चैत्रमासकृते शिवशताष्टनामस्तोत्रम् मास १
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
ईश्वर उवाच ।
नमोऽस्तु तुभ्यं देवाय(शुद्धाय)
शिवाया(सुव्रता)नन्ततेजसे ॥ ३०.२॥
नमः क्ष(क्षे)त्राधिपतये वी(बी)जिने शूलिने नमः ।
ह्रस्वायोर्ध्वाय धूम्राय दण्डिने रुक्मतेजसे ॥ ३१॥
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ।
नमो वन्याय पूज्याय सद्योजाताय वै नमः ॥ ३२॥
गह्वरायाध्वरेशाय हव्यवाहाय चारिणे ।
भूतानामुद्भवायाथ प्रभवे विभवे नमः ॥ ३३॥
देवाय द्योतमानाय मानातीताय शम्भवे ।
वेदाङ्गाय प्रधानाय योगसाङ्ख्यविहारिणे ॥ ३४॥
ध्रुवाध्रुवाय शान्ताय विश्वाय सुमहर्षये ।
ग्रहाय ग्राह्यरूपाय गृहस्थाय यतात्मने ॥ ३५॥
अहोरात्राय मासाय ऋतवे क्रतवे नमः ।
संवत्सराय पतये युगकालात्मने नमः ॥ ३६॥
परार्धाय प्रसन्नाय शुष्काय हरिताय च ।
धर्माधर्मस्वरूपाय पराय विभवे नमः ॥ ३७॥
पुरान्तकाय भीमाय वर्गाय धृतये नमः ।
मन्वन्तराय काव्याय विश्वाप्यायविधायिने ॥ ३८॥
विश्वसर्गाय भर्गाय ज्योतिषे दिव्यचक्षुषे ।
कल्पाद्याय निबद्धाय शुद्धबुद्धाय रंहसे ॥ ३९॥
ब्रह्मणे ब्रह्मभूताय ब्रह्माधिपतये नमः ।
विद्येशायादि(धि)देवाय विद्याधिपतये नमः ॥ ४०॥
नमो व्रताधिपतये मन्त्राधिपतये नमः ।
पितॄणां पतये चैव पशूनां पतये नमः ॥ ४१॥
शेषभूषाय तुष्टाय पुष्टाय च नमो नमः ।
वृषभाय पुराणाय पत्तीनां पतये नमः ॥ ४२॥
प्रजापतीनां पतये व्योमकेशाय ते नमः ।
सिद्धाय बृहते चैव परघोषाय ते नमः ॥ ४३॥
दैत्यदानवपूज्याय पायवे दक्षघातिने ।
यक्षाय भिक्षुरूपाय कक्षवासाय ते नमः ॥ ४४॥
पक्षिवाहप्रपूज्याय गुह्यलिङ्गाय ते नमः ।
पूर्वाय पर्वमध्याय शर्वरीशविधारिणे (?) ॥ ४५॥
भव्याय (भवाय) भवरूपाय मखाध्यक्षाय धातवे ।
भववैद्याय घोराय वामदेवाय ते नमः ॥ ४६॥
सद्योजाताय पूर्वाय ईशानाय नमो नमः ।
एवं नामाष्टकेनेशं शतेनैव प्रपूजयेत् ॥ ४७॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं चैत्रमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १४ चैत्रमासार्चनम् । ३०.२-४७॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 14 chaitramAsArchanam . 30.2-47..
Notes:
Śiva शिव delivers to Devī देवी; the Caitramāsakṛte ŚivaŚatāṣṭanāmaStotram चैत्रमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Caitra māsa चैत्र मास.
The corresponding Caitramāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ चैत्रमासकृते शिवशताष्टनामावलिः derived from the Caitramāsakṛte ŚivaŚatāṣṭanāmaStotram चैत्रमासकृते शिवशताष्टनामस्तोत्रम्, and a Caitramāsakṛte ŚivaStutiḥ चैत्रमासकृते शिवस्तुतिः can be accessed from one of the links provided below. can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 14 are presented on this page.
Proofread by Ruma Dewan