बोधपञ्चदशिका

बोधपञ्चदशिका

अनस्तमितभारूपस्तेजसां तमसामपि । य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च ॥ १॥ स एव सर्वभूतानां स्वभावः परमेश्वरः । भावजातं हि तस्यैव शक्तिर्येश्वरतामयी ॥ २॥ (शक्तिरीश्वरतामयी) शक्तिश्च शक्तिमद्रूपाद् व्यतिरेकं न वाञ्छति । तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव ॥ ३॥ स एव भैरवो देवो जगद्भरणलक्षणः । स्वात्मादर्शे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् ॥ ४॥ तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका । पूर्णत्वं सर्वभावेषु यस्या नाल्पं न चाधिकम् ॥ ५॥ एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः । विचित्रान् सृष्टिसंहारान् विधत्ते युगपत्प्रभुः ॥ ६॥ (युगपद्विभुः) अतिदुर्घटकारित्वमस्यानुत्तरमेव यत् । एतदेव स्वतन्त्रत्वमैश्वर्यं बोधरूपता ॥ ७॥ परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् । जडाद्विलक्षणो बोधो यत्तेन परिमीयते ॥ ८॥ (यतो न परिमीयते) एवमस्य स्वतन्त्रस्य निजशक्त्युपभोगिनः । (निजशक्त्युपभेदिनः) स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ॥ ९॥ तेषु वैचित्र्यमत्यन्तमुच्चाधस्तिर्यगेव यत् । (वैचित्र्यमत्यन्तमूर्ध्वाधस्तिर्यगेव) भुवनानि तदीशाश्च सुखदुःखमतिर्भवः ॥ १०॥ (तदंशाश्च सुखदुःखमतिश्च या) यदेतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् । स एव खलु संसारे जडानां यो विभीषिका (स एव खलु संसारो मूढानां या विभीषकः) ॥ ११॥ तत्प्रसादवशादेव गुर्वागमत एव वा । (तत्प्रसादरसादेव) शास्त्राद्वा परमेशस्य यस्मात्कस्मादुपायतः ॥ १२॥ (यस्मात्कस्मादुपागतम्) यतत् तस्य परिज्ञानं स मोक्षः परमेशता । (यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः ।) तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता ॥ १३॥ एतौ बन्धविमोक्षौ च परमेशस्वरूपतः । न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे ॥ १४॥ इत्थमिच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः । भैरवः सर्वभावानां स्वभावः परिशील्यते ॥ १५॥ मुक्तभारमतीन् शिष्यान्प्रबोधयितुमञ्जसा । (सुकुमारमतीन्) इमेऽभिनवगुप्तेन श्लोकाः पञ्चदशेरिताः ॥ (पञ्चदशोदिताः) ॥ इति श्रीअभिनवगुप्तपादाचार्यकृता बोधपञ्चदशिका समाप्ता ॥ Variations/pAThabehda from references are given on the right of the lines. Encoded and proofread by Ruma Dewan
% Text title            : Bodha Panchadashika by Abhinavagupta
% File name             : bodhapanchadashikA.itx
% itxtitle              : bodhapanchadashikA (abhinavaguptavirachitaH)
% engtitle              : bodhapanchadashikA by Abhinavagupta
% Category              : shiva, abhinavagupta
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Abhinavagupta
% Language              : Sanskrit
% Subject               : Hinduism/philosophy/advaita
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : December 27, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org