श्रीचिदम्बर शिवशक्ति ध्वनि मन्त्रस्तवः

श्रीचिदम्बर शिवशक्ति ध्वनि मन्त्रस्तवः

श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । ॐ ह्रीं एह्येहि शिव शिव शरणं शिवानन्द शिव शिव शिवाय शिवाय नमः एह्येहि ह्रीं ॐ । वाश्चारेट्-ध्वजधक्-धृतोड्वधिपतिः कुध्रेड्जजानिर्गणेट् गोराडारुरुडुरस्सरेडुरुतरग्रैवेयकभ्राडरम् । उड्वीड्रुङ्नरकास्थिसृक्त्रिदृगिभेडार्द्राजिनाच्छच्छदः सस्तादम्बुमदम्बुदालिगलरुड्देवो नटाधीश्वरः (१) ॥ १॥ (१. वाश्चारेट् - वारिचरेशो मकरः । मकरध्वजधक् - कामदाहकः । धृत- उडु - अधिपतिः -चन्द्रकलाधरः । कुध्राः - पर्वताः, तदीशो हिमवान्, तज्जायाः भर्ता । गणानामीशः । गोराट् -वृषभः, तं आरुरुट् आरूढः । उरस्सराणां सर्पाणां ईशः । स एव उरु तरं बृहत्, ग्रैवेयकं तेन भ्राजते । उडूनां ईशस्य रोगो यक्ष्मा, नरशिरोऽस्थ्नां माला च यस्य स्रक् - माला । त्रिदृक् - ध्यक्षः । इभेट् - गजराजः, तच्चर्मधरः । अम्बुमदम्बुदालि गलरुक् मेघवन्नीलकण्ठरुचिः । सः अरं शरणं स्तात् ।) प्रलयाग्निप्रभं रौद्रं सहस्रशिरसा युतम् । द्विसहस्रकरं दीर्घं सकलायुधपाणिकम् ॥ २॥ साट्टहासं महाभीमं सर्वसंहारताण्डवम् । ध्यायेन्मायाञ्च एह्येहि ध्वनिमन्त्रं समुच्चरेत् ॥ ३॥ ओङ्कारपञ्जरावासं ओङ्काराकारभासुरम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ४॥ ह्रीङ्काररूपिणीनेत्र षडङ्घ्रिकमलाननम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ५॥ एजज्जगदधीशानं एधमानप्रभावलिम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ६॥ हिरण्मयसभान्तस्स्सथं हिमवत्तनयापतिम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ७॥ एणाङ्कज्वलनार्काशं एनोनाशकरं प्रभुम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ८॥ हिमोदचन्दनस्नाननिर्मलीकृतविग्रहम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ९॥ शिवं शिवप्रदातारं शितिकण्ठं शिवान्वितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १०॥ वरिष्ठं सर्वदेवानां वरदं वशिसंस्तुतम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ११॥ शिशोः क्षीरप्रदातारं शिलादतनयार्चितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १२॥ वसिष्ठभगिनीपूज्यं वलारिविजयप्रदम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १३॥ शरोद्भवस्य जनकं शरच्चन्द्रनिभाकृतिम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १४॥ रसारथं रसेशेषुं रविचन्द्ररथाङ्गकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १५॥ णान्ता(२) दिक्कोद्यदर्णालिमृष्टसंशीतितापसम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १६॥ शिपिविष्टं श्रिया वन्द्यं शिष्टानामिष्टदायकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १७॥ वाताशनेन्द्राभरणं वाताशवरपूजितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १८॥ नन्दिना नगसंस्थेन नतं नारायणेन च । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ १९॥ दन्तिचर्मपरीधानं दक्षाध्वरविनाशकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २०॥ शिञ्जन्मञ्जीरपादाब्जदर्शनेन विमुक्तिदम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २१॥ वदान्यं सर्वदा नॄणां वल्मीकेशयभूषणम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २२॥ (२. णान्तादिक्का ढक्का वाद्यविशेषः ।) शिलादाय स्वरूपाढ्यतनयप्रदमव्ययम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २३॥ वसुदेवसुताराध्यं वसुदानरतं विभुम् । चिन्तयामि महादेवं चिदम्बर सभानटम् ॥ २४॥ शिखाग्रविलसच्चन्द्र शीतीकृतदिगन्तरम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २५॥ वामदेवं वामदेहं वारिराशीषुधिं शिवम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २६॥ यविष्ठं यमिनां गम्यं यज्ञभोक्तारमीश्वरम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २७॥ शिरोभिरीडितं सर्वच्छन्दसां शिखिलोचनम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २८॥ वारिदालिलसत्कण्ठं वासवार्चितपादुकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ २९॥ यं विराढृदयान्तस्स्थं दृष्ट्वा मुक्तो भवेन्नरः । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ३०॥ नटराजं नदीशीर्षं नरनारायणार्चितम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ३१॥ मरुदादिजगत्सृष्टिकृदन्वेषितमस्तकम् । चिन्तयामि महादेवं चिदम्बरसभानटम् ॥ ३२॥ ध्वनिमनुस्तवमिमं विशेषतो नटपतेः पुरतः प्रतिवासरम् । पठति यः पुरुषार्थचतुष्टयं झटिति याति स शिवप्रसादतः ॥ ३३॥ आदावुदितषट्श्लोकीं प्रातिलोम्येन कीर्तयेत् । ब्रह्म मायां च एह्येहीत्युक्त्वा ध्वनिमनुं जपेत् ॥ ३४॥ इति श्रीचिदम्बर शिवशक्तिध्वनिमन्त्रस्तवः सम्पूर्णः । Proofread by Aruna Narayanan
% Text title            : Shri Chidambara Shivashakti Dhvani Mantra Stava
% File name             : chidambarashivashaktidhvanimantrastavaH.itx
% itxtitle              : chidambarashivashaktidhvanimantrastavaH
% engtitle              : chidambarashivashaktidhvanimantrastavaH
% Category              : shiva, mantra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org