श्रीचिदम्बरनटराजराजसुप्रभातस्तोत्रम्
योऽदाद्वैय्याघ्रपादप्रभवमपि पयोलिप्सयाग्रे रुदन्तं
दृष्ट्वा तस्मै सुधाब्धिं सदयमथ शिलाभुङ्मुनेः स्वस्वरूपम् ।
पुत्रं नेत्रार्पणाद्वै हरिवनचरयोश्चक्रमुक्ती प्रमोदात्
तस्मै तुभ्यं प्रणामस्त्यज सुखशयनं ते प्रभो सुप्रभातम् ॥ १॥
उतिष्ठोत्तिष्ठ देव प्रकटितविभवैः स्वादुतल्पाद्विभो त्वां
सन्द्रष्टुं श्रीमुकुन्दप्रभृतिसूरवरा द्वारि तिष्ठन्ति मोदात् ।
इच्छाशक्त्या उमाया वदनजलरुहं वीक्ष्य शम्भो नमस्ते
स्वामिन्नायातु सर्वानवतु शिवभवन् सुप्रभातं सुजातम् ॥ २॥
कोकूयन्ते स्वनीडस्थितिमविजहतः पक्षिवर्याश्चकोर-
प्रष्ठाः शीतांशुरर्धास्तमयति भगवान् सप्तसप्तिर्ह्युदेति ।
अम्भोजानां विहासं कुमुदमुकुलता रीङ्कृतिर्भ्रामरीणां
जातं ब्राह्मं मुहूर्तं विहर नटपते सुप्रभातं प्रसन्नम् ॥ ३॥
श्रीमूलाद्यास्सुसिद्धाः सनकमुनिवरा योगिनः कुम्भजातः
प्रातः श्रीचित्सभायां तव पदजलजं कुञ्चितं द्रष्टुकामाः ।
प्रेम्णा वेदान्तसारप्रवचनविगलत्तोयधारादृगन्ताः
प्रार्षद्भिः प्रेषितान्तास्सविधतटवरे मेलयन्तो लसन्ते ॥ ४॥
दिव्या ह्यप्सरसो भवद्धुरिमुदाकर्तुं च तौर्यत्रिकं
ब्रह्मा तालधरो मृदङ्गभरणो लक्ष्मीपतिर्वेणुमान् ।
शक्रो नारदतुम्बुरू मुनिवरौ वीणाकरौ गायकौ
ह्यायान्तीह भवन्तमीक्षितुमनास्ते सुप्रभातं वरम् ॥ ५॥
सम्बन्धादिमशाम्भवोक्तमनघं द्राविड्यभाषामयं
गानालापमनोहरं स्तववरं गायन्ति शैवाश्च ते ।
वीथ्यां झल्लरिढक्ककादिसहकृद्गीत्या प्रबोधाय ते
सर्वांस्तान् कृपयावलोकय विभो जातं ह्युषो निर्मलम् ॥ ६॥
पल्लव्यनुपल्लवी त्रिचरणयुक् गीतिस्वरोन्मेलनं
त्वद्भक्ताखिलवृत्तकीर्तनवरालापैः प्रतुष्टान्तराः ।
द्वारे गोपुरमण्डपस्य पुरतः सौगन्धिकं चन्दनं
लाजान् फाणितशर्करे करतले धृत्वा भजन्तेऽनघाः ॥ ७॥
जाग्रत्स्वप्नसूषुप्तिकालगणना नास्ति त्वयीति स्फुटं
नृत्तेशान तथापि मन्दमतिभिर्ह्यारोप्यते लोकवत् ।
तत्सर्वं परिनिष्ठितं भवतु ते श्रीचित्सभानायक
प्रातःकालमभूत्स्वरूपमपरं सन्दर्शयामोदतः ॥ ८॥
व्याघ्राङ्घ्रिश्च पतञ्जलिर्जिमिनजः कृष्णेन साकं महान्
शैवाचार्यवरोपमन्युरनघो व्यासश्च सप्तर्षयः ।
पञ्चाङ्गं स्वकरे वहन् सुरगुरुश्चाह्नां शुचि ज्ञापितुं
नन्दी वेत्रलसत्करो विजयते श्रीभानुकम्पादिभिः ॥ ९॥
सोमाद्यध्वरलब्धकुण्डलयुगश्वेतातपत्रोज्ज्वलाः
श्रीपत्राक्षतदिव्यगन्धकुसुमस्वर्णादि पात्रावलिम् ।
धृत्वा द्वारि भवन्तमर्चितुमुमानाथ प्रभो दीक्षिताः
तिष्ठन्ति स्वसभाकपाटमनय प्रातः समायादिते ॥ १०॥
तत्कालनिवेदनार्थमनिशं कार्तान्तिकैः कल्पितात्
घण्टाघट्टघणं घणायितरवाज्जाग्रज्जनोत्साहितम् ।
त्रैसाहस्रमखीन्द्रगेहविसरत्त्रेताग्निधूमोज्ज्वलं
प्रातःकालमभूत्त्वया नटनमुत्काली वरीवर्तते ॥ ११॥
शैवे गाङ्गतटे कषायवसनाः भस्माक्षमालाधराः
धृत्वा दण्डकमण्डलू च सततं कैवल्यरुद्रादिकम् ।
मन्त्रं त्वद्दहरं चिदम्बरसभासम्मेलनाख्यं मुदा
जापं जापमुपासते यतिवरा मोक्षार्थिनो वीक्ष्यताम् ॥ १२॥
अग्रे गोवृषदन्तिवाजिललनापूर्णाम्बुकुम्भाम्बुजो-
द्दीपस्वस्तिकशङ्खचामरयुगाऽऽदर्शेक्षुरम्भाफलम् ।
श्रीवत्सं श्रुतिपाठपूतवदना विप्राः कलाची लसत्
ताम्बूलानि भवन्निरीक्षणविधौ न्यस्तानि सम्पश्यताम् ॥ १३॥
प्रातःकालभवन्निवेदनकृतेऽप्यन्नं भवाढाभिधं
पक्वं जातमभूत्प्रभो धुरि तथाऽखण्डे च पात्रे स्थितम् ।
सर्पिं क्षीरगुडादिदिव्यरसयुग्भक्ष्यादिभिश्शोभितं
स्वीकर्तुं ह्यररं नयाद्य शिवया ते सुप्रभातं दिनम् ॥ १४॥
पूर्वेद्युर्विहिताभिषेककरणः श्रीरत्नभूषोज्ज्वलः
लक्षश्रीदलगन्धचर्चितसुमैरभ्यर्चितो दीक्षितैः ।
साहस्राङ्घ्रिनिकेतनादभिजित्यार्द्रादिने नर्तयन्
प्राप्तोऽसि स्वसभां तदद्भुततमं लास्यं विजेजीयताम् ॥ १५॥
एतत्स्तोत्रवरं पठन्ति नितरां प्रातः सभायां पुरः
प्रीतः श्रीनटराजराजभगवान् तेभ्यः पुमर्थान् वरान् ।
इष्टान् पुत्रकलत्रसम्पदखिलान् वाक्श्रीमुखानन्तिमे
ब्राह्मं वैष्णवमैश्वरं च निलयं दद्याज्जगत्स्याच्छिवम् ॥ १६॥
॥ इति श्रीचिदम्बरनटराजराजसुप्रभातस्तुतिः समाप्ता ॥
Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com and
PSA Easwaran