ब्रह्मकृतं ६ शिवस्तोत्रम्
ब्रह्मोवाच ।
देवदेव तवैश्वर्यं केन शक्येत वेदितुम् ।
विना भाग्यैक्यसुलभं भवदीयमनुग्रहम् ॥ १॥
अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम् ।
न स्तोतुं शक्यते किं तु नमस्कुर्वन्ति दूरतः ॥ २॥
को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः ।
त्वमेव देव कर्त्तासि जगत्सृजनरक्षयोः ॥ ३॥
पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी ।
बद्धं पाशेन मोक्तुं वा त्वमेवास्मान्प्रगल्भसे ॥ ४॥
षड्विंशत्तत्त्वरूपस्त्वमभितश्चाभिवर्त्तसे ।
कोविदः को विनिर्णेतुं तव याथात्म्यमीश्वरः ॥ ५॥
किरातः किल देवस्त्वं सारमेयैः किलागमैः ।
षड्वर्गहिंस्रान्संहर्तुं करोष्याखेटकौतुकम् ॥ ६॥
देव दक्षाध्वरे पूर्वं वरिभद्रस्त्वदाज्ञया ।
कां कां शिक्षामकार्षीन्न इति कापि विडम्बना ॥ ७॥
तव कालाग्निरूपस्य सर्वब्रह्माण्डदाहिनः ।
पोषणात्पुष्पचापस्य प्रायो जिह्वेति शेमुषी ॥ ८॥
कृतापराधः शूलेन त्वया दीर्णो जलन्धरः ।
अन्तकोन्धकदैत्यश्च प्रतिवीरश्च कोऽस्ति ते ॥ ९॥
अधारयिष्यत्कण्ठेन कालकूटं न चेद्भवान् ।
कथं च धारयिष्यामो वयं सर्वेऽपि जीवितम् ॥ ३.२.१६.१०॥
देवदारुवने पूर्वं मुनीन्केवलकर्मठान् ।
प्रक्षोभ्य धूर्तवेषस्त्वं दययान्वग्रहीस्तथा ॥ ११॥
अङ्घ्रिणाक्रान्तवान्नो चेदत्युग्रां त्वमपस्मृतिम् ।
तयाक्रान्तमिदं कृत्स्नमन्धकारायते जगत् ॥ १२॥
अर्धनारीश्वरं रूपं त्वया चेन्न प्रकाशितम् ।
प्रभवामि कथं स्रष्टुं जगदेतच्चराचरम् ॥ १३॥
भवता स्तम्भितः शम्भो संरम्भाज्जम्भजिद्भुजः ।
कियन्तं हन्त कालं ते जयस्तम्भ इव स्थितः ॥ १४॥
भिक्षोः कपालमापूर्य रुधिरेणात्मनो हरिः ।
शूलेनोत्क्षिप्य मुमुहे ह्येतत्त्वमवधारय ॥ १५॥
न चेदशिक्षयः सर्वशस्त्रास्त्राण्यनुकम्पया ।
निर्वापयेत्कथं वैरं क्रुद्धोऽपि जमदग्निभूः ॥ १६॥
नृहरिं शरभाकारः समहार्षीन्न चेद्भवान् ।
स एव संहरेद्विश्वं हिरण्यकशिपोरपि ॥ १७॥
त्वमाचकृक्षः कल्पाब्धौ कैवर्त्तो मत्स्यकच्छपौ ।
हरिं बद्ध्वाहिराट्सूत्रैर्नृसिंहमथ सूकरम् ॥ १८॥
एकोने पद्मसाहस्रे स्वनेत्रेण कृतार्चनम् ।
शूलिन्सुदर्शनं दत्त्वा दैत्यद्विषमतूतुषः ॥ १९॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये
उत्तरार्धे षोडशाध्यायान्तर्गतं ब्रह्मकृतं शिवस्तोत्रं
समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । उत्तरखण्ड । अध्याय १६/१-१९॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . uttarakhaNDa . adhyAya 16/1-19..
Proofread by PSA Easwaran