भक्तिविवर्धनस्तवः
सकृदानतिरचना च भूयादुभयोरित्यनुकम्पयालसानाम् ।
अवलम्बितविग्रहैकभावं शिवयोः श्रीसमवायमाश्रयामः ॥ १॥
अलिकाम्बकदक्षिणाश्रयाशे जगतीमेव जुहूषता समयेन ।
मदनः प्रथमाहुतिर्वि(?)तेने तमुपासे यमिनामुपासनीयम् ॥ २॥
तरुणेन्दुकलाकलापिनं समयोन्मीलितमल्लिकारुचिम् ।
स्मितचारुकराननाम्बुजं शिवयाश्लिष्टतनुं शिवं भजे ॥ ३॥
अतसूकृतकामकारुणी सुतनूभावितवामविग्रहम् ।
शरणां करवाणि शङ्करं किमपि ज्योतिरहं शिवङ्करम् ॥ ४॥
कुसुमायुधकोपितोऽपि योऽलं दयया तस्य तनुं ददौ प्रियायै ।
अखिलार्तिहरं हरं विना तं कतमं देवमिहाभिराध्नुयामः ॥ ५॥
मदनं दहतापि कान्तया कवलीकारयता कलेबरम् ।
अनुरागि जगद्विरागि वा भवता शङ्कर विप्रलभ्यते ॥ ६॥
अविषह्यतमेन ताम्यतां भवरोगेण परं भिषज्यताम् ।
शिवतातिमसी वयं विभो शृणुमस्त्वा भिषजां भिषक्तमम् ॥ ७॥
क्वचिदेकपदे रसज्ञया परिकृष्ये परतोऽपि चक्षुषा ।
क्वचन श्रवसा बलीयसा तव शम्भो किमुदासितुं क्षमम् ॥ ८॥
अवरोद्धुमिदं न शक्नुमो विषयाशीविषसङ्गि मानसम् ।
अपि रोद्धुमुदग्रचापलं बत शम्भो करवाम किं कथम् ॥ ९॥
कृपणा बहवोऽनुकम्पिताः किल शम्भो शतशोऽपि मादृशाः ।
न च मामतिदीनमीक्षसे कतमे ते करुणापदं जनाः ॥ १०॥
अपराधशतेऽपि चार्थनामपरामाः कतमामयञ्जनः
कृपणो गिरिशावलम्बतां कृपयैवानुगृहाण केवलम् ॥ ११॥
कृपणं कृपयावलोकसे विलपन्तं यदि नाथ नातुरम् ।
क्वनु यामि वदामि किन्नुवा विधिपाकेन विभो निराकृतः ॥ १२॥
ननु दीनदयावशंवदो गिरिश त्वं परिगीयसे बुधैः ।
अवलोकय लोचनाञ्चलैरगतिं मामनुकम्पयाखिलैः ॥ १३॥
समयं प्रतिपालयन्ति ते शमयन्तो मलमात्मनोऽमराः ।
भगवन् कृमिकः कियानहं न दया ते यदि दीनवत्सला ॥ १४॥
भवतेऽखिललोकबन्धवे भगवन्न स्पृहयेत को नु वा ।
निपुणं परिमृश्य निर्गतिं कृपणं मां कृपयाऽवलोकय ॥ १५॥
अनु ... विति संविभाव्यते न मयैकेन भवानुमापते ।
शमयञ्जगतीतमोततिं सविता न ह्यनु किञ्चिदश्वति ॥ १६॥
उदितारुणकोटिरोचिषं न हि पश्यामि भवन्तमीश किम् ।
अथवा कथमन्धलोचनो जगतीचक्षुरुदीतमीक्षताम् ॥ १७॥
अधुनापि विचीयते पदं तव शम्भो शिव सम्पदां पदम् ।
विबुधैरपि वेदमौलिषु स्मरतादस्य कथन्नु मादृशः ॥ १८॥
प्रयते परिणाहिचेतसा पदवीमेष दवीयसीमपि ।
अधिगन्तुमयुग्मनेत्र ते विषमं पश्य विमोहयन्त्रणम् ॥ १९॥
मम धावयति स्मरो मतिं मृगयावीव मृगीमनुद्रवन् ।
परिचारचितास्मि ते कदा पदयोरीश्वर तामनागसम् ॥ २०॥
मतिमीश मम त्वदाश्रयां स्मरतेचापकृतं स्मरेण ते ।
असतीमिव विप्रलुम्पनात् त्वदलीकाक्षि पुनश्च तृप्यतु ॥ २१॥
रतिराश्रयते भवत्पदं मतिरन्वेति मनो ममापि ताम् ।
अपुनःश्लथसङ्गमं तया लभतामीश भवानिवोमया ॥ २२॥
तव पादनखेन्दुमण्डलीमवतंसीयति मय्युमापते ।
सकलाय दया विसृत्वरी शिवभावाय सुरापगायताम् ॥ २३॥
न विधातरवैमि ते विधां वरिवस्यानुविधौ जडाशयः ।
दययैव तथापि पाहि मामुदवाहा इव शुष्यदोषधिम् ॥ २४॥
दयसे भजतः स्वतो विभो किमु दैन्येन ममाभिचोदितः ।
नवचन्दनमेव शीतलं ननु कीदृग्घनसारलोलितम् ॥ २५॥
अनधीतभवत्पदाम्बुजान् अनवेतत्वदुपासनाविधीन् ।
यदि रक्षसि नाम रक्षिता शिव के कर्मकरं न विभ्रति ॥ २६॥
अभिषिञ्च दयारसैर्विभो भवदाहज्वलनो न मां दहेत् ।
अमृतैरपि किं प्रसेचिते भसितीभूतरसालपोतकैः ॥ २७॥
यदि नाम तवानुपासिता दयनीयो न भवामि नाथ ते ।
अनपेक्षितसेवमम्बुदं जगदुञ्जीवनमेष किं ब्रुवे ॥ २८॥
विभवत्युचितं दशाननो वरिवस्यञ्जगतामधीश्वरम् ।
उदकृन्तदयं शिरो निजं करुणोऽपीश परं तदैक्षथाः ॥ २९॥
मिषितेऽपि नहि प्रभूयते जगता येन शिव त्वया विना ।
सनिसर्गसुहृच्चमात्मना सदृशं ते मम यत्प्रसीदति ॥ ३०॥
शिव सत्प्रवणाप्यतन्न मामनुकम्पा तव हातुमर्हति ।
नहि नन्दितचन्द्रशालया विपिनं चन्द्रिका विहीयते ॥ ३१॥
सुकृतस्वकृतेन कर्मणा भगवन्निर्वृणुतेऽपुनर्भवाः ।
अनुगृह्य सुदीनमाशु मामनुकम्पा सफलायतां तव ॥ ३२॥
यदि नाम यथापुरं विभो परिखिद्येय भवाम्बुसम्प्लवे ।
प्रकृति करुणामृदीयसीमनुतप्तासि तवैव दुःस्थितिम् ॥ ३३॥
व्यसनात्मकमीश मास्महन् व्यसनं मां विषमेव वा विषम् ।
करुणं बत वर्तयिष्यते करुणा दीनपराङ्मुखस्य ते ॥ ३४॥
विधिदुर्ललितैरये विभो विविधाधिग्रहनिर्गृहीतधीः ।
विवशोऽहमुवाच दुर्वचं यदुपालम्भमदः क्षमस्व मे ॥ ३५॥
कमुपालभतामयञ्जनः करुणात्मन्नसुखावसादितः ।
अयि दीनजनानुसारिणी करुणा मृद्वितमा तवैव चेत ॥ ३६॥
न भवन्तमुपलभे विभो मम दैन्यन्तु निवेदयामि ते ।
परिपाककटू रुजा निजा न निवेद्या भिषजे किमातुरैः ॥ ३७॥
शरणागतवत्सलोऽसि किं शमिताशेषशिवेतरोऽसि किम् ।
अनुनाथ कथा कदर्थना न विषह्येत कथं त्वया विभो ॥ ३८॥
अयि नाथ भवानुपेक्षते भजमानं निजतन्त्रवेष्टितः ।
मम च त्वयि रूढसङ्गतं हृदयं सीदति हा करोमि किम् ॥ ३९॥
अयि नाथ भवानीश्वरो जगतीपूजनया जडीकृतः ।
शरणं कमुपैम्यहं पुनस्त्वदृते हन्त जगन्निरीश्वरम् ॥ ४०॥
अभियामि यदन्यमीश्वरं विजहत्त्वा जगतीपरायणम् ।
कनकं परिहृत्य बालिशः कटकीयामि विभो न किन्तमाम् ॥ ४१॥
व्यसनैरुपतापिना मया न चिरं क्रीडितुमीश ते क्षमम् ।
परिखेलति हन्त जम्बुको व्यथते किन्तु कुलीरजीवितम् ॥ ४२॥
असुखानि चिरं चिकीर्षता विधिना मे विपरीतवर्तिना ।
करुणारसकोमलं विभो हृदयं किं तव कर्कशीकृतम् ॥ ४३॥
यदनन्यगतीनुपेक्षसे विषमाक्षाखिलकामदोऽपि सन् ।
परितापजुषोऽपि मादृशः तदभव्यं तव दुश्श्रवं मम ॥ ४४॥
अवितुर्ज्जगतामयं जनः किमितीशान भरायते तव ।
अपचातकमम्बुदावलिर्नहि तापोपशमाय वर्षति ॥ ४५॥
समयन् स्वयमैन्दवीं कलामपि कङ्कालमलङ्क्रियाविधौ ।
अशुचिं परिहर्तुमीहते कथमीशान भवानिमं जनम् ॥ ४६॥
अवतंसयसी निम्नगामपि हालाहलतापशान्तये ।
अतिहालहलाधिशान्तये मम चापीडय पाद्यमम्बु ते ॥ ४७॥
अभिवन्दितुमैन्दवीं कलामहमी हेभवतावतंसिताम् ।
अयि नाथ भवार्कतापितं हृदयं शीतलयिष्यते तया ॥ ४८॥
दशमी भगवद्दशा पुरा किल मामाविरुदेति दुःसहा ।
अधुनैव ममावलम्बतामभयं ते हृदयं पदाम्बुजम् ॥ ४९॥
अमृतस्रुति पादपङ्कजे तव शम्भो न परं स्वदे ततः ।
स्वदते न हि काशकोरको मकरन्दस्रुति पङ्कजेऽलिने ॥ ५०॥
अपि दुर्लभमीश मानसं न भवन्तं मम हातुमीहते ।
न हि कामपरो मनोहरे मनुते लाभमलाभमेव वा ॥ ५१॥
भगवन्भवगोचरेऽपि मे धिषणा त्वत्पदपद्मकाम्यति ॥
असितासु तमीषु लिप्सते न चकोरी किमु चारुकौमुदीम् ॥ ५२॥
सकृदप्यवभाहि मानसे ममाच व्येतु भवाधिसम्प्लवः ॥
मिहिरे हि नभस्युदित्वरे तिमिरं सत्वरमेव शाम्यतिः ॥ ५३॥
भगवन्नवधीरितस्त्वया परिगृह्येय परेण केन वा ।
न हि मातुरसम्मतो जनो भजति ग्रामजनस्य सम्मतिम् ॥ ५४॥
ननु भूसलिलानलानिलद्युशशाङ्कारुणसोमपाकृतिम् ।
भुवनं परिभासि भूतये जगतामेव भवद्विभूतयः ॥ ५५॥
त्वदधीनमिदं यदस्ति मे तव चाहं परमेश योऽस्म्यहम् ।
शरमेवमुमापते मम प्रणतं मां परिपालय प्रभो ॥ ५६॥
जननी जनकस्त्वमेव में गुरुराराध्यतमश्च दैवतम् ।
शरणं परमं परा गतिः शिवः सर्वस्वमपि त्वमेव मे ॥ ५७॥
अहिमांशुकलावतंसकैः अनलीकाञ्चित दिव्यलोचनैः ।
अमरैरवरैरुपासितैरनुमाजीवितवल्लभैरलम् ॥ ५८॥
यदि ते पदपङ्कजं नमन् यदि वा नाम सदाम वालपन् ।
यदि मङ्गलविग्रहं स्मरन् भव भूयासमहं भवे भवे ॥ ५९॥
विहिताञ्जलिसम्पुटेन मूर्ध्ना विगलद्बाष्पकला कुलेन चाक्ष्णा ।
वपुषा पुलकाञ्चितेन शम्भो भजतस्त्वामभिपद्यतां ममायुः ॥ ६०॥
इति भक्तिविवर्धनस्तवं यः पठति श्रीशिवसन्निधौ यतात्मा ।
दुरितानि विधूय दूरतोऽसौ सकलं मङ्गलमश्नुते सदैव ॥ ६१॥
श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना ।
कृष्णानन्देन रचितः स्तवो भक्तिविवर्धनः ॥
कृष्णानन्दकृतिषु भक्तिविवर्धनस्तवः सम्पूर्णः ॥
Proofread by Rajesh Thyagarajan