उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम्

उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम्

प्रथमा पद्धतिः । काव्यमुखम्

कल्याणमाहवतु वः शिवयोस्तदेकं गात्रं यदीयमसितच्छवि कण्ठमूलम् । वामेतरेऽपि कुरुते सितभासि भागे प्रारब्धशैलतनयापरिणामशङ्काम् ॥ १॥ कार्श्यं क्षिणोतु भवतां परमेश्वरस्य भिक्षाटनं तदनुसंहितदेहिशब्दम् । यन्मानिनामपि विधेर्विपरीतभावे याच्ञोक्तिदैन्यसहमेव मनश्चकार ॥ २॥ सद्यस्तुषारगिरिजौषधिसेवयैव यः स्वोपयुक्तगरलं शमयाञ्चकार । अन्यैरशक्यशमनाज्जननामयाद्वः पायादपायनिलयादयमादिवैद्यः ॥ ३॥ नित्यं करोतु भगवान्स करीन्द्रवक्त्रः प्रारभ्यमाणशुभकर्मविघातलोपम् । दोषानुषङ्गरहितः स शिवोऽपि यस्य भृङ्गेषु गण्डतलचुम्बिषु साभ्यसूयः ॥ ४॥ वाल्मीकिरस्तु विजयी प्रथमः कवीनां तस्यानुसारसरलः स च कालिदासः । अन्ये भवन्तु जयिनः कवयोऽथ मा वा एषां कृतः कृतिषु नैव मयावगाहः ॥ ५॥ सन्त्येव सूक्तिरसिका बहवो मनुष्याः स्वर्गौकसो नवसुधारसनिर्वृताश्च । तौ दुर्लभौ कविवचःस्खलितस्य सोढा मर्त्येषु सागरगरस्य च यः सुरेषु ॥ ६॥ भूयानसत्कविजनो जगतीति खेदा- न्मौनग्रहः सुकविभिर्न कदापि कार्यः । काकै रसस्य निनिदैर्निचितेऽपि लोके किं कोकिला विदयते नहि कूजितानि ॥ ७॥ दुर्दान्तदुर्जनचिते भुवने नराणां प्रायो वरं विकलतैव कलोपपत्तेः । राहुग्रहेण न कदापि कलाविहीनः पूर्णस्तु हन्त परिभूयत एव चन्द्रः ॥ ८॥ एकेन सूक्तिमणिना हृदयङ्गमेन प्राज्ञस्य सत्कविपदं कुरवि(?)प्रयाति । वक्षोगतेन मणिनेव परस्य पुंसो रत्नाकरत्वगणना लवणार्णवस्य ॥ ९॥ नापेक्षते महदपि प्रथमानदोषं निर्दोषमल्पमपि नन्दति वस्तु लोकः । मूर्ध्ना बिभर्ति कृशमप्यनिशं सुधांशुं शम्भुः कलङ्कर(स)हितं न तु पूर्णबिम्बम् ॥ १०॥ सर्वे खलास्तिलकयन्तु चिराय पृथ्वीं सत्सम्भवो बहु मतः सुजनेषु हेतुः । घोरेषु घर्मदिवसेष्वतिलङ्घितेषु छायाद्रुमान्मृगयते नहि कोऽपि मर्त्यः ॥ ११॥ सन्तः क्षतानि जनयन्तु यथेष्टमस्या- माभाति तैरधिकमेव सरस्वती मे । दन्तक्षतं प्रियतमैरुपभोगकाले किं मण्डनाय न भवेद्वरसुन्दरीणाम् ॥ १२॥ सन्त्येव केऽप्यमितवाङ्मयदुर्विदग्धा- स्तेषां पुरः सुकविभिः स्वगिरः प्रकाश्याः । तेजस्यति प्रवितते सति तिग्मरश्मे- र्मुञ्चन्ति केचिदुपला निजमल्पतेजः ॥ १३॥ भूत्वा चिरेण गमिताः कति नाम सन्तः पृथ्वीश्वराश्च कति नाम तथेतरेऽपि । अद्यापि कीर्तिवपुषा कवयः पृथिव्यां जीवन्ति तेष्वभिहितस्तुतयोऽथवा तैः ॥ १४॥ मा मा परत्र विषये विषमेक्षणे मे तस्मिन्सदा भवतु हीनगुणापि वाणी । यो मूर्ध्नि मुग्धहृदयो जनगर्हणीयां धत्ते सुधांशुकलयैव सहास्थिमालाम् ॥ १५॥ आकर्णयन्तु मम सूक्तिवेदः प्रबन्धं तैर्नन्द्यतां पुनरयं खलु निन्द्यतां वा । आकर्णगोचरतयैव भवेद्गरीया- नस्माकमस्तु सफलो रचनाप्रयासः ॥ १६॥ वृत्तं वसन्ततिलकं विषयस्य जीव- भिक्षाटनं कविरसौ शिवभक्तदासः । श‍ृङ्गार एव हि रसस्तदिह प्रबन्धे श्रद्धा न कस्य यदि सूक्तिविनोदशीलः ॥ १७॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये काव्यमुखपद्धतिः प्रथमा ।

द्वितीया पद्धतिः । मण्डणम्

भिक्षाटनेन पुरुहूतपुराङ्गनाना- माकस्मिकोत्सवविधायिनि भूतनाथे । तासामनङ्गशरजर्जरमानसानां नानाविधानि चरितानि वयं वदामः ॥ १॥ रथ्यागतस्य गिरिशस्य विलोकनाय निर्गन्तुकाममनसो(?)वनितागृहेभ्यः । नैजाभिरूप्यगुणदर्शितपौनरुक्त्य- माचार इत्यभिमतं परिकर्म चक्रुः ॥ २॥ चन्द्रस्य सञ्चितकलस्य शरत्प्रसादो गन्धद्विपस्य च पुनर्मदिरोपयोगः । प्रागेव यौवनपरिष्करणे शरीरे भूरोऽपि भूषणविधिः प्रमदाजनस्य ॥ ३॥ लाक्षान्निय(मस्)तुमवलम्बितमात्र एव सख्या करेण तरुणाम्बुजकोमलेन । ईशान्तिकव्रजविघ्नभुवा रुषेव कस्याश्चिदग्रदमाशु बभूव रक्तम् ॥ ४॥ कस्याश्चिदग्रपदमाशु सखी विधाय लाक्षाक्र(क्त)मेकमारग्रहणे प्रसक्ते । आरञ्जितेतरविवेकमपारयन्ती कर्तुं मुहूर्तमनयोः स्तिमितावतस्थे ॥ ५॥ कस्याश्चिता(दा)यतदृशश्चरणारविन्दे नैपथ्यकर्मनिपुणेन सखीजनेन । आमुक्तमेव मणिनूपुरमुन्मदस्य मुक्तक्षणेन निगलो मदनद्विपस्य ॥ ६॥ काचिद्गतित्वरणलुप्तमतिश्चकार चूडामणिं चरण एव चकोरदृष्टिः । यः स्थापयत्यसम एव पदे स्वमूर्ध्ना सम्भाव्यमस्य किमहो न जनस्य हास्यम् ॥ ७॥ उद्दामदामकरचापविकल्पमौष्टिं पुंवर्गचित्तमृगवञ्चनमार्गरज्जुम् । काञ्ची मदीयवलयान्न बहिः पुमर्थ इत्यूचि(चु)षी कलरवेण बबन्ध काचित् ॥ ८॥ तां दिव्यसिन्धुपुलिनाकृतिभाजि काचि- त्काञ्चीं नितम्बफलके कलयाञ्चकार । उत्तीर्णभीमजननाम्बुधयोऽपि मुक्ता यामाश्रिता जघनसङ्गमकौतुकेन ॥ ९॥ मुक्तेरपि प्रियतमाजघनोपभोगः श्रेयान्न मृग्यमिह वस्तुनि नः प्रमाणम् । तत्पश्यतायतदृशा रशनाकलापे मुक्ता अपि स्वयमहो पुनरेव बद्धाः ॥ १०॥ पीनस्तनद्वितयधारणकर्शितस्य मध्यस्य मण्डनविधीन्न चकार काचित् । निःशङ्कमन्यभरनिर्वहणैकजाता- त्कार्श्यात्परं न खलु भूषणमस्ति किञ्चित् ॥ ११॥ हारेण च स्तनयुगं परिभूष्य पीन- मत्यायतं च जघनं रशनागुणेन । मध्यस्तु हन्त न कयापि विभूषितोऽभू- द्रिक्तिः सतां हि रविनैव हि माननीयः ॥ १२॥ पङ्कोद्भवत्वपरिवादभयान्मृगाक्ष्या जातं सरोजयुगलं कुचवेशधारी । शक्यं न धातृविहितं परिहर्तुमस्य भूयोऽपि येन घनचन्दनपङ्कलेपः ॥ १३॥ तस्मानि(दत्तानि)शङ्खवलयानि करे कयाचि- त्तानीन्दुखण्डघटितानि ममैष तर्कः । यस्या निसर्गमृदुपाणिसरोजमेषा- मामोचने झटिति यन्मुकुलीबभूव ॥ १४॥ एकावलीकलितमौक्तिककैतवेन कस्याश्चिदुन्नतपयोधरयुग्मसेवाम् । चक्रुर्मनांसि यमिनामतिनिर्मलानि कन्दर्पमुक्तशरपातकृतान्तराणि ॥ १५॥ दास्यामि हारहरिचन्दनकुङ्कुमानि दाक्ष्यं यदा हरवशीकरणं तदा ते । इत्यात्मनः स्तनमुपांशु निगद्य काचि- त्सर्वेतराङ्गपरिकर्मविधिं चकार ॥ १६॥ नूनं विदग्धजनकृत्यमतर्क्यपाकं लाक्षारसप्रणयिना वनिताजनेन । कस्याश्चिदोष्ठपुट एव कृतः समस्तं यूनां मनः सपदि लम्भितरागमासीत् ॥ १७॥ काचित्स्वकीयदशनानि विशोधयन्ती बिम्बाधरोष्ठरुचिसङ्गमपाटलानि । आदर्श एव परिवारजनोपनीते दृष्ट्वा न जात्वपि पुनर्विरराम रामा ॥ १८॥ प्रागेव मोहनमथाञ्जनयोजनेन चक्रे तथा मृगदृशो नयनं सखीभिः । पश्यन्यथा युवजनो गलमीश्वरस्य निःशेषलुप्तगरलं गणयेदशेषः ॥ १९॥ साम्ये मिथः स्थितवतोऽभ्युपने(?)नराणां वैषम्यबुद्धिरुभयोः समदर्शनेन । इत्याकलय्य किल कापि विलोचनान्ते कर्णद्वये गलितमुत्पलमाततान ॥ २०॥ नामार्द्रचन्दनरसेन सखीललाटे लेखां मदालसदृशो विदधे विदग्धा । यां वीक्ष्य शम्भुरपि मुग्धजटाशशाङ्के शङ्काकुलीकृतमनाः स्वकरं चकार ॥ २१॥ मा जातु राहुपरिभूतिरतर्क्ययोगा- न्मा भूत्क्षयः किमपि मा च कलङ्कयोगः । कस्याश्चिदेवमभिधाय मुखेन्दुबिम्बं रक्षामयं तिलकमाप्तजनश्चकार ॥ २२॥ कस्याश्चन प्रचुरकेशभरे जलार्द्रे जाड्यास्पदं तरुणवर्गमनो बभूव । कालेयधूपजुषु(षि)धूपितमात्तपुष्पे पुष्पाविद्धमथमङ्घ्री(?)निबद्धमेव ॥ २३॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये मण्डणपद्धतिद्वितीया ।

तृतीया पद्धतिः । मण्डनप्रतिषेधः

नारीषु निर्गमनमण्डनतत्परासु सख्योपचारसगुणो(णा)र्थमनोहराणि । ईशावलोकनमुहूर्तनिरोधभीत्या प्रारब्धमण्डननिषेधफलान्यवोचन् ॥ १॥ अर्काभिमुख्यसलिलस्थितिसाधनानि रक्ताम्बुजस्य फलितान्यधुना तपांसः(सि) । यद्भीरु तस्य परिभूतिकरं पदं ते लाक्षारसान्तरितरागमिदं करोषि ॥ २॥ गन्तुं परैरविदितं यदि शम्भुपार्श्वे वाञ्छा किमालि रणता नवनूपुरेण । कर्तुं हरस्य चरितान्यमिलाषवद्भिः प्रारम्भ एव पिशुनः परिवर्जनीयः ॥ ३॥ मा विश्वसः सखि कलां मणिमेखलां तां क्षौमस्य यद्यभिमतं परिरक्षणं ते । यावं हितापि दृढबन्धमिहाप्रयत्ना- ज्जायेत बन्धविमुखी पुरतः पुरारेः ॥ ४॥ यानि व्यथन्ति विरहे विरलं न याति(न्ति) योगे हरेण वलयैः सखि किं फलं ते । नैवास्ति यैर्वियदि चा(सम्)पदि चोपयोगे(गस्) तैः सङ्गमं न खलु वाह(ञ्छ)ति कोऽपि मर्त्यः ॥ ५॥ विस्तारिणी(णि)स्तनतटे हरिचन्दनं ते लज्जावहं किमनु लिम्पति कातराक्षि । सम्भोगसङ्क्रमितकान्त . . रा . . दन्तःप्रवृद्धफलकौषधिलेपकल्पम् ॥ ६॥ मध्यः कृशो विधिवशेन समर्पितोऽयं तस्योपरि स्तनभरो नवयौवनेन । भूयोऽपि हारमभिवाञ्छसि तत्र वोढु- मेकस्य भङ्गकरणे बहवः प्रवृत्ताः ॥ ७॥ बध्नासि दग्धमणिनूपुरमङ्घ्रीयुग्मे कस्मै फलाय यदि निर्गमनेऽभिलाषः । एणीदृशा दृ(शो द्रुं)तगतेः प्रतिबद्ध(न्ध)भावे नास्ति ध्रुवं निगलनूपुरयोर्विशेषः ॥ ८॥ भस्मव लिम्प कुचयोः सखि रक्षणार्थं मध्यावलोपनतया यदिमौ सुदुःस्थौ । हारेण किं किमथवा नवकुङ्कुमेन लब्ध्वात्मनः खलु पुनः परिकर्मवाञ्छा(म्) ॥ ९॥ मा चन्दनेन कुचयोः कुरु पत्त्रभङ्गं लब्ध्वा दृशोरनुमतिं स तु कल्पितव्यः । यादृच्छिकप्रणयिना विरहे हरेण नेत्रद्वयात्तव पतिष्यति बाष्पपूरः ॥ १०॥ पर्याप्तयौवनकृतोन्नतिशालिनौ ते मा त्वं तिरस्कुरु कुचौ नवकुङ्कुमेन । स्तोकोद्गमं मनसि कश्चिरमाशशंसे जेतुं ययोः पशुपतिं निजपूर्वशत्रुम् ॥ ११॥ आजन्मपाटलरुचावधरे तदीये रागोऽपरः पुनरयं सखि दूषणाय । जातास्य रत्नशकलस्य कृतोऽपि दक्षै- रर्घक्षयाय नवकृत्रिमरागयोगः ॥ १२॥ मा कज्जलेन मलिनीकुरु लोचनान्ते यद्यस्तदुक्तिमवमन्य तथा कियन्त । चन्द्रश्चिराय वदनेन तवाभिवाञ्छ- न्साम्यं लभेत सखि हन्त मलीमसोऽपि ॥ १३॥ स्निग्धापि न प्रणयि चेत्तव नेत्रमन्य- म(द)न्यस्य मा भवतु संस्करणप्रयासः । आकल्पितादपि तयोः सखि केवलस्य जानातु कान्तिमखिलामखिलोऽपि लोकः ॥ १४॥ पर्याप्तदीर्घनयनोत्पलभूरितं(षिते)ते कर्णे कुतः सखि नबोत्पलमादधासि । यद्यन्यथा(दा)भरणमिच्छसि कर्णयोस्ते पथ्योक्तय(यः)श्रवणभूषणतां लभन्ताम् ॥ १५॥ आदर्शमाशु सखि मुञ्चतु वापराधं कस्त्वां विनापि मलिनाशयमाश्रयेत । छायां प्रदृश्य सततं तव योऽद्य रूपे निर्द्वन्द्ववादमधुना शिथिलीचकार ॥ १६॥ केयूरनूपुरशिखामणिपारिहार्य- हारादिभिः किमबले श‍ृणु सङ्ग्रहोक्तिम् । भूषा त्रपा मृगदृशः शुचि सम्प्रदायि पुंसः श्रुतं यदवरं परमङ्गभारः ॥ १७॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये मण्डनप्रतिषेधपद्धतिस्तृतीया ।

चतुर्थी पद्धतिः । निर्गमनम्

प्रेमोत्तरैः प्रियसखीवचनैरलङ्घ्यै- रुत्तीर्य मण्डनविधानधुरं क(थं)चित् । वीथीसमागतवृषाङ्कविलोकनाय निर्जग्मुरायतदृशो निजमन्दिरेभ्यः ॥ १॥ काचित्पदाग्रगलितेन गृहात्प्रयाती लाक्षारसेन पदवीमरुणीचकार । सा च क्षणेन सरणीश्चरणाग्रमस्याः कस्योपकर्तुमुपकर्तरि नैव वाञ्छा ॥ २॥ कस्याश्चिदात्तरभसे गमने प्रवृत्ते काञ्ची पपात पदयोः करुणं क्वणन्ती । मध्यव्यपायगणनव्यथयेव कर्तुं विच्छित्तिमाशु गमनोद्यमसाहसस्य ॥ ३॥ किञ्चिद्विलम्बितभरेण पयोधरस्य तूर्णं गतास्वपि सखीषु हरोपकण्ठम् । तादृग्विधस्तनविजृम्भणमूलमेषा सर्वार्थनीयमपि मध्यवयो निनिन्द ॥ ४॥ कृच्छ्रेण कापि गुरुणैव जनेन रोध- मुल्लङ्घ्य शङ्करसमीपनभिप्रतस्थे । हा हन्त शीघ्रगमनप्रतिरोधहेतु- स्तस्यां पुनः स्तनभरोऽपि गुरुर्बभूव ॥ ५॥ काचिन्निवारितबहिर्गमना जनन्या द्रष्टुं हरं भवनजालकमाससाद । तत्या विलोपनमदृश्यत दाशयत्न- यत्नोपरुद्धशफरोपमितं क्षणेन ॥ ६॥ कृत्वा मसीमलिनमीक्षणमेकमेका वैकल्पभूषणमथ्यान्यदियाय रथ्याम् । किं नैव जैत्रमनवो(यो)र्मदनास्त्रमेकं दग्धं विषेण यदि रूढकलङ्कमन्यत् ॥ ७॥ ईशावलोकनकुतूहलमश्रुलेशै- र्वाचं विनैव जननीं प्रति काचिदूचे । तस्यास्तथैव विदधे गमनाभ्यनुज्ञां मातापि पाणिवलयापलयच्छलेन ॥ ८॥ धात्रीमुहूर्तविनिवारितनिर्गमाया बाष्पस्मितद्वितयलब्धविरुद्धयोगम् । कस्याश्चिदाननमशान्तिहिमाम्बुजालं प्रत्यूषपङ्कजमिव क्षणमाबभासे ॥ ९॥ भूषाविधावपि निवृत्तमनाः स्वकीये शम्भोः समीपगमनत्वरयैव काचित् । भूषोद्यतां प्रियसखीं परिपाल्य तस्थौ स्निग्धं तिरात्मनि सखीष्विव हन्त नार्या ॥ १० (स्निह्यन्ति नात्मनि सखीष्विव हन्त नार्या) ॥ १०॥ प्रारब्धमात्रकलजल्पितशिक्षणेन वामप्रकोष्ठवलयावलिसंश्रितेन । काचित्ससम्भ्रममुमापतिवीक्षणाय क्रीडाशुकेन सह राजपथं प्रतस्थे ॥ ११॥ प्रस्थानसम्भ्रमवशाद्गलितालकाया लग्नाङ्घ्रियावकरसे पथि शोणरूपैः । धम्मिल्लपुष्पनिवहो हृदये प्रविष्ट- रक्ताक्तमारविशिखाश्रियमाततान ॥ १२॥ आ(अ)स्थानगाम(मि)भिरलङ्करणैरुपेता भूयः परिच्छलननिह्नुतिरप्रसन्ना । वाणीव कापि कुकवेर्मधुपानमत्ता वेवा(गा)न्निपातबहुलैव विनिर्जगाम ॥ १३॥ वेगप्रयाणसमये चलितालकेभ्यः पुष्पैरथो निपतितैरपरा विरेजे । ईशोपकण्ठगमनप्रणयस्य पूजां कर्तुं निजाङ्घ्रियुगलस्य कृतोद्यमेव ॥ १४॥ याने गृहाद्बहिरुपान्तजनेन रुद्धे रोषारुणं सपदि सम्भृतबाष्पपूरम् । कस्याश्चिदीक्षणयुगं विदधे हुताश- निष्टप्तदत्तसलिलस्मरशास्त्रशङ्काम् ॥ १५॥ त्रुट्यद्गुणेन निजवृत्तपरिच्युतेन सङ्क्रान्तभूरिरजसा हतकन्तुकेन । व्याकुर्वता युवतिवश्यदशां नराणां काचिद्विहाय विहृतिं हरमाससाद ॥ १६॥ नेत्रं विधाय धृतकज्जलमेकत(म)स्या मात्रा परस्य करणेऽपि तथा प्रवृत्ते । काचिद्भवान्तिकगतित्वरितप्रवृत्तै- र्बाष्पैः कृतार्थमपि तेन समीचकार ॥ १७॥ त्याज्या सखि द्रुतगतिः कचधारकोऽयं संशय्यतां तव यया समयाति(?)मध्यः । लोके सुदुर्लभततो गुणवान्कृशोऽपि यः कल्पतेऽन्यभरनिर्वहणोत्सवाय ॥ १८॥ अप्युत्तरांशुकमिदं हरितप्रयाणौ पीनस्तना क्षिपति चेल्लघुभारभीत्या । वोढुं क्षमा भवसि तत्र निषेदुसीनां(षीणां) भारं पुनस्तरुणचित्तपरम्पराणाम् ॥ १९॥ यत्नान्मयैव विहितं तिलक ललाटे घर्माम्बुना विलुलितं गतिसम्भ्रमेण । पत्त्रक्रिया च सखि ते कुचयोर्विलुप्ता व्यापत्तये भवति हन्त जले(डे)न योगः ॥ २०॥ कण्ठोत्पलान्नयनमाप गतिच्युतात्ते तन्मीलने मुखमयं न जहाति भृङ्गः । येनैनमद्य विनिवारयसि प्रमत्ते तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ॥ २१॥ गत्वा तथा त्रिचतुराणि पदानि तूर्णं गन्तुं पुनः सखि शनैरपि न क्षमासि । प्रायः स्वशक्तिमन(नि)रूप्य कृता प्रवृत्तिः शक्तिर्नि (शक्तिं नि)जामपि शरीरभृतां क्षिणोति ॥ २२॥ लाक्षारुणैः सपदि विश्लथकेशपुष्पै- र्भ्रष्टैरशोभत परं पदवी परस्याः । आशम्भुदर्शनमनुद्रवत स्मरस्य बाणैर्विभिन्नहृदयैरिव शोणितार्द्रैः ॥ २३॥ स्विद्यल्ललाटमधिकाकुलितालकान्तं काचित्स्त(त्त)तस्तनपयोधररुग्णमध्यम् । दोलाछलेन रतिशी(शि)क्षणमाचरन्ती हित्वा तदाशु हरपार्श्वभुवं जगाम ॥ २४॥ काचिद्विहृत्य किल कन्तुककेलिरङ्गा- द्भूरेणुरूषिततनुर्निरगान्मृगाक्षी । उत्फुल्लपङ्कजवनेषु चिरं चरित्वा किञ्जल्करेणुपरिधूसरितेव लक्ष्मीः ॥ २५॥ यान्ती हरं प्रति शशाङ्कमुखी कराग्र- लाक्षारसैररुणितां पदवीं चकार । सा च क्षणेन पदवीपथमन्मथस्याः(?) किं नोपकारिणि भवेदुपकारवाञ्छा ॥ २६॥ पूर्वं द्विरेफपरिभूतिभयाद्भवत्या यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् । व्यर्थं तदद्य पुनरप्यलकेषु भृङ्गाः पुञ्जीभवन्ति बकुलभ्रमतः पतन्ति ॥ २७॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य निर्गमनपद्धतिश्चतुर्थी ।

पञ्चमी पद्धतिः । निर्गमनम्

यत्रागतिः पशुपतेर्नगरप्रवेशे तत्रैव धावनपरस्य वधूजनस्य । सञ्जल्पितानि पथि यानि मिथो बभूवु- रेतानि सन्तु रसिकश्रुतिपारणाय ॥ १॥ पादाम्बुजं सखि तवेदमियं धरित्री सद्यः परागपरिधूसरितं विधाय । पद्मेन शोच्यजननेन समीकरोति सत्यं भवत्यसमसाम्यकरस्त्रिसङ्गः ॥ २॥ मामप्यपेतकरुणे परिपाल्य याहि शम्भुं विलोकयितुमुत्सुकतामतीव । पत्न्यां विलासगमनं न परत्वयातं हंस्या गती विधति पक्षतिसाधिता च ॥ ३॥ हारो न(न्व)यं कुचभरे निहितो भवत्या प्रस्थानसञ्चरितया तदतीव भद्रम् । आलिङ्गनं यदि करिष्यसि भूतभर्तु- र्माद्र(भूत्)त्वदीयदृढमौक्तिकमर्मतोदः ॥ ४॥ मञ्जीरमालि चरणाश्रितमेतदेता- वाहूय मञ्जुनिनदैर्गमने त्वदीये । वाञ्छा तवात्तव मदालसया न चौर्ये चोरायते ग्रहसरः कलहंसकानाम् ॥ ५॥ मुक्तावलीं करतले दयती स्वकण्ठे विस्तृत्य कर्तुमबले त्वमतीव भासि । मन्त्रेण साधयितुमात्मयतेः शरीरं वाञ्छावती रतिरिव स्फटिकाक्षमालाम् ॥ ६॥ मर्द्व्रर्नदीयस्य शरधिद्वयमस्तमूर्ते- र्जङ्घात्मना परिणतं तव यद्ध्रुवं तत् । नो चेत्कथं मदनवैरिसमीपयाने जङ्घायुतस्य गतिरालि विलम्बिनी ते ॥ ७॥ वामे पदे निहितमार्द्रमलक्तकं ते चान्यत्र यत्तदतिसुन्दरमेव मन्ये । येनाद्य लब्धनपरापरिकर्म साम्यं नारीविमिश्रवपुषः परमेश्वरस्य ॥ ८॥ किं चित्रमत्र जघनं परमुद्वहन्त्या मद्री(न्दी)भवन्ति यदि ते गतयो वराङ्गी(ङ्गि) । यद्वीक्षणेऽपि गतधैर्यगुणा युवानो गन्तुं मनागपि पुनर्नहि शक्नुवन्ति ॥ ९॥ शम्भोरवेक्षणमहोत्सव एव लप्स्ये नायाति शीघ्रमिदमालि पदाम्बुजं ते । ज्ञातं मम दृ(द्रु)तगतेश्च फलं प्रयत्ना- त्संलप्स्यते नयनयुग्ममितीर्ष्य एव ॥ १०॥ विस्मृत्य यावकमकारि हरीन्द्र(रं दि)दृक्षो- र्नैवाधरे तव यमस्य(?)तदालि युक्तम् । आत्मोपयुक्तगरलौषधिपानकामः पास्यत्यवस्य(श्य)मधरामृतमिन्दुमौलिः ॥ ११॥ प्रागेव बन्धरुचिलोचनकान्तिचौर्ये (प्रागेव वन्द्यरुचिलोचनकान्तिचोरि) नीलोत्पलं यदकरोः सखि नाद्य कन्ये(?) । बुद्धिभ्रमादिदमभूदिति मा विषादः कस्तस्करं निजगृहाधिपतिं करोति ॥ १२॥ इन्दुर्मुखं कुचभरो गुरुरेव दत्तः शुक्लोऽधरश्च तव लोहित एव जातः । एवं गृहात्मवपुषः सखि तत्र चित्रं यत्पादयोरपि शनैश्चरता तयोस्ते ॥ १३॥ मा भूत्तवालि गिरिशस्य विलोकनाय यान्त्या न मण्डनमकारि मयेति लज्जा । धत्ते विलासिजनलोचनपेयमेत- न्निर्मक्षिकं मधु निराभरणं शरीरम् ॥ १४॥ मात्रैव ते गतिनिवारणमग्रतोऽभू- त्सद्यस्तदा परिहृतं सखि बाष्पपूरैः । शक्ता न गन्तुमधुनासि नितम्बभारा- द्दोषो निसर्गजनितः परिहारहीनः ॥ १५॥ हस्तस्थितां तु सखि ते नवपुष्पमालां मा विस्तृता शिरसि कर्तुमिति स्म खेदः । दृष्टे शिवे सपदि तस्य कुतूहलेन कर्णे निधातुमुचिता वरणोत्सवाय ॥ १६॥ त्याज्या सखि दृ(द्रु)तगतिः कुचभारतोऽयं संशय्यतां तव यया समुपेति मध्यः । अस्मिञ्जगत्यसुलभः सगुणादिरूढः कार्ये निजे भवति यः परधारणाय ॥ १७॥ नैष्पल्यशङ्करवशाज्जनभिर्हितोद्य (नूनं जनस्य न करोत्यवकाशदनं) यन्निर्मितौ शतधृतेरतिमात्रयत्नः । अस्य त्वदीक्षणयुगस्य विशालता सा साफल्यमेष्यति शिवस्य विलोकनेन ॥ १८॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये निर्गमनपद्धतिः पञ्चमी ।

षष्ठी पद्धतिः । दर्शनम्

नेत्रैर्मषीमलिनितैर्ददृशुस्तमेव रथ्यागतं शिवमयत्नत एव नार्यः । ज्ञानात्मकेन विमलेन विलोकनेन यद्वीक्षणाय हृदये यतयो यतन्ते ॥ १॥ गौरीकुचक्षपितभस्मनि कापि दृष्टिं चिक्षेप वक्षसि विभोरभिलाषगर्भाम् । तृष्णाग्रह(?)सुलभदुर्लभयोर्विवेके सृष्टास्ति सोऽप्ययमतीव च कापि मेने ॥ २॥ स्पन्दैरमन्दजनितैर्मुहुरेव यस्य संसूचितं झडिति शर्म भविष्यतीति । अन्यं निमील्य निबिडं मुदितैव काचि- द्वामेन तेन नयनेन शिवं ददर्श ॥ ३॥ न्यस्ता लिपिः शिरसि येन शरीरभाजां तस्याप्यजस्य हरपाणिभृते कपाले । दृष्ट्वाक्षराणि निपुणा द्रुहिणस्य कश्चि- देतान्यनेन लिखितानि किलेति मेने ॥ ४॥ वक्षःस्थलेऽतिमहति सरशासनस्य स्वस्मिन्पयोधरयुगे च विजृम्भमाणे । कस्याश्चिदीक्षणयुगं विदधे कहृत्त(?)- मानन्दशोकपिशुनानि गतानि तानि ॥ ५॥ आरादुदैक्षत तथा हरकण्ठमूल- माश्लेषकौतुकवशेन चिराय काचित् । तस्या यथा कलितकज्जलदृष्टिपातैः कल्मो(ल्मा)षितं तदति(?)पार्श्वजनस्य तर्कः ॥ ६॥ काचित्करेण मणिदर्पणमुद्वहन्ती तत्रावलोक्य गिरिशं प्रतिबिम्बलग्नम् । कण्ठे कथं मलिनमेति गतं गलस्थं मुग्धा मुहुर्मुकुर एव मुधा ममर्ज(ममार्ज) ॥ ७॥ कुम्भस्थलं कुचतटेन गतेन यान- मूर्वो युगेन च करं करिणो जहास । या पूर्वमद्य किल सा वसिते हरेण तस्यैव चर्मणि कुतूहलिनी बभूव ॥ ८॥ पूर्णेन्दुबिम्बतुलितेन मलेन काचि- त्प्रीतिं चकार हरहारमहोरगस्य । सा तस्य भीतिमपि भीतिनिवृत्तिकण्ठी सस्मार केशनिचयेन मयूरगङ्गीम् ॥ ९॥ कस्याश्चिदीक्षणमलोकविलासलोलं बिम्बौष्ठरक्तकुमुदे पदपाणिपद्मे । सस्ताव(प?)हारिणि हराख्यमहातटाके सद्यो निपत्य शफरायितमाचचार ॥ १०॥ आलोक्य लोकविपरीतममुष्य काचि- त्कङ्कालमंसशिखरे शितशूलबद्धम् । कोऽयं क्रमः प्रमहसामिति विस्मयेन नासानिवेशितकराङ्गुलिरेव तस्थौ ॥ ११॥ कस्याश्चिदायतदृशो हरकण्ठमूलं कण्ठग्रहोत्सुकतयैव विलोकयन्त्याः । त्रासावहस्तु न गरो न च हारसर्पो यत्पार्वतीवलयपङ्क्तिपदं तदेव ॥ १२॥ नेत्रद्वयेन हृतधीः करुणामयेन काचितृतीयमपि लोचनमीश्वरस्य । उन्मीलितं चिरनिमीलितमाचकाङ्क्षे सा तं न (तन्न)देवभुवनेन्धनवह्निगर्भम् ॥ १३॥ कान्त्या रतिर्भुजगहारतयैव भासा शोकश्च दुर्लभतया गरलेन भीतिः । केश्च(?)निर्दयतया च यदा कुलाक्ष्या नानारसास्पदमजायत शम्भुकण्ठः ॥ १४॥ अङ्गानि भीषणभुजङ्गविभूषणानि मत्वेतराणि नयनं विनिवर्ति(?)तेभ्यः । वक्रं स्मिताभरणमीशितुरीक्षमाणां बालां रुरोध सहसा प्रति नेत्रपात्रः ॥ १५॥ सन्ध्यानभःकपिशभासि विभोः कपर्दे काचिद्विलोक्य बुभुदे(बुधे)तुहिनस्य रेखाम् । स्रष्टुः कपालशकलावलिसाहचर्या- द्दंष्ट्रेव पोत्रिवपुषः पुरुषोत्तमस्य ॥ १६॥ शम्भोश्चिरं पदयुगे चिरमूरुकाण्डे मध्येचिरं चिरमुरस्यधरे तथैव । एवं मुहुः कृतपरिभ्रमणान्मृगाक्ष्या दृष्टिर्जगाम तृषितेव शिरःस्रवन्तीम् ॥ १७॥ गङ्गामवेक्ष्य गिरिशस्य जटाकलापे दीर्घोर्मिहस्तकलितेन्दुकलां चिराय । इत्थं बभूव किल भर्तरि शैलजाया दाक्षिण्यपाक इव कापि मुहुः शुशोच ॥ १८॥ व्यालोलकेशकलितैककरैव काचि- त्काञ्चीगुणश्लथनदर्शितनाभिमूला । वक्षस्यभीष्टदयिताकुचमुद्रितोऽयं योगी किलेति गिरिशं कुटिलं ददर्श ॥ १९॥ शर्म्मद्भविष्यति ममेति तदीयकम्पै- र्बुद्ध्वाननन्द यदतीव पुरा वराङ्गी । तद्वाममेव नयनं शिवमीक्षमाणा शर्वाण्यसर्वसमचित्ततया निनिन्द ॥ २०॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दर्शनपद्धतिः षष्ठी ।

सप्तमी पद्धतिः । अङ्गवर्णनम्

आपादपद्मयुगमा च कपर्दभारा- दङ्गान्यनङ्गदमनस्य पुरन्ध्रिवर्गः । नेत्रैरपाकृतनिमेषकथैर्विलोक्य कर्णामृतानि वचनानि मिथो बभाषे ॥ १॥ नैवान्यदस्ति शरणं चरणारविन्दा- द्गौरीसखस्य सखि दुःखजुषां जनानाम् । यत्पद्मा(?)दुर्बलमपि स्वयमन्तकस्य वक्षो विभेद दृढमाश्रितरक्षणाय ॥ २॥ तारापतीन्सुदति पश्य पिनाकपाणेः पूर्णानिमान्पदमुपेत्य नखच्छलेन । अस्यायमङ्घ्रिकमलाश्रयहानिदोषा- दद्यापि हन्त कृश एव कपर्दचन्द्रः ॥ ३॥ जङ्घायुगं सखि विलोकय भूतभर्तुः संवाहनेषु गिरिजाकरपल्लवेन । सञ्जातकण्टकतया प्रतिपद्यतेऽयं नित्यं पदाम्बुरुहकोमलनालकक्ष्याम् ॥ ४॥ कक्षोरगेन्द्रमिह पश्य विभोस्तमेन- मावेष्टनेन विपुले कलितं नितम्बे । येनायमद्य लभते पुरसुन्दरीणां चित्ताम्बुराशिमथने सखि मन्दरत्वम् ॥ ५॥ नाथस्य सुन्दरि विलोकय नाभिगर्त- मस्योत्तमाङ्गकलिता विबुधस्रवन्ती । आवर्तमाशु विरचय्य पुनःपुनस्तं यत्साम्यदुर्लभतया शिथिलीकरोति ॥ ६॥ अङ्गीकृतं यदमुना वसनत्वपक्षे कक्षोरगेन्द्रफणरत्नमरीचिशोणम् । मातङ्गचर्म चिरकालनिकृत्तमेत- दद्यापि पश्य रुधिराक्तमिवावभाति ॥ ७॥ नैसर्गिकालमणि(?)शालिनि पश्य भिक्षो- र्हैरण्यगर्भमयि पाणितले कपालम् । आविष्करोत्यरुणतामरसे विनिद्रे निद्रावशस्तिमितहंसगतामभिख्याम् ॥ ८॥ आलेपनं यदिदमस्य भुजान्तराले तद्भस्मदिग्धवपुषो मदनस्य मन्ये । नो चेत्कथं कथय वीक्षितमात्र एव सम्मोहयेत्सखि मनः सकलाङ्गनानाम् ॥ ९॥ गौर्या मनोहरभुजाफणयोग्य एव कण्ठे कथं सखि हरस्य भुजङ्गहारः । मन्ये तयान्यवनितासु हृतोपगूढ- साशङ्कया वसति तत्र कृताभ्यनुज्ञः ॥ १०॥ शीतं निसर्गधवलं हृदये विहाय हारं भुजङ्गमतिभीषणमेव धत्ते । स्वातन्त्र्यभङ्गभयतः प्रभवः कदापि कुर्वन्ति हन्त न गुणेष्वपि पारतन्त्र्यम् ॥ ११॥ हारायितः सखि हरस्य महाभुजङ्गः पार्श्वस्थितिं(तिः)मृगदृशां विरुणद्धि भीमः । रुन्धे विभुष्वधिकवल्लभतां प्रपद्य प्रायः प्रियाश्रयणमाशु भुजङ्गवर्गः ॥ १२॥ नैल्यं यदम्य गलमूलगतं तदेके (?)मामग्रणं तुरगमाणिममेष तर्कः । या कापि सिद्धगुलिकैव मृगेक्षणाना- माश्लेषकौतुकनिषेधनिरूढशक्तेः ॥ १३॥ यो मूर्ध्नि मुग्धशशिभङ्गभयेन सोढा पार्थस्य निर्घृणशरासनताडनानि । यो वा करोत्युभयदानमपायकाले तं पश्य दक्षिणकरं सखि शङ्करस्य ॥ १४॥ साकूतमन्दहसितोदयलोभनीया- दास्यादिहास्य सखि सम्प्रति निर्गतानि । देहीति लोकबहुमानविवर्जितानि याच्ञाक्षराण्यपि महेश्वरतां ध्वनन्ति ॥ १५॥ आलोकयैतदखिलेक्षणमालि शम्भो- र्निर्हेतुनिह्नुतमनोभवरम्यदेहम् । सर्वेषु जन्तुषु विभुः समदर्शनोऽपि शाठ्येन यस्य विषमेक्षण एव जातः ॥ १६॥ सत्यार्थमेव खलु तद्यदिहाद्रु(द्भु)तस्य पात्रं भुजङ्गपरिरक्ष(क्षि)तमाहुरार्याः । पश्याम्बिकाकलवचोमृतपात्रभूते कण्ठेऽपि कुण्डलभुजङ्गपरिष्क्रियास्य ॥ १७॥ भालेक्षणान्तिकचरं सखि पश्य शम्भो- श्चूडाशशाङ्कमतिम(क)र्शितगात्रमेनम् । स्वप्रेमबन्धुमदनप्लुषि हव्यवाहे त्यक्तुं निजामिव तनुं विहितावसायम् ॥ १८॥ नासीरपूरणविधौ मकरध्वजस्य चक्रुर्वचांसि सुलभानि च यानि नार्यः । तानीन्दुशेखरभुजं मदनावमानं सद्यो ममार्जुरपि तस्य वपुः पुरारेः ॥ १९॥ सत्यं समाश्रितजनो बहुमानलाभे- नाप्राप्तवाञ्छितफलोऽपि विभुं जहाति । पश्येन्दुरेष कुरुते शिरसा धृतोऽसी- त्येतावता पशुपतेः कृश एव सेवाम् ॥ २०॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽङ्गवर्णनपद्धतिः सप्तमी ।

अष्टमी पद्धतिः । विलासः

गौर्याः समक्षमपि यस्य विभोर्विकारं कर्तुं कथञ्चिदपि नालमभून्मनोभूः । तस्यैव चित्तमपहर्तुमहो विलासा नानाविधा नगरवामदृशां बभूवुः ॥ १॥ पुष्पं कराञ्जलिधृतं चलदुत्तरीया चिक्षेप कापि पुरतः स्मरशासनस्य । एतावदाद्य मयि पुष्पशरेण मुक्तं पश्यास्त्रजालमिति संशि(शंसि)तुमुद्यतेव ॥ २॥ आविश्चिकीर्षुरतुलं निजबाहुमूलं कन्दर्पमूलधनमीश(शि)तुरग्र एव । काचिद्विलोलवलयावलिना करेण नेत्रान्तिकादलकभारमपाचकार ॥ ३॥ एका त्रपापरिभवा सकलप्रवृत्ति- श्चिक्षेप दृष्टिमबला न तु चन्द्रचूडे । प्रायेण तिष्ठति विदग्धविलासिनीना- मर्धेक्षणेषु मदनः परिपूर्ण एव ॥ ४॥ काचिद्विलासचतुरं कतिचित्पदानि शम्भोर्जगाम पुरतो मदमन्थरेव । तां वीक्ष्य तादृशगतिं विशिखैः किमन्य- दात्मन्यपि स्वयमभून्मदनः प्रहर्त्ता ॥ ५॥ कन्दर्पशत्रुरयमित्यनुरूपयन्ती सैवापपात पुर एव पुरां विजेतुः । इत्यात्मदोषमपरत्र निपात्य काचि- त्काञ्चीमहो गुरुमयीमपरा निनिन्द ॥ ६॥ प्राप्ता स्वगेहमणितोरणमण्डमेका रथ्यागतत्रिपुरवैरिविलोकनाय । किं स्थाणुसंश्रयणमिष्टमिति ब्रुवाणां पाणिस्थकेलिकमलेन सखीं जघान ॥ ७॥ काचित्पुरा प्रणतिकृत्यमशिक्षितापि गौरीवराय विनयाञ्जलिमाबबन्ध । तन्मौलिचन्द्रकिरणैर्मुकुलीकृतेन लीलाम्बुजेन कृततत्प्रवणोपदेशा ॥ ८॥ हीनाङ्गतोपरतमार्गणमोचनेन प्राचीनवैरकुपितेन मनोभवेन । सञ्चोदितव निशितैर्निखिलेऽपि देहे विव्याध कापि मदनारिमपाङ्गबाणैः ॥ ९॥ प्रस्थानवेगशिथिले सति केशपाशे काचित्तथैव गिरिशस्य समीपमाप । तेन स्मरस्य परिभूतिमपास्य केश- बन्धो विधेय इति बद्धदृढव्रतेव ॥ १०॥ येनाकुलेक्षणयुगादरुणेन्दुमौलि- मान्दोलितेन न विलोकयितुं शशाक । लीलाम्बुजेन सहसैव नुनोद काचि- दात्मालकं चलदलिभ्रम पश्य बुद्धिः ॥ ११॥ कण्ठे सकौतुकसमर्पितया तदीये वव्रे स्वयं पशुपतिं स्वयमेव सद्यः । कालाञ्जनप्रणयमेचकया स्वदृष्ट्या नीलोत्पलारचितमालिकयैव काचित् ॥ १२॥ वल्लीव यस्तदधरस्तरुणप्रवाल- स्तत्रापि निर्मलरुचिस्मितमेव पुष्पम् । तस्योद्गमे जनविलोचनभृङ्गसेव्यो मासो मधुर्मधुसखाविरभूत्क्षणेन ॥ १३॥ रथ्योपहारकुसुमस्खलनेन काचि- त्पादाग्रतोदमभिनीय पुरः पुरारेः । आत्मन्यश‍ृङ्खलमनोभवमुच्यमान- पुष्पास्त्रदुर्विषहतां प्रकटीचकार ॥ १४॥ काचित्प्रकोष्ठवलयावलिसंश्रितस्य लीलाशुकस्य मुखसङ्क्रमितैर्वचोभिः । भिक्षाटनादिलघुकृत्यनिषेधगर्भै- र्मन्दस्मितोत्तरमयुग्मदृशं चकार ॥ १५॥ द्वारि स्थितस्फटिकतोरणदीर्घदण्डं तुङ्गस्तनाग्रयुगलेन निपीडयन्ती । मन्दस्मितानुमितचित्तनिगूढभावा काचिन्मुहुर्मुहुरवैक्षत चन्द्रमौलिम् ॥ १६॥ कस्याश्चिदीशपदवन्दनलालसाया नासीद्दिवा मुकुलितं करपद्ममेव । चूडाशशाङ्ककिरणैः परिभूयमानं तस्याः करप्रणयकेलिसरोरुहं च ॥ १७॥ अह्नाय काचिदनियन्त्रितमेव क्लृप्त- बन्धश्लथं चिकुरमीश्वरमाससाद । कामायमान . . . . . . . . सन्त- निःशेषनिर्हरणबद्धदृढव्रतेव ॥ १८॥ काचित्कलक्वणितकङ्कणमञ्जुनादै- रीशं स्ववीक्षणपरं विदधे विदग्धा । पुंसां मनोऽभिलषितेषु विलासिनीनां प्रायेण भूषणरवः प्रथमाभिलाषः ॥ १९॥ आचारपुष्पमपरा स्मितपुष्पमिश्र- मग्रे विभोः क्षणमवाकिरदानमन्ति(न्ती) । लालाटलोचनकृशानुभयादुपात्त- रूपान्तरेव कुसुमायुधचापयष्टिः ॥ २०॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विलासपद्धतिरष्टमी ।

नवमी पद्धतिः । उत्तरप्रत्युत्तरम्

तैस्तैर्विलासचरितैर्विकृतं न वेति चित्तं परीक्षितुमयुग्मविलोचनस्य । यान्यूचिरे युवतयो वचनानि सार्धं तस्योत्तरैरनुगुणैः कथयामि तानि ॥ १॥ सख्यं वरेण्यघटितं द्रविणेश्वरेण कार्श्यं तथापि किमिदं तव नापयातम् । किञ्चैष सुन्दरि चिराय पयोधरेण स्फीतेन ते परिचितः कृश एव मध्यः ॥ २॥ सर्वेषु जन्तुषु समं कथमिन्दुमौले त्वामेव हन्तु विषमेक्षणमाह लोकः । मध्यः कृशोऽपि वहति स्तनयोर्भरं ते तस्मिन्वहत्यपि च मध्यमवाद एव ॥ ३॥ दोषं विनैव भवतस्तरुणेन्दुमौले कस्मात्पुरा विनिहतः करियूथनाथः । त्वत्पीवरस्तननिराकृतकुम्भकान्ति- र्जीवन्मृतो मयि वराङ्गि मृषापवादः ॥ ४॥ आद्यन्तशून्यमिति वेदविदो विदन्ति त्वामिन्दुशेखर जगत्युदयान्तभाजि । तद्वादमात्रमयमद्य हि दृष्ट एव सर्वैश्चकोरनयने तव मध्यलोपः ॥ ५॥ उत्पाट्य पावकमयं नयनं ललाटे प्लुष्टस्त्वया किमिति शङ्कर पुष्पकेतुः । दृष्ट्यैव ते यदयमाप पुनः प्रसूतिं तं(तच्)चण्डि हासपदमस्म्यहमेवमेव ॥ ६॥ मुक्तामय(यः)स्फुटमि(म)यं रशनागुणो मे धिग्धिग्भयङ्करभुजङ्गमकल्पितं ते मुक्तामयत्वमिति चित्त्वमु तस्य बाले (मुक्तामयत्वमुचितं ननु तस्य बाले) यः संसजेत्तव नितम्बमजस्रमेव ॥ ७॥ पूर्णं विहाय कथमेनमनङ्गशत्रो मूर्ध्ना भवान्वहसि(ति)नित्यकृशं शशाङ्कम् । त्वद्वक्त्रकान्तिपरिभूतिमनाकलय्य पूर्णाद्वराङ्गि वर एव कृशोऽयमिन्दुः ॥ ८॥ ये गर्हिता गिरिश तेऽपि भवन्तमेत्य श्लाघ्या भवन्ति सहसेति सतां प्रवादः । रागोऽधरे कुटिलताप्यलके कृशत्वं मध्ये कुचे कठिनता च तथा न किं ते ॥ ९॥ वैवस्वतेन दमितः सकलोऽपि लोकः सोऽपि त्वदीयचरणेन पिनाकपाणे । पद्मं शशी जयति भीरु मुखं तवैन- मेकान्ततो न विजयो न पराजयो वा ॥ १०॥ देहीति वाचि पदमद्य तवेन्दुमौले चक्षुः पुनर्मृगदृशां मणिमेखलासु । पुंसो रसार्द्रहृदयस्य पुरो वधूनां वाक्ये च चेतसि च कर्मणि चान्यदन्यत् ॥ ११॥ एतेन भैक्षचरणेन जगत्कुटुम्ब- त्राणक्षमा पशुपते किमलाभि पूर्तिः । पूर्णो न किं प्रतिदिनं त्वयि भिक्षमाणो लावण्यमाननगतं प्रतिपच्छशाङ्कः ॥ १२॥ अग्रेसरस्त्वमसि नाथ विलासभाजां भिक्षामटस्यपि कथं त्वमपास्तलज्जः । स्वच्छन्दवीक्षणवचांसि पृथग्वधूषु कर्तुं न भैक्षचरणादपरोऽप्यु(स्त्यु)पायः ॥ १३॥ एतानि नाथ वचनान्यमृतोपमानि कण्ठादुपात्तगरलादपि निर्गतानि । स्वादिष्ठता वचसि वक्र(क्तृ)गुणैर्न जाता श्रोतुर्जनस्य गुणवत्त्वनिबन्धनैव ॥ १४॥ क्रीडापरः कथमसि त्वमनादिवृद्धो मुग्धासु भैक्षचरणच्छलतो वधूषु । यः सङ्गमो युवतिभिर्जरयातुराणां तं सूरयो ज्वरणभैक्षजमामनन्ति ॥ १५॥ धिक्त्वां भुजङ्गममयस्तव यस्य हारो मुक्तामयस्तव न किं मम पश्य नाथ । मुक्तामयत्वमुचितं ननु तस्य बाले पीनस्तनेन कृतसङ्गमनिर्वृतस्य ॥ १६॥ अन्यत्र यातमपि मानसमीश किं ते नैवाददासि बलिमद्य नच प्रयासि । धत्ते गुरुस्तनभरः कलकण्ठितस्य तद्दक्षिणीकृतमिदं हृदयं मया ते ॥ १७॥ धिक्कार्ष्ण्यमीश भवतो मुखपूर्णचन्द्रे भ्रष्टं तदेव गणयामि गलस्थमेतत् । रागोऽधरे सुदति यः स तवाननेन्दो- राभासि(ति)सञ्चित इवोदयशोणभावः ॥ १८॥ मध्यस्थमीश कथयन्त्यखिला भवन्तं कस्मादकारि भवता स्मरदेहदाहः । पुंसां करोति मदिराक्षि नितान्तपीडां मध्यस्थमेव कथमद्य वलित्रयं ते ॥ १९॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उत्तरप्रत्युत्तरपद्धतिर्नवमी ।

दशमी पद्धतिः । भिक्षाप्रदानम्

प्रत्यालयं कृपणवज्जगतामधीश देहीति दीनपदवादिनि भिक्षमाणे । वामभ्रूवां मनसिजावस(श)मानसानां भिक्षाप्रदानचरितान्युपलालयामः ॥ १॥ काचित्पुरः पुररिपोरतिसम्भ्रमेण भिक्षामपात्रपतितामवबुध्य सद्यः । अन्तर्भयेन विदधे हृदये कराग्रं भिक्षाहमस्मि भवतो भगवन्नितीव ॥ २॥ प्रेम्णापि याचितनिदानविरोधिता तु दर्वीं दधत्यपि करेण समृद्धसिद्धाम् । भैक्षाटणा(ना)न्तमपरा गिरिशेन योगा- न्निश्चित्य कालहरणं कपटैश्चकार ॥ ३॥ सत्पात्रदानविधिना यदनेन पुण्यं तन्मे तवैव कृशभावमपाकरोतु । इत्येवमिन्दुशकलाभरणाय काचि- द्भैक्षेण पुण्यमपि दानभवं दिदेश ॥ ४॥ आदातुमैच्छदधिकं गिरिशो न भैक्षं पात्रं वधूः सपदि पूर्णमियेक्ष(ष)कर्तुम् । आयस्तयोर्युवतिशङ्करयोर्बभूव भिक्षाप्रदानसमये सततं विवादः ॥ ५॥ दर्व्याः परिच्युतमिदं तमियं च हस्ता- द्दानादयं तदपि दुर्लभसम्प्रदानात् । अश्रान्तमेव गिरिशान्तरपल्लवेन कस्याश्चिदायतदृशो स्मितपुष्पकेन(ण) ॥ ६॥ आयाहि तिष्ठ जहि भीमभुजङ्गहार- मेनं गलात्तदनु भैक्ष्यमिदं गृहाण । इत्येव ईश्वरमपेक्षितभैक्ष्यदाना- त्प्रागेव कापि निजकिङ्करतां निनाय ॥ ७॥ एका कथञ्चन चिरेण विनम्रवक्त्रा लज्जावशेन गिरिशाय दिदेश भिक्षाम् । दानोन्मुखस्य च गुणाभ्यधिके निकृष्टे याच्ञापरस्य च समस्त्रपया विकारः ॥ ८॥ धिग्याचनं जगति सन्निहितावमानं भैक्ष्यं प्रदेयमिति(दं)प्रार्थयते महेशः । कामद्वहेन(?)खलु देयमिति स्ववाचा प्रत्यादिदेश पुर एव हि तस्य काचित् ॥ ९॥ यो भिक्षते प्रतिगृहं भुवनेश्वरोऽपि तस्मै च या सकरुणैव ददाति भिक्षाम् । तावन्ववेक्ष्य गिरिशं (च)सखीं च काचि- त्तामेव सर्वसहतां जगते जगर्हे ॥ १०॥ दर्वीमुखं द्रुतगतिच्युतसिक्थमेव काचिन्मुधैव निदधे हरभैक्ष्यपात्रे । तस्याः पुनः परिहृतो(तौ)किरति प्रकोष्ठा- द्भिक्षाकपालपतितैर्वलयैः प्रमादः ॥ ११॥ भिक्षा प्रदातुमपरा शमनान्तकस्य वेगादुपान्तमुपसृत्य बभूव तूष्णीम् । दानादधःकृततदीयकरारविन्दा- च्छ्लाघ्यं विभुद्य(बुध्य)जनशोच्यमदानमेव ॥ १२॥ आहूत एव चरितो विधृतान्नदर्व्या भिक्षुः कयापि गिरिशो न कृतः कृतार्थः । दोषावरन्नि(रं नि)रवधेर्विरहासहिष्णोः स्नेहस्य किञ्चिदपि चारुदृशो न तस्याः ॥ १३॥ भिक्षां प्रदातुमभिवाञ्छ्य पुमानमुष्मै कङ्कालवेष इति बन्धुविबोधितापि । नैव न्यवर्तत वि(व)धूः शिवभैक्ष्य(क्ष)दाना- द्धर्मात्मना परिणतो ननु काम एव ॥ १४॥ यावन्न निर्गलति देहि वचोऽस्य वक्त्रा- त्तावद्ददौ झटिति कोऽपि शिवाय भैक्षम् । देहीति दीनपदनिर्गमयत्नमूल्यं नालं जगत्त्रितयमर्थिजनाय दत्तम् ॥ १५॥ यो दक्षिणः पुरजितो विततार भिक्षां कस्याश्चिदाशु वलयैः स करोति हीनः । हा हन्त दैवतमिति क्रमकारि वामः (?) संरक्षितो वलयवाङ् मलिनालकायाः ॥ १६॥ भिक्षोदने स्थलनिपातिनि कापि शम्भो पात्रं न सम्यगिति पाणिगतं जगर्हे । आत्मीयदुष्करणहेतुकयैव मर्त्यैः सर्वैर्विधेः शिरसि पात्यत एव दोषः ॥ १७॥ मा गच्छ शम्भुमिति मातृनिवारितापि भिक्षाप्रदानमपदिश्य जगाम काचित् । धर्मप्रतीपगतिरप्यभवत्तदानी- मालम्बनं मनसिजस्य विचित्रमेतत् ॥ १८॥ काचित्करेण दयती गुरुभैक्ष्य(क्ष)गर्भां दर्वीमियाय हरपार्श्वभुवं न यावत् । स्नेहोज्ज्वलां मनसिजः स्वयमेव भिक्षां तामेव तावददिशत्परमेश्वराय ॥ १९॥ पात्रोत्तमस्त्वमसि नायक पाणिलग्नं पात्रं तथापि न पवित्रमिदं कपालम् । यावन्न तत्त्यजसि नैव ददामि ताव- दिये(त्ये)व कापि गिरिशाय ददौ न भिक्षाम् ॥ २०॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाप्रदानपद्धतिर्दशमी ।

एकादशी पद्धतिः । दीनोक्तिः

भिक्षाप्रदानसमये वनिताजनस्य शोकेन शम्भुमधिकृत्य वचांसि यानि । तस्योत्तराण्यपि तया(था)नुनयान्वितानि वक्ष्यामि तानि विदुषां श्रवणोत्सवाय ॥ १॥ भिक्षाटनादिकममङ्गलचेष्टितं ते किं नाथ सापि सहते गिरिराजपुत्री । यद्यत्करोत्यविनयं जगतीह भर्ता साध्वी वधूरनुगुणैव हि तस्य तस्य ॥ २॥ भिक्षाटनं यदि न ते विहृतिप्रवृत्तं याचस्व भूरि पुरशासनमेव(?)भैक्षम् । लोकेऽत्र लोभबहुले मितमेव याच्यं तावानलाभसमये भविता विषादः ॥ ३॥ भिक्षानसाध्यमभियेभिपिनाकपाणे (भिक्षान्नसाध्यमधेहिभिपिनाकपाणे) रुच्यावहं तव तदेव हि कालकूटम् । यद्याचितं कृशजनेन तदाशु देयं दात्रा कदाचिदपि नास्य फलं विचार्यम् ॥ ४॥ सर्वेष्टसिद्धिफलमीश्वर . . . धनेशो याच्यस्त्वया प्रियसखो नतु भिक्षितव्यम् । वित्तान्धदुर्मुखनिरीक्षणभीतिभाजां भिक्षाबलं प्रति निकेतम(न)दैन्यलभ्या ॥ ५॥ सर्वाः कला वदनतो भवतः प्रवृत्ताः किं तासु काचिदपि नाथ न पोषहेतुः । अन्यैव कापि धनिनां द्रविणात्मिका श्री- र्विद्यात्मिका च विदुषामपरैव लक्ष्मीः ॥ ६॥ किञ्चिन्मुहूर्त्तमिह तिष्ठ विभो मदीयं गेहं प्रविश्य पुनरेत्य ददामि भिक्षाम् । अभ्यर्थिनामभिमतस्य चिरेण लाभा- दभ्यर्हितः सपदि नास्ति प(य)दस्य लाभः ॥ ७॥ तां तां समृद्धिममराहवतो भवन्ते भिक्षाटनव्यसनमीश मि(कि)मर्थमेतत् । नीचैः कदाचनमस्थिति(?)रन्यदोच्चै- रप्येकदा भवति देहभृतामवस्था ॥ ८॥ यत्केवलं तव कराग्रकरोटिपात्र- मद्याप्यलाभि भवता न किमत्र भैक्षम् । उत्साहसन्ततिकृतामपि देहभाजां लाभो न यत्नमनुधावति भाग्यहीनम् ॥ ९॥ मागाः परत्र भवने भव पात्रमद्य भिक्षोदनैरहमिदं तव पूरयामि । वाचां मुधा कुसुमिता विदधाति लोकः किञ्चित्तुला फलति नार्थिषु दीर्घतोऽपि ॥ १०॥ सम्पन्नमन्नमखिलेश्वरभैक्षमात्रं तुभ्यं ददातुमियदेतदपत्रपेऽहम् । निर्णीतमेतदखिलार्थिजनेन दाने देयस्य काललघुता लघुतां क्षिणोति ॥ ११॥ भैक्षार्थिना प्रतिगृहं चरता त्वयैव न स्थीयते किमिति हन्त मुहूर्तमात्रम् । एकत्र पुष्कलमलब्धवतां स्वकाम्यं कापि स्थितिर्मधुलिहामिव दुर्लभैव ॥ १२॥ दास्यामि भैक्ष्यमखिलेश दिने परस्मिं- स्तुभ्यं हतेन विधिना गलितोऽन्नकालः । सम्प्रीयतां स खलु नाम तया त्वदुक्त्या (?)यस्यात्मनः स्थिरमति त्वमिवातनोति ॥ १३॥ कालात्ययेऽद्य भवता गृहमागतं मे नास्त्येव भैक्षमखिलेश किमत्र कृत्यम् । नास्तीति यो वदति भिक्षुसमक्षमेव सद्भावमात्मनि निषेधति नैव देये ॥ १४॥ अप्रापणे वदनमेति यथा विकासं भैक्षस्य नैव हि तथा तव तस्य लाभे । वाञ्छाम्यलाभमहना(मा)यतलोचनाभ्यः सद्यो वियोगविपदाहत एव लाभः ॥ १५॥ स्वामिन्मया पुरत एव विखण्डितांशो भूयोऽपि मां किमनुधावसि भैक्षकामः । भृङ्गः परामुकुलनेन विमोधकामः पुष्पं नु किं पुनरुपैति विकासशङ्की ॥ १६॥ तुभ्यं ददामि कथमद्य वरेण्य भिक्षां तां स्वीकरोति कथमेव भवानलज्जः । दाता यथारुचि ददात्यमितं मितं वा गृह्णाति वस्तु मितमप्यम(ग)तिर्दरिद्रः ॥ १७॥ इत्युत्प्रेक्षावल्लभकृती भिक्षाटनकाव्ये दीनोक्तिपद्धतिरेकादशी ।

द्वादशी पद्धतिः । पारवश्यम्

बध्नाति मे प्रथमवैरिणि पक्षपात- मेवं जनोऽयमिति जातरूषा स्मरेण । निःशङ्कविद्धहृदयस्य वधूजनस्य यत्पारवस्य(श्य)हृदयं तदुदीरयामः ॥ १॥ भूतैः किमन्तिकचरैः सहसा गृहीता दष्टा शरीरकलितैरुत पन्नगेन्द्रैः । का(क्ला)न्ता स्विदम्य गलकालगरोष्मणेति काचिच्छिवस्य पथि सन्दिदिहे सखीभिः ॥ २॥ भूषोरगानविगणय्य विभोरुपान्ते कापि स्थितैव निजबन्धुनिवारितापि । किं धार्ष्ट्यमेतदुत मौढ्यमहो स्विदस्या भक्तिर्वरा किमु मनोभववैभवं वा ॥ ३॥ आलोक्य दृष्टिररुणा प्रथमास्त्रगाक्ष्या(?) गौरीकुचाघणकिणोरसमिन्दुमौलिम् । पश्चादुदश्रुसलिलाभवदग्नितप्ता मारस्य दत्तनिशिताश्रुजलेव शक्तिः ॥ ४॥ अस्त्रं विमुच्य निखिलं प्रथमं प्रयोगे भूयोऽपि वेद्धुमबलां विहितोद्यमस्य । अल्पायुधस्य वपुरेव तदीयमेकं लक्ष्यं च हस्तशरधिश्च तदा बभूव ॥ ५॥ पादेन किं फणिगणे चकितं नितम्बे शम्भोः करे विवशमग्रसरे सपात्रे । आधूसरं भसितलेपिनि बाहुमध्ये स्नातुं शिरः सरिति चित्तमधीरदृष्टेः ॥ ६॥ काचित्पृथुस्तनभरे गलितोत्तरीये व्यत्यासभङ्गिनि हितेन भुजद्वयेन । आलिङ्गनं हृदयदेशजुषः शिवस्य कर्तुं समीप्सितवतीव चिरं चकासे(शे) ॥ ७॥ पुष्पं विकीर्य गिरिशाय पुरैव पश्चा- त्सर्वो जनः श्रयति बन्धविमुक्तिमन्यः । वेणीभरो मृगदृशः प्रथमं विमुक्तो बन्धात्पुनः पुरजिते कुसुमान्मुमोच ॥ ८॥ आत्मानुबन्धिरशनागलनाद्यवद्य- मन्यास्वपि क्षणमवेक्ष्य हराग्र एव । काचित्त्रपापरिभवान्न ययौ तदानीं लज्जावहो न खलु जात्यविशेषभावः ॥ ९॥ आलिङ्गनाद्दु(दृ)तमना गिरिशं विलोक्य रोमाञ्चकण्टकितमूर्तिरजायतान्या । रोगेण पुंसि निहितासु(?)च तादृगेव प्रायेण तत्तदुपभोगसुखं करोति ॥ १०॥ कस्याश्चिदार्द्रघनचन्दनपङ्किलायां संवर्धितं स्तनभुवि स्मरकर्षकेण । रोमाच(ञ्च)सस्यममितिश्रमवारिसिक्तं भेदस्तु नाभवदयं खलु दीर्घतन्त्रः ॥ ११॥ छिन्नस्तनांशुकग(गु)णा भर(व)सन्निधाने प्रीत्या यदायतदृशो न तदद्भुताय । योषिद्गुणा नियमिता विधिनैव तस्या लज्जादयः सपदि यत्त्रुटिता बभूवुः ॥ १२॥ आसीत्परा सपदि तस्य कृतान्तशत्रो- रालोकनादनिमिषेति किमत्र चित्रम् । यस्य क्षणस्मरणमात्रवशेन मर्त्या- यत्नं विनाप्यनिमिषत्वपदं लभन्ते ॥ १३॥ च्योतत्सखीवसनरक्षणदत्तहस्ता विस्रंसिनी(नि)स्ववसने पुरतः पुरारेः । अन्या पुनः क्षणमजायत दत्तमूढा नाम्ना वने विगणने पररक्षकाणाम् ॥ १४ (नात्मावनं विगणितं पररक्षकाणाम्) ॥ १४॥ कस्याश्चिदुत्तरदुकूलविलोलदृश्य- माभोगतः कुचयुगस्य विनिर्जगाम । अन्तर्गतं झटिति वक्तुमिवेन्दुमौलिं रोमाञ्चमन्तिकगताय सखीजनाय ॥ १५॥ बन्धश्लथः कचभरः प्रबलाश्रु नेत्रं कम्पोत्तरं कुचयुगं गलदुत्तरीयम् । विस्रस्तकाञ्चि जघनं चरणां प्रयाणे शक्तेतरः(त)मृगदृशो हरदर्शनेन ॥ १६॥ हस्तः कयापि गलितांशुकवारणाय व्यापार(रि)तो वलयविच्युतिदैन्यपा(मा)प । धत्ते(यत्ने)कृते शमयितुं विनिपातमेकं हानिं परामपि विधिर्विदधाति वामः ॥ १७॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्यपद्धतिर्द्वादशी ।

त्रयोदशी पद्धतिः । पारवश्योक्तिः

कन्दर्पमुक्तशितबाणपरम्पराभिः शम्भोः शिरः प्रहृतचित्तमवेक्ष्य सख्यः । नारीजनं निजगदुर्वचनानि यानि रम्याणि सन्तु रसिकश्रुतिपारणाय ॥ १॥ मुग्धे स्मरार्ति पिशुनं वसनाञ्चलेन रोमाञ्चमाब्रण(वृणु)पुरः पुरसुन्दरीणाम् । लोकः परस्खलनदर्शनदीप्य(र्घ)चक्षु- र्जात्यन्ध एव निजदोषनिरीक्षणेषु ॥ २॥ यत्पूर्वमात्तविनयाञ्जलिरीशपार्श्वे भूयाः सदेति मुहुरालि मयापदिष्टम् । तस्यावधीरणफलं वलयच्युतिस्ते क्षेमङ्करो भवति किं न शिवे प्रणामः ॥ ३॥ कामं विलोकय कृशोदरि कामशत्रुं मा भूदयं तव मुखाम्बुरुहे विकासः । आविर्भवत्यभि(हि)मभासि विकासमात्रा- त्तत्प्रेयसीति नलिनी न किमाह लोकः ॥ ४॥ आमीलनेन कमलस्य मधुद्य(व्र)तानां स्वच्छन्दचारविहृतिस्त्वयि सान्यथैव । दुर्लेपिशङ्करमुखाम्बुरुहेऽपि लीनः शक्तोऽनुगन्तुमपरत्र कटाक्षभङ्गः ॥ ५॥ वासच्यु(श्च्यु)तं तव सखीत्यभिधीयमाना नीलं हरस्य गलमूलमिति ब्रवीषि । उन्मादिनां जगति नूनमपार्थजल्पा- दल्पान्तराणि मदनातुरभाषितानि ॥ ६॥ शम्भोः समीपमुपगच्छसि निर्विशङ्कं मुग्धे मनोभवभवेन मतिभ्रमेण । हाराहिमस्य न निरूपयसि क्षुधार्तं द(दु)ग्धं च ते मुखमिदं शशिनिर्विशेषम् ॥ ७॥ स्रस्तोत्तरीयमधुना कुचमण्डलं ते पाहि(णि)द्वयेन पिदधासि यदम्बुजाक्षि । तत्साधु सम्प्रति पुनर्वलयोज्झितस्य तस्याभि . . . सखि केन तिरस्क्रियास्तु ॥ ८॥ नेत्रद्वयं हरविलोकनलाभमान्यं सर्वेतरेन्द्रियगतौ गमितेव शक्तिः । स्पर्शं न वेत्सु(त्सि)मुहरङ्गुलितापि(डि)तापि नाह्वानशब्दमपि यत्सखि मे श‍ृणोषि ॥ ९॥ सर्वाङ्गवीक्षणमनोभवभाग्यहीना नूनं त्वमस्य गिरिशस्य किमद्य कुर्मः । वक्षःस्थले प्रथममस्य दृशं निमग्ना- मुद्धर्तुमेव निपुणासि न यत्नतोऽपि ॥ १०॥ नेवाद्य कान्तिविलयो वपुषीश्वरस्य सङ्कोचनं न तव नेत्रयुगे प्रसङ्गि । अभ्यासमद्य सखि पश्यसि रोषरूक्षं पश्यन्तु ता अपि वृषध्वजमादरेण ॥ ११॥ ईर्ष्याकठोरमसकृत्त्वमवेक्षसे कि- मन्योऽपि तं कमपि पश्यतु भीरुवर्गः । मोहेन शङ्करविलोकनसम्भवेन श्वासं न किञ्चिदपि मुञ्चसि तारकाक्षि ॥ १२॥ भृङ्गास्तदीयवरसौरभलाभलोला- द्यत्नेन(यत्ते न)सम्प्रति तवाननमाश्रयन्ते । मा मे खलेति मम वा वनमाकलय्य बद्धा तदा क्व गलिता मणिमेखला ते ॥ १३॥ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . । यो मूढधीः स्वयमयं पुनराप्तवाक्यं न श्रद्दधीत यदि तस्य विपत्तिरेव ॥ १४॥ काञ्चीगुणः पततु काममसौ नितम्बा- देतानि रत्नवलयानि च बाहुयुग्मात् । एतत्तु मे व्यसनमालि सहैव तैस्तै- र्लज्जामयस्य सहजाभरणस्य पातः ॥ १५॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्योक्तिपद्धतिस्त्रयोदशी ।

चतुर्दशी पद्धतिः । विश्लेषारम्भः

श्लाघ्येन भैक्षचरणेन चिरं विहृत्य रथ्यासु कालदमने गमनप्रवृत्ते । जातानि तस्य पुर एव नितम्बिनीनां विश्लेषभीतिकलुषानि(णि)विचेष्टितानि ॥ १॥ गन्तुं प्रवृत्तमवलोक्य वृषाङ्कमेका बालाम्बु नेत्रयुगुले प्रचुरं बभार । तस्यास्तदीयनयनानि पुनर्विदाहा- त्त्रस्यन्निव क्षणमलक्ष्यत पञ्चबाणः ॥ २॥ साकूतमैक्षत हरं मुहुरेव काचि- द्विश्लेषवन्दननिमीलनपादपद्मा । संज्ञां सरोरुहनिमीलनयोग्यकाले भूयः समागममवेक्ष्य वितन्वतीव ॥ ३॥ मन्दस्मितैरकलितोत्तरमीशमन्या देहीन्द्रनीलमिति कण्ठगरं ययाचे । आगामितं झटिति तीव्रवियोगतापं तेनैव कर्तुमभिवाञ्छ्य किलाढ(ढ्य)बुद्धिः ॥ ४॥ काचित्पतिं गतिविषक्तमवेक्ष्य चिह्नैः का मां तथास्त्वथ च कापि ममास्ति मीति । एते गमे हृदयगेहमहं प्रविष्टो मां निर्गमेदिति विलोचनमामिमील्य ॥ ५॥ मा गा इति व्यवसिता वदितुं कयापि सद्यो निरोद्धुमपि दत्तभुजार्गलेन । नानुष्ठितं गमनकाङक्षिणि भूतनाथे ह्रीयन्त्रिणा(ता)भवति नैव मनःप्रवृत्तेः(त्तिः) ॥ ६॥ हस्तं मम त्वगलितं वलयं न जाने भिक्षाकपालमिह नायक दर्शयेति । काचिच्चकार हरयानमुहूर्तविघ्नं भिक्षुः शिवोऽपि परिभूतिपदं जगाम ॥ ७॥ वीथीविमोचनगतिव्यवसायमेका दृष्ट्वा हरं विरहतश्चकिता चकार । तत्सन्निधावपि निमील्य निमील्य चक्षु- र्यत्नेन भावितदवीक्षणसाम्यशिक्षाम् ॥ ८॥ तावत्त्रयात्वरितपार्श्वगतिं मृ(तिर्मु)गाक्ष्या तावच्छलादसकलानि विलोकितानि । वीथीपरिभ्रमणकेलिविपक्षभूतो यावत्प्रभोर्निगमने जनिता(ना)भिलाषः ॥ ९॥ अन्तर्ज्वरस्व(श्व)सितमूर्ति(र्मि)तमेव भूया- न्गण्डस्थले धवलिमा दृशि चान्य(बाष्प)पूरः । जाते हरेण सुदृशो विरहप्रतापा- त्पूर्वं फलं तदनु हेतुरहो विचित्रम् ॥ १०॥ किञ्चिन्निरर्गलविनिर्गतबाष्पपूरै- राशङ्कितं हरवियोगहरं सखीभ्यः । दृष्टिर्ममेयमलकच्युतपुष्परेणु- स्पृष्टेत्यपृष्टवचनैः प्रकटीचकार ॥ ११॥ प्रस्थानमिन्दुशकलाभरणस्य काचि- दासन्नमेव विगणय्य भवेन मुग्धा । आदर्शमापतिततत्प्रतिबिम्बहृद्य- मङ्गेष्वनङ्गविवशेषु मुहुर्न्यधत्त ॥ १२॥ भग्नस्य शङ्खवलयस्य ममैतदेक- मर्थं निराय(प्य)मृगये तदिह द्वितीयम् । यन्मूर्ध्नि ते कुटिलभास्वरमेतदद्य सन्दर्शयेति वनिता गिरिशं रुरोध ॥ १३॥ स्वच्छन्दरागरसिकस्य गतिर्वि(गतिं नि)रोद्धुं शक्तास्मि ते मलयमारुततुल्यवृत्तेः । अस्याः स्मरार्तिरियतीति सखी प्रदर्श्य प्रस्थायिनं हरमवोचदुपांशु काचित् ॥ १४॥ सद्यः प्रयाणकरुणोद्यमगम्यमान- नैरस्यमार्द्रयितुमेव मनस्तदीयम् । पेतुः पिनाकिनि मुहुर्मृगलोचनाया बाष्पोदयान्तरितलोचनवीक्षितानि ॥ १५॥ काचित्प्रसक्तगमना गिरिशं प्रतस्थे छायाप्रविष्टवपुषा मुकुरे निधाय । तं सर्वथा सुलभमेव विबुध्यमाना नारी वियोगहरविह्वलतां जगाम ॥ १६॥ लीलाम्बुजे मम रमस्व यथेष्टमस्मि- न्मा गच्छ षट्पद परिभ्रमणेन किं ते । इत्याशु कापि गिरिशस्य गतिप्रसङ्गे भृङ्गाश्रयं गतिनिषेधवचे(?)जगाद ॥ १७॥ आशासमुल्लसितपीनपयोधराग्रा नाम्नाधरस्फुरणदर्शितशङ्ककोपा । काचिद्बभूव गतिकाङ्क्षिणि नीलकण्ठे बाष्पाम्बुदुर्दिनमुखी जलदागमश्रीः ॥ १८॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विश्लेषारम्भपद्धतिश्चतुर्दशी ।

पञ्चदशी पद्धतिः । प्रश्नोक्तिः

स्था(स्थि)त्वा विभोर्जिगमिषोः पथि कातराक्ष्या- स्तत्प्रस्थितिक्षणनिवारणकारणेन । (?)अप्यल्पकां विविषदामहवं य एव(?) प्रश्नात्मिकानि ललितानि वचांसि चक्रुः ॥ १॥ स त्वं पुराण कथयेह ममाद्यं रूपं सख्या सहैव चिरकालकृतो विवादः । यद्भस्म ते वपुषि तद्भवता गृहीतं दाहे स्मरस्य किमथो न पुरत्रयस्य ॥ २॥ शङ्कामिमां शमय नाथ पुनर्यथेष्टं देशं भवान्व्रजतु केन तथा विरोधः । दाक्षायणीपरिणयप्रणयेऽपि किं ते पाणिः फणीन्द्रपु(प)रुषोऽयमथान्यथा वा ॥ ३॥ पृच्छाम्यहं किमपि नाथ भवन्तमेत- द्ब्रूहि द्वयोरपि तयोरधिकः क एव । अन्विष्य यस्तव वराहमलाभखेदो व्याधाकृतेः सुचिरमस्य च यो भवन्तम् ॥ ४॥ स्वामिन्मदीयहृदये चिरकाङ्क्षितोऽयं कार्यस्त्वया सपदि विप्रतिपत्तिलोपः । देहीति यत्पथमथाब्धिभवं विषं वा जिह्वाग्रदुःसहमुदीरय किं तयोस्ते ॥ ५॥ जिज्ञासया हृदयमाकुलितं तथापि पृच्छामि तत्कथय नायक तथ्यमेव । किं ते कपालमनिशं दयतः करस्य किं वानुगेहमदतश्चरणस्य यत्नः ॥ ६॥ याचे भवन्तमधुना मधुबन्धुशत्रो शङ्कामिमां प्रशमयातिचिरानुषक्ताम् । त्वद्भक्तयोर्वद पुलिन्दमुकुन्दयोस्ते नेत्रं यदेतदधिकं कतरेण दत्तम् ॥ ७॥ अभ्यर्थये भव भवन्तमपाकुरुष्व दीर्घं विवादमनुयुक्तविबोधनेन । का वल्लभा तव हिमालयजह्नुपुत्र्यो- र्भागेन किं परिणता शिरसा धृता वा ॥ ८॥ अस्त्येव यानविहतीभ(तिर्भ)वतस्तथापि सन्देहमद्य निरवद्य निराकुरुष्व । सर्पैरलङ्कृतिरियं किमु कान्तिदर्पा- त्किं सर्वयोषिदुपगूहनशङ्कया वा ॥ ९॥ पृच्छाम्यहं किमपि नाथ भवन्तमद्य तथ्यं निगद्य कुरु मामपि वीतशङ्काम् । चापाहतिः किमनतिः शिरसा स्वयं वा कामस्य दाहसमये तव कोपहेतुः ॥ १०॥ यत्सत्यमत्र वद निश्चयहेतुहान्या सोद्यो(दी)यते मम मतिश्चिरकालसे(मे)व । किं ते श्मशानमसिते किमु सर्पहारे सर्वस्वबुद्धिरुत भैक्षकपाल एव ॥ ११॥ एतत्कुतूहलवशेन ममास्ति किञ्चि- द्विज्ञाप्यमद्य भगवन्भव सावधानः । किं ते गलस्य यदि वा विबुधाङ्गनानां कण्ठस्य भूषणमवेक्ष्य विषोपयोगः ॥ १२॥ वा मिश्रणं कुरु मदीयवचोभिरद्य सन्दिग्धवस्तुकथनेन शशाङ्कमौले । मूर्ध्ना नतिस्तदपि लोप्तुमलक्तरागं गौर्यः पदे किमुत वज्रशिखोपरागम् ॥ १३॥ इत्युप्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रश्नोक्तिपद्धतिः पञ्चदशी ।

षोडशी पद्धतिः । अनुगमनम्

भिक्षाटनव्युपरमे सति वा(या)न्तमीशं या विप्रयोगभयदुस्थि(स्थिः , स्थ)तया न जग्मुः । तासां सरोरुहदृशामनुयानकाले यच्चेष्टितं तदपि मां मुखरीकरोतु ॥ १॥ पूर्वाङ्गमङ्गजरिपो प्रतिनेत्रपात- व्रीडाद्विलोकन(कित?)वती न पुरा न बभ्रुः(नवभ्रूः ?) । पश्चादपश्यदपराङ्गमनुव्रजन्ती सर्वाङ्गवीक्षणमहोत्सवभाग्यहीना ॥ २॥ आन्दोलिताममरसिन्धुतरङ्गपातै- रिन्दोः कलां शिरसि कापि विलोक्य शम्भोः । एषा पतिष्यति पतिष्यति सम्प्रतीति तत्स्वीकृतव्यवसितात्तमनु प्रतस्थे ॥ ३॥ तस्या द्वि(कस्याश्चि)दन्तिकसखीभिरुपेक्षितायाः सख्यो न वा बत हरानुगमे बभूवुः । एका दृढा व्यवसितिर्महती वरान्या काचित्कठोरगुरुवर्गनिषेधशङ्का ॥ ४॥ काचित्स्वबन्धुजनमेकपदे विहाय रथ्यासमागतमनाकलितान्ववायम् । (?)भिक्षां विरूपनयनं वनितां विहाय कामश्चिरं प्रणयमाहव(वह)ति क्षणेन ॥ ५॥ काचिज्जनस्य पुरतो मनसाध्यवस्य मुग्धेन्दुचूडमनुगन्तुमुदश्रुनेत्रा । सा युध्यतोरथ जयार्थतयार्गलाभू- दुद्रिक्तमानमदनद्विपयोर्मुहूर्तम् ॥ ६॥ गच्छन्तमन्तकविपक्षमनुव्रजन्ती धात्र्या कथञ्चिदपि कापि निवारिताभूत् । चक्रेऽथ केवलमियं मनसा नु यात्रां वल्ली यथा सुमनसा मलयानिलस्य ॥ ७॥ गौरीपतेरनुगमेन किमित्युदीर्य पूर्वं पुनस्तु वचनैर्विहितानुयात्राम् । तच्चित्रमाप्तवचनैर्वनितार्थमूढै- रित्यात्मनः प्रियसखीमपरा चुकोप ॥ ८॥ प्रते(?)बलिग्रहणकर्मणि कापि बाला यातुं प्रवृत्तमवगम्य पिनाकपाणिम् । एष्यं निशाघनतमस्यभिसर्तुमीशं चूडेन्दुयाचनपरा चिरमन्विधा(या)य ॥ ९॥ एका रहस्यभिमतं किल वक्तुकामा दीर्घां विभोरनुगतिं विदधे मृषैव । सा किं करोतु सकलास्वपि चात्मनैव तुल्याभिलाषगमनासु विलासिनीषु ॥ १०॥ एषा भविष्यति मनोभवसायकाना- मद्यैव प(पा)त्रमिति तां सहसा विहाय । तस्याश्चिदीशमपयान्तमियाय चेतो नैवाप्तिरापदि फलाय नपुंसकेन ॥ ११॥ काचित्प्रयान्तमनुगम्य पतिं जवेन बाला पदानि कतिचिन्न पुनः शशाक । (?)मुक्तास्त्वया दिशमनेन गतामवेक्ष्य(?) श्वासानिल(ला)स्तमनु दूरपथा(?)नुजग्मुः ॥ १२॥ (?)नास्मादवाप्य नु मतिन्नसकी चलध्वा सङ्घाधिका न च तथाभ्युदितोऽस्य देशः(?) । काचित्तथाप्यनुजगाम हरं प्रयातं नत्वापि हन्त गणना मदनातुराणाम् ॥ १३॥ सन्तर्जिताभि(पि)गुरुभिः कृतसत्व(सान्त्व)नापि जीवोपमैः परिजनैरनुयाचितापि । जातैश्च कापि हसिताप्यनुशोचितापि मध्यस्थितैर्न गिरिशानुगतिं मुमोच ॥ १४॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुगमनपद्धतिः षोडशी ।

सप्तदशी पद्धतिः । भिक्षाटनम्

सर्वेश्वरोऽपि निजशासनहानिदोषा- द्ग्रामेषु भैक्षचरणादिषु यः प्रयत्नः(त्तः) । आधातुमस्य विनयं गिरिशस्य चक्रुः शिक्षावचांसि दृढभक्तिवशेन नार्यः ॥ १॥ एतद्विभो जहि कराग्रकरोटिपात्र- मेवंविधात्मवधपातकसूचकं ते । कर्मायशस्यमवशापतितं स्वकीयं नाश्लाघयत्यनुगृहं जगति त्वदा(द)न्यः ॥ २॥ दाता जनोऽस्तु भवने भवतोऽप्यनेकः कामं तथापि न फलाय तवार्थितोऽयम् । रत्नाकरोऽपि विधिना यदि नाम शुष्ये- त्कस्तस्य पूरणविधानपरः पयोदः ॥ ३॥ भिक्षाटनं तव न यद्यपि वर्जनीयं देहीति मा वद कदापि शशाङ्कमौले । अभ्यर्थिनामवनताननदुद्रुयैव(?) दाता ददाति नहि . . . . गिरापि लुब्धः ॥ ४॥ आमो(त्मो)परोधविरसा करुणा न जातु भूयादितः प्रभृति ते कृपणामरेषु । चक्रे निसर्गविमलस्य त एव कण्ठे कार्ष्ण्यं वृषध्वज यदीयविपाकदोषः ॥ ५॥ गीर्वाणलोकसरिता सह नित्यमेना- मह्यावलिं शिरसि मा बिभृयाः पुरारे । त्वर्य(य्य)क्रमाकलितविश्वपदार्थवर्गे मा भूत्कदापि न विशेषविदित्यवद्यम् ॥ ६॥ भीमं भुजङ्गमपहाय पिनाकपाणे कण्ठे कुरु प्रकृतिशीतलमेव हारम् । तेनैव शान्तिमुपगच्छतु कालकूट- नित्यास्पदस्य सहसैव गलस्य तापः ॥ ७॥ मा जातु चन्द्रशकलाभरण श्मशाने क्रीडा विभो सह पिशाचगणैर्विधेया । क्षुद्रे चिरं परिचयो विहितो विधत्ते सौजन्यभूषणभृतामपि चित्तभेदम् ॥ ८॥ कस्त्वा निरोद्धुमलमीश यथेष्टचारं विज्ञापनीयमथवास्ति ममैतदेकम् । गौरीपयोधरनिसर्गपरिग्रहेऽस्मि- न्वक्षस्यमङ्गलचिताभसितं निधाय्यम् ॥ ९॥ शार्दूलचर्मवसनव्यसतं विहाय क्षौमं सुरद्रुमभवं परिधेहि नाथ । नैतेन यद्यपि तवास्ति विशेषलाभः शोभां तदाशु लभतां तव संश्रयेण ॥ १०॥ प्रागेव जृम्भितमभूदयशो जयत्सु पुष्पायुधं(पुष्पायुधाय)यदकरोन्नयनाग्निहव्यम् । नेत्रानलोपरि हरास्य सहायमिन्दु- चूडापगोर्मिपयसा भव सावधानः ॥ ११॥ आस्येन हुङ्कृतिमता स्तनितैः कठोरै- रुत्तुङ्गश्रृङ्गयुगलेन च भीषणेन । यस्त्रासमावह(हव)ति भीरुजनास्य शम्भो भित्त्वा जगद्गदमिमं कुरु भैक्ष्यचर्यम् ॥ १२॥ तेनैव वित्तपतिना जहि मैत्त्रबन्धं याच्ञाञ्जलिः शिरसि नाथ मुहुः कृतो मे । भिक्षाटनादुपरतिं तव यो न चक्रे शक्तेन चेत्करकरोटिविपर्ययं वा ॥ १३ (शक्तो न चे कुरु करोटिविपर्ययं वा) ॥ १३॥ मा दयये(?)पदयुगं नलिनः प्रकारं सन्ध्यासु नाथ पितृकाननसङ्क्रमेण । यत्क्षालयत्यहरहः परिषत्सुरीणा- मुत्तंसपुष्पगलितैर्मकरन्दपूरैः ॥ १४॥ योगोचिते मदनसूदन सान्ध्यकाले केशाचिते शवशतैर्निचिते श्मशाने । प्रेतैः प्रमोदनटनं भवता न कार्यं धिग्देशकालगणनाविधुरं चरित्रम् ॥ १५॥ आत्मीयभूतिपरिभूतिकरीं समृद्धि- माकल्ययाल्पशशिभूषणभृत्यवर्गे । आरोप्यते जलजनैर्जगदाधिपत्यं यत्त्वत्समाश्रयणलब्धपदे मुकुन्दे ॥ १६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाटनपद्धतिः सप्तदशी ।

अष्टादशी पद्धतिः । रथ्याचरितम्

भिक्षाप्रतिग्रहमिषेण मृगेक्षणाना- मादाय मानमपयायिनि लोकनाथे । रथ्यासु दुःसहनवोत्कलिकाकुलानां तासां चरित्रमहमद्य विजृम्भयामि ॥ १॥ हारः क्वचित्क्वचिदलक्तरसः क्वचिच्च धम्मिल्लपुष्पनिवहः क्वचिदुत्तरीयम् । क्वाप्यर्धभग्नवलयानि मृगेक्षणानां रथ्या भरेण कृतचङ्क्रमणा विवव्रुः ॥ २॥ क्षोणीतले . . . . . निपातितहारमुक्तां स्वीकर्तुमादृतवतीव निषण्णमूर्तिः । रथ्यारजःसु निहितानि विभो पदानि काचिद्ददर्श सुचिरं पुरतः सखीनाम् ॥ ३॥ काचित्पुरारिपदलाञ्छनभूषिताया वीथ्याविमोक्षविमुखी पुरतः सखीनाम् । भूमौ विकीर्य मुषतो(?)निजहारमुक्तां तासां क(क्र)मग्रहणसम्भ्रममाचकार ॥ ४॥ आदाय शम्भुपदमुक्तिमदादरेण(?) रथ्यापरागमपरा निदधे कचाग्रे । कन्दर्पमुक्तशितबाणनवव्रणानां निर्वापणार्थमिव सिद्धरसस्य चूर्णम् ॥ ५॥ मार्गे शिवस्य पतितं कृतमालपुष्प- मादाय कापि बहु सङ्कटमाससाद । यत्पुष्पमात्रधृतिभूषितमुत्तमाङ्गा- न्नैवाङ्गमस्ति च यदन्यत(द)तो वरिष्ठम् ॥ ६॥ शम्भोः कपर्दगलितं कृतमालपुष्पं लब्ध्वा सखीं प्रमुदितामवलोक्य काचित् । वीथ्यागतप्रणयिना स्वयमप्यवाप्तुं चूडानदीमलभतैव दृशोः क्षणेन ॥ ७॥ वीथ्या ययाप ललितां कृतपुष्पमालां शम्भोः कपर्दगलितामपरा वहन्ती । तां वीथिकां न विजहौ शशिखण्डलोभा लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥ ८॥ वीथ्यां शिवस्य चरणाम्बुजदत्तमुद्रां काचिद्विलोकयितुमाननमानमय्य । धारात्मना निपतदश्रुजलात्तदानीं ज्याबन्धनी मदनकार्मुकयष्टिरासीत् ॥ ९॥ अत्रस्थितं सुचिरमत्र बलिर्गृहीता साकूतमत्र गिरिशेन विलोकिताहम् । इत्याकुला परिजनैः सह तत्र तत्र बभ्राम नष्टमिव कापि मनोभवे तु ॥ १०॥ स्वीकर्तुमैच्छदपरां . . . . . . . . . . . . . . हरस्य पदमुद्रितमादरेण । विन्यासलोपिचकिता मुहुरीक्षमाणा नैवाददे न च मुमोच वधाश्चिराय ॥ ११॥ आदौ वृषस्य खुरधूलिरथास्य घण्टा- नादः पुरः शिशिरमौलिधुनीसमीरः । वीथी स्वयं तदनु भूतपतेः प्रवासे कस्याश्चिदाश्वसथ हेतुरभूत्क्रमेण ॥ १२॥ सम्बन्धि वस्तु दयितेन यथा कयापि प्रत्या मनः सुखयति ध्रुवमङ्गनानाम् । ईशानवाहनवृषानिङ्घ्रिखुराहतायाः पृथ्व्या रजोभिरविनिःसृतिमाप काचित् ॥ १३॥ वीथ्यां चकार कृतमालमवेक्ष्य काचि- न्मौलेः शिवस्य निपतेदिति जाततर्का । दैवात्तदास्यपचिचाय पुनः शशाङ्कं लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥ १४॥ यस्यां विरञ्चिबलसूदनदुर्लभाभ्यां पद्भ्यां चचार सुचिरं स विहारभिक्षुः । स्वच्छन्दकेलिभवनादपि सैव रथ्या पथ्येति कापि न कदापि गृहं विवेश ॥ १५॥ आत्मीयमेव धवलं वलयस्य खण्ड- मास्ते शिवस्य पतितं वनिता विलोक्य । सद्यः कपर्दगलिता शशिनः कलेति जग्राह काचिदुपसृत्य कुतूहलेन ॥ १६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रथ्याचरितपद्धतिरष्टादशी ।

एकोनविंशी पद्धतिः । चरितोपलालनम्

आत्मीयनेत्रपथलम्बिनि वृत्तनाथे रथ्यागता हरवियोगविषादशान्त्यै । वामेक्षणा जगदुरस्य कथाप्रसङ्गा- दाविष्कृतादृतरसानि मिथो वचांसि ॥ १॥ कस्मादयं सखि करेण सिभक्ति शम्भु- र्भिक्षाटने विधिशिरोमयमेव पात्रम् । कार्या कदाचिदपि नार्थितकालहानां दीर्घायुषामपि दशेयमितीव शास्ति ॥ २॥ कोऽन्यो ददाति हिमसानुमतस्तनूनां मारद्रुहे च जगति श्वशुरद्रुहे च । तं लब्धुमद्रितनयामपहाय कन्यां का वा करोति सुकुमारतनुस्तवांसि ॥ ३॥ कैवापरा गिरिसुतामपहाय कन्यां कामद्रुहं जगति कामयती वृषाङ्कम् । तस्याः पितुर्हिमवतः श्वशुरद्रुहेऽस्मै कोऽन्यो ददाति तनयामपहाय भीतः ॥ ४॥ अभ्यर्थितः सुरगणेन . . . . (?)विशङ्क(?) चक्रे हरः किमिति तीव्रविषोपयोगम् । मन्येऽहमुक्तमगुणा गणयन्ति पथ्यं याच्ञा विहङ्गकरणाद्विषपानमेव ॥ ५॥ नेत्रानलार्चिषि विभोर्मदनेन साकं प्लोषोत्सवं किमिति नैव रतिः प्रपेदे । सा तत्र गन्तुमकरोदधभाग्यहान्या तस्या बभूव नयनोदकमन्तरायः ॥ ६॥ कामप्रिया मदनमेव विभोर्वितन्वं दग्धस्तदा किमिति नैव हुताशनेन । दाह्यो न किं व्यतिकरं शिवया शिवस्य मूढः स्वकृत्यमिति दर्शयितुं प्रवृत्तः ॥ ७॥ शैलात्मजासहचरोऽपि हरः किमर्थं मन्दाकिनीं शिरसि सादरमेव धत्ते । इत्थं न चेत्कथमयं बहुशो भवान्याः पादप्रहारफलदं कलहं लभेत ॥ ८॥ देहीति दीनपदमाहितपात्रपाणिः केनार्थिवेषमयमाह्वयने(द्रियते)वृषाङ्कः । सर्वो यथा विभवमाद्रियते जनोऽन्यः कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ ९॥ भिक्षैव वृत्तिरजिनं वसनं यदस्य वाहो वृषस्तदयमिच्छति किं महेशः । सर्वो यथा विभवमाद्रियते जनोऽन्यः कार्श्यं तथा प्रकृतिदुर्लभमीश्वरोऽपि ॥ १०॥ निद्रानिमीलितविलोचनमूल्यमेष शम्भुः स्वदर्शनमदाद्गरुडध्वजाय । कालान्त एव विभवः कुटिलस्वभावै- र्वृत्त्यैः प्रसाधितधियो महते फलाय ॥ ११॥ कैलासचालनकृतांहस एव कस्मा- दीशः कृपाणमदिशद्दशकन्धराय । सन्त्रासिताद्रितनयादृढकण्ठपाश- लाभेन तुष्टहृदयः स न किं ददाति ॥ १२॥ आराध्य दुग्धजलधिः सुधयैव देवा- न्देवाय हन्त महते गरलं दिदेश । एवं ध्रुवं प्रकृतिरेव कुलाशयानां नीचेषु सम्मतिरसम्मतिरुत्तमेषु ॥ १३॥ विद्वज्जनो जगति येन पितामहेन भिक्षाप्रतिग्रहणपात्रमकारि सर्वः । तस्योत्तमाङ्गमपि शङ्करपाणिपद्मे भिक्षाप्रतिग्रहणपात्रमहो बभूव ॥ १४॥ बाणाहवे मुरजिता विजितः पुरारि- रित्येव विश्वगदितः सखि भूतवादः । सत्या स एव स यतः प्रभवो लयानां भूत्यै पराक्रमणकृत्यमतीव हास्यम् ॥ १५॥ शम्भो पुरा यदभवन्मदनेन साक- मद्यापि वैरमनुवर्तत एव किं तत् । गौर्या सहैव कृतविग्रहसन्धिना वा पुष्पायुधो विकृतविग्रहसन्धिरेव ॥ १६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चरितोपलालनपद्धतिरेकोनविंशतिः ।

विंशी पद्धतिः । गृहप्रवेशः

गौरीवरस्य पदपातपवित्रपांशुं रथ्याः कथञ्चिदपहाय शनैः प्रवृत्तैः । गेहे प्रवेशचरितैः पुरमानिनीनां वाणीमिमां वयममी चरितार्थयामः ॥ १॥ काचित्सखीविहृतपथ्यवचोङ्कुशानां पातैः प्रवृत्तिविपरीतशिरोविधूतिः । पार्थस्थितैः परिजनैः परिणुद्यमाना कृच्छ्रेण दुष्टकरिणीव निकेतमाप ॥ २॥ अच्छिन्नया श्रुति(?)परम्परयैव वीर्यां गौरीपतिं विहितसन्निधिमीक्षमाणा । सर्वास्वपीह निलयं प्रति कामिनीषु यातासु कापि च न कापि गृहप्रवेशम् ॥ ३॥ प्राक्सङ्गमे पुरजिता मदशोणरूपं शोकेन पाण्डुरमतो नु गृहप्रवेशम् । कस्याश्चिदाननमभूदुदयाद्रिमेत्य भूयः क्रमाद्विजहता शशिना समानम् ॥ ४॥ आश्रित्य यं भवनतोरणदीर्घदस्म(?) पूर्वं पुरारिमवलोकयति स्म काचित् । तन्मोक्तुमेव न शशाक गृहप्रवेशे प्राप्ते तदा कलितमूर्तिरिव स्मरास्त्रैः ॥ ५॥ नीतां कथञ्चन गृहं प्रियबन्धुवर्गो भूयोऽपि निर्जिगमिषुं सहसा रुरोध । (?)स्निह्यन्ति कारणमपूर्वकपालिनीति कस्यां कथा झटिति हन्त बहिर्गतैव ॥ ६॥ आपाण्डुगण्डयुगला गलदश्रुनेत्रा स्वस्थानविच्युतकटीगुणवन्धपादा । आलीजनेन परितः परिरक्ष्यमाणा बन्दीव कापि शनकैर्वसतिं विवेश ॥ ७॥ पूर्वं गृहात्प्रचलिता हरदर्शनाय वामाङ्घ्रियावकरसैररुणीचकार । बाष्पैर्मषीमलिनितैर्विनिवर्तमाना तामेव कापि पदवीं मलिनीचकार ॥ ८॥ काचित्कथञ्चन सखीजनसान्त्ववादै- र्द्वारं गतापि हरमार्गविलोकनेच्छुः । बाणी मनस्विन इवार्थनदैन्यकाले नान्तर्गता च वनिता न बहिर्गता च ॥ ९॥ या पूर्वमुन्नतपयोधरगौरवेण क्लान्ताप्यवाप हरमीक्षितुमाशु रथ्याम् । तस्यैव सा हृदयदेशजुषा गरिम्णा गेहप्रवेशमशकन्न पुनर्विधाना ॥ १०॥ नाथे चिरेण पतितामनिवर्त्य बुद्धिं काचित्स्वयं निववृते गुरुवश्यबुद्धिः । तस्याः पुनर्बहुविचारसखीं विनैव बुद्धिं कृतं मदनु(?)हास्यमभूच्चरित्रम् ॥ ११॥ काचित्कथञ्चिदपि नैव गृहं विवेश रथ्यां विहाय बहुभिः कृतसान्त्वनापि । कामातुरस्य हृ(ह)तबन्धुजनावकीर्णे कारानिवाससम एव गृहे निवासः ॥ १२॥ गेहं प्रविश्य पुनरप्ययमागतस्य(स्यः , स) वीथ्यां वृषाङ्क इति कापि विनिर्जगाम । रथ्यासु भैक्षचरणादपरं न कृत्यं तस्योरसो मृदुमना गणयाञ्चकार ॥ १३॥ काचित्प्रदक्षिणवि(नि)दर्शनदुर्बलाङ्गी वीथ्यां निपात्य निजभूषणमेकमेकम् । यावद्गृहोपगमनं ननु तावदेव रथ्यावशेषसकलाभरणा बभूव ॥ १४॥ वीथ्या कथञ्चन गृहं वचनप्रभेदैः प्रावेशयद्विरहिणीं प्रियबन्धुवर्गः । चित्तं तदीयमसमाक्षि(क्ष)विरक्तपाशं(?) नालं प्रवेशय(यि)तुमेव पुनर्बभूव ॥ १५॥ काचिद्विवेश शयनालयमाप्तसख्या रथ्यां विहाय हरवीक्षणहानिदूना । तस्या मनश्च विरहव्यथया सहैव श्रीकण्ठसङ्गममहोत्सवलम्भचिन्ताम् ॥ १६॥ हस्तच्युतैश्च बलयैश्चिकि(कु)रप्रमुक्तैः पुष्पैश्च यावकरसैश्च पदाग्रमुक्तैः । कीर्त्यैश्च भा(हा)रमणिभिर्गिरिशस्य रथ्या- माकल्प्य कापि शनकैर्वसतिं विवेश ॥ १७॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गृहप्रवेशपद्धतिर्विंशतिः ।

एकविंशी पद्धतिः । बन्धुवचनम्

आलोक्य मारजनितां कृपणामवस्थां वामभ्रुवां निजगृहं पुनरागतानाम् । सन्दूयमानहृदयो हितबन्धुवर्गो यान्यप्यवोचत वचांसि वदामि तानि ॥ १॥ हा हन्त दग्धमदनस्तव पुष्पशय्या- शेषं शरीरमकरोदसहाय एव । रात्रावथास्य नवकैरवगन्धबन्धु- मन्दानिलप्रभृतयो बहवः सहायाः ॥ २॥ कालानलो यदलिकाङ्क्षि(क्ष)णिरक्षितोऽभू- त्कण्ठे च यद्गरलमर्पितमीश्वरेण । तत्सर्वमात्मविरहे सति बालिकानां तापं विधातुमिति सम्प्रति मे वितर्कः ॥ ३॥ अस्या हरेण विरहादतिकर्शिताया हस्तच्युतं वलयमेतदलब्धदेशम् । आस्ते पुनः स्थितिमगादयमङ्गुलीयं स्थानाच्युतिं मम ह एव भवत्यनर्थः ॥ ४॥ अज्ञातमद्य तनये त्यज शोकशङ्कुं पञ्चायुधः किमपि तत्त्वयि जातकोपः । रागो नवश्चरणयोरनुजातजन्मा मुक्तावली विरचिता नयनाम्बुलेशैः ॥ ५॥ अङ्गेष्वयं धवलिमैव यदङ्गरागो दत्तः शिवेन सखि वृज्ज . . . (?)तैष पोषः । भैक्षं प्रदातुमनघाय यदोद्यमस्ते तूष्णीं स्थिता सुकृतभङ्गभयादपूर्वम् ॥ ६॥ धत्से तदद्य मम पापमभूत्तवेत्थं यत्संशयस्थितिरियं मदुपेक्षयैव । सर्वोऽपि वक्ति जन एव शिवाभिधानं भस्मावलीं प(प्र)ति यथेप्सितमङ्गकेषु ॥ ७॥ तन्मे सुता विदधती परिहासपात्रे प्रायेण कामुकजनस्य गुणोऽपि दोषः । घुर्घूरकं शिरसि नैव सुगन्धि पुष्पं भस्म स्तने न तव कुङ्कुमचन्दनादि ॥ ८॥ यत्ने(त्ते)सुता मम किमन्यदियं वृषाङ्के प्रेम्णा भविष्यति भुजङ्गमभूषणापि । यस्य क्षणं स्मरणमेव सुदुस्तराणां सर्वापदामुपशमाय वदन्ति वृद्धाः ॥ ९॥ तत्सत्यमेव खलु यन्नवबन्धुजीव- शोभाहरं सखि हरायनमामनन्ति । तस्मान्नि(द)तीव रतिमद्य दधासि तेन शोभागतैव तव शंसयितुश्च जीवः ॥ १०॥ दृष्ट्वापि तं शिवमियं पुनरेवमार्ता प्रायेण पुण्यमपि पुण्यवतां फलाय । तत्पादपद्मयुगलस्मृतिमेव सर्वे सर्वव्यपायशमनीति वदन्ति वृद्धाः ॥ ११॥ मेधं विना स्थितिमगान्न सरित्तथैव बाला वृषाङ्कमिति भीतिरभूत्पुरा मे । (?)लोभे महालयमहो यदभूदमुप्या(पुण्य)- प्रायैर्निजैः सह पुनर्भवनप्रवेशः ॥ १२॥ यस्त्वां क्षिणोति विशिखैः स्वशरण्यभूता- मेवं सदा सुमुखि तेन समः स मारः । शाखां स्वयं समधिरुह्य महीरुहस्य यस्तां छिनत्ति निशितेन परश्वधेन ॥ १३॥ यन्न्याय्यवर्त्मगमनं निपुणं त्वयासी- लज्जा च यावदपवादभयं त्वदीयम् । तत्सर्वमालि कथमेकपदे न(नि)विष्टं सर्वङ्कषः स खलु तत्रभवाननङ्गः ॥ १४॥ बालामिमां हतमनोभव पुष्पबाणै- र्मा विध्य सम्प्रति वदामि तथैव पथ्यम् । (?)अस्यामरस्य विरतं सवतीन्दुमौलि- स्मर्ता न किं भवसि तेन पराजयं ते ॥ १५॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये बन्धुवचनपद्धतिरेकविंशतिः ।

द्वाविंशी पद्धतिः । अनुरागः

यश्चे(च्चे)ष्टितं प्रकटितं पुरसुन्दरीणां भूयो विजेतरि पुरामनुरागबन्धम् । प्रस्तुत्य तानि विरहोज्ज्वलमन्मथानि सम्पादयामि विदुषां श्रवणातिथेयम् ॥ १॥ सन्तर्जिता गिरिशमालपसीति मात्रा काचित्त्रपानतमुखी भुवमालिलेख । रेखा तदाकृतिरभूत्किमियं विधत्तां चित्तानुसारि वचनं च विचेष्टितं च ॥ २॥ पार्श्वं प्रजा(या)व(?)गिरिशस्य निजा(?)न्धकारे मा ते विषाद इति जीवसखीजनेन । आश्वासिता झटिति कापि निमीत्य चक्षुः सम्पादितं तम इति प्रमदा जगाद ॥ ३॥ तुङ्गौ युवामिह वृथैव प्रथासुवृत्ता- वन्योन्यसङ्गमजुषौ च वृथेति काचित् । श्रीकण्ठबाहुयुगलान्तरकाङ्क्षयेव कण्डूभृतौ करतलेन कुचौ ममर्द ॥ ४॥ क्रीडाशुकं हर हरेति शनैः प्रवृत्तौ यत्नेन पाठयितुमन्तरमन्मथापि । मातुर्भयेन पुनरेवमवोचदेत- दिष्टं फलं मम करादिति वाक्यशेषम् ॥ ५॥ बालेन्दुशेखरमनारतकालकण्ठं पिङ्गत्विषा तिलकितालकमीक्षणेन । सख्योऽपि यूयमिह पश्यत पश्यतेति कस्याश्चिदाविरभवद्विविधो विलापः ॥ ६॥ बन्धुष्वनादृतवती चिरसंस्कृतेषु भस्मावगुण्ठिततनुर्दृढबन्धमौना । काचित्सदैव हृदये शिवमर्चयन्ती योगं वियोगविधुरा फलितं चकार ॥ ७॥ कस्याश्चन स्तनभरो भसितेन शम्भो- र्वक्षःस्थलप्रणयिना वनितं चकार । यः कर्तुमीप्सति समागमनं महद्भि- स्तद्वल्लभेन कुरुते तदयं पुरैव ॥ ८॥ तुष्टाव निन्दति जने त्रिपुरारिमेका पार्श्वस्थिते स्तुवति गाढतरं निनिन्द । मौनावलम्बिनि चुकोप चकोरदृष्टि- स्नेहप्रिये दुरवबोधगतिर्वधूनाम् ॥ ९॥ काचिन्निजाङ्कमधिरोप्य शनैर्विपञ्चीं गाथामुपाक्रमत पाठयितुं शिवस्य । तस्या विलोचनजलैः पुनरार्द्रव(य)द्भि- स्तन्त्रीं स्वकीयजलता प्रकटीकृतैव ॥ १०॥ एका त्रपोदयवशेन पुनः सखीनां चित्ते विधातुमसमक्षमपारयन्ती । बाह्यं विहाय करणं पटतूलिकादि चेतःपटे स्मरणतूलिकया लिलेख ॥ ११॥ शीघ्रं नयात्र सखि सम्प्रति नीलकण्ठ- मित्यूचिषी सपदि मात्र(तृ)भयेन काचित् । तीव्रातपादुपवनादिति पूरयित्वा लीलामयूरविषयं वचनं चकार ॥ १२॥ चक्षुश्चकार निजसद्मनि यत्र यत्र विश्लेषणैर्गिरिशमैक्षत तत्र तत्र । एतधृवं(?)सपदि सङ्गमतोऽपि मन्ये विश्लेष एव दयितेन वनं(रं)वधूनाम् ॥ १३॥ शम्भुर्यथा गृहमगान्मम भैक्षकाङ्क्षी मां भिक्षयैव सह दत्तवती तदानीम् । प्राप्तः स एव हृदयालयमाशु तस्मै किं देयमद्य कथयेति सखीमपृच्छत् ॥ १४॥ अध्यापितो रहसि केलिशुकः कयापि नामानि मन्मथरिपोर्विरहार्तिशान्त्यै । तानि क्षणाद्गुरुजनस्य परो निगद्य तस्या मनस्थविकृतिं प्रकटीचकार ॥ १५॥ यः कोऽपि सोऽस्तु विषमा गतिरेष रोगो भस्मार्पणं निखिलरोगसमा चिकित्सा । मातुः पुरो वचनमेवमुदीरयन्त्यां सख्यां न्यसक्त तरलां दृशमाशु काचित् ॥ १६॥ काचिन्निजाशयतिरस्करणाय शम्भो- र्निन्दापराण्यकथयद्वचनानि बाला । तानि प्रकोपमधिकं जनयाम्बभूवु- स्तस्याः पुनः परिमरैरनुभाषितानि ॥ १७॥ गाथाः शिवस्य विलपन्नपरो मृगाक्ष्याः क्रीडामृगो विरहतापमपाचकार । संस्मारयन्निजगलेन सितेतरेण कण्ठं तदीयमसकृद्गृहबर्हिणोऽपि ॥ १८॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुरागपद्धतिर्द्वाविंशतिः ।

त्रयोविंशी पद्धतिः । गुरुवचनोपालम्भः

याभ्यो दुरापहरसङ्गमलोलुपाभ्यो बन्धुर्जनस्य कटुपथ्यवचो बभाषे । तासां तदीयवचनश्रवणार्दितानां ब्रूमो वचास्यनुगुणार्थमनोहराणि ॥ १॥ मातः सदा गिरिशसङ्गमविघ्नमेव याचे करोषि न ततः स्वधिजातरोषाः(?) । स्नेहं मिथो न गणयन्ति यतः पुरन्ध्र्याः सापत्न्यमेव करणस्पृहया वदन्ति ॥ २॥ मां दुर्निवारविषमास्त्रकृतावसादां या तर्जयत्यसकृदेव शठैर्वचोभिः । अप्राप्य यौवनमनङ्गविधेयमेषा- मन्ये मदीयजननी जरती बभूव ॥ ३॥ अद्यापि शैशवनवं परिवर्तते मे तन्मैव मां प्रति सवित्र(त्रि)हितोपदेशः । ये यौवनस्थितिजुषो जगतीह तेषा- माचार्यकं वहति मन्मथ एव नान्यः ॥ ४॥ कन्दर्पमुक्तविशिखप्रणि(ण, हि)ताशयस्य यो दुर्विदग्धगुरुसन्निधिदेशवासः । त्रुट्यत्किरातशतरागणनो(?)मृगस्य मन्ये क्षुधार्तमृगवैरिगुहाप्रवेशः ॥ ५॥ पथ्योपदेशसमयः स गतः सदूरो(सुदूरे) यस्मिन्न सन्ति मदनज्वरसन्निपाताः । किं नैव वेत्सि जननि त्वमिमामवस्थां यस्याः कथञ्चिदपि जीवितमेव रक्ष्यम् ॥ ६॥ शाम्येदपि स्वयमयं मदनारि(ग्नि)रीशे नैराश्यतो जननि मा कुरु तं प्रदीप्तम् । एधांसि नीरसनिषेधवचांसि मन्ये कामानलस्य गुरुभिर्बहुशः कृतानि ॥ ७॥ स्नेहो न ते मयि परं मम देह एव मातः किमन्यदितम(र)त्र मम प्रमाणम् । ईशानुसारविनिवारणमाचरन्ती यन्मे झटित्यसुरतेर्विदधात्यनुज्ञाम् ॥ ८॥ मातस्त्वदीयवचनैः शितशूलकल्पै- र्नाहं मृता किमिति मर्मसु ताडितापि । प्रायः प्रियेण विरहव्यसने वधूनां प्राणप्रयाणमपि पुण्यफलं वदन्ति ॥ ९॥ छायां समाश्रयति काममहाद्रुमस्य सर्वोऽपि संस्मृतिमरुस्थलचारुतप्ता । नन्दत्यथापि किमयं वचसो विपाके मन्ये जरा जनयति स्मृतिमूलनाशम् ॥ १०॥ (?)अस्त्येव शम्भुविषयान्मनसो विकारा- द्रागो भमाद्य सखि मा परसङ्गमूलम् । पौष्पं रजः सपदि मालघ(य)मारुतार्थ्यं मूर्ध्नो वधायमपरं(?)पुरुषं जनस्य ॥ ११॥ मातः समस्तमपरं वचनं विमुञ्च शैवी(?)समागतिकथा यदि तां श‍ृणोमि । (?)त(उ)त्कण्ठयोज्ज्वलितकालहुताशतप्ता नाराचपातसदृशान्यवचःप्रवेशः(शा) ॥ १२॥ धामान्नि(या मां नि)यच्छति सुदुर्लभकाङ्क्षिणी भू- र्मा मेति किञ्चिदपि सा जननी न वेत्ति । सर्वैर्विना प्रियतमैः सुखमासितव्यं स्वापेक्षया यदि भवेदभिलाषबन्धः ॥ १३॥ मामद्य शिक्षयसि शङ्करवादमात्रा- द्रोमाञ्चकण्टकितमूर्तिरसि त्वमेव । वृद्धः करोति विषये विषयं परस्मै तस्मान्ममापि विनिवर्तितुमक्षमोऽपि ॥ १४॥ कष्टा नितान्तमशरीरिशरेण पीडा तस्या यदस्म्य(?)तितरार्तिगतो विशेषः । प्रायेण शत्रुरपि शोचति मर्त्यमात्रं मातापि नैव दयि(य)ते मदनातुरेषु ॥ १५॥ त्रातुं कृताभिलषितैः स्मरयन्त्रवृत्ता- न्मौनव्रतैर्गुरुजनैर्भवितव्यमेव । स्वादूकरोति सुकृतामपि कामवृत्तिं शास्त्रेण वा गुरुजनेन च वा निषेधः ॥ १६॥ यो वक्ति पथ्यवचनं हृदयानुकूलं यो वा भिषज्यति भिषक्प्रियभेषजेन । तावेव बान्धवजनश्च चिकित्सकश्च प्रच्छन्नशत्रुरपरो न सुहृन्न वैद्यः ॥ १७॥ एतन्नम(?)प्रथममम्ब मयि त्वदीये प्रेम्णे पुनस्तदनुरूपविचेष्टितेभ्यः । यन्मां प्रतीत्थमुपदेशविधिस्तवायं मा भूद्विजेतरि पुरामनुरागबन्धः ॥ १८॥ अद्यापि शैलसुतया वपुरैक्ययोग- मङ्गीकरोति गिरिशः स्वयमादिवृद्धः । केषाञ्चिदत्र तदयं जरतां जनानां कामानवाप्य वर एव विरक्तिवादः ॥ १९॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गुरुवचनोपालम्भपद्धतिस्रयोविंशतिः ।

चतुर्विंशी पद्धतिः । विरहिण्यवस्थाः

रथ्या विमुच्य कथमप्यनिवेशशेषै- रालीजनैर्भवनमाशु निवेशितानाम् । वामभ्रुवां शशिकलाधरविप्रयोगे देहाश्रयाणि चरितान्युपलालयाम ॥ १॥ कस्याश्चिदक्षियुगलाद्धरयोर्वियोगे जातः प्रसाधनविधेर्विपरीतभावः । बाष्पैस्तयोः प्रथममाहितराग आसी- दत्यश्वसन्मलिनितश्वसितोष्मणैव ॥ २॥ भस्मालिलेप कुचयोर्हरिचन्दनादि- लेपं विहाय विरहे वनितां हरेण । बाष्पोदकं तदपि हन्त पुनर्निरासे शुध्यन्ययोर्निरसनेन जलस्य भेदः ॥ ३॥ त्यक्तेऽपि रत्नवलयैः सखि केलिपद्मै- र्हस्तादपातकथने मणिकन्तुकेऽपि । कस्याश्चिदेव न जहौ करभूषणत्वं क्रीडाशुकः पठितशङ्करनामधेयः ॥ ४॥ श्वासानिलश्च नयनोदकनिर्गमश्च जातागसी(सौ)विरहिणीकुचयोरभूताम् । आक्षेपणेन लघुनो वरणांशुकस्य लोपेन च प्रचुर चन्दनकर्दमस्य ॥ ५॥ विश्लेषदुर्बलमकारणपाटलेन संसृज्यमानमपि गण्डतलं करेण । आपाण्डुरच्छवि बभूव मृगेक्षणायाः संसर्गजा इति मृषैव गुणाश्च दोषाः ॥ ६॥ सम्मानपात्रमहमस्म्यमृतांशुमौले या सत्यमित्यधिकचिद्धितकौतुकैव । (?)अन्या वधूरपहरात्परिकर्शनेन साकं शशाङ्ककलया सममेव धत्ते ॥ ७॥ कस्याश्चिरग(रं ग्ल)पितचम्पककान्ति गात्रं जातं हरेण विरहे घनसारगौरम् । (?)निःश‍ृङ्खलप्रभृतिभिस्तदसन्निधाने व्याप्तं मनोभवयशोगिरिवा(रा)बभासे ॥ ८॥ दृष्टे पुरा पुरविरोधित(नि)काचिदङ्गै- र्या कण्ठकोगतिमयीं(?)ह रतिं प्रपेदे । तान्नैव जातु विरहौ(?)विरहेऽपि तस्मि- न्नन्तर्हितेऽपि सवितर्यरविन्दनै(तै)व ॥ ९॥ तुल्या शशाङ्ककलयेति मृगेक्षणायाः स्थौल्यातिरेकमणितावपरः प्रकारः । अङ्गानि शङ्करवियोगभुवां तनिम्ना- मध्यङ्गसाम्यमितराण्यपि शोच्यमापुः ॥ १०॥ आत्मीय एव सति धार्यदृशां प्रपन्ने कस्तस्य धारणमृते परधारणाय । यत्खेदपाण्डरमथा(?)मुखपद्ममेका हस्तोदकैर्विरहिणी न तु केलिपद्मम् ॥ ११॥ कस्याश्चिदश्रुसलिलेषु हिताभिषेकं शोकानलेन सदयज्वलितेन तप्तम् । गौरीपतेरुपरि लब्धुमिव प्रदेशं तीव्रं तपः पृथुकुचद्वयमाचचार ॥ १२॥ नालङ्कृतौ न शयने न मिथः प्रलापे न क्रीडनेषु न च भोजनपानयोर्वा । आस्थावती शिवसमर्पितचेतनैका रागो निरत्ययसुखोऽन्यविरक्तिहेतुः ॥ १३॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विरहिण्यवस्थापद्धतिश्चतुर्विंशतिः ।

पञ्चविंशी पद्धतिः । अतिदीनोक्तिप्रयुक्तिः

निष्प्राप एव गिरिशे विहितस्पृहाणां वामभ्रुवामतिविभेदनकारणेन । आप्तो जनो रहसि यानि जगाद तानि प्रत्यूषिरै(?)सह वदामि पुनस्तदीयैः ॥ १॥ इन्दीवराक्षि विषमाक्ष इति प्रसिद्धे मा त्वं कृथाः पुरविरोधिनि पक्षपातम् । वैरूप्यमेव सखि तस्य चिराय काङ्क्षे येनायमन्यवनिताजनवर्जनीयः ॥ २॥ कण्ठे हरस्य न वरं परिरम्भणं ते हारोरगेण न कदापि यदेष शून्यः । त्राता पयोधिगरलादपि येन लोका- स्त्रातुं न मामहिविषातिकिमयं समर्थः ॥ ३॥ यः कामदेहदहनाद्विरसः प्रसिद्ध- स्तस्मै कुतः स्पृहयसि त्रिपुरान्तकाय । कोऽन्यः क्षमेत मदनुग्रहमन्तरेण रक्षां विधातुमिव मन्मथपीडितानाम् ॥ ४॥ आश्लेषणेषु कथमिच्छसि शङ्करस्य भस्मक्रयं सुरभिणा कुचकुङ्कुमेन । न्यूनार्धमेव भसितादपि कुङ्कुमं त- दर्धस्थितिः परमभिज्ञम(कृ)तैकमन्त्रात् ॥ ५॥ येनार्धगात्रमनुरागवशाद्वितीर्णं कस्यैचिदेनमधिकामर(य)से किमर्थम् । चक्रे ध्रुवं स पुनरर्धशरीरदाना- दन्याङ्गनाप्रणयसङ्गमनाभ्यनुज्ञाम् ॥ ६॥ भूलोकभृङ्गवनिता यदि दिव्यपुष्प- माघ्रातुमिच्छति तथा हरसङ्गमस्ते । अस्माकमक्षिविषयः सहसैव योऽभू- त्किं सम्भवेन्न विरहेण समागमोऽपि ॥ ७॥ पाणिं हरेण यदि वाञ्छति गृह्यमाणं भीरु त्वयाप्युरगकौतुकमेव बद्धम् । सत्यं तदेव दृढकौतुकबन्धिने(न्धनं)मे व्यर्थः करे शिथिलकौतुकतन्तुबन्धः ॥ ८॥ भर्तारमिच्छसि शिवं यदि तेन सार्धं वस्तव्यमालि नियतं पितृकारणे (कानने)षु । एणीदृशां हृदयवल्लभसन्निधाने सौधस्थलस्य विपिनस्य च को विशेषः ॥ ९॥ हित्वा तपांसि परुषाणि हरो दुरापः कर्तुं क्षमे न खलु तावकमन्तमेतत् । मुग्धे तदीयविरहानलतीव्रतापा- दस्मादसातरमस्ति तपः किमन्यत् ॥ १०॥ शैलात्मजैव हरमर्हति कामिनीषु मुग्धे कथं कथय तेन समागमेच्छा । अर्हेतराणि गणनापरवेषवन्ति सर्वोऽपि सर्वमपि वाञ्छितुमर्ह एव ॥ ११॥ उन्मादिनी त्वमिति निश्चितमालि किं तु तन्मात्रवेषचरिते यदि ते रिरंसा । उन्मादिनी यदि भवेयमहं तथा त्वं नो मन्त्रशिक्षणविधिः प्रकृतिस्थितानाम् ॥ १२॥ गौरीं विना सखि कदापि न शम्भुरास्ते कालोऽन्यया सह न तस्य समागमाय । रात्र्या सहैव चरि(र)तो दिवसस्य नित्यं किं सन्ध्यया न सममस्ति मुहूर्तयोगः ॥ १३॥ व्रीडां तनोति मदिराक्षि विशेषतोऽपि वामभ्रुवामननुरागिणि रागबन्धः । श्लाघावहो भवति नैव किमापगाना- मम्भोनिधेरुपरि यस्त्वयमेव पातः ॥ १४॥ कामं हरः सुलभ एव विहाय भूतिं सापत्न्यमिच्छसि कथं जगतां जनन्याः । अस्थानधावनपरस्य मनोभवस्य प्रायेण नैव हि जलस्थलयोर्विपातः ॥ १५॥ गौर्याः पुरो वहति यः शिरसैव गङ्गां विस्रम्भभूमिरियमालि कथं परस्य । स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौ तस्मिन्ममापि खलु पाक्षिकलोभशङ्का ॥ १६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽतिदीनोक्तिप्रयुक्तिपद्धतिः पञ्चविंशतिः ।

षड्विंशी पद्धतिः । उद्यानचरितम्

उद्यानमाशु विविशुर्हरविप्रयुक्ता नार्यो निजातिपरिहारमतिभ्रमेण । पूर्वं निगूढपतनैश्च शरै . . . . . . स्तस्याथ दृश्यपतनैश्च सुसंस्कृतैव ॥ १॥ काचिन्निजोपवन एव वियोगरुग्णा पुष्पाणि वीक्ष्य विकृपा निभृतं दुदूये(?) । हस्तो निजस्य निजचापलदर्शनः स सव्यस्मरातुरजनैर्नतु पुष्पहासः ॥ २॥ आलोलकिंशुकतरोस्तरुणं प्रसून- मापाटलं परिजहार भयेन काचित् । निर्भिन्नकामिहृदयक्षतजावसक्तं नूनं स्मरास्त्रमिदमित्युपजातबुद्धिः ॥ ३॥ काचिद्वधूः शमय शम्भुवियोगताप- मित्यादरेण मलयद्रुममालिलिङ्ग । लेभे स सिद्धिमतुलां तरुणैरलभ्यां नैषा स्मरार्तिशमनं फलमाप किञ्चित् ॥ ४॥ कन्दर्पबाणनिकषच्युतचूर्णकल्पं सद्यः परागमवलोक्य दिशासु पौष्पम् । आसूचिताखिलवियोगिजनव्यपाय- मुप्तातपांसु(?)मपरा गणयाञ्चकार ॥ ५॥ काचिद्गता विरहिणी सहकारमूल- माकर्ण्य शब्दमशनिस्वननिर्विशेषम् । सद्यः किमित्युपरि लोचनमर्पयन्ती पापादवैक्षत भयङ्करमन्यपुष्टम् ॥ ६॥ कण्ठे कयापि करपल्लवमर्पयन्त्या भृङ्गस्वनव्यथितया गृहवाटिकायाम् । व्याख्यातमेव च सखीजनदीर्घमान- कर्णावतंसनवपल्लवनैव(?)रम्यम् ॥ ७॥ दृष्ट्वा पलाशमुकुलान्कुटिलस्वभावा- न्काचिद्भयादपससर्प सुदूरतोऽपि । मिथ्या प्रकाश्य कथने निजसौमनस्यं कौटिल्यमात्मनि भवन्परिवर्जनीयः ॥ ८॥ आलम्बितो विरहदुःखितया कयाचि- दाम्रद्रुमस्य सहसा तरुणप्रवालम् । कृष्णच्छविर्यदभवन्ननु युक्तमस्य प्रागेव पाणितलशोणिमतस्करस्य ॥ ९॥ यस्यैव चम्पकतरोम(र)पनीय(?)पूर्वं मूले ददौ त(वि)मलशीतलवारिधाराम् । तस्येतराकुसुमितस्य विनिश्चिकाय दातुं पुनर्विरहिणी निशितास्त्रधाराम् ॥ १०॥ भृङ्गस्वनास्य(ढ्य)कुसुमे कुरवे पुरस्थे गाढं निमील्य नयने विरहिण्ययत्नात् । कर्णद्वये तु निजसिद्धिविधानहीने काचिन्ननन्द च निनिन्द च पद्मयोनिम् ॥ ११॥ काचित्पुरा प्रतिदिनं परिवृद्धिहेतो- र्यस्यै दिदेश सलिलं नवमालिकायै । सा पुष्पितैव जलमश्रुमिषं वियोगे तस्यै प्रदाय कथमप्यनृणा बभूव ॥ १२॥ पुष्पेषु संस्तुतिमतीं क्वणितालिमाला- मालोक्य कापि महदेव भयं प्रपेदे । शम्भोस्तृतीयनयनानि(न)लधूमनीला सा मन्मथस्य धनुषो यत एव मौर्वी ॥ १३॥ यो लम्बितो विरहधर्मितया कदाचि- दुद्यानचूतविटपो मधुसम्भ्रमश्रीः । मानप्रवालकुसुमेक्षणमेव जात- स्पर्शोऽपि कामुकजनैः कुरुते विपत्तिम् ॥ १४॥ अङ्गारसञ्चयमतिर्विरहातुरायाः पुष्पेष्वजायत पलाशमहीरुहस्य । सा स्थापितैव मधुपैः पुनरेव लीनैः किञ्चित्प्रशान्त्युचितकार्ष्ण्यधियं विधाय ॥ १५॥ मा पुष्पितोऽयमिति नैव चकार काचि- दुद्यानभाजि पदघातमशेषयूनि । न्यक्कारकृत्यमपि नाभिलषन्ति कर्तुं प्रायः प्रसादविषयादपरत्र नार्यः ॥ १६॥ कामास्त्रमेतदिति जातरुषा लतासु विश्लेषिणी सुमनसा हरणे प्रवृत्ता । कामास्त्ररक्षकजनैरिव सद्य एव सैषा न्यरोषि(धि)कृतहुङ्कृतिभिर्द्विरेफैः ॥ १७॥ स्निग्धेन कोकिलरुतेन नवोद्गतेन चूताङ्कुरेण पवनेन च मालयेन । कालं वसन्तमवलोक्य जनोपकण्ठे कालं वसन्तमपरा कलयाञ्चकार ॥ १८॥ आलम्बिता विरहधर्मितया कयाचि- त्क्लान्तप्रवालकुसुमाभवदाम्रशाखा । तां वीक्ष्य तादृशदशां प्रणयिन्यथास्यां दीर्घं स्वकीयमजुगुप्सत बन्धुभावम् ॥ १९॥ आमूलपुष्पितमवेक्ष्य पलाशमन्या विश्लेषिणी ज्वलितबुद्धिरिमं शशाप । अङ्गारकारकरगोचर एव पूर्वं पश्चात्त्वमेवमरुणच्छविराशु भूयाः ॥ २०॥ यस्याश्चिराय विदधे गृहयूथिकायाः पुष्पोत्तमाय बहुदैवत(त)र्पणानि । तां पुष्पितेन परिगृह्य चकार काचि- द्विश्लेषिणीयुवतिजातिसमानकक्ष्याम् ॥ २१॥ अप्याश्मनीपरिहृतेन मुखं समीक्षे दृष्ट्वा वसन्तसमये लकुलं सपुष्पम् । काचिव्द्यथां विरहिणी महतीं प्रपेदे सत्यं नहि प्रतिनिधिर्भवितव्यतायाः ॥ २२॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानचरितपद्धतिः षड्विंशतिः ।

सप्तविंशी पद्धतिः । उद्यानोक्तिः

उद्यान एव ननु पुष्पितशालवर्गे विश्लेषितप्रमनसां मदिरेक्षणानाम् । तं तं विनेयमनुभूय विषादवेगा- द्वाक्यानि वक्त्रगलितानि विजृम्भयामः ॥ १॥ यन्नाम ते जगति गूढमयातवृत्या(?) जातं पुरा कुरबकद्रुम वाच्यमेव । भूयस्तदद्य भवता कृतमन्वितार्थं वाचालमत्तमधुपावसथं(?)प्रदाय ॥ २॥ उद्यानभूषण तवेदमनुक्तरूपं छायाप्रदानहृततप्तजनश्रमस्य । अस्मिञ्जने विरहपावकतापवृद्ध्या शोकातुरेऽपि दयसि त्वमशोक एव ॥ ३॥ वाचालकोकिलतया मधुराणि पूर्व- मापीडयेति विधुरं तव कूजितानि । धान्यं धिनोति वचनैः श्रवणानुकूलै- रन्यं दुनोति परुषैः परपुष्टजातिः ॥ ४॥ किं किंशुक त्वमपि सम्प्रति पीनलज्जः कर्त(र्तुं)व्यवस्यसि रुजं कुसुमैरगन्धैः । अभ्यर्थितोऽहमिति विक्लवमानसाना- मस्त्येव दार्क्ष्य(क्ष्य)मसतां परि(र)पीडनेषु ॥ ५॥ भृङ्गाङ्गने सखि तवापि ममापि तुल्या श्रीकण्ठ(कण्ठ)रुचिरत्र हि कोप(ऽपि)भेदः । पुष्पेषुचेष्टितमतीव तवानुकूलं सत्यं तदेव हि मम प्रतिकूलमासीत् ॥ ६॥ आपीयसीषु(?)रसमागलमुन्मिषत्सु पुष्पेष्वमी तत इतश्चरकायितेषु । मन्ये कलध्वनिमिषेण मनोभवस्य गायन्ति मत्तमधुपा विजयप्रशस्तिम् ॥ ७॥ पूर्वं मया चिरतरं सहकारबुद्ध्या यः पोषितः प्रतिविधानमुखैः प्रयत्नैः । जातः स सम्प्रति जगत्त्रयनाशहेतु- रा हन्त पुष्पसमये विष एव . . . . ॥ ८॥ नृत्तोद्यमोऽसि फणिसङ्गमनिर्भयोऽसि बर्हिन्यदप्यसितबन्धुरकन्धु(न्ध)रोऽसि । तैस्तैर्गुणैरनुकरोषि पिनाकपाणिं हन्तुं . . . . मो(?)किमधुना कथमक्षमोऽसि ॥ ९॥ अम्भोनिधौ निपतितो यदि सेतुहेतोः शैलोऽपि दक्षिणसमीरणजन्मभूमिः । सीतैककान्तविरहेण क(व)रं कपीन्द्रैः संरक्षिता युवतयः सकला भवेयुः ॥ १०॥ यत्ते निसर्गलघिमा यदभूल्लतानां संसृज्य पुष्परजसा तव धूसरत्वम् । मैत्रं च यत्तव जलैरुचितं तदा तै- र्मन्दानिल त्वमसि यत्प्रतिकूलवृत्तिः ॥ ११॥ आरग्वधादनिल कोरकमाहर त्वं सद्वा प्रसूनमथवा दलमेतदीयम् । सौरभ्यमेव यदि वा करुणा तवाहो किं नाञ्जनेयजनकस्य वियोगिनीषु ॥ १२॥ अत्युच्छ्रितासु सहकारमहीरुहाणां शाखासु पुष्पनिबिडास्वधिरूढवन्तः । प्रायः कुहूरिति पिका निजकूजितेन पथ्यां निशामभिवदन्ति वियोगिनीभ्यः ॥ १३॥ पोषं स्वकीयजननीपरिवर्जितानां कुर्वन्ति ये बलिभुजः पिकपोतकानाम् । तैः सम्यगेव विदितं परिरक्ष्यपात्रं कृष्णात्मनां सुकृतरूपमपि क्रियासु ॥ १४॥ पूर्वं मदीयवदनासवपुष्पितस्त्व- मद्याहमस्मि विधिना हरविप्रयुक्ता । हा हन्त पीडयसि मां बकुल प्रसूनै- र्भोक्तव्यमात्मकृतदुष्कृतमात्मनैव ॥ १५॥ बाणः(?)सुवर्णविजयी शुचिरेष गन्ध(धः) सम्भावना शिरसि ते परमेश्वरेण । एतत्तथापि कृतमाल तवास्ति दोषो यत्सङ्गतोऽसि मलिनैरसकृद्द्विरेफैः ॥ १६॥ उद्यानकेलिकमलानि च तानि हित्वा शम्भोः पदाम्बुजयुगे यदि ते रिरंसा । गीर्वाणनाथगणकस्य जनार्दनादे- रारुह्यतां सपदि लालत(?)मौलिमाला ॥ १७॥ क्वाप्युच्चयः सुमनसां कुहचित्परागो गन्धः क्वचित्क्वचन दक्षिणगन्धवाहः । दिष्ट्या वसन्तसमये मरणाभ्युपाय(यः) सार्वत्रिको विरहदुर्भरजीवितानाम् ॥ १८॥ पूर्वं प्रवालमथ पुष्पमथो नु गन्धं पश्चान्मधुव्रतकुलं पुनरस्य शब्दम् । चूते विधाय विधिरेवमभद्रमालां किं किं करिष्यति वियुक्तनिरूढवैरः ॥ १९॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उद्यानोक्तिपद्धतिः सप्तविंशतिः ।

अष्टाविंशी पद्धतिः । शिशिरोपचारः

उद्रिक्तशङ्करवियोगविषादशान्त्यै नानाविधे सपदि बन्धुजनैः प्रवृत्ते । शीतक्रियाप्रकरणे वरवर्णिता(नी)नां यद्यद्बभूव चरितं कथयामि तत्तत् ॥ १॥ सञ्चारितैश्च कदलीदलतालवृन्तै- रुत्थापितः परिजनैः शिशिरः समीरः । नान्तर्ज्वरं मृगदृशां शमयाम्बभूवु- र्यत्ने कृतेऽपि न फलाय दुदुःखवादः(?) ॥ २॥ मालां नवोत्पलमयीं विरहोष्मितायाः सख्या निधाय हृदये कृतमानुकूल्यम् । पुष्पास्त्रमोचनपरस्य मनोभवस्य विस्रम्भणं न वनितासु कदापि कार्यम् ॥ ३॥ यः कल्पितः कुचतटे विरहातुरायाः शैत्याय सान्द्रतरचन्दनपङ्कलेपः । अन्तः सतामधिकृतं जनयन्नयासी- दापाकलास्यनवकर्दमलेपकक्ष्याम् ॥ ४॥ कस्याश्चिदीशविरहे शयनीकृतानि पङ्केरुहाण्यपि तया सह शोकमापुः । अन्यार्तिनिर्वृतिमशक्नुवतां विधातु- र्मानिष्वयं सुमनसामुचितैव वृत्तिः ॥ ५॥ धारागृहं विरहवह्निशमाय तन्व्या भूयोऽपि मुग्धपरिवारजनश्चकार । तस्याः सदा कुचतटे पतिताम्बुधारे धारागृहत्वमधिकुर्वति नेत्र एव ॥ ६॥ हारः पयोधरयुगे विहितः कयापि विश्लेषितापजुषि नीलदृशामवापुः । सन्तापशान्तिकरणाक्षमतापवाद- माधातुमिन्द्रमणिमूर्धनि बन्ध एव ॥ ७॥ विस्रम्भिता प्रियसखीवचनेषु रम्भा- माश्लिष्यति स्म विरहोष्मशमाय काचित् । कस्याश्चन स्तनयुगे निशितं मृणाल- सान्निध्यतेन(?)सुषुवेऽम्बुजमाननस्य ॥ ८॥ आपीतरक्तकपिशा किमु जालजिह्वा ज्वाला किमद्य जगतः किमुत क्षयाग्नेः । आलोक्य काचिदतिसन्दिदिहे सखीभि- र्नीतानि शम्भुविरहे नवपल्लवानि ॥ ९॥ हारादिभूषणविधिः सरसैर्मृणालैः पत्त्रैर्नितान्तपृथुभिर्व्यजनोपयोगः । पद्मैश्च कल्य(ल्प)रचना विरहातुराया- स्तत्पद्मिनीविधिरहो विरहैकशेषः ॥ १०॥ कस्याश्चिदान्तरघनज्वरशान्तिहेतो- रालीजनेन विहिते शिशिरोपचारे । रेजे कुचोपचितचन्दनपङ्कलग्ना मुक्तावली बिसलतेव मुखाम्बुजस्य ॥ ११॥ सख्यार्पितेन कुचयोर्नवचन्दनेन भूरिज्वला विरहिणी कुपिता क्षणेन । तस्यास्तु देवघनसन्नहनावि(दि)लेप्तुं काचित्कृपामृदुमना न वृथा चकार ॥ १२॥ कस्याश्चिदीशविरहानलतापशान्त्यै वाञ्छां विभोर्बहुमते भसिते वहन्त्या । भस्मात्मना परिणतः क्वथितोऽङ्गसङ्गा- त्सख्या कृतः सरसचन्दनलेप एव ॥ १३॥ कल्हारसारघनसारहिमादि वस्तु यत्पठ्यते हृदयतापहरं विदग्धे । तत्सर्व(मेव स)मभूत्कुचयोः परस्याः किं चौषधं गिरिशशब्दितमेव शिष्टम् ॥ १४॥ जित्वा सरोजनिलयामलयागृहीतां सौर्यं तमः कमलिनीनियतं परस्याः । पद्मैरकारि शयनं व्यजनं विशालैः पत्त्रैर्मृणालरचितानि विभूषणानि ॥ १५॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये शिशिरोपचारपद्धतिरष्टाविंशतिः ।

एकोनत्रिंशी पद्धतिः । सख्युपालम्भः

नारीजनो हरवियोगमहोपशान्त्यै शीतक्रियां प्रियसखीषु वितन्वतीषु । निःश‍ृङ्खलद्विगुणवर्धिततीव्रताप- स्तत्कृत्यभूषणपरामिति वाचमूचे ॥ १॥ शीतक्रियां फलवतीं यदि कर्तुमास्था सख्यौ मदीयमुखतः श‍ृणुताभ्युपायम् । आनीय शङ्करमिहाद्य मदीयपार्श्वे कार्यास्ततो नु विविधाः शिशिरोपचाराः ॥ २॥ सत्यं त्वया प्रकटितो मयि भावबन्धः शीतक्रियासु विरमाद्य वृथाप्रवृत्तेः । शक्नुः(क्यः)कथं शमयितुं सखि निर्विकल्प- कल्पावसानदहनश्चुलुकोदकेन ॥ ३॥ जीहागधेन(?)हरिचन्दनसौरभेण सान्द्रेण किं तव दिगन्तविजृम्भितेन । बद्धादरः पुरुषभस्मविलोच(लेप)नेऽपि यत्तत्पराङ्मुखमना जगदेकनाथः ॥ ४॥ किं चन्दनेन किमु पल्लवसंस्तरेण किं मु(मौ)क्तिकैर्बिसगुणैरथ भूषणैर्वा । मूढे सखि प्रियसमागम एव यद्वा मारज्वरस्य मरणं शिशिरोपचारः ॥ ५॥ प्रारभ्यते प्रतिविधिः सखि यो भवत्या मूर्छासु मे हरसमानधनं विनान्यः । काराग्रहाज्झटिति निर्गमतो जनस्य द्वारोपरोध(नपरेण)शठेन तुल्यः ॥ ६॥ आदित्यतापसदृशं विरहोष्मतापं बुद्ध्वेव या प्रयतते शिशिरोपचारे । सा त्वं पयोधिसलिलैर्वडवामुखाग्नेः शान्ति करोष्यपरवह्नि ससम्भ्रमेण ॥ ७॥ साम्यं प्रतीत्य सखि साम्प्रतमन्यरोगै- स्तस्येदृशः प्रतिविधानमनोरथस्ते । सोऽयं पुनः स्मरगतो विपरीतवृत्ति- र्यस्यैक एव जनकश्च निवारकश्च ॥ ८॥ क्रीडाशुकं सखि कलीनवचांस्यजस्रं जल्पन्तमेनमपसारय शीघ्रमेव । अस्या न शिक्षणगिरं मुहुरुद्गिरन्त्या कार्यस्त्वयापि मम सन्निधितोऽपसारः ॥ ९॥ निर्वापणं सरसवस्तुभिरेव कर्तुं मूढैः किमस्य सखि वाञ्छसि चन्दनाद्यैः । किं त्वं न वेत्सि सरसेषु मनोभवाग्नि- र्वृद्धिं प्रयाति सुतरामिति लोकवादः ॥ १०॥ और्वानलं जलनिधेर्नहि श(क्यते यै)- र्हेतुं दवाग्निमथवा न वनद्रुमाणाम् । तैर्मोक्तिकैः किसलयैरपि तैरिदानीं शक्यः कथं शमयितुं सखि मन्मथाग्निः ॥ ११॥ ये शीतलप्रकृतयो भुवने पदार्था- स्तेऽप्यद्य हन्त मयि तापकरा मदाद्याः । यः सर्वसर्गनिकरे निपुणः स वेधाः कर्तुं क्षमो न किमयं गुरुवैपरीत्यम् ॥ १२॥ शय्यां करोषि मम तापनिवृत्तये चे- दादित्यमैत्र्यजनितौष्ण्यगुणैः सरोजैः । सख्यावयोर्हृदयजीवितयोरभेदा- न्मारज्वरो मयि घनस्त्वयि हन्त मोघः ॥ १३॥ यं पन्नगारिनिविषोष्मनितान्ततप्ताः श्रीकण्ठपादपमिवानिशमाश्रयन्ते । अन्तर्ज्वरं शमय मे सखि तस्य शम्भोः काराग्रहान्नहि वरः शिशिरोपचारः ॥ १४॥ नैवामुना श्रुतिकटुक्वणना शुकेन नैव त्वयानुपम . . . . व्यदधानयापि । नीतौ युवां हितविधायि पदं यथैव मन्ये मयैव सखि सम्प्रति मेऽपराद्धम् ॥ १५॥ हारस्त्वया सखि कृतो यदि मे मृणालै- र्वीरे न केन यदि वा विदितं मयैव । नाथेन वक्षसि धृतो यदतो ममाशु सन्तापहार्यपि भवेत्स भुजङ्गहारः ॥ १६॥ मत्तेव(त्तोऽव)गच्छ सखि सम्प्रति शीतविद्यां (मत्तेव(त्तोऽव)गच्छ सखि शीतविधानविद्यां) विश्लेषिणीमलमलं विफलक्रियाभिः । लोके सुखप्रदतया प्रथितानि यानि तैर्वस्तुभिर्वरण एव परं भिषज्या ॥ १७॥ प्रारम्भतोऽपि पुरतः परपीडनानां यान्त्या पदं स्वयमकारणरूढवैराः । यन्मां वियोगविधुरां परितप्तुकामो निष्पीड्यते मम(?)यतो भवतीभिरद्य ॥ १८॥ वाक्येऽपि यार्जनकभूर्विरभङ्ग(?)दीयो . . . . राक्षसीभिरनिशं न वृता सखीभिः । तस्या अपि प्रियसखीजनसङ्गम चे- च्चित्रं क्रियामहमिवानुभवेदसस्याम्(?) ॥ १९॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये सख्युपालम्भपद्धतिरेकोनत्रिंशतिः ।

त्रिंशती पद्धतिः । प्रदोषचरितम्

तापं सरोरुहदृशामचिकित्सनीयं विज्ञाय शीतलविधाभिरपि क्षणेन । अन्तर्दधे करुणया किल तिग्मभानु- स्तासां पुनश्चरितमद्य वयं वदामः ॥ १॥ तिग्मद्युतावपरदिक्प्रणयप्रवृत्ते दुःखं विभाव्य रजनीमुखभावतीव्रम् । कस्याश्चिदंशुमलिनं विरहातुरायाः पूर्वं मुखं तदनु पूर्वदिशस्तमोभिः ॥ २॥ जालान्तरेण पवनः प्रविशन्कयापि क्रु(रु)द्धो मृदु . . . . ढकवाटसमर्पणेन । लप्ते यथात्मनि तथा विशति स्वगेहे मन्दानिलेन विरहिण्यवरोदवज्राम् ॥ ३॥ कस्याश्चिदस्तमयलम्बितपाटलिम्ना पूष्णा सहैव पतत . . . . मायाम् । सख्या वियोगपरगारनियु(रु)द्यमायाः(?) कोपात्पपात शनकैररुणः कटाक्षः ॥ ४॥ भीतिं यदैव विदधे कुसुमैर्हसद्भिः . . . . तोयदतटान्तरितस्वरूपा । वामभ्रुवो विरहदर्वि . . . . ताशयायाः प्रादुर्भवन्नपि पुनर्नत . . . . हिमांशुः ॥ ५॥ आलम्बते दिनमणिः सखि पश्चिमायां सद्यः कयापि वि(प्यभि)हिता हरमानयेति । काचित्सरःसरसिजं मुकुलायमान- मालोक्य पाणिकमलं मुकुलीचकार ॥ ६॥ यः पावकः प्रणयिभिर्दिवसे पृथिव्या- मादायि चण्डमहसः किरणैरनेकैः । सर्वोऽपि हन्त निशि मन्मथपीडितायाः कस्याश्चिदाशु हृदयं स विवेश तापः ॥ ७॥ या तुङ्गसौधशबलीभिधिता(?)वियुक्ता या तत्समीपगतमङ्गलदीपिका च । सख्यः प्रमादमभिशङ्कय तयोर्विनेतु- र्जालप्रविष्टपवनं समतेव(?)रक्षाम् ॥ ८॥ काचित्सहायरचि(हि)तां निशि चक्रवाकीं दृष्ट्वा सतीष्वपि सखीष्वनुरागिणीषु । तस्यै शनैरकथयन्निजकामपीडां नूनं दशासदृशता प्रणयस्य हेतुः ॥ ९॥ भीमं तमस्तदपि कापि ननन्द तस्मा- द्यस्मात्रिलोचनगलस्मृतिमाततान । काचिद्विलोक्य कमलानि निमीलितानि विश्लेषिणी विकसितानि च कैरवाणि ॥ १०॥ शोकः सतां परविपद्यसतां च हर्षो धात्रे च(त्रैव)सृष्ट इति कापि विनिश्चिकाय । गौरीपतेरभिसृतिं सुदृशा कयापि कर्तुं प्रसाधनमशङ्कितमाचरन्त्या ॥ ११॥ नाबन्धि रत्नरशना विपुले नितम्बे वाचालता गुणवतामतिदूषणाय । सन्ध्यानभश्चरमसीमनि कापि पांसुं संसर्पिणी विरहिणी सहसा निरीक्ष्य ॥ १२॥ मेने जगत्त्रितयनिर्जयवैजयन्तीं कामस्य रत्नपटिकां भवविह्वलैव । . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ॥ १३॥ इत्युत्प्रेक्षावाल्लभकृतौ भिक्षाटनकाव्ये प्रदोषचरितपद्धतिस्विंशतिः ।

एकत्रिंशी पद्धतिः । प्रदोषोक्तः

प्राप्तः प्रदोष इति वीक्ष्य निरर्गलेन पुष्पायुधेन भृशपीडितमानसानाम् । वामभ्रूवां विरहतापविजृम्भितानि वाक्यानि वक्तुमभिवाञ्छति चेतना मे ॥ १॥ . . . . . . . . . . . . . . स्वयमेव भीतिं विध्यन्ति मुग्धहरिणान्विजने पुलिन्दाः । आचार्यमुच्चरितगोपतिवंशगीतं कामस्तु विध्यति वियोग(गि)जनं प्रपेदे(पद्य) ॥ २॥ तुभ्यं नमो भवतु वासरलोपसन्ध्ये नान्तःश्लथामनुकरोषि जटां शिवस्य । आशास्महे वयममी तत एव हेतो- र्मा भूत्कदापि शशिनः शकला . . . . ॥ ३॥ नेयं निशा हतनिशाचरयोषिदेषा हन्तुं वियोगविधुरं जनमाजगाम । अस्या मुखे सपदि यः प्रथते प्रकामं रागः स कोपजनितो न तु सान्ध्यरागः ॥ ४॥ सन्धुक्षयत्यविरतं हृदयं मदीय- मन्तः प्रविश्य मदनाग्निरसौरमीरः(मसौ समीरः)(?) । अस्मिन्नमुष्य विषमास्त्रविमुक्तबाणै- रापाद्यमानविवरे सुकरः प्रवेशः ॥ ५॥ . . . . पश्चिमे क्षणमदर्शि नभःप्रदेशे रागः क्व यात इति सम्प्रति मे व(वि)शङ्का । सत्यं हरेण विरहे हरिणेक्षणानां चित्तेषु पुष्पधनुषा कृतसंविभागः ॥ ६॥ आसन्नचन्द्ररमणप्रणयावि(व)लिप्ता कामव्यथां मनसि कैरविणी करोतु । अम्भोजिनि त्वमपि सम्प्रति वल्लभेन विश्लेषिणीमयि(धि)कथं रुजमादधासि ॥ ७॥ दग्धुं जगत्त्रयमयं किल कोऽपि वह्नि- रुज्जृम्भते वियति सान्ध्यमहश्छलेन । इत्थं न चेत्किमपि सम्प्रति वारि विप्राः सश्रद्धमञ्जलिभिरूर्ध्वममी क्षिपन्ति ॥ ७॥ यस्य प्रयाणसमये प्रकटानुरागः सोऽवश्यमेष्यति पुनः सवितेति सुप्तिम् । अम्भोजिनी व्रजति सुप्तिकथा कथं स्या- न्निःसङ्ग एव गिरिशे मम भक्तिमत्याः ॥ ९॥ सास्वे(?)स वासरपतिर्दिशि पश्चिमायां तेजःक्षयं मयि वशेन बभूव रक्तः । सा हन्त पातयति सा तमियं वराङ्गी कस्यापदे जगति नान्यतरानुरागः ॥ १०॥ मन्येऽहमित्थमुदयारुणचन्द्रनामा स्वीकारिणः प्रलयकालहुताशनस्य । धूमोऽयमग्रजनितस्तिमिरच्छलेन विश्लेषिसार्थनयनाश्रुनिपातहेतुः ॥ ११॥ एकस्य रात्रिमुखवेषविषद्रुमस्य सञ्जातसान्ध्यकिरणारुणपल्लवस्य । आगामिपूर्णशशिबिम्बमहाफलस्य तारागणं विगणयामि नवप्रसूनम् ॥ १२॥ अत्युच्छ्रितादनिल ते मलयात्प्रसूति- र्नित्यं यतः परिचयं सुमनोभिरेव । दाक्षिण्यवानिति जगद्विदितोऽसि तस्मा- न्मा जातु जारसरणीं व्रज नीचसेव्याम् ॥ १३॥ पूर्णेन्दुपूरमरुदत्र हिमाम्बुगर्भो गन्धोऽयमस्य मुकुलस्य विजृम्भमाणः । नाम प्रदोष इति दोषसमग्रभावा- त्स्रष्टा यथार्थमकरोद्रजनीमुखस्य ॥ १४॥ धन्या हि सा भगवती दिवसान्तसन्ध्या यामं गतां भुवि सुवीक्ष्य पिनाकपाणिः । विश्लिष्टबन्धनजटाभरणस्य हर्षा- गौर्याः समक्षमपि कृ(नृ)त्यति वीतशोकः ॥ १५॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रदोषोक्तपद्धतिरेकत्रिंशतिः ।

द्वात्रिंशी पद्धतिः । चन्द्रोदयः

कन्दर्पशासनविलङ्घ्रिविजनेषु रोषा- द्रूपादिवेन्दुमुदयस्थमवेक्ष्य ताम्रम् । जज्ञे हरेण विरहे वनिताजनस्य यच्चेष्टितं तदधुना कथनीयमास्ते ॥ १॥ उष्णायमानमुदयारुणमिन्दुबिम्बं काचिद्रवे(?)विरहिणी न शशाक भेत्तुम् । तस्या विवेकमतिदायितया तदानीं तस्योपयोगमहितं शशलाञ्छनत्वम् ॥ २॥ अन्या विहाय मदनातुर(?)जीविताशा जातस्पृहा मरणशब्दितमङ्गलाय । लब्धः शिवो भवतु मे परजन्मनीति चन्द्रातपे विरहिणी सहसा पपात ॥ ३॥ आलोक्य काचिदुदयारुणमिन्दुबिम्बं विश्लेषिणामविषहं शिशिरं परेषाम् । द्रोही न वा खलु ममेति जनं बिभित्सोः कामास्त्रतः परगवीगणनां चकार ॥ ४॥ ज्ञातो जनैर्विरहतापजुषः परस्य नेत्रद्वयस्य नलिनस्य च . . . . ति भेदः । पद्मेषु चन्द्रकिरणैर्मुकुलीकृतेषु यज्जागरूकमभवन्निशि नेत्रयुग्मम् ॥ ५॥ चूडामणे पशुपतेरिति जृम्भितास्ता(?) तापावहो विरहिणामिति जातभीतः । चन्द्रस्य काचिदुभ(द)ये विधुरा निजाक्ष्णो- रुन्मीलनेऽपि न शशाक निमीलनेऽपि ॥ ६॥ भिक्षाटनं पशुपतिः कृतवानिहेति यां हातुमह्नि गलितेऽपि हि न क्षमाभूत् । तां वीथिका निशि मयूखभयाद्विहाय छायेव कापि शनकैर्वसतिं विवेश ॥ ७॥ कस्याश्चिदीशविरहव्यथिताशयायाः कामं वदन्तु मुखमेव हि चन्द्रकान्तम् । तस्या दृशो युगलमप्युदये हिमांशो- र्निर्दिश्यमानबहलोदकमिन्दुकान्ति(न्त)म् ॥ ८॥ यावान्दिनेशपतने विरहातुराया- स्तावान्हिमत्विषि मनागुदिते वितापः । पातो यथा परहिताय यथार्तिभाजां खेदाय नूनमुदयो मलिनाशयस्य ॥ ९॥ प्लुष्टिर्मनाग्विरहिणीस्तनमिन्दुपातैः काचिद्ददौ प्रियसखीमुखमारुताय । पारब्धमन्यदपरं पलितेक्षणेन जज्वाल हन्त हृदये मदनाग्मिरस्याः ॥ १०॥ एका शशाङ्ककिरणोपनिपातभीत्या वातायनान्तरविधा(न)कृतप्रयत्ना । आमीलनव्यवहृतेन्दुकरप्रयत्ना- ल्लक्ष्म्या सरोजवसतिं मनसा निनिन्द ॥ ११॥ स्पष्टं मुहुर्भुवनजालकृतप्रवेशै- रिन्दोः करैर्विरहिणी व्यथयाञ्चकार । स्पष्टं जगत्प्रकृति राजति कामिनीना- (?)मङ्गं मनस्थितिमनाक्कलयान्करेण ॥ १२॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिर्द्वात्रिंशतिः ।

त्रयस्त्रिंशी पद्धतिः । चन्द्रोदयः

चन्द्रोदये विरहविह्वलमानसानां या निर्गताः फणितयो वदनाद्वधूनाम् । माधुर्ययोगपुनरुक्तसुधान्वितानां तासामिहास्मि कथनेन विदग्धमन्यः ॥ १॥ किं कृत्यमद्य सखि पश्य जगत्समस्तं व्याप्नोति सान्द्रमपहृत्य निशाप्रकारम् । त्रैलोक्यसंहरणकर्मणि कामशत्रोः कोपाट्टहास इव कोऽपि शशिप्रकाशः ॥ २॥ एतस्य चन्द्रहतकस्य कठोरभावं सख्यस्तदेव गमयेति विकल्पमेव । अम्भोनिधेरखिलरक्षणजागरूको जग्राह यत्पशुपतिर्गरलेन साकम् ॥ ३॥ अन्येषु जन्तुषु सुधासहजत्वमिन्दो व्यक्तीकरोषि किरणैरिति शीतपातैः । अस्माद्रतेषु तु पुनर्विधिवञ्चितेषु तैर्दुःसहैर्गरलसोदरभावमेव ॥ ४॥ वेधाः सुखी भवतु साम्प्रतमात्मशिष्टं कृत्वा जगत्त्रितयमिन्दुसमाननेन । सद्योनिमीलितजनार्दननाभिपद्मे गूढं स्थितस्य निहितस्य शशाङ्कभीतिः ॥ ५॥ किं रावणाङ्कवलितः किमु चन्द्रमौलेः सर्वात्मनामटनभावमलङ्करोति । निर्मूल एव किमु शीकरतः प्रलीनो य(द्द)त्तराज्यमयमुष्णकरः करोति ॥ ६॥ पूर्तं विहाय निहतद्युतिमद्य शोच्यं कार्श्यं तदेव कुमुदैकपते। भजस्व । यस्मिंस्त्वया निखिलचन्दनहेतुभूतं प्राप्तं पुरार्दनकपर्दिन्शिखामणित्वम् ॥ ७ (प्राप्तं पुरार्दनः पुरारिः शिवः मणित्वम्) ॥ ७॥ अङ्गारगर्भकरमिन्दुमिमं विधाय यादृच्छिकागमन . . . . कुरु मेऽद्य रक्षाम् । कालप्रतीक्षणपरो भुवनोपकारे . . . . जातिरिति मा स्तुतयेऽपवादः ॥ ८॥ अन्तःकलङ्कमुदयाश्रितशोणभाव- मालोचयामि सखि सम्प्रति चन्द्रबिम्बम् । अङ्गारचक्रमुपशान्तकरालमन्तः कामस्य दु(द)ग्धवपुषस्त्रिपुरान्तकेन ॥ ९॥ किं क्षेममद्य सखि नः कथयाम्बुराशेः से(सो)ऽयं कलाभिरखिलाभिरुदेति चन्द्रः । शैलात्मजावपुरभेदफलां स्मराज्ञा- मेकैव वर्तयति कस्य कलाभरेऽपि ॥ १०॥ शाणोपलं मकरकेतनसायकानां पूर्णेन्दुबिम्बमिदमालि वितर्कयामि । नो चेत्तथा कथमिदं निशि तत्त्वमेषा- मस्मिन्नुदञ्चति कथं च पुनः क्षयोऽस्य ॥ ११॥ इन्दुच्छलेन जलधेः प्रलयानलोऽय- मुज्जृम्भते सखि वियोगिजनक्षयाय । मूर्ध्ना बिभर्ति सरितं परमेश्वरोऽपि कालेयचन्द्रितकलापरितापगीतः ॥ १२॥ यद्यानियं(?)यदि स सम्प्रति राहुरिन्दुं दिष्ट्या भवेद्विरहिणामपि जीवलाभः । भुज्या स्वयैव यदि भूरिफलं परेषां मन्ये कदाचिदपि हन्त खलो न भुङ्क्ते ॥ १३॥ पात्रं करालगरगर्जि(र्मि)तदेव सत्यं नैवेन्दुबिम्बमिदमालि यतश्चिराय । उत्कण्ठते मम मनः शिवकण्ठमेव यः कालकूटगरलाम(रमप्य)खिलं ररक्ष ॥ १४॥ हृद्यानि मीलयसि हन्त सरोरुहाणि हा चन्द्र जृम्भयसि सम्प्रति कैरवाणि । युक्तं तवैतदुभयं मलिनाशयस्य हव्यावधीरण . . . . मभाजनं च ॥ १६॥ आलोकितं रमणभूषणमङ्गनानां तापं वियोगसमयेऽहमितीति वादः । चूडामणिः पशुपतेमिय(?)मिन्दुराशिं हा हन्त वर्धयति मे विधिना शठेन ॥ १६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिस्त्रयस्त्रिंशत् ।

चतुस्त्रिंशी पद्धतिः । दूतीप्रेषणम्

अव्याजदुस्तरनिशीथपयोधिमध्ये वैरायमाणविधिनैव निपातितानाम् । एणीदृशां हरभयाप्लवकाङक्षिणीनां दौत्यत्वयानि(?)चरितानि जनः श‍ृणोतु ॥ १॥ कामातुरो नहि निरूपयति स्वदैन्यं काचित्समस्तवनिताजनपूजनीया । दूत्यान्मुहुः सकृदपि त्रिपुरान्तकस्य कण्ठग्रहाय . . . . वरणं चकार ॥ २॥ यः पाण्डुरस्त्वयमथाब्धिविषं निली(पी)य नैल्यं बिभर्ति भुवनत्रयरक्षणाय । दौत्यं तथाविधतथा(या)र्हसि शङ्करस्य तस्येव कापि नवमम्बुधरं ययाचे ॥ ३॥ कल्याणबान्धवपरो जगतीह मातु- रन्यो जनोऽयमिति जीवसखीषु रूक्षा । काचित्स्वमातरमयाचत शम्भुदौत्यं किं नैव कारयति कामभवो विकारः ॥ ४॥ सामोक्तिभिः प्रियसखीमनुचर्य काचि- द्दौत्याय वाच्यमनया परिपृच्छ्यमाना । तूष्णीमजातनिजसङ्गमने वृषाङ्के वक्तव्यहानिपरिदूयमना बभूव ॥ ५॥ यामेव जीवितसखीं परिरभ्य गाढ- मीशोपकण्ठगमने त्वरयाञ्चकार । तां प्रस्थितां सपदि वीक्ष्य रुरोध काचि- दीशान्तिकान्यवनितागमनासहिष्णुः ॥ ६॥ सन्देशगर्भितपुटे स्मरलेखपात्रे विन्यस्तसान्द्रनवचन्दनपङ्कमृत्के । शम्भोर्भविष्यति करप्रणयीति काचि- न्मुद्रां व्यथाविरहिणी कुचचूचुकेन ॥ ७॥ मा गास्त्वमद्य हरसन्निधिमस्मदर्थे प्राणासिका यदसि मे तदिहासितव्यम् । प्राणाः प्रयान्तु सुखमद्य ममेति काचि- त्स्नेहोक्तिभिः प्रियसखीं त्वरयाञ्चकार ॥ ८॥ न प्रेषिता प्रियसखी गिरिशस्य पार्श्वं सा स्त्रीति शङ्कितधिया सुदृशा कयापि । मत्वा नपुंसकमिति प्रहितं मनोऽभू- त्तच्चापि तत्र रमते किमयं विधत्ताम् ॥ ९॥ कृत्वाधरं रचितचिह्नमलक्तकेन तस्याः कुचाग्रमपि कुङ्कुमकर्दमेन । काचिद्गभीरहृदया हरसन्निधानं गन्तुं पुनः प्रियसखीं वनिता न्ययुङ्क्त ॥ १०॥ योऽपीदृशं वितनुते परकीयमिष्टं तादृक्फलं स फल(लभ)ते पुनरित्यभिज्ञाम् । मामद्य योजय हरेण विधाय दौत्य- मित्याजगाद विधुरा निशि चक्रवाकीम् ॥ ११॥ रागः शठो नियतमन्यतरानुरागः स्वस्थः स एव पुरुषस्य निरङ्कुशस्य । मानग्रहो हि मरणाय वधूजनस्य आचक्ष्व नाथमिति कापि जगाद दूतीम् ॥ १२॥ वार्ताहरीमनधिगम्य हरेः शुचान्या तापोऽर्जिते स्तनतटेऽश्रुजलं मुमोच । तस्मै हृदि स्थितवते स्थित एतदीयां वक्तुं प्रविष्टमितरन्नहि तत्र दृष्टिम् ॥ १३॥ सन्देशमीशविषयं स्वयमेव काचि- द्यम्मिन्विलेखितुमुपाक्रमताञ्चिताक्षी । तत्रैतदाशु धृतकज्जलबाष्पपातैः प्रागक्षरार्पणविधेर्मलिनीचकार ॥ १४॥ किं किं परिभ्रमसि . . . . कुदले मे पुष्पोज्झितेऽपि मधुपार्थितया तथैव । आनीय शम्भुमिह स द्रुतमाप्तकामो भूयादिति भ्रमरमाह शुचेव काचित् ॥ १५॥ दीर्घं मयैव कलजल्पितशिक्षणं ते तद्दीक्षतामविरतस्य स एष कालः । कालान्तकाय कथया मम कामपीडा- मित्यन्तरङ्गमपरा शुकमाबभाषे ॥ १६॥ कण्ठावतंसकुसुमाश्रयणापदेशा- त्कस्यैव कण्ठविवरं प्रतिपाद्य सद्यः । वार्ताहरो भव हराय ममैव काचि- दात्मालकान्तिकचरं भ्रमरं बभाषे ॥ १७॥ स श्लेषदुःखशमनाय सरोरुहिण्याः सन्ध्या प्रयान्तमनुगम्य कठोरभासम् । आयास(सि)तेन न विनेति कथाप्रसङ्गा- त्सख्युः पुरो विरहिणी वचनं जगाद ॥ १८॥ आहूय दौत्यगमनाभिमुखीं वयस्यां सन्देशमीशविषये बहु वक्तुकामा । तत्पार्श्वमेष्यसि यदीत्यसमाप्तितोक्ति- र्बाष्पैरवोचदपरा कथनीयशेषम् ॥ १९॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीप्रेषणपद्धतिश्चतुत्रिंशत् ।

पञ्चत्रिंशी पद्धतिः । दूतीवचनम्

अस्मादृशामसुलभस्य विभोरशक्ये दौत्ये पदे युवतिभिर्विनियोजितानाम् । तं व्यापिनं गगन एव विधाय लक्ष्यं दौत्योचितानि वचनान्यभवन्सखीनाम् ॥ १॥ कालान्तकोऽयमिति विश्वजनप्रसिद्धं सत्यां विधातुमिति चेद्गिरिजाभिलाषः । यो बाधते त्वयि दृढप्रणयां सखीं मे कालं तमद्य झटिति क्षपय क्षपाख्यम् ॥ २॥ सख्यां वसन्तसखबाणगणार्दितायां तां किञ्चिदत्र करुणां तरुणेन्दुमौले । मा वा (?)न नः क्षितिरतो मरणं वरिष्ठं जीवस्थितेस्त्वमनुरागनिमित्तमस्याः ॥ ३॥ किं विस्तरेण श‍ृणु शङ्कर सङ्ग्रहोक्तिं वक्तव्यवस्तुनि मया सति पृच्छ्यमाने । नैवाक्षरैः सपदि कण्ठगतैर्मृगाक्ष्याः प्राणैरभाणि हरितव्यमशेषमेव ॥ ४॥ गौरीसखस्य तव मा भवतु प्रसक्तिः(त्तिः) कल्याणकाममितरासु मृगेक्षणासु । कण्ठे चिरं रुचिमती गरनीलमूले भूयात्सदैव करुणाधिकवल्लभाय ॥ ५॥ शम्भो तदा त्वदवलोकनपुण्यकाले यान्त्यामभून्निपतितः प्रथमाश्रुपूरः । शोकाश्रुणः परिभवेऽपि किमायताक्ष्या- स्तस्यास्तयोर्नयनयोरनुरूपमेव ॥ ६॥ सर्वज्ञता निरुपयिच्छ(?)कृपापि सिद्धे- रव्याहतत्वमिति नाथ गुणास्त्रयस्ते । तत्र त्रये नियतमन्यतरस्य लोप- स्तस्या न चेदिह विधास्यति जीवरक्षाम् ॥ ७॥ पाण्डुत्वमावहति भस्मकृतिं विनाङ्गे धूमं विना च नयनाश्रुनिपातहेतुः । शम्भो विना ज्वलति चेन्धनमद्भुतं त- त्तस्यास्त्वदीयविरहप्रचितो हुताशः ॥ ८॥ याचे भवन्तमिदमद्य जटाकलापे पूर्णं निधेहि शशिनं विकलं विहाय । दैन्यं च ते विकलचन्द्रपरिग्रहोत्थं तस्याश्च मा भवतु दुर्विषहोऽद्य तापः ॥ ९॥ यत्तादृशं मयि तथा प्रणिपातदैन्यं सख्या गिरीशसहितेऽत्र निनादमेतत् । सद्यस्त्वया च नरनैपुणरूढयैव यन्निद्रया निशि विभो प्रणयव्यवायः ॥ १०॥ त्वां याचते मम सखी निशि मन्निकेत- मागम्यतामिति पुरार्दन मन्मुखेन । नातः परं मृगदृशामभिमानभङ्गो लभ्येत चेदभिमतं ननु सोऽपि मह्यम् ॥ ११॥ मघ(ध्य)स्थितिं तव मनोभवपीडितायां याचे न पक्षपतनं चिरजीवसख्याम् । एतावतैव हि भविष्यति काम्यसिद्धि- र्माध्यस्थ्यमातुरजनेष्वपि पक्षपातः ॥ १२॥ आश्लेषणं तव सुदुर्लभमस्तु शम्भो सख्याः प्रयच्छ ललितं तव बाहुमूलम् । तस्या गले विनिहिता(?)मसवः प्रयाणे प्रारम्भिणी(?)पुनरिमं न विलङ्घयेयुः ॥ १३॥ गौरीकुचार्पणमहावलयाहिधन्ये कण्ठेन तेऽन्यवनिताजनसङ्गमोहः । तत्र स्व(त्व)यार्पितमवेक्ष(नवेन)भुजङ्गमेन तस्या भुजोऽपि घटतामिति नाथ याचे ॥ १४॥ कुर्वन्तु तापमवरे विरहाः परेषां याच्याविभञ्जनमिदं तव नैव युक्तम् । शम्भो यतस्त्वमपि वेत्सि विरोहभिक्षुं नित्यं सुदुर्विषमयाचनभङ्गपीडाम् ॥ १५॥ त्वत्संश्रुतापि भवतैवमुपेक्षिता चे- त्सा नः सशेः(?)वरद हन्त तवैव हानिः । यन्नीलिमा तव गले सहसैव जस्यात्(?) कारुण्यहेमनिकषोपलशैललक्ष्मीः ॥ १६॥ सा पद्मचारुनयना विषमेक्षणस्त्वं सा कुञ्चितालकभरा हर धूर्जटिस्त्वम् । सा सद्गुणैकवसतिर्गुणवर्जितस्त्वं तस्यास्तथापि किमिदं तव दुर्लभोऽसि ॥ १७॥ या वीक्ष्य नाथ गरलं तव कण्ठमूले या पन्नगेन्दु(न्द्र)मपि तत्र पुरा निनिन्द । जातस्पृहैव भगवन्भवतीयमात्रे(र्ता) पापादियं न सहते विरहं त(त्व)दीयम् ॥ १८॥ कामं वृथा भवतु मे त्वयि कामदौत्यं प्रष्टव्यमेतदभिधेहि पिनाकपाणे । तस्यारतथा स्मरशरैर्विहितप्रहारे चित्ते वसन्नपि कथं त्वमकामविद्धः ॥ १९॥ गङ्गापयः सकलमेव कपर्दकोणे सद्यो विलीनमिति नाथ कियान्मदस्ते । सामर्थ्यमस्ति यदि ते नयनाम्बुपूरः सख्यास्त्वदीयविरहप्रचितो निवार्यः ॥ २०॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीवचनपद्धतिः पञ्चत्रिंशत् ।

षट्त्रिंशी पद्धतिः । रजनीयापनोक्तिः

विश्लेषितैर्युवतयो विरहे त्रियामं निन्युः सुदुःसहवियोगनितान्तदीर्घाम् । तेषां विचक्षणवचस्युपवर्णनेन वाणीमिमां वयममी चरितार्थयामः ॥ १॥ कस्याश्चिदिन्दुमलयानिलचक्रवाक- केङ्कारसन्तमसकैरवसौरभाद्यैः । विश्लेषवंशमथनैर्निचिते निशीथे मूर्छाप्रसादकृत एव हि जीवलाभः ॥ २॥ प्रत्यग्रपुष्परचिते शयने न शिश्ये नाश्लिष्ट(?)कुत्र च न चैव सखीं बभाषे । नापि क्वचिस्थितिमती न ययौ न विद्मः किं किं विधाय विधुरा रजनीमनैषीत् ॥ ३॥ चन्द्रक्षयं भव मुहुर्भुजगामिषस्य(?) भूयाः कलङ्कनिलयो जलतां भजस्व । कस्याश्चिदित्यपुनरुक्तमुदीरिताभिः शापोक्तिभिः सह निशाविरतिं प्रपेदे ॥ ४॥ तच्च्चिन्तनैस्तदनुबन्धिकथाप्रसङ्गै- स्तत्सङ्गमानुगुणकर्मनिरूपणाभिः । तन्नामभाषिशुकसंहननैश्च काचि- द्रात्रिं निनाय रहिता परमेश्वरेण ॥ ५॥ पर्याप्तशीकर . . . . मण्डलतालवृन्ता नीरन्ध्रसंस्तवदृढप्रणया सखीव । कस्याश्चिदीशविरहव्यसने प्रवृत्ते पार्श्वं न जातु विजहौ विपुला त्रियामा ॥ ६॥ सन्तप्तमूर्तिरतिशीतलराजरम्भा शम्भोस्ततार रजनीचरितं वियुक्ता । किन्तु च्युते दयितपोतदृढौपगूढे यस्मान्न भावि पुनरुत्तरणं वधूनाम् ॥ ७॥ व्याजोक्तिभिश्च गमनाय गतिप्रसक्ता- माहूय शङ्करवशीकृतिशास्त्रिभिश्च । दूतीं प्रकृत्य पुनरेव पुनः कृताभि- र्याता निशा मृगदृशो न तु सा प्रयाता ॥ ८॥ पौष्पैः शरैः प्रहरतो रतिनायकस्य पुष्पास्त्रविद्धवपुषश्च मृगेक्षणायाः । प्रायेण नैव निशि सुप्तिरभूत्तथापि मूर्छासु सा विरहितापि निमीलिताक्षी ॥ ९॥ किं कालरात्रिरथवा किमु कालदूती किं पापसंहतिरनेकविधप्रवृत्ता । किं मर्मकृन्तनकरी शितहेतिरेषे- त्येका व्यलङ्घयदपोक्तिभिरेव रात्रिम् ॥ १०॥ चन्द्राभिधानवडवाग्निमदृष्टपारं कन्दर्पकेतुमकरभ्रमणातिभीमम् । अच्छिन्नबन्धहरचिन्तनसेतुनैव काचिद्गभीररजनीजलधिं ततार ॥ ११॥ शैत्यार्थिनी कुसुमतल्पमवाप पूर्वं पश्चात्प्रवालशयनं तदपि प्रमुच्य । श्रीकण्ठकण्ठसरसीमतिशक्यहेतोः काचिद्गतामभिनवैश्च निशां निनाय ॥ १२॥ वापीमवाप नवचन्दनपङ्कलिप्ता प्रत्यग्रपुष्पशयनात्पुनरेतदस्याः । इत्थं द्वयोरपि तयोररतिं वहन्ती काचिद्गतागतगतेन निशां निनाय ॥ १३॥ यस्याः क्षणादपगतिं हरविप्रयुक्ता यस्याश्च काचन समागममाशशंस । न प्रस्थिता च रजनी न समागता वा निद्राविधातरि विरोधिनि नेष्टसिद्धिः ॥ १४॥ एकक्षणप्रतिस . . . . दिवसार्जवेन योगान्निशा च विरहादपनामदीर्घः । ताभ्यां विवर्जितरहो दिवसक्षपाभ्यां देहं विचिन्त्य विरहिण्यपरा चचार ॥ १५॥ आलम्बिते प्रियसखीभिरथात्मनापि पर्यायतः क्षणमशान्तिवशेन मुक्तैः । बाला शिलामिव विशालतमां कथञ्चि- त्काचिद्गुणैः पुरजितो रजनीं चकार ॥ १६॥ शक्येतराय गिरिशाय रुचैर्वचोभि- र्दौत्याय जीवितसखीमपरा न्ययुङ्क्त । प्राणव्यये विरहिणी रजनीमशेषां तस्याश्चिरायितवशेन चिरायते स्म ॥ १७॥ गौरीपतेरथ च चौर्यमवेक्ष्य काचि- द्रात्रिं निनाय निखिलामपि जागरेण । लब्धेऽपि रक्तकुमुदिन्यवितन्द्रगङ्गा जागर्ति तस्करजनो निशि पुष्कलोऽपि ॥ १८॥ काचित्क्षपां क्षपयितुं विपुलां सखीभिः सम्प्रस्तुतस्य वृषवाहनकीर्तनस्य । आकर्णनेन चरमेतरयोः प्रवृत्तां सन्ध्यां द्वयोरपि तयोर्युगपद्ददर्श ॥ १९॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः षट्त्रिंशत् ।

सप्तत्रिंशी पद्धतिः । रजनीयापनोक्तिः

दीर्घां निशां शमयितुं विरहे हरेण निद्राप्रसक्तिरहितस्य वधूजनस्य । नानाविधानि चरितानि सखीं प्रकृत्य जातानि यानि कथयाम्यहमद्य तानि ॥ १॥ आहूत एव न समीपमुपैति भिक्षां गृह्णाति नैव मुहु . . . . म्बयते तथापि । यत्ते चिरादनुसृतोऽपि न चाभिमुख्यं भिक्षु मृगाक्षि वद कोऽयमदृष्टपूर्वम् ॥ २॥ भिक्षाप्रदानसमये न मया तदानी- मालिङ्गितोऽभवदहं पुनरद्य दूये । चिन्तामणिं करतलस्थमुपेक्षयोर्व्यां- सद्यो निपात्य मृगये तमितस्ततोऽपि ॥ ३॥ भिक्षातिसर्जनमिषादहमिन्दुमौले वक्षःस्थलेन मम योजयितुं प्रवृत्ता । अत्रान्तरे श्वसितमूर्जितमुत्ससर्ज हारो हरस्य सखि भाग्यविपर्ययेण ॥ ४॥ भिक्षां ददात्यभवती(?)मुदिते शिवेन तां दातुमोदनमयीं मयि सोऽद्य मायाम् । यत्तस्य गर्भित . . . . ररहःप्रवृत्त- मन्दस्मितं सखि न ते हृदयादपैति ॥ ५॥ गात्रं विकर्षितमभूद्गिरिशानवाप्त्या वार्धास्रमीक्षणमदर्शनतः शिवस्य । लब्ध्वा शिवं सततमाहितसन्निधानं सन्तप्यते सखि कथं हृदयं मदीयम् ॥ ६॥ यद्यागमिष्यति मदीयगृहोपकण्ठं भिक्षाटनाय गिरिशः समनन्तरेऽपि । तस्योपगृहनविधिर्भवितव्य एव दातुं प्रदानसमये स्ववशो हि भिक्षुः ॥ ७॥ नाट्ये कृतश्रममिवास्य पदं गतेन देहीति दीनपदमप्यनुषक्तरागम् । पत्रावलम्ब्यहिकरः करणप्रवीणः प्रायेण कोऽपि नट एष न भिक्षुरेषः ॥ ८॥ इक्षुर्धनुर्मधुकरावलिरेव मौर्वी शस्त्राणि पञ्च नवपुष्पमयानि कस्य । लोकत्रयं विजयते मदनस्तथापि . . . . मयाय निजधैर्यमतन्त्रमेतत् ॥ ९॥ पुष्पायुधो गि(रि)शनेत्रहुताशनेन प्राग्भस्मसात्कृत इति स्म कथा वृथैव । आलिङ्गिताननममुष्य तयोपदिष्टो मन्ये वियोगिजनदाहविधिप्रकाशः ॥ १०॥ बद्धा जटा नयनमप्यसमं चितैस्त- न्नीतं वपुश्च भसितैरतिधूसरत्वम् । एवं य . . . . नोह . . . . भैक्षचारे कान्तीविगूहितमहो विबभूव शम्भुः ॥ ११॥ तां पार्वतीं मनसि मे परमेश्वरेण यो येन योजयितुमक्षमतां प्रपेदे । तेनैव मां शमयितुं यतते मुधैव कामोऽपि कामुकवदेव विवेकहीनः ॥ १२॥ वीथ्यां तथा पुरत एव जनस्य शम्भुं कण्ठे ग्रहीतुमभयं विहितोद्यमेव । लज्जा रुरोध सखि मां सहसा किमन्य- त्स्त्रीवात्र साप्यभवदेव हि मे सपत्नी ॥ १३॥ स्त्रीजातिमात्रहृदयार्तिकके वृषाङ्के कन्दर्पदौत्यमनुतिष्ठति केवलस्याः(?) । क्रीडाशुकः शरणमन्यतमो ममायं लोके पुनः फलितमात्रवचान(?)दूतः ॥ १४॥ साक्षात्पुरस्थितमपोह्य वृषाङ्कमद्य चित्रे निवेश्य परिरम्भणमाचरन्ती । भित्त्वा विहारसरसीं परिवृद्धपूरां वाञ्छामि गाहितुमहं मृगतृष्णिकायाम् ॥ १५॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः सप्तत्रिंशत् ।

अष्टत्रिंशी पद्धतिः । स्वप्नः

नीरन्ध्रमुक्तशरपीडितमानसाना- मेणीदृशामकरुणेन मनोभवेन । विश्लेषसुप्तिविषयाणि निशाविरामे जातानि यानि चरितानि वदामि तानि ॥ १॥ निद्रावतीं गिरिजया कृतदेहसन्धि- रप्याजगाम विधुरां स्वयमिन्दुमौलिः । अप्यन्ययोषिदुपधानपदे निरुद्ध- प्रीत्या ध्रुवं प्रभुजनो भव(ज)तेऽन्यनारीम् ॥ २॥ वामे विधौ भवति बन्धुजनोऽपि वैरी सुप्तां कथञ्चिदपि जीवसखीं निशान्ते । मूर्छाभयाद्विरहिणीं प्रतिबोधयन्ती विच्छन्ति(?)माशु विदधे हरसङ्गमस्य ॥ ३॥ लाभं परार्थमपरत्र नयेद्विधाता सुप्त्यागते विधुरया गिरिशे कयाचित् । गाढोपगूहनविधेरसकृत्कृतस्य पार्श्वोपधातमभवत्सहसैव पात्रम् ॥ ४॥ रोमाञ्चितैरवयवैः स्फुरिताधरेण किञ्चिद्विलग्ननवता च कुचद्वयेन । ज्ञात्वा सखी हरसमागमनं चरन्ती निद्रां स्वकीयहरनिर्वहणां ननन्द ॥ ५॥ काचित्कथञ्चन निशाविरतिप्रसुप्त्या सम्मीलिताक्षियुगलापि शिवं ददर्श । या पुण्डरीकवदना च मृगायताक्षी तस्या विरुद्धचरितास्पदतापि युक्ता ॥ ६॥ साक्षात्कृते पशुपतौ न कदापि शोच्या जायेत मीलनदशा नियतं नराणाम् । यद्दृष्टवद्गिरिशमह्नि तदायताक्ष्या यत्नं विनैव निशि मीलितमक्षियुग्मम् ॥ ७॥ जातप्रबोधजनलभ्यनिजानुभूतिं सुप्यै(प्त्वै)व काप्यनुबभूव शिवं वियुक्ता । स्नेहः शिवे यदि भवेदमितो नराणां मार्गेण विध्यति न कर्षवतापि शम्भुः ॥ ८॥ यत्सुप्तिभङ्गकरणं स्मृतिभिर्निषिद्धं तेनैव सर्वविषयं विरहार्तलक्ष्यम् । सख्या प्रभातमिति कापि निबोधयन्त्या हा हन्त भञ्जितशिवानुभवा बभूव ॥ ९॥ उद्दिश्य कापि विधुरा गिरिशानुभूतिं सुप्त्यैव लोचननिमीलनमाचकाङ्क्षे । तस्यास्तदेतदुचितं खलु येन सर्वे पश्यन्ति तं शममना(नो)विनिमीलिताक्षः(क्षा) ॥ १०॥ आलिङ्गनं किमथवाधरपानमस्य मन्दस्मितं किमुत वा स्थितिरेव तृष्णीम् । अन्यक्रिया किमपि कापि सखीमपृच्छ- त्स्वप्नागतेन गिरिशेन रतिं चिकीर्षुः ॥ ११॥ सर्वोऽपि चौर्यमपरा(?)वनितासु कुर्व- न्कामी समीप्सति परस्य जनस्य सुप्तिम् । आश्चर्यमेतदचलेन्द्रसुताभयेन यत्सुप्तयैव विदधे रसचौर्यमेव ॥ १२॥ योगप्रबुद्धहरिनाभिसरोजसृष्टौ सम्भाव्यते न खलु . . . . गिरिजापरेण । सृष्ट्यन्तरे कुरु तदागमनप्रधानं सुप्त्येति कापि नयनाम्बुरुहं ययाचे ॥ १३॥ वामभ्रुवां हरसमानयनाय निद्रा नाभ्यर्थिता तदपि सैव न माननीयः । अभ्यर्थितापि विदधे न सखीति दृष्टं किं कस्य केन फलमित्युपतर्क्यमेव ॥ १४॥ पार्श्वे तवेन्दुमुखि शङ्करमानयेति विश्वस्य मां नयनमीलनमाचरेति । स्वप्ने समागममनेन विबुध्य तन्व्या निद्रावतीं प्रियसखी विदधे वियुक्ताम् ॥ १५॥ जाग्रत्प्रपञ्चविपरीतविधानदक्षे देव्यद्य मे नयनयोः क्षणमात्रमास्स्व । काम्यार्थसिद्धिरियतैव ममेति निद्रा- मन्तर्निगद्य विधुरा न च तल्पमाप ॥ १६॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नपद्धतिरष्टत्रिंशत् ।

एकोनचत्वारिंशी पद्धतिः । स्वप्नोक्तिः

सङ्गत्य रात्रिविरतौ कथमप्यवाप्त- निद्राप्रसादसुलभेन महेश्वरेण । स्वप्नोपभोगमवदन्प्रमदाः प्रमोद- त्सद्यो हरस्य हि मताय सखीजनाय ॥ १॥ स्वप्नो हरेण रतिमद्य विधातुमीष- त्सक्तस्त्वयारतकृपया प्रतिबोधिताहम् । सुप्तिं व्रजेयमधुनास्य समागमाय भूयोऽपि नैव सखि मे प्रतिबोधिनी भूः ॥ २॥ आलिङ्गिताङ्गमभयं शशिभूषणेन स्वप्ने मया तु न स यन्न गले गृहीतः । ब्रीडावशस्तिमितया सखि हन्त पापा- न्नोऽज्ञासिषं किमिति सुप्तिविजृम्भितं तत् ॥ ३॥ स्वप्ने हरेण विहितेऽपि तथैव भागे नासीत्क्षतं वपुषि मे सखि हा हतास्मि । यन्नैव कृष्टमधरं न रतिक्षतस्य क्षत्त्रं तदेवमुभयं फलहीनमेतत् ॥ ४॥ यः प्रस्थितो गतघृणः सखि चन्द्रमौलिः स्वप्नागतः प्रथममेव मयोपगूढः । वीथीगतो यदि भवेत्त्रपयाभिभूता तस्याग्रतो नहि यथैव पुरा भवेयम् ॥ ५॥ सुस्वप्नदर्शनफलं भवति प्रबोधे पश्चादिति स्म कथयन्ति तदन्यथापि । स्वप्ने शिवस्य निशि वीक्षणमालि जातं तस्योपगूहनविधिं तदसूत सद्यः ॥ ६॥ स्वप्ने हरेण परिभोगरसेप्सुना मे वासो गृहीतमिदमेव तदा विबुद्धम् । सख्यावयोरुपरि यानि विचेष्टितानि ज्ञाता परं विषमसायक एव तेषाम् ॥ ७॥ यन्मे हरेण सह सङ्गमसौख्यहेतौ नेत्रोन्निमीलनदशां स्वयमाससाद । सोढा स्वयं विपदमर्त्यपहारकृत्यं नेत्रोपमस्य चरिते किमुत स्वदृष्टेः ॥ ८॥ स्वप्नोपलम्भनदशा मम सैव नित्यं भूयात्प्रजागरदशा सखि माददापि (?) । यस्यामवापदचलेन्द्रसुतैकशेषं (?) वक्तुः प्रजागरसुदुर्लभमीश्वरस्य ॥ ९॥ स्वप्ने शिवः सुदति सम्प्रति देहि भिक्षा- मित्यूचिवानहमदामविलम्ब्य तस्मै । नैवाददे न गत(वान्)स्मितमेव चक्रे दत्ता मयास्य तु गले दृढमङ्कपाली ॥ १०॥ यो वीक्षितोऽह(नि)निशि . . . . सुप्रलब्ध- शर्याप्त(?). . . . मधिरिरंसुरिवाससाद । दृष्ट्वा तमाशु गलता वसनांशुकेन जारायितं चिरनितम्बनिषेविणा . . . . ॥ ११॥ आलम्ब्यमानवसना सकलेश्वरेण मुञ्चेत्यवोचमपतच्छिथिलोऽस्य हस्तः । स्वप्ने सखि क्षणत एव हतो भुजो मे जग्राह कण्ठमयमस्तदयस्य तस्य ॥ १२॥ स्वप्ने हरेण सति निर्दयमारयुद्धे लुप्तो न चन्दनरसः कुचयोरयं मे । नैवाधरेऽपि दशनक्षतमीक्ष्यते य- ज्जाग्रग्गतादपि वरं सखि सुप्तभोगः ॥ १३॥ आविस्मितेन गिरिशेन हृता स्म लज्जा निद्रागमे सखि गृहीतकराभ(ह)मासम् । आमूलकण्टकितपङ्कजनालकल्प- मद्यापि पश्य चरितार्थमिदं प्रकोष्टम् ॥ १४॥ रत्युत्सवाय मम लम्बितमीश्वरेण वासोऽनिशं रति . . . . समागतेन । बोधेन तद्गलितमैक्षत हन्त गन्तुं सोऽयं पुरा न खलु तिष्ठति चन्द्रमौली(लिः) ॥ १५॥ निद्रेव जीवितसखीं मनसैव सख्यो यूयं मृषाप्रणयसंवरमाचरन्त्यः । या दुर्लभं गिरिसुतावरमद्य दूरा- दानीय मे शयनमध्यगतं चकार ॥ १६॥ निम्नीकृतस्तनयुगं विहितोपगूह- स्वप्नागतेन यदहं परमेश्वरेण । तेनैव हारगलिताः सखि पश्य मुक्ताः सत्यं भवत्यनृतमेव कृतं शिवेन ॥ १७॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नोक्तिपद्धतिरेकोनचत्वारिंशत् ।

चत्वारिंशी पद्धतिः । गौरीप्रशंसा

स्वप्ने मुहूर्तमनुभूय पिनाकपाणिं निःशेषलुप्तसरह(?)व्यसना युवत्यः । तेनैव नित्यमपि सेवितयौवनाया गौर्याः प्रशस्तिगिरमात्मगतां शशंसुः ॥ १॥ सा शैलराजतनया वनितासु वर्या- मालभ्य रूढिसुलभे विरहे हरेण । पादोदकायितजला मुहुरेव यस्या- स्तन्मौलिदिव्यतटिनीपत(तट)योर्निपत्य ॥ २॥ सा पार्वती स्तनवती भुवने पृ(वृ)थान्याः क्लेशावहा युवतयः स्तनमुद्वहन्ति । यस्याः पयोधरयुगेन मनोजशत्रो- र्वक्षःस्थलेऽपि विहिता रतिमर्दमुद्रा ॥ ३॥ सा राजते जगति शैलसुता वधूनां या जायते हरगलग्रहणोत्सवेषु । आनन्दनिर्भरतया मुकुलीकृताक्षी मोहं गतेरवगरस्य महोष्मणैव ॥ ४॥ सैवोत्तमा जगति पर्वतराजपुत्री पीत्वा यदीयमधरामृतमिन्दुमौलिः । आत्मीयमप्रतिमृदुः सह कालकूट- क्ष्वेडोपतापमखिलं शमयाञ्चकार ॥ ५॥ सा पार्वती विजयतां भुवनस्य माता स्थेमानमाजगतमङ्गलभूषणस्य । निश्चित्य या गतभया विदधेऽभ्यनुज्ञां भर्त्रा कृतस्य गरलाशनसाहसस्य ॥ ६॥ सौभाग्यजन्भवसतिः किल शैलकन्या- कामाभिभूत्युचितमस्य . . . . संविधातुम् । कण्ठे मुहुर्मदनशत्रुमपेतशङ्का बध्नाति यानि भुजगद्वयश‍ृङ्खलेन ॥ ७॥ सा राजते जगति पर्वतराजपुत्री सम्भोगकेलिकलहे बहुशः प्रवृत्ते । ईशस्य मौलिपरितः परिपूर्णचन्द्रो यूनां पुराश्रिकषणा कृशमेवमासीत् ॥ ८॥ सा पार्वती विजयतां जगदेकमाता यस्या विहारकलहे सुलभे हरेण । पादाम्बुजाश्रयणकाङ्क्षितयैव तस्य प्रागेव मौलिकुसुमान्मधुपाः श्रयन्ते ॥ ९॥ तप्तं तयैव हि तपो गिरिराजपुत्र्या यस्या पिपास . . . . ममे परमेश्वरेण । हस्ता . . . . हो न मनसैव कृतः कृतोऽभू- दग्न्याधि(?)रोहणमिषाच्चरणावलम्बम् ॥ १०॥ सा पार्वती जगति भाग्यवती वधूनां या रुष्टपार्थदृढमुष्टिनिपातपीडाम् । सद्यो जहार गिरिशोरसि घट्टितेन कामोष्मणेन(व)कुचपुट्टलिकद्वयेन ॥ ११॥ धन्या गिरीन्द्रतनया खलु यद्भवेन सन्ध्याप्रणामसमये स पिनाकपाणिः । एवं निमीलति सरोरुहमद्य पश्य गौरीत्युदीर्य करमीलनमातनोति ॥ १२॥ सा नायिका विजयतां प्रणयेन रुष्टा या साक्कनाय(?)विनतस्य पुरार्दनस्य । प्रद्योतिताम्भसि कपर्दसुरस्रवन्त्यां बाष्पैरपूर्वसरितं पुनरातनोति ॥ १३॥ तां पार्वतीमनिशमेव सदा स्वमेव सन्ध्याप्रणामसमये परमेश्वरस्य । कोपेन यारुणतनुच्छविराजभूत्वं निर्यात्पुनः परिणता स्वयमेव सन्ध्या ॥ १४॥ सौभाग्यजन्मवसतेर्गिरिराजपुत्र्याः कुर्मस्तयोश्चरणयोरसकृन्नमस्याम् । नित्यं ययोः स्वयमलक्तकसन्निधित्स्वो- श्चेटीजनेन सुलभः कलहः शिवस्य ॥ १५॥ दाक्षीयणीचिरसमीप्सितलाभहेतो- र्विद्यासमस्तयुवतीस्पृहणीयवृत्ता । उन्मत्तवृत्तिरपि यत्सहचारसक्त्या शम्भुर्जगत्त्रयगरिष्ठकुसुम्बधुर्यः ॥ १६॥ नित्या हि सा भगवती गिरिराजकन्या नम्रस्य केलिकलहेपु नवेन्दुमौलेः । मन्दाकिनीशिरसि या पदयावकेन सन्ध्यायमानसलिलामसकृत्करोति ॥ १७॥ सा पार्वती जगति विभ्रमजन्मभूमि- र्यां याचते स्म गिरिशं(?)सुरसङ्घमध्ये । यन्मे व्यलीकमभवन्मदनाङ्गदाहा- त्तत्क्षम्यतामिति करग्रहणच्छलेन ॥ १८॥ इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गौरीप्रशंसापद्धतिश्चत्वारिंशत् । ॥ सम्पूर्णमिदं काव्यम् ॥ Proofread by Ruma Dewan
% Text title            : BhikshAtanakavyam
% File name             : bhikShATanakAvyam.itx
% itxtitle              : bhikShATanakAvyam (utprekShAvallabhakavivirachitam)
% engtitle              : bhikShATanakAvyam
% Category              : shiva, mahAkAvya
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : utprekShAvallabhakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : Kavyamala 12
% Indexextra            : (Scans 1, 2)
% Latest update         : April 17, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org