चैत्रमासकृते शिवस्तुतिः मास १
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
सद्योजातादिविद्या प्रभवविधिकृते शूलिने गोत्रिणे ते
मत्तेभाजिनवाससे विधिमहामुण्डोरुसद्वक्षसे ।
ज्वालाकूटविशोषिताखिलमहाकालाय भालोज्ज्वल
भीमालोलविषोरुकण्ठरभसे पूर्षाय तुभ्यं नमः ॥ ४९॥
मासस्तोत्रनुताय वेदवचसां सीमान्तसञ्चारिणे
वामार्धाकृतये सदा सुकृतये कामाङ्गनाशाय ते ।
व्योमाकारशरीरधूमपटलीकेशाय पाशावृत
पारावार विकारसंसृति भवोत्ताराय तुभ्यं नमः ॥ ५०॥
भस्माङ्गाय भवाय भावुक हृदोत्तुङ्गाय गङ्गारय-
स्फाराघोरमहोत्तमाङ्ग विलसल्लिङ्गाय शाङ्गाय ते ।
कामाद्यङ्गविभङ्गकाय सुमहादित्याङ्गसङ्गस्फुर-
जालाङ्गाय कुरङ्गबालविलसद्धस्ताय तुभ्यं नमः ॥ ५१॥
ईशाय शाश्वत जगत्स्थितिनाशकेश
व्योमावकाश शशिधाम विभासि धाम्ने ।
भूम्ने विधूततमसे रभसे विशोक-
सीने भवाय विभवाय नमोनमस्ते ॥ ५२॥
- -
स्तुत्वैवं देवमीशानं पुनः सम्पूज्य शङ्करम् ।
ईशानं पुरुषं देवं वामदेवमधोरकम् ।
सद्योजातं च देवेशि नामभिः संस्तुवीत च ॥ ५३॥
ततो नीराजनं दद्यात् वादित्राणां निदानतः ।
शङ्खकाहलनिर्घोषैर्भेरीभाङ्कारमद्दलैः ॥ ५४॥
वेणुवीणामृदङ्गैश्च जयशब्दैः सुमङ्गलैः ।
पूजां समाप्य नियतःकरतालसुनर्तनैः ॥ ५५॥
प्रसादयेन्महादेवं पूजान्ते शाम्भवैः सह ।
निवेदितैश्च ताम्बूलैः पूजयेद्दक्षिणादिभिः ॥ ५६॥
एकवारं त्रिवारं वा पूजयेद्गिरिजापतिम् ।
छत्रैश्च चामरैर्दिव्यव्यजनादर्शकैरपि ॥ ५७॥
चैत्रत्रिणेत्रपूजातः क्षिप्रं नश्यति पातकम् ।
चित्रायामथ पौर्णम्यां होमं कुर्याच्च शाम्भवैः ॥ ५८॥
दद्याद्गोमिथुनं तत्र मासि मासि विशेषतः ।
प्रसङ्गाच्चैव सम्पूज्यो भक्तिहीनैरपि द्विजैः ॥ ५९॥
विशोषयेत्तनुं देवि नक्ताशी क्षारवर्जितम् ।
एवं चैत्रादिमासस्य पूजनं ते प्रकीर्तितम् ॥ ६३॥
यत्कृत्वा मनुजः सद्यो लभेद्रुद्रगणत्वताम् ।
पितामहैः सहैवाथ नरकस्थैरपि द्विजः ॥ ६४॥
याति शम्भोर्वरस्थानं विमानैः सार्वगामिकैः ॥ ६५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं चैत्रमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १४ चैत्रमासार्चनकथनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 14 chaitramAsArchanakathanam . vAvRRittashlokAH ..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Caitra māsa चैत्र मास. He mentions about conducting Homam होमम् during Caitra Pūrṇimā चैत्र पूर्णिमा.
The Caitramāsakṛte ŚivaŚatāṣṭanāmaStotram चैत्रमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव, and the Caitramāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ चैत्रमासकृते शिवशताष्टनामावलिः derived from the same can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 14 are presented on this page.
Proofread by Ruma Dewan