चतुस्त्रिंशत्रुद्रस्तवः
(अभिनवगुप्तविरचितं तन्त्रालोके जयरथकृतं तन्त्रालोकविवेकान्तर्गते)
॥ नमो रुद्रशक्तिमन्वितेभ्यः ॥
॥ क-वर्गः । अघोरमाहेश्वर्यौ / अघोरमाहेश्यौ ॥
जयतान्नतजनजयकृत्सजयो रुद्रो विनाभ्युपायं यः ।
पूरयति कं न कामं कामं कामेश्वरत्वेन ॥ क - जयः ॥ १ ॥ (त० २)
खात्मत्वेऽपि विचित्रं निखिलमिदं वाच्यवाचकात्म जगत् ।
दर्पणनगरवदात्मनि विभासयन्विजयते विजयः ॥ ख - विजयः ॥ २ ॥ (त० ३)
यो दुर्विकल्पविघ्नविध्वंसे सद्विकल्पगणपतिताम् ।
वहति जयताज्जयन्तः स परं परमन्त्रवीर्यात्मा ॥ ग - जयन्तः ॥ ३ ॥ (त० ४)
यो नाम घोरनिनदोच्चारवशाद्भीषयत्यशेषजगत् ।
स्वस्थानध्यानरतः स जयत्यपराजितो रुद्रः ॥ घ - अपराजितः ॥ ४ ॥ (त० ५)
कवलयितुं किल कालं कलयति यो व्यायतास्यतां सततम् ।
जयति स सुजयः साक्षात्संसारपराकृतौ सजयः ॥ ङ - सुजयः ॥ ५ ॥ (त० ६)
॥ च-वर्गः । परमघोरब्राह्म्यौ / परमघोरब्राह्मण्यौ ॥
तत्तन्मन्त्राभ्युदयप्रगुणीकृतचण्डभैरवावेशः ।
विद्रावितभवमुद्रो द्रढयतु भद्राणि जयरुद्रः ॥ च - जयरुद्रः ॥ ६ ॥ (त० ७)
जयकीर्तिरयं जयताज्जगदम्भोजं विभक्तभुवनदलम् ।
रविरिव विकासयति यश्चिदेकनालाश्रयत्वेन ॥ छ - जयकीर्तिः ॥ ७ ॥ (त० ८)
तत्त्वक्रमावभासनविभागविभवो भुजङ्गमाभरणः ।
भक्तजनजयावहतां वहति जयावहो जयति ॥ ज - जयावहः ॥ ८ ॥ (त० ९)
तत्तत्तत्त्वविभेदनसमुद्यतोद्द्योतित्निशितशूलकरः ।
जयति परं जयमूर्तिः संसारपराजयस्फूर्तिः ॥ झ - जयमूर्तिः ॥ ९ ॥ (त० १०)
स्वात्ममहाभीमरवामर्शनवशशकलिताध्वसन्तानः ।
भवदुर्गभञ्जनजयोत्साहो जयताज्जयोत्साहः ॥ ञ - जयोत्साहः ॥ १० ॥ (त० ११)
॥ ट-वर्गः । घोररूपकौमार्यौ ॥
अमृतात्मकार्धचन्द्रप्रगुणाभरणोऽध्वमण्डलं निखिलम् ।
विश्रमयन्निजसंविदि जयदोऽस्तु सतां सदा जयदः ॥ ट - जयदः ॥ ११ ॥ (त० १२)
जयवर्धनः सुखर्द्धिं वर्धयतात्पूर्णचन्द्रविशदगतिः ।
आप्याययति जगद्यः स्वशक्तिपातामृतासारैः ॥ ठ - जयवर्धनः ॥ १२ ॥ (त० १३)
यो योगिनीप्रियतया तिरोहितिव्यपगतिक्रमं जगताम् ।
प्रबलीकरोति बलतो बलाय तस्मै बलिं यामः ॥ ड - बलः ॥ १३ ॥ (त० १४)
यः परमेशसपर्याक्रियोपदेशाङ्कुशेन भवकरिणम् ।
कृतवांस्तमनतिबलमतिबलमस्मि नतः फणभृदाभरणम् ॥ ढ - अतिबलः ॥ १४ ॥ (त० १५)
प्रणमामि निखिलपाशप्रवाहसम्भेदभेदबलभद्रम् ।
बलभद्रं प्राणाश्वप्रचारचातुर्यपूर्णबलम् ॥ ण - बलभद्रः ॥ १५ ॥ (त० १६)
॥ त-वर्गः । घोरमुखवैष्णव्यौ ॥
निजशक्तिजनितकर्मप्रपञ्चसंचारचातुरीविभवम् ।
भवतरणबलप्रदतां समावहन्तं बलप्रदं नौमि ॥ त - बलप्रदः ॥ १६ ॥ (त० १७)
ऋतधामानमनन्तं बलावहं तं बलावहं वन्दे ।
जगदिदममन्दमखिलं स्वमहिम्ना योऽनुगृह्णाति ॥ थ - बलावहः ॥ १७ ॥ (त० १८)
भवभेदविभवसम्भवसम्भेदविभेदबलवन्तम् ।
बलवन्तं नौमि विभुं दारुणरूपग्रहाग्रहतः ॥ द - बलवान् ॥ १८ ॥ (त० १९)
जयति विभुर्बलदाता मूढजनाश्वासदायि येन वपुः ।
बहिराद्यन्तवदपि मध्यशून्यमुल्लासितं सततम् ॥ ध - बलदाता ॥ १९ ॥ (त० २०)
भेदप्रथाविलापनबलेश्वरं तं बलेश्वरं वन्दे ।
यः सकलाकलयोर्मितात्मताया निषेधमादध्यात् ॥ न - बलेश्वरः ॥ २० ॥ (त० २१)
॥ प-वर्गः । भीमैन्द्र्यौ ॥
दुर्वृत्तजनकुसंस्कृतिसंहरणव्यावृतास्यतां दधतम् ।
देवममन्दं वन्दे वदनमानन्दनं जगताम् ॥ प - नन्दनः ॥ २१ ॥ (त० २२)
आस्थाय भैरववपुर्निजाकृतेः संविभागेन ।
विदधातु वः स भद्रं सर्वत इह सर्वतोभद्रः ॥ फ - सर्वतोभद्रः ॥ २२ ॥ (त० २३)
यः परमामृतकुम्भे धाम्नि परे योजयेद्गतासुम् अपि ।
जगदात्मभद्रमूर्तिर्दिशतु शिवं भद्रमूर्तिर्वः ॥ ब - भद्रमूर्तिः ॥ २३ ॥ (त० २४)
भीममधिष्ठाय वपुर्भवमभितो भावयन्निव यः ।
प्रभवति हृदि भक्तिमतां शिवप्रदोऽसौ शिवोऽस्तु सताम् ॥ भ - शिवप्रदः ॥ २४ ॥ (त० २५)
भवति यदिच्छावशतः शिवपूजा विश्वलाञ्छनं विष्वक् ।
विश्वं जयति स सुमनाः प्रपन्नजनमोचने सुमनाः ॥ म - सुमनाः ॥ २५ ॥ (त० २६)
॥ य-वर्गः । भीषणयाम्ये ॥
देवं चक्रव्योमग्रन्थिगमाधारनाथमजम् ।
अपि परसंविद्रूढैः स्पृहणीयं स्पृहणमस्मि नतः ॥ य - स्पृहणः ॥ २६ ॥ (त० २७)
समयविलेपविलुम्पनभीमवपुः सकलसम्पदां दुर्गम् ।
शमयतु निरर्गलं वो दुर्गमभवदुर्गतिं दुर्गः ॥ र - दुर्गः ॥ २७ ॥ (त० २८)
भद्राणि भद्रकालः कलयतु वः सर्वकालमतुलगतिः ।
अकुलपदस्थोऽपि हि मुहुः कुलपदमभिधावतीह प्रसभम् ॥ ल - भद्रकालः ॥ २८ ॥ (त० २९)
सहजपरामर्शात्मकमहावीर्यसौधधौततनुम् ।
अभिमतसाधकसाधकमनोऽनुगं तं मनोनुगं नौमि ॥ व - मनोनुगः ॥ २९ ॥ (त० ३०)
॥ श-वर्गः । वमनचामुण्डे ॥
विद्यामायाप्रकृतित्रिप्रकृतिकमध्वसप्तकारमिदम् ।
विश्वत्रिशूलमभितो विकासयञ्जयति कौशिकः शम्भुः ॥ श - कौशिकः ॥ ३० ॥ (त० ३१)
शुद्धाशुद्धाध्वभिदा द्विगह्वरं मुद्रयत्यशेषजगत् ।
संविद्रूपतया यः कलयतु स किल्बिषं सतां कालः ॥ ष - कालः ॥ ३१ ॥ (त० ३२)
परमानन्दसुधानिधिरुल्लसदपि बहिरशेषमिदम् ।
विश्रमयन्परमात्मनि विश्वेशो जयति विश्वेशः ॥ स - विश्वेशः ॥ ३२ ॥ (त० ३३)
सुशिवः शिवाय भूयाद्भूयो भूयः सतां महानादः ।
यो बहिरुल्लसितोऽपि स्वस्माद्रूपान्न निष्क्रान्तः ॥ ह - सुशिवः ॥ ३३ ॥ (त० ३४)
॥ चक्रेश्वर । पिबनयोगीश्यौ ॥
यः किलतैस्तैर्भेदैरशेषमवतार्य मातृकासारम् ।
शास्त्रं जगदुद्धर्ता जयति विभुः सर्ववित्कोपः ॥ क्ष - कोपः ॥ ३४ ॥ (त० ४)
॥ इति अभिनवगुप्तविरचितं तन्त्रालोके जयरथकृतं तन्त्रालोकविवेकान्तर्गते चतुस्त्रिंशत्रुद्रस्तवः सम्पूर्णः ॥
Notes:
Jayaratha जयरथ in Tantrālokavivekaḥ तन्त्रालोकविवेकः; that is his exposition on Tantrālokaḥ (T0) तन्त्रालोकः (त०) by Abhinavagupta अभिनवगुप्त, places 34 ślokāḥ श्लोकाः in beginning of various chapters (numbered above against T0 त०) extolling the respective 34 Rudrāḥ चतुस्त्रिंशत्रुद्राः.
A collation of these 34 śloka-s १६ श्लोकाः is made for seamless reading and may have been named severally as interpreted by respective people and more so for convenience of understanding the concept. Here it is named as CatustriṁśatRudraStavaḥ चतुस्त्रिंशत्रुद्रस्तवः .
The 34 Rudrāḥ चतुस्त्रिंशत्रुद्राः and their respective Śaktiḥ (शक्तिः) correspond to the CatustriṁśatVyañjanāni चतुस्त्रिंशत्व्यञ्जनानि (34 consonants) i.e. YoniVarṇāḥ योनिवर्णाः of the Varṇamālā वर्णमाला, are outlined in the MālinivijayottaraTantram मालिनिविजयोत्तरतन्त्रम् and can be gleaned from the following Śloka-s श्लोकाः :
जयश्च विजयश्चैव जयन्तश्चापराजितः ।
सुजयो जयरुद्रश्च जयकीर्तिर्जयावहः ॥
जयमूर्तिर्जयोत्साहो जयदो जयवर्धनः ।
बलश्चातिबलश्चैव बलभद्रो बलप्रदः ॥
बलावहश्च बलवान् बलदाता बलेश्वरः ।
नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः ॥
सुमनाः स्पृहणो दुर्गो भद्रकालो मनोनुगः ।
कौशिकः कालविश्वेशौ सुशिवः कोपवर्धनः ॥
एते योनिसमुद्भूताश्चतुस्त्रिंशत्प्रकीर्तिताः ।
स्त्रीपाठवशमापन्ना एत एवात्र शक्तयः ॥
- मालिनिविजयोत्तरतन्त्रम् ॥ ३ । २०-२४ ॥.
The ṢoḍaṣaRudraBija-s षोडषरुद्रबीजाः corresponding to the ṢodaṣaSvarāḥ षोडशस्वराः (16 vowels) i.e. BījaVarṇāḥ बीजवर्णाः of the Varṇamālā वर्णमाला (pertaining to the Mātṛkā मातृका and Mālini मालिनि scheme) are eulogized by Abhinavagupta अभिनवगुप्त in the 16 chapters sequentially in his exposition called ĪśvaraPratyabhijñāVivṛitiVimarśinī ईश्वरप्रत्यभिज्ञाविवृतिविमर्शिनी on the composition by Utpaladeva उत्पलदेव known as ĪśvaraPratyabhijñāKārikā ईश्वरप्रत्यभिज्ञाकारिका; and are collated for seamless reading as ŚoḍaśaRudraBijāmṛtaVandanā षोडषरुद्रबीजामृतवन्दना, that can be accessed from one of the links below.
The RudraŚatārdhaVarṇaNāmāvaliḥ रुद्रशतार्धवर्णनामावलिः that outlines the RudraŚakti-s रुद्रशक्तिः that each Akṣara अक्षर is imbibed with; and the ŚivaŚaktiVargatmakaNāmāvaliḥ शिवशक्तिवर्गात्मकनामावलिः that outlines the PuruśaBhāva पुरुषभाव and ŚaktiBhāva शक्तिभाव Saṁjñā-s संज्ञा that rule each Vargaḥ वर्गः - both derived from the ŚrīMālinivijayottaraTantram श्रीमालिनिविजयोत्तरतन्त्रम् of the Varṇamālā वर्णमाला (pertaining to the Mātṛkā मातृका and Mālini मालिनि scheme), can be accessed from one of the links below.
See numbered Links to the related texts in the HTML file
1. ŚoḍaśaRudraBijāmṛtaVandanā षोडषरुद्रबीजामृतवन्दना
2. ŚivaŚaktiVargatmakaNāmāvaliḥ शिवशक्तिवर्गात्मकनामावलिः
3. RudraŚatārdhaVarṇaNāmāvaliḥ रुद्रशतार्धवर्णनामावलिः
Encoded and proofread by Ruma Dewan