादारविन्दे शपामि ॥ ९५॥ महापत्तरङ्गानुषङ्गेऽपि शङ्ग त्वदन्यं न पश्यामि नाराधयामि । न गृह्णामि नामापि स्तौमि प्रकामं त्वदन्यस्य वार्ताश्च गर्ते पतन्तः ॥ ९६॥ (सामि) महामृत्युरायातु मे यातु किं मे न तेनापि भीतिर्महामृत्युमृत्युः । यतो मन्मनःपद्मसद्मप्रविष्टः स दुष्टानि कष्टानि हर्तुं समर्थः ॥ ९७॥ स्वकालेऽपि कालो न यात्यन्तिकं मे स को वा वराकः स किं नातिरङ्कः । स चेटीचपेटीतटाघातभीतः कृतान्तान्तकाराधकाग्रेसरस्य ॥ ९८॥ इयं मे महाशैवसङ्गान्न जाता मतिः शङ्कराराधनासाधनेषु । परं त्वीशपादारविन्दप्रसादात् महाशैववार्तापि तावत् कलौ न ॥ ९९॥ कलिर्धर्मदावानलस्तत्र वार्ता महाशैवदेवद्रुमस्येति शम्भोः । अहं तावदेको भवत्पादपद्मप्रसादामृतेनैव जीवामि लोके ॥ १००॥ ॥ इति शिवरहस्यान्तर्गते भावलिङ्गस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। ८१-१८०॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 81-180.. Proofread by Ruma Dewan
% Text title            : Bhavalinga Stotram
% File name             : bhAvalingastotram.itx
% itxtitle              : bhAvaliNgastotram (shivarahasyAntargatam)
% engtitle              : bhAvalingastotram
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 36| 81-180||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org