भिल्लकन्याकृता शिवस्तुतिः
दाता त्वमेव भगवान् विश्वस्य सकलस्य च ।
पालको नाशकश्च त्वं जनकोऽपि संशयः ॥ १०३॥
भूमण्डलोत्पादनकारणाय तत्पालनस्याप्यथ कारणाय ।
तन्नाशकायापि नमो नमस्ते गौरीसहायाय महेश्वराय ॥ १०४॥
अपारसंसारविनाशकाय संसारदुःखप्रलयोद्यताय ।
नमोऽस्तु ते कारणकारणायाप्यकारणायापि नमो नमस्ते ॥ १०५॥
वेदान्तवेद्याय नमो नमस्ते वेदस्वरूपाय नमो नमस्ते ।
अपारकल्याणगुणार्णवाय नमो नमस्ते गिरिजासहाय ॥ १०६॥
नमो नमश्चन्द्रकलावतंस गौरीस्फुरन्मानसराजहंस ।
गौरीविहारोन्नतकन्धरांस नमो नमो बिल्ववरोत्तमांस ॥ १०७॥
कश्चन्द्रचूडचरणाम्बुरुहार्चनेन
नाभीष्टसिद्धिमसकृत् समवाप रूपम् ।
शैवं समेत्य नवबिल्वदलाङ्कुरैर्वा
लिङ्गार्चनेन विजये रजनीमुखे वा ॥ १०८॥
प्रदोषे बिल्वं वा यदि नवजलेनापि सहित
प्रदद्याद्यो भक्त्या सितमसितलिङ्गेऽपि विमलम् ।
स तावत्सर्वेषामपि भवति पूज्यो जनिजरा-
विनाशानां दुःखं परिहरति दृष्टोऽपि सहसा ॥ १०९॥
पुण्यानि तावन्न पुरा कृतानि यत्तत्स्मरारिस्मरणं न पूर्वम् ।
अद्यापि तावन्न कृतानि पुण्यान्यथापि लिङ्गं नयनातिथिर्मे ॥ ११०॥
अलं पुण्यभारैरलं योगदानैः अलं सर्वभूमण्डलावर्तनैर्वा ।
यदा शर्वलिङ्गं नवैर्बिल्वपत्रैः पवित्रैः प्रसन्नं तदा तैश्च किं वा ॥ १११॥
अहो महद्भाग्यमिदं वनेऽस्मिन् वृष्टिप्रसङ्गादपि शाङ्गलिङ्गम् ।
दृष्टं मम प्राणवियोगकाले न भाविकालाद्भयमल्पतोऽपि ॥ ११२॥
सकृदप्यवलोकितो महेशः शिवलिङ्गेषु समर्चितोऽतिभक्त्या ।
कृतकृत्यवरं करोति मर्त्यं स कृतान्तोऽपि बिभेति तेज नूनम् ॥ ११३॥
कृतान्तान्तकं कः प्रपूज्यातिभक्त्या नवैर्बिल्पत्रैर्जलैर्वा फलैर्वा ।
स यातीशपादारविन्दद्विरेफस्वभावो भवाम्भोधिराशेश्च पारम् ॥ ११४॥
प्रपन्नार्तिनिर्वापणे शक्तमेकं महादेवमेकं प्रपद्ये महेशम् ।
विशेषेण माता पिता बन्धुरेव प्रकृष्टानि कष्टानि दूरीकरोति ॥ ११५॥
अनायासलभ्यैव मुक्तिर्महेशे श्रुतेऽपि स्मृतेऽपीति मन्ये तदन्यः ।
न कोप्यस्ति भक्तार्तिसंहारहेतुः स सेतुः सुखानां स केतुर्मखानाम् ॥ ११६॥
महेशं भजन्तः स्मरन्तः सकृद्वा न संसारभीतिं प्रपश्यन्ति कालम् ।
न पश्यन्ति दुःखानि कान्यप्यतो हि महेशं विनान्यं न जाने न जाने ॥ ११७॥
जनिस्तेन तावद्भवत्येव तेन स्थितिस्तेन संहारकाले समाप्तिः ।
समस्तस्य लोकस्य तस्याधुनाऽहं प्रपश्यामि लिङ्गं कृतानङ्गभङ्गम् ॥ ११८॥
ग्रहास्तावदद्याधुना मे प्रसन्नाः पुनस्तावदेकादशस्थानयुक्ताः ।
समस्ताश्च ते तेन घोरे वनेऽस्मिन् प्रकृष्टं हि लिङ्गं मया दृष्टमेव ॥ ११९॥
विनष्टानि कष्टानि दुःखप्रवाहः क्षणेनैव नष्टो गता वृष्टिरेषा ।
इदं लिङ्गमप्यम्बुना सिक्तमेवं नवं बिल्वपत्रं वहत्याशु दत्तम् ॥ १२०॥
अनेनैव दत्तेन बिल्वेन पापं प्रणष्टं प्रकृष्टं सुखं दातुमेव ।
समर्थं न सन्देहवार्तापि धन्यं शरीरं ममेदं तथा जीवनं च ॥ १२१॥
बिल्वाङ्कुरेण गिरिजारमणः कथं वा प्रीतो भवत्यघविनाशकरः कथं वा ।
मुक्तिप्रयावितरणप्रवणः कथं वा वेदो न वेद तदयं शिवकौतुकानि ॥ १२२॥
धुत्तूरपुष्पमपि केतकपुष्पतुल्यं कृत्वा जपाकुसुममप्यपराधिनापि ।
गृह्णातिं दत्तमसकृत् सकृदेव वाऽयं किं कौतुकं तदिदमित्यपि नैव विद्मः ॥ १२३॥
किं कण्टकारिकुसुमान्यपि कौतुकेन गृह्णाति किं कुशदलान्यपि कि शुभानि ।
भक्ताभितापहरणाय जलानि गृह्णात्यल्पानि तान्यभिनवान्यनवानि वाऽयम् ॥ १२४॥
कल्याणसागर इति प्रथितो हरोऽयं सर्वाघराशिहरणात् स हरो वरोऽयम् ।
तं तादृशं गिरिसुतापतिमाश्रयेऽहं भक्तेप्सितार्थदमपारसुखप्रवाहैः ॥ १२५॥
आलोड्य चैव चिरमेव मयापि लोके निर्णीतमीशचरणाम्बुजमादरेण ।
संसेवनीयमखिलाघविनाशनाय गौरीपतिं चिरमहं हृदि भावयामि ॥ १२६॥
गौरीकुचोरुगिरिशेखरचारुहीर हारस्फुरद्गिरिशपादसरोजभृङ्गैः ।
मन्मानसं भवतु तेन विमुक्तिरस्य सम्भावितापि जगतामपि माननीयः ॥ १२७॥
मदीयसुकृतापारपारावारैर्महेश्वरः ।
कुलदैवतमस्माकं अकस्मादभवत् कथम् ॥ १२८॥
क्वाहं क्व वा वृष्टिरियं प्रभूता सन्तोषरूपा शिवदर्शनेन ।
अलं कृतार्थं मम मानसं मे कृत्यं च नातः परमस्ति लोके ॥ १२९॥
॥ इति शिवरहस्यान्तर्गते भिल्लकन्याकृता शिवस्तुतिः सम्पूर्णा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २९। १०३-१२९॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 29. 103-129..
Notes:
Bhillakanyā भिल्लकन्या; who has taken shelter due to rains, in a Śiva temple शिवमन्दिर, eulogizes and prays to Śiva शिव.
Proofread by Ruma Dewan