भावोपहारः
ॐ नमोऽनन्तशक्तये शिवाय ।
अथ भावोपहारः ।
श्रीमच्चक्रपाणिनाथविरचितः
(श्री भट्टज्योग्देवात्मजभट्टरम्यदेवाचार्यविरचित मङ्गलश्लोकाः)
स्वविमर्शविकचकानन-
समुन्मिषद्विषयकुसुमसन्तत्या ।
करणेश्वरीभिरभितः
समर्चितो बोधभैरवो जयति ॥ १॥
विमर्शमय्या निजशक्तिदेव्या
विश्वप्रथाभैरवक्लृप्तपूजः ।
जयत्यकामोदितरश्मिरूप-
स्वशक्तिपुञ्जात्मज चक्रनाथः ॥ २॥
क्रमाक्रमक्रियाक्रान्ति-
व्यतिक्रमनिकृन्तनम् ।
देवं चक्रं श्रये क्रीडा-
क्रोडीकृतकृतान्तकम् ॥ ३॥
अथ स्तोत्रं -
ॐ नमः सूर्यकलाजालकालदेहापहारिणे ।
आधाराधेयपीठाय भवायाभवदायिने ॥ १॥
नमः शिशुनिशाकान्तकलाकमलमालिने ।
परमानन्ददेहाय शिवायाव्यक्तमूर्तये ॥ २॥
नमः पाशौघसङ्घट्टलयविश्लेषकाइरिणे ।
मन्त्रगर्भोदरस्थाय हराय परमातने ॥ ३॥
यद्यपि त्वं गुणातीतो वाकतेरप्यगोचरः ।
तथाप्या हृदयात्स्तोतुमुद्यता वाक्सदा मम ॥ ४॥
अतिभक्तिरसावेशविवशा विश्वतो मुख ।
त्वत्प्रेरिता यतो नाथ नापराधोऽस्ति मे क्वचित् ॥ ५॥
त्वत्पादाब्जरजः पूतचिताभूतिविभूषितात् ।
गृहाण मत्तः श्रीकण्ठ ? भावपूजामकृत्रिमाम् ॥ ६॥
हृत्पुष्कराख्ये स्नात्वान्तस्तीर्थे योगिनिषेविते ।
सम्बोधधौतवसनः श्यामकण्ठं यजाम्यहम् ॥ ७॥
प्रभूतभूतसम्भूतशोणितैरर्घभाजनम् ।
क्रियते ते महाकाल काय कङ्कालकन्दले ॥ ८॥
यद्यद्विकल्पना जालं बाह्यार्थप्रतिपत्तये ।
तत्तद्वाराधिपकुलं तव पूज्यं मनस्विभिः ॥ ९॥
अशेषावरणोन्मुक्तगुप्तसौषुप्तमण्डले ।
पूज्यसे नगजाकान्त ! ग्रहणे चन्द्रसूर्ययोः ॥ १०॥
हानादानोदयारम्भसदसद्विभ्रमोज्झितम् ।
ज्ञप्तिमात्रप्रतिष्ठानमासनं त्रिजगत्पते ॥ ११॥
मूर्तिदानमनाभासशक्तिभासोपबृंहितम् ।
तुर्यपीठप्रतिष्ठानं वितरामि जगत्पते ॥ १२॥
दिक्कालदेशकलनाकलङ्कोज्झितचेतसः ।
कः करोति बुधः स्थाणोराह्वानादिविसर्जनम् ॥ १३॥
सूर्यशीतांशुनेत्राभ्यां मथित्वा शक्तिवारिधिम् ।
परामृतरसाभ्यङ्गं शिवाय विनिवेदये ॥ १४॥
इन्द्रियेष्विन्द्रियार्थेषु रागलोभानुयायिषु ।
निःस्नेहत्वं प्रभुत्वं च रूक्षमुद्वर्तनं तव ॥ १५॥
संशोध्यानच्छकलया बैन्धवं तीर्थमञ्जसा ।
तद्विरामरसस्नानं देयं चन्द्रार्धमौलये ॥ १६॥
स्वप्रबोधाम्बरोदारविकसद्वस्त्रघर्षणम् ।
विनिवेश्य भवत्संविद्विकारान्विकरामहे ॥ १७॥
ज्ञानज्ञेयपरित्यागनगनिर्झरविस्रुतम् ।
परमानन्ददं मेऽन्तस्तव पाद्यमनाबिलम् ॥ १८॥
अमन्दानन्दनिःष्यन्दस्पन्दमन्दिरकन्दरात् ।
गलत्कैवल्यसलिलमादत्स्वाचमनं विभो ॥ १९॥
प्रक्षाल्य धारणाम्भोभिर्ग्रन्थिपञ्चकमौक्तिकम् ।
अनर्घ्यमर्घं पादेभ्यः प्रयच्छामि वृषाकपे ॥ २०॥
तुरीयोद्यानविकसत्संवित्सौरभनिर्भरैः ।
गिरीश तिसृभिर्वाग्भिः स्तुतिपुष्पैः प्रपूज्यसे ॥ २१॥
प्राणवह्निशिखास्त्रेण भङ्क्त्वा ब्रह्मबिलं लसत् ।
धूपवर्तिनिभाभासो धूपस्ते नगजाधव ॥ २२॥
अनाहता नदत्यन्तर्या गौर्धाम्नि परे परा ।
सा घण्टा वाद्यते शम्भोरग्रे ग्रन्थार्थ गर्भिणी ॥ २३॥
कन्दानलोल्लसच्छक्तिशिखां दीपशिखोपमाम् ।
उद्दीपयामि भगवन्मोहध्वान्तापनुत्तये ॥ २४॥
वृत्तित्यागामृतकलाचन्द्रश्चन्द्रकिरीटिनः ।
समालम्भनवेवास्तु मुमुक्षूणां विमुक्तये ॥ २५॥
नादशक्त्युदितं धाम मलत्रयविवर्जितम् ।
उष्णीषमस्तु ते रुद्र विद्रावितनभोऽर्गलम् ॥ २६॥
भवद्भक्तिसुधासारसम्प्लावितहृदम्बुधेः ।
प्रोल्लसद्ब्रह्मकमलममलं तेऽस्तु शेखरम् ॥ २७॥
बोधारविन्दसन्दोहो हर हारलता तव ।
नित्योदितान्तरव्याप्तिकला चन्द्रकला च ते ॥ २८॥
आकृष्यार्ककरैः शाक्तैर्विश्वाकाशकुशेशयात् ।
चिच्चन्द्रामृतनिःष्यन्दमास्वादय जगत्पते ॥ २९॥
मन्त्रं मनसि तच्छक्तौ तां स्वधाम्नि सदोदिते ।
कृत्वा जपविधिं सम्यक् शिवाय विनिवेदये ॥ ३०॥
निःशेषार्थपरित्यागे ग्रहणे वामिताद्द्युते ।
अनाबिलां परां व्याप्तिं मुद्रां बध्नामि धूर्जटे ॥ ३१॥
शष्कुलीकर्णयोर्बद्ध्वा यो रावोऽत्र विजृम्भते
तद्गीतमथ ते वाद्यमाद्यसम्पुटघट्टनात् ॥ ३२॥
भवद्भावरसावेशात्ताण्डवाडम्बरोद्धतः ।
मन्त्राध्वनि नदाम्यन्तः किमु बाह्यार्थभावनैः ॥ ३३॥
अखण्डमण्डलाकारशिवताभावनाम्बरम् ।
उपरिष्टान्मया शम्भोर्वितानमुपकल्पितम् ॥ ३४॥
रेचयित्वा करन्ध्रेण भाचक्रं हृदयाम्बरात् ।
धार्यते धूर्जटेरग्रे चारुचामरवन्मया ॥ ३५॥
नासापुटकुटीकोटिविसृतैः प्रसृतैः पुरः ।
तालवृन्तैरिव विभो वीज्यसे हंसमारुतैः ॥ ३६॥
सर्वातपविनिर्मुक्तं भवद्भक्तिसुधासितम् ।
आतपत्रमथास्माभिर्धार्यते ते महाशय ॥ ३७॥
ममतामन्दुरात्यागात्त्रैलोक्याकर्षणक्षमः
अहङ्कारतुरङ्गस्ते वाहनाय प्रकल्पितः ॥ ३८॥
स्वसंविन्नन्दनानन्दनागवल्लीदलोज्ज्वलम् ।
स्फुरत्स्पन्देन्दुसुरभि ताम्बूलं ते निवेद्यते ॥ ३९॥
भोग्यभोक्तृविभेदोत्थवासनेन्धनसञ्चयम् ।
अद्वैताग्नौ जुहोम्यन्तः शाङ्करे श्रेयसां निधौ ॥ ४०॥
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनास्रुचम् ।
धर्माधर्मगलत्स्नेहपूर्णां वह्नौ जुहोम्यजे ॥ ४१॥
युष्मद्ध्याननिशानाथकिरणैरुपरञ्जितः ।
अन्तर्मानविधौ तेऽस्तु चित्तचिन्तामणिर्मम ॥ ४२॥
मोक्षलक्ष्मीकराम्भोजपात्रे विन्यस्य संस्कृताम् ।
निवेदयामि भगवन् प्राणसर्वस्वदक्षिणाम् ॥ ४३॥
संसारवारिधेः सन्तःपरं पारं तितीर्षवः ।
चन्द्रमौलेः श्रयन्तूच्चैर्भावपूजातरण्डकम् ॥ ४४॥
इत्थमीशानचरणनुतेर्यत्समुपार्जितम् ।
श्रेयस्तेन जगत्कृत्स्नं द्वेषदोषाद्विमुच्यताम् ॥ ४५॥
स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन्
मानावमानममतोज्झितचित्तवृत्तेः ।
मत्तस्त्वदङ्घ्रियुगपीठनिलीनमौलेः
भस्मावगुण्ठिततनोर्नृकपालपाणेः ॥ ४६॥
महापाशुपतोद्याने कश्चिद्विश्रम्य तापसः ।
चक्रे विचिच्चक्रनाथस्य शम्भोर्भावनुतिं पराम् ॥ ४७॥
॥ इति श्रीचक्रपाणिनाथ विरचितं भावोपहारस्तोत्रं सम्पूर्णम् ॥
गुरुक्रमवन्दनम् -
अदृष्टविग्रहागतं मरीचिचक्रविस्तरम् ।
अनुग्रहैककारणं नमाम्यहं गुरुक्रमम् ॥
Encoded and proofread by Aaditya Kalyanaraman