ब्राह्मणान् प्रोक्तं शिवलिङ्गदानोपदेशम्

ब्राह्मणान् प्रोक्तं शिवलिङ्गदानोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) राजोवाच धनमस्ति यथेष्टं मे मम दित्सापि जायते । कथं द्रव्यव्ययः कार्यो दानपात्रं च कीदृशम् ॥ ७१५॥ इति तद्वचनं श्रुत्वा धर्मज्ञा वीतमत्सराः । धर्मतत्वं विचार्याद्रव्यलोभपराङ्मुखाः ॥ ७१६॥ ब्राह्मणा ऊचुः बहूनि सन्ति दानानि तेषु सर्वेषु चोत्तमम् । लिङ्गदानं परं दानं तत्तु सर्वार्थसाधकम् ॥ ७१७॥ लिङ्गदानेन भगवान्यथा तुष्यति शङ्करः । तथा नान्येन दानेन तुष्टो भवति शङ्करः ॥ ७१८॥ सर्वकामप्रदं दानं लिङ्गदानमिति श्रुतम् । लिङ्गदानं ततः कार्यं विधिवद्यत्नपूर्वकम् ॥ ७१९॥ तुलादानादिदानानि सर्वाण्यपि नराधिप । शिवलिङ्गप्रदानस्य कलां नार्हन्ति षोडशीम् ॥ ७२०॥ प्राप्तव्यं लिङ्गदानेन धर्माद्यर्थचतुष्टयम् । लिङ्गदानसमं दानमत एव न दृश्यते ॥ ७२१॥ सुवर्णममितं शुद्धं यस्य दानस्य दक्षिणा । तादृशं दानमुत्कृष्टं लिङ्गदानं श्रुतिश्रुतम् ॥ ७२२॥ शिवलिङ्गप्रदो वंश्यान्मातृतः पितृतः शतम् । गृहीत्वा याति सन्तुष्टः श्रीमहादेवसन्निधिम् ॥ ७२३॥ शैवेभ्य एव दातव्यं लिङ्गदानं प्रयत्नतः । पुरा दानरतैर्भूपैर्लिङ्गदानानि केवलम् ॥ ७२४॥ कृतानि बहुधा राजन् शिवसन्निधिकाङ्क्षिभिः । लिङ्गदानफलं वक्तुं ब्रह्मणापि न शक्यते ॥ ७२५॥ परं तु तत्फलं वक्तुं समर्थः पार्वतीपतिः । अतः कुरु नरश्रेष्ठ लिङ्गदानमनुत्तमम् ॥ ७२६॥ लिङ्गदानेन सुप्रीतो भविष्यति महेश्वरः । ७२७.१ ॥ इति शिवरहस्यान्तर्गते राजाप्रति ब्राह्मणान् प्रोक्तं शिवलिङ्गदानोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । ७१५-७२७.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 715-727.1.. Notes: About being asked by the Rājā राजा, the Brāhamaṇa-s ब्राह्मणाः deliver Upadeśa उपदेश about the Śivaliṅgadāna शिवलिङ्गदान. Proofread by Ruma Dewan
% Text title            : Brahmanan Proktam Shivalingadanopadesham
% File name             : brAhmaNAnproktaMshivalingadAnopadesham.itx
% itxtitle              : shivaliNgadAnopadesham brAhmaNAnproktaM (shivarahasyAntargatam)
% engtitle              : brAhmaNAnproktaM shivalingadAnopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 715-727.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org