शिलादकृतचमकविधानवर्णनम्
नमो नमस्ते गिरिजासहाय नमो नमस्ते सुकृतस्वरूप ।
नमो नमस्तेऽन्नपते महेश नमो नमस्तेऽस्तु नमो नमस्ते ॥ १॥
त्वत्पादाम्बुजभक्तिर्मे निश्चला भवतु प्रभो ।
त्वमेव शरणं शम्भो गतिस्त्वं जगतां प्रभो ॥ २॥
कर्माण्यस्य फलोन्मुखानि भगवंस्त्वत्पादपद्मं यतो
दृष्टं दोषविवर्जितं सुखयुतं यावत्करोति स्वतः ।
तत्तावन्मुनिवृन्दमानसमनःपद्मप्रविष्टं प्रभो
तन्मे मानसपङ्कजे क्षणमपि स्वामिन् प्रभो जायताम् ॥ ३॥ (मुदे जायताम्)
वाजश्च मेऽस्तु प्रसवश्च मेऽस्तु त्वत्पूजया सा प्रयतिश्च मेऽस्तु ।
महेश्वरानुप्रसितिश्च मेऽस्तु धीतिश्च मेऽस्तु क्रतुरस्तु शम्भो ॥ ४॥
स्वरश्च मेऽस्तु स्वरदेश शम्भो श्लोकश्च मेऽस्तु श्रुतिगीतकीर्ते ।
श्रावश्च मेऽस्तु श्रुतिरस्तु शम्भो शिवाभिधानश्रवणाय नित्यम् ॥ ५॥
ज्योतिश्च मेऽस्तु ज्वलनस्वरूप सुवश्च मेऽस्तु त्रिपुरासुरारे ।
प्राणश्च मे तावदपानयुक्तो व्यानश्च मेऽसुव तथैव चित्तम् ॥ ६॥
आधीतं च तथा वाक्च मनश्चक्षुश्च मे प्रभो ।
श्रोत्रं दक्षो बलञ्चौञ्जः सहश्चायुश्च मे प्रभो ॥ ७॥
जरा चात्मा च मे शम्भो तनूः शर्म च वर्म च ।
अङ्गान्यस्थीनि भगवन् परूंषि च भवन्तु मे ॥ ८॥
शरीराणि भवन्त्वीश तानि रम्याणि मे प्रभो ।
ज्यैष्ठ्यं च मेऽधिपत्यं च मन्युर्भामश्च मे प्रभो ॥ ९॥
अमश्चाम्भश्च जेमा च महिमा वरिमा च मे ।
प्रथिमा चास्तु गौरीश वर्ष्मा च द्राघुया च मे ॥ १०॥
वृद्धं वृद्धिश्च सत्यं च श्रद्धा चास्तु जगत्त्रये ।
धनं वशाऽस्त्विषिञ्चास्तु क्रीडा मोदश्च मे प्रभो ॥ ११॥
जातं जनिष्यमाणं च सूक्तं मे सुकृतं च मे ।
वित्तं वेद्यं च भूतं च भविष्यच्च सुगं च मे ॥ १२॥
सुपथं ऋद्धमृद्धिश्च क्लृप्तं क्लृप्तिश्च मे मतिः ।
सुमतिः शं मयश्चास्तु प्रियं चास्तु शिवं शुभे ॥ १३॥
अनुकामश्च कामश्च शम्भो सौमनसं च मे ।
भद्रं श्रेयश्च वस्यं च यशो मेऽस्तु जगत्त्रये ॥ १४॥
द्रविणं चास्तु यन्ता च धर्ता क्षेमश्च मे धृतिः ।
विश्वं महश्च संविच्च ज्ञात्रं सूश्च प्रसूश्च मे ॥ १५॥
सीरं लय ऋतं चास्तु भगवन्नमृतं च मे ।
अयक्ष्मं चानामयं च जीवातुश्चापि मे सदा ॥ १६॥
दीर्घायुत्वानमित्रे च सर्वदाऽप्यभयं च मे ।
सुगं च शयनं सूषा सुदिनं चास्तु मे सदा ॥ १७॥
ऊर्क्च मे सूनृता चास्तु पयश्चास्तु रसश्च मे ।
घृतं मधु च सग्धिश्च सपीतिश्च कृषिश्च मे ॥ १८॥
वृष्टिच जैत्रमौद्भिद्यं रयिश्चास्तु सदापि मे ।
रायः पुष्टं च पुष्टिश्च विभु च प्रभु च प्रभो ॥ १९॥
बहु भूयश्च पूर्णं च तथा पूर्णतरं च मे ।
अक्षितिश्चास्तु भगवन् कूयवाश्च भवन्तु मे ॥ २०॥
अन्नमन्नपते मेऽस्तु तेनास्त्वक्षुच्च मे प्रभो ।
व्रीयश्च यवा माषाः तिला मुद्गाश्च मे शिव ॥ २१॥
खल्वाश्च सन्तु गोधूमाः मसुराश्च प्रियङ्गवः ।
अणवः सन्तु मे नित्यं श्यामाकाः सन्तु मे प्रभो ॥ २२॥
नीवाराद्याश्च मे सन्तु गृहे सर्वान्नकल्पकाः ।
अश्मा च मृत्तिका चास्तु गिरयः पर्वताश्च मे ॥ २३॥
सिकताः सन्तु भगवन् मे वनस्पतयश्च मे ।
हिरण्यमस्त्वयश्चास्तु तथा सीसं त्रपुश्च मे ॥ २४॥
श्यामं लोहं च मेऽग्निश्च गृहे तिष्ठन्तु सर्वदा ।
आपश्च वीरुधः सन्तु तथैवौषधयोऽपि मे ॥ २५॥
कृष्टपच्यं च बहुधा मम तिष्ठतु वेश्मनि ।
तथैवाकृष्टपच्यं च वनसम्भवमस्तु मे ॥ २६॥
गोमहिष्यादयो ग्राम्याः पशवः सन्तु मे गृहे ।
सदा यज्ञेन कल्पन्तामारण्याः पशवश्च मे ॥ २७॥
वित्तं वित्तिश्च भूतं च भूतिश्च वसतिर्वसु ।
शिवपूजादिकं कर्म शक्तिश्च शिवपूजने ॥ २८॥
एमश्चास्तु ममेतिश्च गतिश्चास्तु शिवार्चने ।
अग्निरिन्द्रश्च सोमश्च सविता च सरस्वती ॥ २९॥
पूषा बृहस्पतिर्मित्रः त्वष्टा च वरुणश्च मे ।
धाता च विष्णुरप्यस्तु गृहकर्मकरस्तु मे ॥ ३०॥
अश्विनौ च ममेशान तिष्ठतां सर्वदा गृहे ।
मरुतश्च प्रसर्पन्तु विश्वेदेवाश्च मे गृहे ॥ ३१॥
त्वदाज्ञावशगानेतान् अग्नीन्द्रादिसुरान् शिव ।
मद्वशान् कुरु विश्वेश दक्षान् मद्गृहकर्मणि ॥ ३२॥
अन्तरिक्षं च पृथिवी द्यौरप्यस्तु दिशश्च मे ।
मूर्धा प्रजापतिश्चास्तु मे भवत्कृपया भव ॥ ३३॥
अंशुश्च रश्मिरप्यस्तु मे दाभ्योऽधिपतिश्च मे ।
उपांशुरन्तर्यामश्च मम स्यादैन्द्रवायवः ॥ ३४॥
मे मैत्रावरुणश्चास्तु तथैवास्तु ममाश्विनः ।
प्रतिप्रस्थानशुक्रौ च मन्थी चाग्रयणश्च मे ॥ ३५॥
वैश्वदेवो ध्रुवश्चापि तथा वैश्वानरश्च मे ।
ऋतुग्रहाश्च मे सन्तु सातिग्राह्याश्च शङ्कर ॥ ३६॥
ऐन्द्रागा वैश्वदेवश्व ग्रहाः सोमोपयोगिनः ।
तथा मरुत्वतीयाश्च ग्रहाः सन्तु सदाऽपि मे ॥ ३७॥
माहेन्द्रश्च तथाऽऽदित्यः सावित्रश्चास्तु मे ग्रहः ।
सारस्वतश्च पौष्णश्च तथा पात्नीवतश्च मे ॥ ३८॥
सहारीयोजनश्चास्तु ममेध्मश्चास्तु सर्वथा ।
बर्हिवेन्दिर्धिष्णियाश्च स्रुवश्च चमसाश्च मे ॥ ३९॥
ग्रावाणः स्वरवः सन्तु तथैवोपरवाश्च मे ।
ते मे धिषवणे सन्तु ते द्रोणकलशश्च मे ॥ ४०॥
वायव्यानि च मे सन्तु पूतभृच्चास्तु मे प्रभो ।
तथैवाघवनीयश्च तदाग्नीध्रं च मे प्रभो ॥ ४१॥
हविर्धानं च मे स्वामिन् गृहाश्चैव सदश्च मे ।
पुरोडाशाश्च मे स्वामिन् पचताश्च भवन्तु मे ॥ ४२॥
तथैवावभृथः सन्तु स्वगाकारश्च मे प्रभो ।
अग्निर्घर्मश्च मेऽर्कश्च सूर्यः प्राणश्च मे प्रभो ॥ ४३॥
अश्वमेधश्च पृथिवी द्यौरप्यदितिरस्तु मे ।
मे शक्वरीरङ्गुलयो दिशश्च विदिशश्च मे ॥ ४४॥
तथा यज्ञेन कल्पन्तां ऋक् च साम च मे प्रभो ।
सोमो यजुश्च दीक्षा च तपश्चस्तु ऋतुश्च मे ॥ ४५॥
तथाऽहोरात्रयोर्वृष्ट्या व्रतं च नियमात्मकम् ।
बृहद्रथन्तरे यज्ञे कल्पेतां भाललोचन ॥ ४६॥
गर्भा वत्साश्च भगवन् त्र्यविश्चास्तु महेश्वर ।
त्र्यवी च मे दित्यवाट् च दित्यौही च सदाशिव ॥ ४७॥
पञ्चाविश्च महादेव पञ्चावी च त्रिलोचन ।
त्रिवत्सश्च त्रिवत्सा च तुर्यवाडस्तु मे प्रभो ॥ ४८॥
तुर्यौही पष्टवाट् चास्तु पष्ठौही च महेश्वर ।
उक्षा वशा च ऋषभो वेहोऽनड्वांस्तथास्तु मे ॥ ४९॥
धेनुरप्यस्तु भगवन् क्षीरायातिमनोहरा ।
यज्ञेन कल्पतामायुः प्राणो यज्ञेन कल्पताम् ॥ ५०॥
अपानोऽपि स यज्ञेन व्यानेन सह कल्पताम् ।
चक्षुः श्रोत्रं च यज्ञेन मनसा सह कल्पताम् ॥ ५१॥
वागात्मापि तथा यज्ञोऽप्येवं यज्ञेन कल्पताम् ।
त्वदधीनमिदं सर्वं तवेति प्रार्थितं मया ॥ ५२॥
सर्वस्वतन्त्रोऽसि महेश यस्मात् त्वमेव दाताऽसि तवापि देयाः ।
उक्ताश्च तावच्चमकेन देहि तानस्वतन्त्रान् शिवपूजकाय ॥ ५३॥
तेषां प्रदेयत्वविनिश्चयेन तान् देहि मां शिवपूजकाय ।
ते तावदस्मद्गृहकर्मयोग्याः योग्येन योग्यस्य किलान्यवोऽपि ॥ ५४॥
एते पदार्थाः प्रथितास्त्वदीयाः ते शर्व देयास्तव दानयोग्याः ।
अहं शिवराधनसक्तचित्तः को वा मदन्योऽस्ति स दानयोग्यः ॥ ५५॥
दातापि देयं सति दानयोग्ये विहाय कस्मै प्रददाति भक्त्या ।
विद्वानतो देहि महेश तान् मे लोके मदन्यस्तु न कोऽपि पात्रम् ॥ ५६॥
त्वद्दत्तमेतादृशभाग्यमेत्य त्वत्पादपूजानिरतो भवामि ।
प्रमादलेशोऽपि तदा न भावी भवे भवे त्वत्पदपूजकस्य ॥ ५७॥
मन्ये शङ्कर देवदेव भवतो दातृत्वमव्याहते (तव ते दातृत्वमव्याहते)
तेनाग्निप्रमुखान् सुरानपि सदा तानस्वतन्त्रान् स्वतः ।
मह्यं देहि मदिच्छया परममी कुर्वन्तु कृत्यानि मे
शक्तिर्यस्य यथा तथाऽस्ति भगवन् सर्वस्वतन्त्र प्रभो ॥ ५८॥
महाप्रभुः शम्भुरुमासहायो दयामयो भूतिमयोऽपि दाता ।
माता पिता मे सहितप्रदाता धाता विधाता न सन्दृक् (?) ॥ ५९॥ (परमोऽत्र सन्दृक्)
देयत्वेन विनिश्चितास्तव सुराः सर्वेऽपि वेदैरमी
दाता त्वं तव भाग्यमप्यविलयं भूयः समुज्जृम्भते ।
अस्माकं तु महाप्रभुः भव भवानेवेति चित्तं मुहुः
स्वानन्दाम्बुधिवीचिकाऽतिचपला लीलाविलासास्पदम् ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते शिलादकृतचमकविधानवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३४। ११६-१७५ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 34. 116-175 ..
Proofread by Ruma Dewan