भावलिङ्गस्तोत्रम्
-
शिवं देहि मे भावलिङ्गालयाशु प्रसीद प्रसीद प्रसीदादरेण ।
त्वदाराधनायत्तचित्ताय नित्यं विकारान्तरायापकाराय भूयः ॥
-
नमो भावलिङ्गाय भावालयाय स्मरापारगर्वापहारोद्यताय ।
नमः पुण्यकल्याणपूर्णार्णवाय प्रमाणाग्रगण्याग्रगण्याय तुभ्यम् ॥ १॥
इदं भावलिङ्गं गतानङ्गसङ्गं यदङ्गोपसङ्गं प्रसङ्गेन शङ्गम् ।
विलीनाभिषङ्ग महारोगभङ्गं करोतीति मन्ये ततस्ते नमोऽस्तु ॥ २॥
यदर्धाङ्गमर्धेन्दुखण्डं प्रचण्डं प्रभामण्डलाखण्डलाराध्यमीड्यम् ।
तदाराध्यमाराध्यकाराध्यकाढ्यं मुहुर्भावलिङ्गं विपद्भोगभङ्गम् ॥ ३॥
यदाराधनेनामराराध्यता स्यात् नरस्याधमस्यापि सिद्धिप्रसिद्धिः ।
तदाराध्यमस्माकमस्मत्कुलस्याप्यपास्यान्यदेवं सदा भावलिङ्गम् ॥ ४॥
प्रभूतेषु पुण्येष्वगण्येषु भक्तिः भवेद्भावलिङ्गे भवेद्भावनापि ।
भवे भावलिङ्गप्रभावप्रबोधे प्रमोदेन मोदाय सम्पादनीयः ॥ ५॥
सरत्याशु संसारघोरान्धकारः स्फुरद्भावलिङ्गाङ्गसूर्यप्रकाशे ।
विशिष्टा विशिष्टाऽद्य खद्योतवार्ता कृतान्तान्तवार्ताऽपि तस्मिन् कुतः स्यात् ॥ ६॥
अविद्यामहावर्तगर्तानुवृत्तिः कुतो भावलिङ्गार्ककोटिप्रकाशे ।
तदाराधनामोदमानन्दसिन्धो शिवज्ञानचन्द्रोऽपि कोऽपि प्रजातः ॥ ७॥
अहो भाग्यमस्माकमस्मत्कुलस्याप्यभूद्भावलिङ्गं परं दैवतं नः ।
वयं धन्यधन्याग्रगण्याग्रगण्याः सदा भावलिङ्गार्चनासक्तचित्ताः ॥ ८॥
यदा भावलिङ्गार्चनाभक्तिलेशः तदा तावदापत्समूहप्रणाशः ।
तदाराधनासक्तलेशप्रकाशे महानन्दराशिप्रवेशोऽनुवेलम् ॥ ९॥
नमन्तः स्मरन्तः सकृत् पूजयन्तः भवं भावलिङ्गे मुदा भावयन्तः ।
लभन्ते गणेशत्वमप्राप्यमन्यैः इह प्राप्य दुष्प्रापमोदाम्बुराशिम् ॥ १०॥
न चान्नाभिलाषाऽऽस्पदालाभशङ्का नचान्यत्र वा भावलिङ्गार्चकानाम् ।
इहामुत्र सौख्याभिवृद्धिर्भवित्री भुजं सम्यगुद्द्धृत्य सत्यं मयोक्तम् ॥ ११॥
न चन्द्रवाञ्छा न चेन्द्रत्ववाञ्छा न चोपेन्द्रताब्जासनत्वादिवाञ्छा ।
यतस्तान्यपायान्वितानीति मन्ये परं त्वीप्सितं भावलिङ्गार्चनं मे ॥ १२॥
इदं भावलिङ्गार्चन कामधेनुः समस्तामराशास्यकल्पद्रुमो वा ।
इदं मर्त्यदुष्प्रापचिन्तामणिर्णा फलानि प्रसूते विचित्राणि नित्यम् ॥ १३॥
यतोऽनन्यलभ्यानि सूते फलानि प्रकृष्टानि वाञ्छास्पदान्यानि तानि ।
अतः कामधेनुर्न कल्पो मणिर्वा परं त्वन्यदेवाद्भुतं भावलिङ्गम् ॥ १४॥
क्षणार्धाधकोट्यंशकोट्यंशमात्रं वयं भावलिङ्गं स्मरामो यतोऽतः ।
प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्ट प्रकृष्टाः ॥ १५॥
महाभूत जाताप्रजातातिभीतिः महामृत्युदूत प्रभूतातिभीतिः ।
महारोगसङ्घातजाताऽपि भीतिः कुतो भावलिङ्गस्य सङ्गेऽङ्गभागे ॥ १६॥
सकृज्जन्ममध्ये मुदा भावलिङ्गं स्मरन्तं स्मरन्तं कृतान्तस्य दूतः ।
प्रमत्तोऽपि तन्मागसंसर्गभीतः प्रभूतप्रतापोऽपि दूरं प्रयाति ॥ १७॥
नमो भावलिङ्गार्चकाराधकेभ्यः तदाराधकेभ्यस्तदाराधकेभ्यः ।
तदाराधकेभ्यस्तदाराध केभ्यः तदाराधकेभ्यस्तदाराधकेभ्यः ॥ १८॥
यमः कम्पयन् पापतापोपभीतः स्वदूतान् समाहूय तत्कर्णदेशे ।
मुहुर्भावलिङ्गार्चकागारमार्गे न गन्तव्यमित्येव जल्पत्यनुचैः ॥ १९॥
कृते भावलिङ्गार्चनोद्योगमात्रे त्रिनेत्रोऽपि किं देयमस्मै मयेति ।
विचारैरपोरैर्नयत्येव कालं ततः कालवार्ताप्रवृत्तिः कुतोऽत्र ॥ २०॥
प्रभावं भवो भावलिङ्गार्चकानां परं वेद वेदोऽपि तन्नैव वेद ।
अतस्तद्विचारे विरिञ्चिः कुलञ्चः कथं चञ्चुरास्तद्विचारे तदन्ये ॥ २१॥
वरं भावलिङ्गाङ्गदौवारिकोरुस्फुरद्वेत्रपात्रत्वमित्यादरेण ।
तदिच्छामुपेन्द्रेन्द्रचन्द्रादिदेवाः प्रकुर्वन्ति धर्मं विहाय स्वकीयम् ॥ २२॥
रमा भावलिङ्गाङ्ग तुङ्गोत्तमाङ्गे विचित्रातपत्रामितछायया सा ।
अविच्छिन्नमेवापरिच्छिन्नया चापरिच्छिन्नमेव प्रकामं करोति ॥ २३॥
न संसारपङ्काङ्कितो निष्कलङ्को निरातङ्क एवातिरङ्कोऽप्यशङ्कः ।
शशाङ्काङ्कितं भावलिङ्गाधिवासं स्मरन् वासवत्वादिवाञ्छां जहाति ॥ २४॥
रमा भावलिङ्गार्चकार्चापरा सा नुतिं तस्य कर्तुं प्रदत्तैव वाणी ।
तदङ्घ्र्यर्ह्वणां रोहिणी सा शची च अवश्यं सुराशास्यमाशास्यमस्य ॥ २५॥
चिरं भावलिङ्गेशपादारविन्दं मनचश्चरीकश्चकार स्थितिं मे ।
स धर्मार्थकामापवर्गस्वरूपैः मरन्दैरमन्दैर्विनोदं करोति ॥ २६॥
अहं भावलिङ्गेशपादारविन्दं स्वचित्तेन मूर्ध्ना प्रबद्धं करोमि ।
मदीयं हृतं मानसं किं त्वयेति त्रिलोक्यां न कोऽप्यस्ति ते मोचकोऽपि ॥ २७॥
नमः सुन्दरामन्दमन्दारकुन्दस्फुरन्नीरनीहारहाराकराय ।
निराकारताराचिरापारहीर स्वरासागराकार ते शङ्कराय ॥ २८॥ (स्वरः सागराकार)
नलव्यालबालामलव्यालमालाकुलानीललोलालसत्कुन्तलाय ।
सनीलाचलानीलनीलोत्पलश्रीविलासाय ते कालकाल प्रणामः ॥ २९॥
नमः स्फारकर्पूरपूराभ्रगौरज्वरापारसंसारभारापकार ।
पुराखर्वगर्वप्रसारापहार स्मरान्धान्धकारे स्मरारे हराय ॥ ३०॥
नमश्चारुकाकोदरानद्धरुद्धप्रबुद्धाप्रबुद्धेन्दुखण्डार्धमौले ।
महाकालकालानलानीलभालप्रबालप्रवालाधराधीरलोल ॥ ३१॥
नमश्चारुचामीकराकरवीर प्रभापूरसम्पूर्ण सम्पूर्णकाम ।
न किं कामकामाय कामं प्रकामं करोषि प्रदोषे न रोषं कुरुष्व ॥ ३२॥
प्रदोषेषु तोषेण नाट्यं करोषि प्रदोषेषु रोषो न तेऽतः प्रदोषे ।
प्रदोषेषु रोषो न मय्यप्यतो मां प्रदोषेषु वा भावयन्नास्त्रदोषम् ॥ ३३॥ (भावयन्नास्प्रदोषम्, भावय स्वास्र)
नरं सर्वदोषाकरं राजसं मां सदा तामसं घोरसंसारलीनम् ।
हराराधनानन्दसन्दोहहीनं सहीनं वराहीनहीन> प्रपश्य ॥ ३४॥
न साद्यसंस्कारपारं गतोऽहं न सारस्वतेष्टिप्रचारादरोऽहम् । (न साद्यस्क संस्कार)
न चात्रातिरात्राद्य पूर्वाश्रयोऽहं दयापात्रमात्रं त्रिनेत्राव मां त्वम् ॥ ३५॥
मदीयापराधानगाधानबाधान् विधिव्याधसम्बन्धबोधप्रबुद्वान् ।
अवीतानधीतप्रद्धाप्रबुद्धश्रिया भ्रान्तमत्रान्तमीशाशु पाहि ॥ ३६॥
मदीयानि पापान्यपाराम्बुराशिप्रपूरापकाराणि नाशं प्रयान्ति ।
तवानुग्रहादुष्टदुष्टग्रहाणां क्व वार्ताऽपि सा स्यात् कुतोऽक्ग्रहाणाम् ॥ ३७॥
मदीयं मनः पादपद्मे तवाद्य प्रविष्टं प्रकृष्टं निकृष्टं न जातम् ।
अतस्तन्न माऽऽयातु माया तु मामा प्रयातु प्रयातु प्रयातु प्रयातु ॥ ३८॥
भवत्पादपद्माश्रितं तन्मनो मे मदीयापराधान् क्षमस्वेति मन्दम् ।
कदाचिन्निवेद्यानिवेद्यानपीश प्रसादाय सिद्धिं करोतु प्रसन्नम् ॥ ३९॥
मनो जन्मजन्मान्तरानन्तपुण्यैः त्वदङ्घ्र्यम्बुजाराधनाय प्रवृत्तम् ।
निवृत्तं न तन्मास्तु मास्तु स्वतन्त्रप्रवृत्तं निवृत्तं कथं वा महेश ॥ ४०॥
शरण्यः शरण्येषु को वा त्वदन्यो मदन्योऽपि दीनः क्व वा भूतलेऽस्मिन् ।
अतस्तद्द्वयं वीक्ष्य भालाक्षलक्षं क्षणं वा क्षणार्धं प्रविश्यादरेण ॥ ४१॥
न मे शारदादिप्रसादाद्यपेक्षा न वेदादिबोधप्रसादाद्यपेक्षा ।
क्षणार्धं त्वदङ्घ्र्यम्बुजाराधने मे सदैवास्तु वाञ्छा न चान्यत्र वाञ्छा ॥ ४२॥
यदि त्वं मदीयं मनोबुद्धिगम्यं प्रसादं प्रदातुं प्रवृत्तस्तदा मे ।
भवन्नाममात्रानुरक्तं मदीयं मनः सर्वदाप्यस्तु शम्भो प्रसीद ॥ ४३॥
वदान्याग्रगण्याग्रगण्याग्रगण्यः वदान्यातिमान्यातिमान्यस्त्वमीश ।
अनन्याग्रगण्याग्रगण्याग्रगण्यः कलौ कालकालाहमेवेति मन्ये ॥ ४४॥
न ते देयमप्यस्ति भक्त्या विनान्यत् तदन्यन्न मे प्रार्थनीयं च लोके ।
न सा चञ्चलातिस्थिरा त्वत्पदाब्जे महाकल्पकोटिष्वनन्तेष्वपीश ॥ ४५॥
दृढा सैव जन्याप्यनन्ता प्ररूढा पुनर्वर्धमाना नवैवानुवेलम् ।
न जन्यत्वभावत्वशङ्कास्तु तस्यां प्रसादस्य ते दुर्लभं भावि किंवा ॥ ४६॥
न जन्यस्वभावस्य नित्यत्वमस्तीत्यवश्यं त्वया नैव वक्तव्यमीश ।
किमस्त्यप्यशक्यं तवापि त्रिलोक्यां शिवान्यायवार्ता न मे रोचतेऽपि ॥ ४७॥
न ते गौतमाकाशनित्यत्ववादो मतो वेदवेदान्ततत्त्वज्ञमूर्ते ।
न ते जैमिनेः शब्दनित्यत्ववादो न मिथ्यात्ववादोऽपि वेदान्तिनस्ते ॥ ४८॥
न बन्धोऽपि मोक्षोऽपि वेदान्तशास्त्रे तथा दृष्टिसृष्टिप्रवादोऽपि दृष्टः ।
अविद्याविलासो न कोऽपीह कल्प्यो विलासैर्यतस्ते जगज्जालमासीत् ॥ ४९॥
न चानन्तवेदान्तवार्ताविचारे हराराधकाराध्यभावाभिमानः ।
स चेन्नाधुना कर्ममार्गो विनष्टः शिवाराधनामार्गवार्ता कुतः स्यात् ॥ ५०॥
शिवाराधनं चेत् कदाचित्प्रमादात् विहायैकदापि स्थिते यातना स्यात् ।
महापातकानां विनाशः कदाचित् शिवाराधनेनेह सम्भावितोऽपि ॥ ५१॥
वरं मद्यपाचारमार्गाभिमानो वरं चण्डचण्डालमार्गप्रवेशः ।
वरं नेश्वराराधनत्यागमार्गः स मार्गो महायातनामार्ग एव ॥ ५२॥
न नीरं हरानर्पितं पानयोग्यं सुराकल्पमल्पं हि तन्मूत्रकल्पम् ।
प्रमोदेन पीत्वापि तत् तावदन्ते सदा यातनां प्राप्नुवन्त्येव विप्राः ॥ ५३॥
शिवाराधने नास्ति यस्याभिमानः स चण्डालचण्डाल एवेति मन्ये ।
शिवाराधने यस्य भक्तिः प्रवृद्धा स वृद्धः सुराणामपीति प्रसिद्धः ॥ ५४॥
शिवानर्पितानानि भुक्त्वातिमोहात् मलाशी भवत्येव राशिस्त्वघानाम् ।
स पापस्वरूपः सदा यातनायां निमग्नोऽतिदुःखानि भुङ्क्ते सुरोऽपि ॥ ५५॥
कृतानन्तपापो विहायेश्वरार्चां शिवान्यासक्तचित्तोऽपि मत्तः ।
मृते यातनान्ते शुनीगर्भवासं समासाद्य तस्मानिवृत्तो न नूनम् ॥ ५६॥
वधूभोगकालेऽपि यः कालकालस्वरूपानुसन्धानहीनः स हीनः ।
प्रतप्तायसाकारनारीशरीरं समालिङ्ग्य दुःखानि भुङ्क्ते कदाचित् ॥ ५७॥
यदेवापि रम्यं स्वभोगोपयुक्तं तदीशाय सर्वं निवेद्येशशेषः ।
अयं मह्यमित्यादरेणापि भुङ्क्ते महापुण्यराशिः स भुङ्क्ते सुखानि ॥ ५८॥
सुतं वा समालिङ्ग्य तज्जन्यसौख्यं निवेद्याम्बिकावल्लभायादरेण ।
अनन्तं सुखाम्भोधिमाप्नोति सत्यं प्रवृद्धापि तत्सन्ततिः सर्वदा स्यात् ॥ ५९॥
शिवाराधनाय प्रवृत्तस्य वंशो न नश्यत्यवश्यं प्रसिद्धिं प्रयाति ।
महानन्दकन्दत्वमाप्नोति सत्यं मुकुन्दादिवृन्दारवृन्दाभिवन्द्यः ॥ ६०॥
वरं वन्ध्यभावो वरं गर्भनाशो वरं जन्मकालप्रणाशोऽपि सत्यम् ।
वरं नैव कस्याप्यशैवत्वमेतत् फलं पापराशेरभाग्याम्बुराशेः ॥ ६१॥
अशैवत्वमाप्नोत्यभाग्यैरभङ्गैः वरं जारजत्वं वरं मद्यपत्वम् ।
वरं सर्वपापौघसञ्जातमूर्तिस्वरूपत्वमित्येव मन्ये महेश ॥ ६२॥
वरं पुल्कसस्यापि सम्प्राप्य जन्म स्थितस्यापि गोमांसमात्राशनस्य ।
वरं ब्रह्महत्यासहस्रादरस्याप्यशैवत्वमत्यन्तमेवापकृष्टम् ॥ ६३॥
अशैवत्वमासाद्य कृत्वा स्वनिन्दां ज्वलद्वह्निमध्ये प्रविष्टोऽनुतप्तः ।
मृतः सद्गतिं प्राप्य शैवत्वमेत्य प्रसादेन शम्भोः स मुक्तिं प्रयाति ॥ ६४॥
वरं दासदासानुदासानुदासीसुतत्त्वं यतस्तस्य शैवानुबन्धः ।
स शैवानुबन्धेन संसारबन्धात् विमुक्तोऽपि मुक्तो भवेत् पापसङ्घात् ॥ ६५॥
वरं शैवगेहाङ्गणे कीटभावः कदाचित् यतो भूतलेशानुयोगः ।
तदुच्छिष्टपात्राभिघातोऽप्यघघ्नः यतस्तस्य भाग्येन सम्भावितः स्यात् ॥ ६६॥
महादेवनैवेद्यशेषाशनानां पवित्राणि गात्राणि तद्गन्धवाहान् ।
सुरास्तावदिच्छन्ति पापापनुत्त्यै सदा गन्धवाहप्रवेशप्रवृद्धान् ॥ ६७॥
यदा यत्र शैवः प्रचारं करोति प्रभूतैरगण्यैः स्वपुण्याब्धिसङ्घैः ।
तदा तत्र नृत्यन्ति यत् तत्पितॄणां समूहाः स्वतः स्वर्गभोगं बिहाय ॥ ६८॥
न च स्वर्गमार्गे तदानन्दयोगः ततस्तद्विहायामरैः साकमेते ।
प्रनृत्यन्ति शैवं चरन्तं वसन्तं हसन्तो नमन्तो मुदा पूजयन्तः ॥ ६९॥
शिवः शैवमालोक्य तत्रातिहृष्टो निवासं करोत्यम्बिकालोलदृष्टिः ।
इतः किं ममापि प्रकृष्टं प्रकृष्टं निवासस्थलं सद्विलासानुकूलम् ॥ ७०॥ (मद्विलासानुकूलम्)
स शैवप्रभावं प्रभुः शम्भुरेकः प्रजानाति जानाति गौरी गणेशः ।
कुमारोऽपि जानाति वेदोऽपि जानात्यतप्तं विधिर्वा हरिर्वा तदन्यः ॥ ७१॥
सती शैवमाता त्वशैवस्य माता परं जारिणी गार्दभी वा शुनी वा ।
वरं सूकरी वा वरं कर्कटी वा वरं कर्कशा वा वरं राक्षसी वा ॥ ७२॥
पितुः शैवपुत्रस्य तस्यैव भाग्यं सभाग्यस्तदन्यो न लोकेषु दृष्टः ।
अशैवस्य लोके पिता दुर्भगानां वरिष्ठः विष्ठासु जातः कृमिः स्यात् ॥ ७३॥
शुभः शाम्भवानां प्रभावः स्वभावः कथं मादृशैर्वर्णनीयोऽपि मूढैः ।
कथं भावभावप्रभावप्रभावः श्रुतीनामगम्यो मया वर्णनीयः ॥ ७४॥
यया जिह्वया शाम्भवानां प्रभावः प्रभूतो महापुण्यसंयुक्तयाऽयम् ।
मया वर्णनीयोऽपि वाणी विचित्रा पवित्रा भवत्वित्यवश्यं न चित्रम् ॥ ७५॥
कृपा शङ्करस्यापि मय्यप्यपारा यतो हारचर्याविचारप्रवृत्तः ।
अहं तावदप्यस्मि धन्यो मदन्यो न भावप्रभावस्तवेषु प्रवृत्तः ॥ ७६॥
अहं धन्य एवास्मि मातापि धन्या पिता मे सखा बन्धुवर्गोऽपि धन्यः ।
यतो भावमार्गप्रवृत्तानुरक्तो विरक्तोऽपि संसारवार्तासु शम्भो ॥ ७७॥
अशैवानुकूलं मनो मास्तु मास्तु प्रमादेन वा स्वप्रकालेऽपि मास्तु ।
अयं तावदेको वरः प्रार्थनीयो ममेशान सर्वात्मनामुं प्रयच्छ ॥ ७८॥
इयं तावदिच्छा कथञ्चित्प्रजाता शिवानुग्रहेणैव मे पालनीयः ।
ययातिप्रवृद्धा प्रजाता तथा मे प्रसीद प्रसीद प्रभो चन्द्रमौले ॥ ७९॥
अशैवैः सहैतस्य वासः कदाचित् यदि स्यात् तदा तस्य विघ्नोऽस्तु शीघ्रम् ।
न तन्मित्रमित्रैः न तन्मित्रमित्रैः महेशान संलापवार्ताऽपि मास्तु ॥ ८०॥
यथा चण्डचण्डालगेहाधिवासः तथा स्वादशैवैः सहैकत्र वासः ।
अतस्तत्सहावासविघ्नोदयः स्यात् दया चेदुमाकान्त ते मय्यवश्यम् ॥ ८१॥
यदि स्यादशैवानुरक्तं मनो मे तदा स्युः कृतान्तस्य दूताः प्रमत्ताः ।
प्रवृत्ताः प्रवृत्तं प्रकुर्वन्त एव प्रबद्ध्वा प्रणेयो ममायं ममेति ॥ ८२॥
अशैवैः सहैतस्य शैवस्य वासो महापत्समूहप्रवेशोऽपि मास्तु ।
स यस्मादगाधव्यथाहेतुभूतो न चापत्समूहस्तथा दुःखहेतुः ॥ ८३॥
अहं चेदपात्रं शिवानुग्रहस्य त्रिनेत्राशु मृत्युं परं प्रेरयस्व ।
न चाशैवसङ्गाय मां प्रेरयस्व प्रसादोऽयमेवेश ते मह्यमद्य ॥ ८४॥
असन्ध्यादिकर्मानुरागानुरागो यथा शङ्कराराधने साधने मे । (न सन्ध्यादि)
असाध्ये शिवानुग्रहे सङ्ग्रहे वा समग्रस्य पुण्याम्बुराशेर्महेश ॥ ८५॥
न नित्येन नैमित्तिकेनापि केनाप्यपूर्वा क्रियाहेतुभूतेन मुक्तिः ।
यतः शङ्करानुग्रहेणैव मुक्तिः स तावच्छिवाराधनेनैव लभ्यः ॥ ८६॥
जडाः केवलं कर्मणा मुक्तिमेके वदन्तः श्रुतापारवेदान्तमार्गाः ।
न तैरस्मदीयानि शास्त्राणि तावत् श्रुतानीति मन्ये बहूनि प्रमत्तैः ॥ ८७॥
किमेतादृशं कर्म मोक्षोपयुक्तं न मीमांसया तावदेतद्विवेकः ।
विधिः कुत्र वा द्वादशाध्यायमध्ये न कुत्रापि दृष्टो न वा वार्तिकेऽपि ॥ ८८॥
न च ब्रह्ममीमांसया तद्विवेको न चोपासनामार्गभिन्नोऽपि मार्गः ।
न तस्याः फलं मोक्षरूपं प्रकृष्टं प्रकृष्टं फलं तत्त्वविज्ञानसाध्यम् ॥ ८९॥
न चोपासना चित्तशुद्धिं विनान्यत् फलं कर्तुमेकं समर्था समर्था ।
कथं वा स साध्योऽपि मोक्षः स नित्यः वदाद्याशु वेदान्तमार्गप्रविष्टः ॥ ९०॥
मितं भावनायाः स्वरूपं न केनाप्यतस्तत्परिज्ञानशून्येन केन ।
कथं तस्य मोक्षस्य साध्यत्ववादः स्वनिर्वाह्यमध्ये बलात् पातनीयः ॥ ९१॥
य एवाक्षपादस्य मोक्षः स साध्यः स तावत् परं ध्वंस एवाविनाशी । (परिध्वंसः)
स तत्त्वावबोधस्य साध्यः स तावत्स वेदान्तशास्त्राविरुद्वो विरुद्धः ॥ ९२॥
अलं शास्त्रवार्ताभिरस्माकमेकः शिवानुग्रहो मोक्षहेतुः स तावत् ।
शिवाराधनेनैव तत्राधिकारी परं शाम्भवः कोऽपि धन्योऽतिधन्यः ॥ ९३॥
शिवाद्वैतवार्ता परं रोचते मे शिवाराधनाग्रेसराग्रेसरस्य ।
शिवाराधनाबोधकं शास्त्रमेकं प्रमाणं प्रमाणेषु विश्वासबीजम् ॥ ९४॥
परं जन्मजन्मान्तराभ्यस्तमेकं शिवाराधनाबोधकं शास्त्रमेव ।
यतस्तद्विरुद्धेन मानाभिमानो ममेशान पादारविन्दे शपामि ॥ ९५॥
महापत्तरङ्गानुषङ्गेऽपि शङ्ग त्वदन्यं न पश्यामि नाराधयामि ।
न गृह्णामि नामापि स्तौमि प्रकामं त्वदन्यस्य वार्ताश्च गर्ते पतन्तः ॥ ९६॥ (सामि)
महामृत्युरायातु मे यातु किं मे न तेनापि भीतिर्महामृत्युमृत्युः ।
यतो मन्मनःपद्मसद्मप्रविष्टः स दुष्टानि कष्टानि हर्तुं समर्थः ॥ ९७॥
स्वकालेऽपि कालो न यात्यन्तिकं मे स को वा वराकः स किं नातिरङ्कः ।
स चेटीचपेटीतटाघातभीतः कृतान्तान्तकाराधकाग्रेसरस्य ॥ ९८॥
इयं मे महाशैवसङ्गान्न जाता मतिः शङ्कराराधनासाधनेषु ।
परं त्वीशपादारविन्दप्रसादात् महाशैववार्तापि तावत् कलौ न ॥ ९९॥
कलिर्धर्मदावानलस्तत्र वार्ता महाशैवदेवद्रुमस्येति शम्भोः ।
अहं तावदेको भवत्पादपद्मप्रसादामृतेनैव जीवामि लोके ॥ १००॥
॥ इति शिवरहस्यान्तर्गते भावलिङ्गस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। ८१-१८०॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 81-180..
Proofread by Ruma Dewan