ब्रह्मतर्कस्तवः
॥ श्रीः ॥
उच्चावचैरुपनिषद्वचनप्रकाण्डै-
रुन्मीलितश्रुतिगणैरुपबृंहणैश्च ।
यत्सादरं समुदितं यमिनामुपास्यं
तद्ब्रह्म शङ्करभवानिति तर्कयामः ॥ १॥
यद्ब्रह्मलक्षणतया श्रुतिसूत्रसिद्धं
तत्कारणत्वमनुमोदितया शिखाद्यैः ।
अत्याश्रमोपनिषदा हर चोदितानि
त्वय्येव कारणवचांसि समर्पयन्ति ॥ २॥
पुष्पेषुशासन पुराणगिरोऽप्यनल्पा-
स्त्वं ब्रह्म नेतर इति प्रतिपादयन्ति ।
शब्दार्थयोरधिगतादधिकैकरूप्या-
न्मूलश्रुतीरपि शिवस्ववशं नयन्त्यः ॥ ३॥
द्वैपायनः स भगवानितिहासरत्ने
धर्मात्मजे विटपिरूपकमादधानः ।
ब्रह्मेति शङ्कर गिरा व्यपदिश्य मूलं
त्वं ब्रह्म शाश्वतमिति प्रकटीचकार ॥ ४॥
विष्णुर्द्विजाश्च विषमाक्ष पृथग्गृहीता
वेदस्तपोऽपि च न चेतनमध्ययोग्यम् ।
वाच्या च तत्स्थितिकृति क्वचिदस्य वृत्ति-
र्मूलत्वरूपणवशादिति निर्विशङ्कम् ॥ ५॥
साह्येन कृष्ण इव तस्य हि राज्यसिद्धा -
वाशीर्मुखेन मुखजा इव च त्वमीश ।
मूलं कपालधर नित्यमनुग्रहेण
तन्मध्यपाठविषयस्तदसि त्वमेव ॥ ६॥
कैरातपर्वणि तुरङ्गममेधवृत्ते
कैलासशैलगमने शतरुद्रिये च ।
सौषुप्तिकादिषु च शङ्कर पाण्डवेषु
सानुग्रहत्वमधिकं हि तव प्रसिद्धम् ॥ ७॥
प्रत्यक्षमेव भवता निहता कुरूणां
सेना ततस्तु निहता मघवत्सुतेन ।
युक्तं किमेतदतिशायि युधिष्ठिरार्थे
मूलं त्वदन्यदिह मुग्धमृगाङ्कमौले ॥ ८॥
उक्तं मयैव निहता इति शौरिणा य-
त्तत्रैवतो विजय एव परं निरास्यः ।
साह्यं स शौरिरपि यस्य बलेन चक्रे
तेषां महेश तव तस्य कथं निरासः ॥ ९॥
यद्देव दर्शितवता हरिणा तथोक्तं
तद्विश्वरुपमपि तावकमेव मन्ये ।
पार्थाय नाथितवते पररुपदृष्टिं
तेन त्रिलोचन तदेव हि दर्शनीयम् ॥ १०॥
युक्तं तदेतदत एव हि मोक्षधर्मे
तेनार्जुनं प्रति निजं वपुरास्थितेन ।
देवेन तेन निहतान्हतवानसीति
त्वय्येव तद्वचनपर्यवसानमुक्तम् ॥ ११॥
प्रागुक्तसर्वमहिमोपचितं हि तत्र
रूपं परं शिव दिदृक्षितमर्जुनेन ।
गीतोदितश्च महिमा सकलोऽपि नाथ
स्पष्टं त्वदीय इति कौर्मगिरा प्रतीमः ॥ १२॥
गीतासु यच्छरणमीश्वरमेव कुर्वि-
त्युक्तं सुरेन्द्रतनयं प्रति माधवेन ।
उक्त्वा करिष्य इति तेन तवैव पूजा
यच्च व्यतन्यत ततोऽपि तथा प्रतीमः ॥ १३॥
अङ्गुष्ठमात्रमधिसूत्रगणं पुमांसं
ब्रह्मेति यच्छुकगुरुः स विनिर्णयाय ।
ईशान इत्यभिधया त्वयि कॢप्तरूढ्या
त्वां ब्रह्म तेन च शिव स्फुटयाञ्चकार ॥ १४॥
एवं प्रमाणपरिपाटिकया विशाङ्कं
ब्रह्म त्वमित्यवधृतेऽपि जलन्धरारे ।
आरोपितैस्त्वयि परं जननादिदोषै-
स्त्वं ब्रह्म नेति वदतः प्रतिबोधयामः ॥ १५॥
कल्पादिषु द्रुहिणकेशवरुद्ररूपै-
स्त्वत्तस्त्वमेव भगवन्प्रविभागमाप्तः ।
तैरेव तेषु विषमाक्ष परस्परस्मा-
दाविर्भवन्ननुकरोषि जयैषिवृत्तिम् ॥ १६॥
देव त्वमेव निटिलाद्यदि धातृविष्ण्वो-
राविर्बभूविथ ततस्तव को निकर्षः ।
नासापुटान्न हि विधेर्न च तस्य पौत्रा-
ज्जातोऽसि विष्णुरिव नापि मनुष्यमात्रात् ॥ १७॥
नास्त्येव ते पुरुषवीर्यकणानुषक्ति-
र्न स्त्रैणगर्भवसतिर्न च योनिजत्वम् ।
व्यक्त्या परं क्वचन ते शिव यद्यवद्य-
मेतैः कियत्खलु विभो न भवेन्मुरारेः ॥ १८॥
अभ्यर्थनोपगमपूर्वमकर्मवश्य-
मावेदयद्भिरवतारमिमं समस्तम् ।
पौराणिकैः प्रकटिता परिहाररीति-
र्विश्वेश हन्त विदिताविदिता खलानाम् ॥ १९॥
कालाग्निरुद्रवपुषा भगवन्भवार्ति
कल्पावसानसमयेषु हरञ्जनानाम् ।
गृह्णासि शङ्कर तमः करुणैकमूर्तिः
शस्त्रं नृणां व्रणरुजं शमयन्निव त्वम् ॥ २०॥
निद्रालुता न तव शङ्कर शक्यशङ्का
क्रौर्यं किमप्यनुचिते विषये न दृष्टम् ।
नान्योऽपि कश्चन गुणस्तमसो विकारः
शङ्कया कथं तव बुधैस्तमसाभिभूतिः ॥ २१॥
सत्त्वप्रवर्तनकरस्त्वमसि प्रतीतः
सत्त्वं तनुश्च तव सत्त्वमयश्च यत्त्वम् ।
एतावदद्रितनयाधिप सात्त्विकत्वं
किं सम्भवेत्क्वचन तामसताविरोधि ॥ २२॥
उग्रस्त्वमुत्तरतया जगतः समस्ता-
द्भूयासमुग्र इति तत्परता हि दृष्टा ।
भीमोऽसि शङ्कर नियन्तृतयाऽखिलानां
वेदः प्रणौति यत एव महद्भयं त्वाम् ॥ २३॥
सङ्ख्यातिशायिगुण सत्त्वनिधिस्त्वमेव
ज्ञानं सुखं च यदि सत्त्वगुणादवाप्यम् ।
जानीमहे तदुभयं त्वदधीनमीश
जाबालसूनृतमुखैर्ननु जन्मभाजाम् ॥ २४॥
विद्याप्रदं वरद विश्वसिमः कमन्यं
विद्याधिपे भवति विश्वगुरौ प्रतीते ।
सर्वज्ञनामनि समुन्मिषदिन्दुचूडे
सव्यार्धविग्रहसमाकलितात्मविद्ये ॥ २५॥
शम्भुः श्रुतोऽसि ननु तृप्तिविरागशाली
वैराग्यचिह्नभरितश्च महेश्वरस्त्वम् ।
तं त्वामपारसुखसागरमन्तरेण
कस्मात्सुखं भवितुमर्हति देहभाजाम् ॥ २६॥
यज्जीवरत्नमखिलागमलालनीयं
ये च त्रिनेत्र मृडशङ्करनामधेये ।
एतैरपि स्फुटमनन्यसमाश्रयं ते
विख्याप्यते सकलजीवसुखप्रदत्वम् ॥ २७॥
यत्पाशुपत्यमवृणोरिति नित्यवाणी
शंसत्यवैमि तत एव तदीश नित्यम् ।
नित्यं यदिष्टहविरादिविधिस्तवाय
तस्यैव कल्पयति सा हि वरेण लाभम् ॥ २८॥
शक्नोति नैव पशुपाशपतीन्विवेक्तुं
मुक्तः कथं भवति मोहित एष लोकः ।
इत्याकलय्य भगवन्यदि वा वरेण
स्पष्टीचकर्थ तदिदं किमु दूषणाय ॥ २९॥
किं तेऽथ वा वरवृतेः फलचिन्तनेन
लीलैव शूलधर सन्ततमीदृशी ते ।
उद्दिश्य किं फलमवाप्तसमस्तकामः
शश्वत्सृजस्यवसि संहरसि प्रपञ्चम् ॥ ३०॥
आगन्तुकं यदि भवेत्तव पाशुपत्य-
मर्थोऽपि निस्तरति नानुपपत्तिसीमाम् ।
संसारिणो हि सकलाः पशवो निरुक्ताः
स्यादादिमत्कथमधीश्वर तत्पतित्वम् ॥ ३१॥
आस्तां पतित्वमदसीयमिदं पशुत्वं
नार्हत्यधीश कथमप्न्यधुनातनत्वम् ।
यद्यस्ति तस्य वरणश्रवणेषु काचि-
न्निर्वाहरीतिरपरा न किमत्र सा स्यात् ॥ ३२॥
मायादिपाशदृढबन्धविमोहितानां
यत्स्वामिकर्मकरणं यजनादिरूपम् ।
गौणं पशुत्वमिदमेव हि देहभाजा-
मेतच्चराचरपते कथमादिमत्स्यात् ॥ ३३॥
त्वामामनन्ति परमीश्वरमीश्वराणां
त्वां दैवतं च परमं खलु दैवतानाम् ।
त्वामेव नाथ परमं च पतिं पतीनां
कस्मादृतं वरद विश्वसिमो वरं ते ॥ ३४॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः ।
संरक्षणाय जगतां करुणातिरेका-
त्कर्मद्वयं कलितमेतदनन्यसाध्यम् ॥ ३५॥
गङ्गापि नैव भवता करिचर्मधारि करिचर्मधारि-
न्मूर्ध्ना धृता मधुरिपोश्चरणात्क्षरन्ती ।
किं तु प्रसादनपराय भगीरथाय
दत्त्वा वरं शतधृतेः सदनात्पतन्ती ॥ ३६॥
सापि त्वदङ्गपतिता नितरां पवित्रा
जाता ततस्त्वदभिषेकजलोपमेति ।
स्वर्लोकवासिभिरनन्तरमादृतासी-
द्ये मूर्धभिर्दधाति ते चरणावसृष्टम् ॥ ३७॥
उज्जृम्भणे यदुकुलाधिपतेरुदास्था
बालेन्दुशेखर पुरा किल बाणयुद्धे ।
एतावता विकलतां तव विक्रमस्य
लोके खलाः कतिचिदीश्वर कल्पयन्ति ॥ ३८॥
ओजीयसामसि वरः स्थिरकार्मुकोऽसि
भीमोऽसि सर्वजगतामखिलेश्वरोऽसि ।
इत्थं त्वयि श्रुतिशतैः परिगीयमाणे
किं नाम जल्पति जनः शिव किम्पचानः ॥ ३९॥
कल्पान्तरद्रुहिणकोटिकरोटिमाला-
भस्माङ्गरागकमठाङ्गवराहशृङ्गैः ।
आकल्प एव तव मङ्गलविग्रहस्य
सर्वोत्तरं तव बलं किमु न व्यनक्ति ॥ ४०॥
यस्यांशकैः शरभभैरववीरभद्रै-
रामर्दिता हरिविरिञ्चपुरन्दराद्याः ।
विश्वेश तस्य तव विक्रमभूरिभावे
साक्ष्यं त एव समुपाददते किमन्यैः ॥ ४१॥
कल्पद्रुमाहरणषट्पुरशासनादि
यद्दत्तयैव यदुराडतनिष्ट शक्त्या ।
तस्मिञ्शिव प्रतिहतिं तव पौरुषस्य
मूर्खोदितां बत स एव कथं सहेत ॥ ४२॥
शप्तस्त्वया शतमखस्य रिपुः स युद्ध-
मभ्यर्थयन्नसुरभावविलोपनाय ।
मत्तुल्य एव समरे मदमस्य दोष्णां
कण्डूभरोत्थमचिरादपनेष्यतीति ॥ ४३॥
देव्या च देव वचनं तव निर्वहन्त्या
सम्पादिता समरसम्पदुषानिदाना ।
यत्र त्वया हरिमुखेण भुजावलेपा-
त्प्रच्याव्य सैष निहितः प्रमथाधिपत्ये ॥ ४४॥
शैली च ते समुदिता शशिखण्डचूड
भक्ते विभावयसि यद्भवतोऽधिकत्वम् ।
आदाय चक्रमभिदिव्यनदीतनूजं
यामेव सोऽप्यनुससार यदुप्रवीरः ॥ ४५॥
दत्तं च शौर्यमधिकं भवतैव तस्मै
तच्चेन्महेश कलयापि न पालयेथाः ।
आशङ्कय वाक्यमखिलं भवतो मृषेति
वेदागमेष्वपि जना विमुखा भवेयुः ॥ ४६॥
एतैस्त्वया गिरिश हेतुभिरेव तस्मि-
न्नाविष्कृतं किमपि तत्सहजं न तेजः ।
कामान्धकत्रिपुरवासिजलन्धराद्यै-
र्यस्मिन्दरप्रकटिते शलभत्वमाप्तम् ॥ ४७॥
दग्धे तवाक्षिदहनेन चराचरेऽस्मि-
न्मत्वाखिलं भुवनमेव महाश्मशानम् ।
तत्र स्थितिं विबुधनाथ तवासहायां
सन्तः श्मशानवसतिं समुदाहरन्ति ॥ ४८॥
सन्ध्यासु भूतगणभैरवभद्रकाली-
संरम्भजन्मजगदापदपासनाय।
तद्गोचरेषु पितृकाननभूमिषु त्वं
तत्तादृशं गिरिश ताण्डवमातनोषि ॥ ४९॥
श्रीकण्ठ तावकचरित्ररहस्यरीति-
मेतादृशीं क इव वेत्ति नरः सुरो वा ।
त्वन्नामरूपगुणचिन्तनपुण्यमेव
व्याजेन केनचिदवाप्तुमिह श्रमो मे ॥ ५०॥
शश्वच्चेतो मम पशुपते शाल्मलीपुष्पतुल्या-
नन्यान्देवानतिलघुफलप्रापकान्वर्जयित्वा ।
पदाम्भोजे तव परिमिलद्दिव्यभृङ्गावलीढे
चन्द्रापीड श्रयतु सततं चञ्चरीकस्य लीलाम् ॥
ब्रह्मोपेन्द्रप्रमुखविनुत ब्रह्मतर्कस्तवोऽयं
भक्तिग्राह्यस्तवमिति भगवन्निर्मितो भक्तिमात्रात् ।
पादद्वन्द्वे तव करुणया निर्गुणोऽपि त्वदीये
पूजापुष्पप्रकरपदवीमेष पुष्णातु नित्यम् ॥
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य-
श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना श्रीमदप्पय दीक्षितेन
कृतो ब्रह्मतर्कस्तवः सम्पूर्णः ॥
Encoded and proofread by Vani V