भक्तिविवर्धनस्तवः

भक्तिविवर्धनस्तवः

सकृदानतिरचना च भूयादुभयोरित्यनुकम्पयालसानाम् । अवलम्बितविग्रहैकभावं शिवयोः श्रीसमवायमाश्रयामः ॥ १॥ अलिकाम्बकदक्षिणाश्रयाशे जगतीमेव जुहूषता समयेन । मदनः प्रथमाहुतिर्वि(?)तेने तमुपासे यमिनामुपासनीयम् ॥ २॥ तरुणेन्दुकलाकलापिनं समयोन्मीलितमल्लिकारुचिम् । स्मितचारुकराननाम्बुजं शिवयाश्लिष्टतनुं शिवं भजे ॥ ३॥ अतसूकृतकामकारुणी सुतनूभावितवामविग्रहम् । शरणां करवाणि शङ्करं किमपि ज्योतिरहं शिवङ्करम् ॥ ४॥ कुसुमायुधकोपितोऽपि योऽलं दयया तस्य तनुं ददौ प्रियायै । अखिलार्तिहरं हरं विना तं कतमं देवमिहाभिराध्नुयामः ॥ ५॥ मदनं दहतापि कान्तया कवलीकारयता कलेबरम् । अनुरागि जगद्विरागि वा भवता शङ्कर विप्रलभ्यते ॥ ६॥ अविषह्यतमेन ताम्यतां भवरोगेण परं भिषज्यताम् । शिवतातिमसी वयं विभो श‍ृणुमस्त्वा भिषजां भिषक्तमम् ॥ ७॥ क्वचिदेकपदे रसज्ञया परिकृष्ये परतोऽपि चक्षुषा । क्वचन श्रवसा बलीयसा तव शम्भो किमुदासितुं क्षमम् ॥ ८॥ अवरोद्धुमिदं न शक्नुमो विषयाशीविषसङ्गि मानसम् । अपि रोद्धुमुदग्रचापलं बत शम्भो करवाम किं कथम् ॥ ९॥ कृपणा बहवोऽनुकम्पिताः किल शम्भो शतशोऽपि मादृशाः । न च मामतिदीनमीक्षसे कतमे ते करुणापदं जनाः ॥ १०॥ अपराधशतेऽपि चार्थनामपरामाः कतमामयञ्जनः कृपणो गिरिशावलम्बतां कृपयैवानुगृहाण केवलम् ॥ ११॥ कृपणं कृपयावलोकसे विलपन्तं यदि नाथ नातुरम् । क्वनु यामि वदामि किन्नुवा विधिपाकेन विभो निराकृतः ॥ १२॥ ननु दीनदयावशंवदो गिरिश त्वं परिगीयसे बुधैः । अवलोकय लोचनाञ्चलैरगतिं मामनुकम्पयाखिलैः ॥ १३॥ समयं प्रतिपालयन्ति ते शमयन्तो मलमात्मनोऽमराः । भगवन् कृमिकः कियानहं न दया ते यदि दीनवत्सला ॥ १४॥ भवतेऽखिललोकबन्धवे भगवन्न स्पृहयेत को नु वा । निपुणं परिमृश्य निर्गतिं कृपणं मां कृपयाऽवलोकय ॥ १५॥ अनु ... विति संविभाव्यते न मयैकेन भवानुमापते । शमयञ्जगतीतमोततिं सविता न ह्यनु किञ्चिदश्वति ॥ १६॥ उदितारुणकोटिरोचिषं न हि पश्यामि भवन्तमीश किम् । अथवा कथमन्धलोचनो जगतीचक्षुरुदीतमीक्षताम् ॥ १७॥ अधुनापि विचीयते पदं तव शम्भो शिव सम्पदां पदम् । विबुधैरपि वेदमौलिषु स्मरतादस्य कथन्नु मादृशः ॥ १८॥ प्रयते परिणाहिचेतसा पदवीमेष दवीयसीमपि । अधिगन्तुमयुग्मनेत्र ते विषमं पश्य विमोहयन्त्रणम् ॥ १९॥ मम धावयति स्मरो मतिं मृगयावीव मृगीमनुद्रवन् । परिचारचितास्मि ते कदा पदयोरीश्वर तामनागसम् ॥ २०॥ मतिमीश मम त्वदाश्रयां स्मरतेचापकृतं स्मरेण ते । असतीमिव विप्रलुम्पनात् त्वदलीकाक्षि पुनश्च तृप्यतु ॥ २१॥ रतिराश्रयते भवत्पदं मतिरन्वेति मनो ममापि ताम् । अपुनःश्लथसङ्गमं तया लभतामीश भवानिवोमया ॥ २२॥ तव पादनखेन्दुमण्डलीमवतंसीयति मय्युमापते । सकलाय दया विसृत्वरी शिवभावाय सुरापगायताम् ॥ २३॥ न विधातरवैमि ते विधां वरिवस्यानुविधौ जडाशयः । दययैव तथापि पाहि मामुदवाहा इव शुष्यदोषधिम् ॥ २४॥ दयसे भजतः स्वतो विभो किमु दैन्येन ममाभिचोदितः । नवचन्दनमेव शीतलं ननु कीदृग्घनसारलोलितम् ॥ २५॥ अनधीतभवत्पदाम्बुजान् अनवेतत्वदुपासनाविधीन् । यदि रक्षसि नाम रक्षिता शिव के कर्मकरं न विभ्रति ॥ २६॥ अभिषिञ्च दयारसैर्विभो भवदाहज्वलनो न मां दहेत् । अमृतैरपि किं प्रसेचिते भसितीभूतरसालपोतकैः ॥ २७॥ यदि नाम तवानुपासिता दयनीयो न भवामि नाथ ते । अनपेक्षितसेवमम्बुदं जगदुञ्जीवनमेष किं ब्रुवे ॥ २८॥ विभवत्युचितं दशाननो वरिवस्यञ्जगतामधीश्वरम् । उदकृन्तदयं शिरो निजं करुणोऽपीश परं तदैक्षथाः ॥ २९॥ मिषितेऽपि नहि प्रभूयते जगता येन शिव त्वया विना । सनिसर्गसुहृच्चमात्मना सदृशं ते मम यत्प्रसीदति ॥ ३०॥ शिव सत्प्रवणाप्यतन्न मामनुकम्पा तव हातुमर्हति । नहि नन्दितचन्द्रशालया विपिनं चन्द्रिका विहीयते ॥ ३१॥ सुकृतस्वकृतेन कर्मणा भगवन्निर्वृणुतेऽपुनर्भवाः । अनुगृह्य सुदीनमाशु मामनुकम्पा सफलायतां तव ॥ ३२॥ यदि नाम यथापुरं विभो परिखिद्येय भवाम्बुसम्प्लवे । प्रकृति करुणामृदीयसीमनुतप्तासि तवैव दुःस्थितिम् ॥ ३३॥ व्यसनात्मकमीश मास्महन् व्यसनं मां विषमेव वा विषम् । करुणं बत वर्तयिष्यते करुणा दीनपराङ्मुखस्य ते ॥ ३४॥ विधिदुर्ललितैरये विभो विविधाधिग्रहनिर्गृहीतधीः । विवशोऽहमुवाच दुर्वचं यदुपालम्भमदः क्षमस्व मे ॥ ३५॥ कमुपालभतामयञ्जनः करुणात्मन्नसुखावसादितः । अयि दीनजनानुसारिणी करुणा मृद्वितमा तवैव चेत ॥ ३६॥ न भवन्तमुपलभे विभो मम दैन्यन्तु निवेदयामि ते । परिपाककटू रुजा निजा न निवेद्या भिषजे किमातुरैः ॥ ३७॥ शरणागतवत्सलोऽसि किं शमिताशेषशिवेतरोऽसि किम् । अनुनाथ कथा कदर्थना न विषह्येत कथं त्वया विभो ॥ ३८॥ अयि नाथ भवानुपेक्षते भजमानं निजतन्त्रवेष्टितः । मम च त्वयि रूढसङ्गतं हृदयं सीदति हा करोमि किम् ॥ ३९॥ अयि नाथ भवानीश्वरो जगतीपूजनया जडीकृतः । शरणं कमुपैम्यहं पुनस्त्वदृते हन्त जगन्निरीश्वरम् ॥ ४०॥ अभियामि यदन्यमीश्वरं विजहत्त्वा जगतीपरायणम् । कनकं परिहृत्य बालिशः कटकीयामि विभो न किन्तमाम् ॥ ४१॥ व्यसनैरुपतापिना मया न चिरं क्रीडितुमीश ते क्षमम् । परिखेलति हन्त जम्बुको व्यथते किन्तु कुलीरजीवितम् ॥ ४२॥ असुखानि चिरं चिकीर्षता विधिना मे विपरीतवर्तिना । करुणारसकोमलं विभो हृदयं किं तव कर्कशीकृतम् ॥ ४३॥ यदनन्यगतीनुपेक्षसे विषमाक्षाखिलकामदोऽपि सन् । परितापजुषोऽपि मादृशः तदभव्यं तव दुश्श्रवं मम ॥ ४४॥ अवितुर्ज्जगतामयं जनः किमितीशान भरायते तव । अपचातकमम्बुदावलिर्नहि तापोपशमाय वर्षति ॥ ४५॥ समयन् स्वयमैन्दवीं कलामपि कङ्कालमलङ्क्रियाविधौ । अशुचिं परिहर्तुमीहते कथमीशान भवानिमं जनम् ॥ ४६॥ अवतंसयसी निम्नगामपि हालाहलतापशान्तये । अतिहालहलाधिशान्तये मम चापीडय पाद्यमम्बु ते ॥ ४७॥ अभिवन्दितुमैन्दवीं कलामहमी हेभवतावतंसिताम् । अयि नाथ भवार्कतापितं हृदयं शीतलयिष्यते तया ॥ ४८॥ दशमी भगवद्दशा पुरा किल मामाविरुदेति दुःसहा । अधुनैव ममावलम्बतामभयं ते हृदयं पदाम्बुजम् ॥ ४९॥ अमृतस्रुति पादपङ्कजे तव शम्भो न परं स्वदे ततः । स्वदते न हि काशकोरको मकरन्दस्रुति पङ्कजेऽलिने ॥ ५०॥ अपि दुर्लभमीश मानसं न भवन्तं मम हातुमीहते । न हि कामपरो मनोहरे मनुते लाभमलाभमेव वा ॥ ५१॥ भगवन्भवगोचरेऽपि मे धिषणा त्वत्पदपद्मकाम्यति ॥ असितासु तमीषु लिप्सते न चकोरी किमु चारुकौमुदीम् ॥ ५२॥ सकृदप्यवभाहि मानसे ममाच व्येतु भवाधिसम्प्लवः ॥ मिहिरे हि नभस्युदित्वरे तिमिरं सत्वरमेव शाम्यतिः ॥ ५३॥ भगवन्नवधीरितस्त्वया परिगृह्येय परेण केन वा । न हि मातुरसम्मतो जनो भजति ग्रामजनस्य सम्मतिम् ॥ ५४॥ ननु भूसलिलानलानिलद्युशशाङ्कारुणसोमपाकृतिम् । भुवनं परिभासि भूतये जगतामेव भवद्विभूतयः ॥ ५५॥ त्वदधीनमिदं यदस्ति मे तव चाहं परमेश योऽस्म्यहम् । शरमेवमुमापते मम प्रणतं मां परिपालय प्रभो ॥ ५६॥ जननी जनकस्त्वमेव में गुरुराराध्यतमश्च दैवतम् । शरणं परमं परा गतिः शिवः सर्वस्वमपि त्वमेव मे ॥ ५७॥ अहिमांशुकलावतंसकैः अनलीकाञ्चित दिव्यलोचनैः । अमरैरवरैरुपासितैरनुमाजीवितवल्लभैरलम् ॥ ५८॥ यदि ते पदपङ्कजं नमन् यदि वा नाम सदाम वालपन् । यदि मङ्गलविग्रहं स्मरन् भव भूयासमहं भवे भवे ॥ ५९॥ विहिताञ्जलिसम्पुटेन मूर्ध्ना विगलद्बाष्पकला कुलेन चाक्ष्णा । वपुषा पुलकाञ्चितेन शम्भो भजतस्त्वामभिपद्यतां ममायुः ॥ ६०॥ इति भक्तिविवर्धनस्तवं यः पठति श्रीशिवसन्निधौ यतात्मा । दुरितानि विधूय दूरतोऽसौ सकलं मङ्गलमश्नुते सदैव ॥ ६१॥ श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना । कृष्णानन्देन रचितः स्तवो भक्तिविवर्धनः ॥ कृष्णानन्दकृतिषु भक्तिविवर्धनस्तवः सम्पूर्णः ॥ Proofread by Rajesh Thyagarajan
% Text title            : Bhaktivivardhana Stava
% File name             : bhaktivivardhanastavaH.itx
% itxtitle              : bhaktivivardhanastavaH (shrIkRiShNAnandasarasvatIvirachitaH)
% engtitle              : bhaktivivardhanastavaH
% Category              : shiva, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Krishnananda Saraswati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minor works of Shri Krishnananda Saraswati
% Indexextra            : (Scan)
% Latest update         : November 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org