बिल्ववृक्षमहिम्नवर्णनम्
महादेवस्वरूपोऽयं बिल्वो वेदैरपि स्तुतः ।
यथाकथञ्चिदेतस्य महिमा ज्ञायते कथम् ॥ १॥
वनमेतत् पावनं च बिल्वेनानेन केवलम् ।
एतद्वातानुषङ्गेन लिङ्गमङ्गं प्रजायते ॥ २॥
पुण्यतीर्थानि यावन्ति लोकेषु प्रथितान्यपि ।
तानि सर्वाणि तीर्थानि बिल्वमूले वसन्ति हि ॥ ३॥
बिल्वमूलजलैर्यस्तु मूर्धानमभिषिञ्चति ।
स सर्वतीर्थस्नातः स्यात् स एव भुवि पावनः ॥ ४॥
बिल्वमूले महादेवं लिङ्गरूपिणमव्ययम् ।
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयात् ध्रुवम् ॥ ५॥
बिल्वमूळे प्रजप्तास्तु मन्त्राः सिद्धिमुपागताः ।
तन्मन्त्रमहिमा तावत् ज्ञायते शङ्करेण हि ॥ ६॥
शक्तिहीनोऽपि यो मन्त्रो बिल्वमूलेषु जप्यते ।
स सिद्धः सकलं दद्यात् यदि माहेश्वरप्रियः ॥ ७॥
बिल्वरूपं समासाद्य शिव एवं स्वयं प्रभुः ।
लोकानामुपकराय वनेऽस्मिन्नधितिष्ठति ॥ ८॥
एतस बिल्वमूलस्याप्यालवालमनुत्तमम् ।
जलाकुलं महादेवो दृष्ट्वा तुष्टो भविष्यति ॥ ९॥
गन्धपुष्पादिभिः सर्वैरुपचारैः प्रयत्नतः ।
यो बिल्वं पूजयेद्भक्त्या सन्ततिस्तस्य वर्धते ॥ १०॥
दीपमालां बिल्वमूले यः कल्पयति सादरम् ।
स तत्त्वज्ञानसम्पन्नो महेशान्तर्गतो भवेत् ॥ ११॥
प्रदक्षिणनमस्कारान् बिल्वमूले प्रयत्नतः ।
ते पापपर्वतानां नाशकाः स्युर्त संशयः ॥ १२॥
नमस्कार्यत्वबुद्ध्या यः प्रणतो दण्डवद्भुवि ।
तस्मात् पतन्ति पापानि नोत्तिष्ठन्ति कदाचन ॥ १३॥
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।
गृहीत्वा पूजयेद्बिल्वं तेन पापैः प्रमुच्यते ॥ १४॥
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।
एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ १५॥
बिल्वमूले क्षीरयुक्तमन्नमाज्येन संयुतम् ।
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ १६॥
॥ इति शिवरहस्यान्तर्गते बिल्ववृक्षमहिम्नवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २२। ५९-७४ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 22. 59-74 ..
Proofread by Ruma Dewan