ब्रह्माकृता ६ शिवस्तुतिः

ब्रह्माकृता ६ शिवस्तुतिः

(शिवरहस्यान्तर्गते ईशाख्ये) ब्रह्मोवाच । सदयं हृदयं तवैव शम्भो दयनीयोंऽयमिति स्मराधुना माम् । इयता मम तावकं मनो मे मम तावत्प्रभवेत मुक्तये ॥ २३॥ सहमानस्त्वमेवेशो महेशो भक्तवत्सलः । संहरात्र महामन्युं दक्षं च सुरसत्तमान् ॥ २४॥ रक्ष जीवितदानेन लोकगुप्त्यर्थमीश्वर । त्वयैव सृष्टा निखिला लोकाः सर्वे चराचराः ॥ २५॥ विष्णुस्त्वत्कृपया शम्भो पालकोऽभूत्त्वदाज्ञया । सुरा इन्द्रादयः सर्वे अनिलानलवार्भुवः ॥ २६॥ सूर्यचन्द्रेन्द्रवरुणा वासवोश्विसुधन्विनः । मरुतः पितरः साध्या नागा विद्याधरादयः ॥ २७॥ किं पूरुषाप्सरःसङ्घा निरृतिर्धनपो यमः । मुनयो मानवा दैत्या यक्षरक्षोगणा नराः ॥ २८॥ नद्यश्च सागराः सप्तद्वीपाश्च वनराजयः । गरुडाः पतगाः सर्पा लोकाः सर्वे चराचराः ॥ २९॥ ग्रहर्क्षाश्च ध्रुवश्चापि रुद्रा भूताः पिशाचकाः । गुह्यश्च सिद्धगन्धर्वा नारदाद्या महर्षयः ॥ ३०॥ दिग्गजाः शिशुमाराद्याः कूर्माः शेषादयोऽखिलाः । धर्माधर्मौ तथा शास्त्रं वेदाश्च श्रुतयोऽपि च ॥ ३१॥ पुराणजालं निखिलं वैष्णवं शाम्भवं तथा । आगमाश्च त्वया प्रोक्ताः सर्वमेतत् त्वयावृतम् ॥ ३२॥ त्वयैव पालितं शम्भो त्वय्यन्ते लयमेष्यति । जगच्चक्रमिदं शम्भो भूतं भव्यं भवत्तथा ॥ ३३॥ त्वद्दयापात्रभूतं हि विवृद्धं भवतु प्रभो । त्वत्कोपदग्धं सकलं भूयाच्च सचराचरम् ॥ ३४॥ रक्ष देवान् सदक्षांश्च त्वत्कोपानलपीडितान् । महामन्यो मन्युमिमं संहरात्र मखं प्रति ॥ ३५॥ सती माया तव विभो मायी त्वं परमेश्वरः । कालः करोति निखिलं कालः संहरते प्रजाः ॥ ३६॥ कालेन वर्धते सर्वं कालकाल तवाज्ञया । कालं कञ्चित्प्रतीक्षस्व सती प्रकृतिरीश्वरी ॥ ३७॥ जाता हैमवती शम्भो त्वामायाति पतिं सती । भाव्येवं भूतभव्येश त्रिकालज्ञोऽसि शङ्कर ॥ ३८॥ त्वत्पादपङ्कजं स्मृत्वा सर्वदुःखक्षयो भवेत् । दुःखं सतीवियोगोत्थं निवर्तय महेश्वर ॥ ३९॥ त्वं वेत्सि योऽसि सोऽसीति जानास्यात्मानमात्मना । त्वमात्मा सर्वभूतानामन्तः शास्ता सनातनः ॥ ४०॥ ब्रह्म त्वं निर्गुणः साक्षी चेता नेता परात्परः । ऋतं सत्यं परं धाम भूमा सीमा विराट् स्वराट् ॥ ४१॥ सम्राट् प्रजापतिर्धाता वेदवेद्यो महेश्वरः । प्रणवः प्राण ईशानस्त्वत्तो नान्योऽस्ति कश्चन ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माकृता ६ शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ७ महादेवप्रसादनम् । २३-४२ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 7 mahAdevaprasAdanam . 23-42 .. Notes: Brahma ब्रह्मा eulogizes Śiva शिव; who had appeared at the devastated Dakṣādhvara दक्षाध्वर, to appease and pacify Him. Proofread by Ruma Dewan
% Text title            : Brahmakrita 6 Shiva Stuti
% File name             : brahmAkRRitA6shivastutiH.itx
% itxtitle              : shivastutiH brahmAkRitA 6 (shivarahasyAntargatA)
% engtitle              : brahmAkRRitA 6 shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | 7 mahAdevaprasAdanam | 23-42 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org