दक्षाध्वरे वीरभद्रागमनकथनम्

दक्षाध्वरे वीरभद्रागमनकथनम्

(शिवरहस्यान्तर्गते ईशाख्ये) (स्कन्द उवाच) हिमवच्छिखरे रम्ये हेमश‍ृङ्गे सुशोभने । यज्ञवाटस्तदा तस्य गङ्गाद्वारे(र) समीपतः ॥ ३५॥ तं तत्क्षणात्प्रविश्यैव यज्ञवाटं गणेश्वरैः । रोमजैः सहितो भद्रैः कालाग्निरिव चापरः ॥ ३६॥ उवाच भद्रो भगवान् यज्ञवाटाद्बहिः स्थितः । सर्वामरैर्वृतं तत्र दक्षं विष्णुविधी तदा ॥ ३७॥ वीरभद्र उवाच । दक्ष दक्षोऽसि नितरां सुरैः सह मुनीश्वरैः । एते च ब्रह्मविष्ण्वाद्या मोहिताः शिवमायया ॥ ३८॥ वाक्याद्देवस्य भागार्थं समायातस्त्वदन्तिकम् । सत्या वियोगदुःखेन भवस्यात्यन्तरोषतः ॥ ३९॥ दग्धुं वै प्रेषितश्चाहं भवता च मुनीश्वरैः । क्व ते साहाय्यकृद्विष्णुर्निर्गच्छतु मया रणे ॥ ४०॥ शङ्खचक्रधरः शाङ्गी दैत्यसङ्घादिदर्पहा । (स्कन्द उवाच) इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः ॥ ४१॥ भालनेत्रानलज्वालाजालमालाभिरेव हि । गणा नर्दन्ति सोत्साहं दारयन्ति सुरान् मुनीन् ॥ ४२॥ त्रिशूलमूलनिर्भिन्ना निर्विण्णा बाष्पवारिभिः । सिञ्चन्ति स्वानि चाङ्गानि द्विजा देवाः सवासवाः ॥ ४३॥ धावन्ति कान्दिशीकास्ते विस्रस्तमुकुटाङ्गदाः । स्खलत्पदाः पतन्तश्च मुक्तकेशैकवाससः ॥ ४४॥ वसवश्चासुभिर्हीना पेतुः प्रेता इवात्र गाम् । कुबेरोऽथ विरूपोऽभूत् वरुणः शरणोज्झितः ॥ ४५॥ वायुराकाशयुक्तात्मा भास्करो निष्प्रभोऽभवत् । निरृतिर्धृतिहीनोऽभूत् आदित्या नित्यमानिनः ॥ ४६॥ सोमो भयामययुतः पितरः कातरास्तथा । कृतान्तश्च भयोद्रेकसङ्क्रान्तः पूर्वखेदतः ॥ ४७॥ सुधन्वानो विधन्वानोह्यभया भयमोहिताः । निर्वीर्याश्चाभवन् सर्वे गन्धर्वा धैर्यवर्जिताः ॥ ४८॥ तर्जिता गणरावेण तत्रैवाप्सरसां गणाः । विस्रस्तकबराश्चैव विगलत्करकङ्कणाः ॥ ४९॥ धावन्ति विदिशं तत्र सिद्धविद्याधरादयः । किम्पूर्षा नागयक्षाश्च व्याकुलाक्षाः प्रदुद्रुवुः ॥ ५०॥ नागा नगाश्च भूनागा नद्यो विद्याधरास्तथा । हाहाकारकृतस्तत्र भ्रमन्ति परितो मुहुः ॥ ५१॥ द्रुमसीमा समूहेन शालां तां संस्थिता द्विजाः । विदग्धाश्चैव मुग्धाश्च शालादाहेन मोहिताः ॥ ५२॥ वडवानलसङ्काशो ज्वालामालानलैर्युतः । शाखाशिखाभिर्वह्नेश्च लेलिहानमभूज्जगत् ॥ ५३॥ धूमज्वालाऽवृतालोका अभवन् गन्धमेदुराः । मांसानि चैव भक्ष्याणि अन्नमुच्चावचं बहु ॥ ५४॥ रसवन्ति च पानानि सोमाज्यहविरादयः । वासांस्याभरणान्यत्र स ददाहोज्ज्वलच्छिखः ॥ ५५॥ गणेश्वराश्च सङ्क्रुद्धा यूपान्युत्पाट्य चिक्षिपुः । प्रस्तोत्रा सह नेत्रा च योक्त्रा नेष्ट्रा गणेश्वराः ॥ ५६॥ गङ्गास्रोतसि वेगेन पशुभिस्तानपातयन् । भाण्डानि यज्ञपात्राणि छिन्दन्ति गणपा मुदा ॥ ५७॥ भक्ष्याणि तत्र पेयानि पिबन्तो भक्षयन्ति च । धावन्ति परितस्तत्र अनुपृष्ठं सुरान् मुनीन् ॥ ५८॥ बिभिदुः शरवर्षेण हर्षेण महता गणाः । कुन्तशातान् सुरांस्तत्र क्रूरा आक्रोशकारिणः ॥ ५९॥ हा हा हेति वदन्त्यन्ये ताताम्बेति वदन्ति ते । भ्रातर्हन्तेति सम्भ्रान्ता धावन्ति मुनयः सुराः ॥ ६०॥ गतदण्डाजिनाः सर्वे खण्डिता गणखड्गतः । चूर्णिताश्चाश्मभिः केचिन् घूर्णिताः प्रापतन् क्षितौ ॥ ६१॥ जटाश्चोत्पाट्य गणपानधश्चापातयन्मुनीन् । श्मश्रुभिश्च गणाश्चाष्टौ दन्तैर्निष्कासयन्त्यपि ॥ ६२॥ मुनीनां ऋत्विजां तत्र सदस्यानां तदा गणाः । हावयन्तं सोमवासं भृगुं ताड्य कपोलयोः ॥ ६३॥ पातयन्ति महीपृष्ठे निसृष्ठोष्ठमकुर्वत । वीरभद्रो महातेजा शक्रं नक्रवदास्थितम् ॥ ६४॥ ऐरावतेन धावन्तं पातयामास खड्गतः । आखण्डलकरं तत्र चापाकृष्टेषुभिस्तदा ॥ ६५॥ तिलशः खण्डयामासुः सम्पूर्याक्षीण्यपातयन् । मकुटेनापविद्धेन पतन्नुर्व्यां स वासवः ॥ ६६॥ लम्बमानो गजपदे कक्षासक्तपदोऽलुठत् । निस्त्रिंशेन हतस्तत्र वरुणो यादसां पतिः ॥ ६७॥ लुलायेनैव निहतो गणबाणैर्यमस्तदा । आर्यं चानर्मया वाचा अभयं समयाचत ॥ ६८॥ शरेणोच्चकिरे नेत्रे तस्य ते गणपुङ्गवाः । वीरभद्रो महातेजा मुष्ट्या शक्रमताड्यत् ॥ ६९॥ भास्वन्नेत्रे चोत्पाट्य करजाग्रेण लीलया । निपात्य मुष्टिना दन्तान् पूष्णश्चाथ न्यपातयत् ॥ ७०॥ तदा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया । शिरो यज्ञस्य स तदा चिछेद करवालतः ॥ ७१॥ वह्नेर्हस्तद्वयं छित्वा जिह्वाश्चोपाटयन् द्रुतम् । निर्गतासून् वसूंश्चेक्रे पादाहतिजघाततः ॥ ७२॥ विश्वेदेवाश्विनौ तत्र मरुतः पितरस्तथा । तेन सन्ताडिता पादाघाताच्चापि विधीर्णिताः ॥ ७३॥ यमं सदन्डं गमपः पादघातैरथाहनत् (रहन् तदा) । जघान तत्रचेशानं त्रिशूलेन महाबलम् ॥ ७४॥ पत्नीशालां ददाहास्य क्रोशन्तीनां गवामिव । दक्षपत्न्यास्तु कबरं करवालेन चाहरत् ॥ ७५॥ सरस्वतीं छिन्ननासां अकरोदसिधारया । क्षतजेनोक्षितास्तत्र देवराजाङ्गनागणाः ॥ ७६॥ विस्रस्तवामभरणा गलद्धम्मिल्लमल्लिकाः । सस्वेदाश्रुगलद्गन्धस्वाङ्गरागभयाकुलाः ॥ ७७॥ कुरर्य इव क्रोशन्त्यो धावन्ति सुरयोषितः । त्रयस्त्रिंशत्सुरानेवं तद्गणांश्च गणेश्वरः ॥ ७८॥ जघान भगवान् रुद्रः खड्गयष्ट्यसिसायकैः । गदापरिघनिस्त्रिंशैर्निर्दयं मर्दयन्गणैः ॥ ७९॥ एतस्मिन्नन्तरे तत्र वीरभद्रं वचोऽब्रवीत् । याचमानश्च शरणं वृद्धभावात्पितामहः ॥ ८०॥ रथस्थमपि सारथ्यं स्वयं कुर्वन्तमीक्ष्य वै । ब्रह्मोवाचः । सारथिस्ते भवाम्यद्य वृद्धो नो योद्धुमुत्सहे ॥ ८१॥ सुराणां चरणे मेऽद्य पश्य मे रश्मिलाघवम् । पुरा त्रिपुरसंहारे शम्भोः सारथ्यकर्मणि ॥ ८२॥ न्ययुङ्क्त मां प्रसादेन भगवानगजापतिः । स्थापयन्मां रथस्याग्रे विजयायासुराहवे ॥ ८३॥ (स्कन्द उवाच) तं ब्रह्माणं गणश्रेष्ठः सारथ्ये समयोजयत् । तस्य रश्मीन्प्रजग्राह तदश्वांश्चाप्यचोदयत् ॥ ८४॥ गतप्रत्यागतैश्चित्रैरपवाहनयोजनैः । सन्तुष्टमकरोद्वेधा वीरभद्रं सुराजिषु ॥ ८५॥ पक्षपातेन दक्षस्य दक्षं कृत्वाऽथ पृष्ठतः । तदृत्विजो मुनिगणान् प्राहतान् सुरसत्तमान् ॥ ८६॥ पुनर्योज्य सहस्राक्षं रथे मातलिचोदिते । वामदक्षिणभागस्थौ सहस्राक्षसुदक्षकौ ॥ ८७॥ निषङ्गकार्मुकधरौ वर्षन्तौ च शराञ्छितान् । मध्ये स्वयं रथोपस्थे समास्थाय ययौ हरिः ॥ ८८॥ देवानीकैश्च कोटीभिः संवृतो विविधायुधैः । निषङ्गिभिः कवचिभिर्गदाप्रासासिपाणिभिः ॥ ८९॥ शरासारं प्रमुञ्चन् वै शा धुन्वन्हरिर्ययौ । प्राध्माप्य शङ्खान् भेरीश्च पटहाहतिनिः स्वनैः ॥ ९०॥ वीरभद्रःप्रयाहीति माधवं चोदयद्विधिम् । गणैर्नानाप्रहरणैर्हेतिशूलहलायुधैः ॥ ९१॥ निषङ्गस्थसनागैश्च धनुर्बाणासिसायकैः । कुन्तैर्गदाभिर्मुसलैः पट्टिशैश्च परश्वथैः ॥ ९२॥ दध्मुर्मुरज भेरीश्च संवाद्यपटहानकान् । बृह्मितास्फोटनरवैः पताकाधूतनिःस्वनैः ॥ ९३॥ निष्कोशितासिविद्योतच्छतार्कमिव भास्करम् । आहर प्रहरस्वेति गणैः सुरगणारवैः ॥ ९४॥ धनूंषि कर्षतां तत्र शराणामाशु धन्विनाम् । कृतक्रेङ्कारसीत्कारैर्हयहेषरथस्वनैः ॥ ९५॥ भ्रमच्चक्राक्षसङ्कजद्गदामुसलपातनैः । एवं युयोध भद्रोऽपि हरिणा दानवारिणा ॥ ९६॥ हरिः सुरगणैः सार्धं भद्रमेव ययौ तदा । तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥ ९७॥ सुराणामथ भीरूणां दारुणं मरणोपमम् । देवा गणैश्च युयुधुर्वस्वश्विमरुतोऽर्ककाः ॥ ९८॥ विश्वेदेवाश्च पितरः साध्या विद्याधरास्तथा । यक्षा दक्षैकपक्षस्थकुबेरवरुणादयः ॥ ९९॥ सुधन्वानोऽथ मरुतो धन्विनः सायकैस्तदा । विष्वकसेनादिगणपाः स्वगणैः कोटिभिर्वृताः ॥ १००॥ शङ्खचक्रगदाहस्ता युयुधुः स्वायुधैस्तदा । गरुडोऽपि गणांस्तत्र विददार नखैः शितैः ॥ १०१॥ पक्षतुण्डप्रहारैश्च गणैःसुरगणैस्तदा । उद्यतायुधजालैश्च युयुधुर्वरसायकैः ॥ १०२॥ विष्णुः सायकसाहस्रैर्वीरभद्रं जघान ह । वीरभद्रोऽच्छिनद्बाणान् विष्णोस्तत्पश्यतां तदा ॥ १०३॥ त्रिभिः शरैस्तदा विष्णुं जघान गणपुङ्गवः । धनुर्ज्यां कवचं तत्र छित्वा चैवाप्यपातयत् ॥ १०४॥ नवत्या वीरभद्रं च शरैरानतपर्वभिः । सन्ताड्य मर्मसु हरिः शङ्खं प्राध्मापयत्तदा ॥ १०५॥ तुहुण्डहुण्डहेरण्डमण्डली बाष्कलिर्बलिः । एते गणेन्द्रा वस्वश्विमरुद्भिर्युयुधू रणे ॥ १०६॥ गदापरिघनिस्त्रिशैःशरैर्मर्मस्वताडयत् । गजा गजैर्हयैरश्वा रथस्था रथिभिः सह ॥ १०७॥ ॥ इति शिवरहस्यान्तर्गते दक्षाध्वरे वीरभद्रागमनकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ६ वीरभद्रविष्णुयुद्धम् । ३५-१०७ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 6 vIrabhadraviShNuyuddham . 35-107 .. Notes: Skanda स्कन्द narrates (to Jaigīṣavya जैगीषव्य); about the formidable Vīrabhadra वीरभद्र (a.k.a Bhairava भैरव due to His frightening appearance) who had manifested from the dreadlocks of Śiva शिव and as commanded by Him, arrives at the venue of Dakṣa-Adhvara दक्ष अध्वर with a terrifying army. Vīrabhadra वीरभद्र sets fire to the stage and with His army of Gaṇa-s गणाः unleashes terror and chaos amongst the participants of the Dakṣādhvara दक्षाध्वर. Proofread by Ruma Dewan
% Text title            : Dakshadhvare Virabhadragamanakathanam
% File name             : dakShAdhvarevIrabhadrAgamanakathanam.itx
% itxtitle              : dakShAdhvare vIrabhadrAgamanakathanam (shivarahasyAntargatam)
% engtitle              : dakShAdhvare vIrabhadrAgamanakathanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | adhyAyaH 6 vIrabhadraviShNuyuddham | 35-107 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org