दक्षकृतं १ शिवस्तोत्रम्

दक्षकृतं १ शिवस्तोत्रम्

दक्ष उवाच । नमस्ते देवदेवेश नमस्तेऽन्धकसूदन । देवेन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥ २॥ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । सर्वतःपाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः ॥ ३॥ सर्दतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि । शङ्कुकर्णो महाकर्णः कुम्भकर्णोऽर्णवालयः ॥ ४॥ गजेन्द्रकर्णो गोकर्णः शतकर्णो नमोऽस्तु ते । शतोदरः शतावर्तः शतजिह्वः सनातनः ॥ ५॥ गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः । देवदानवगोप्ता च ब्रह्म च त्वं शतक्रतुः ॥ ६॥ मुर्तिमांस्त्वं महामूर्तिः समुद्रः सरसां निधिः । त्वयि सर्वा देवता हि गावो गोष्ठ इवासते ॥ ७॥ त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् । आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम् ॥ ८॥ क्रिया करणकार्ये च कर्ता कारणमेव च । असच्च सदसच्चैव तथैव प्रभवाव्य(प्य)यौ ॥ ९॥ नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये चैव नमोऽस्त्वन्धकघातिने ॥ १०॥ त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे । त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ ११॥ नमश्चण्डाय मुण्डाय विश्वचण्डधराय च । दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥ १२॥ नमोऽर्धदण्डिकेशाय शुष्काय विकृताय च । विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥ १३॥ नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च । सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥ १४॥ नमः प्रमथनाशाय वृषस्कन्धाय वै नमः । नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १५॥ हिरण्यकृतचूडाय हिरण्यपतये नमः । शत्रुघाताय चण्डाय पर्णसङ्घशयाय च ॥ १६॥ नमः स्तुताय स्तुतये स्तूयमानाय वै नमः । सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ १७॥ नमो होमाय मन्त्राय शुक्लध्वजपताकिने । नमोऽनम्याय नम्याय नमः किलकिलाय च ॥ १८॥ नमस्त्वां शयमानाय शयितायोत्थिताय च । स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥ १९॥ नमो नर्तनशीलाय मुखवादित्रकारिणे । बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥ २०॥ नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । उग्राय च नमो नित्यं नमश्च दशबाहवे ॥ २१॥ नमः कपालहस्ताय सितभस्मप्रियाय च । विभीषणाय भीमाय भीष्मव्रतधराय च ॥ २२॥ नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे । पक्षमासलवार्धाय तुम्बीवीणाप्रियाय च ॥ २३॥ अघोरघोररूपाय घोराघोरतराय च । नमः शिवाय शान्तायः नमः शान्ततमाय च ॥ २४॥ नमो बुद्धाय शुद्धाय संविभागप्रियाय च । पवनाय पतङ्गाय नमः साङ्ख्यपराय च ॥ २५॥ नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने । सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥ २६॥ प्राणदण्डाय नित्याय नमस्ते लोहिताय च । हूंहूङ्काराय रुद्राय भगाकारप्रियाय च ॥ २७॥ नमोऽपारवते नित्यं गिरिवृक्षप्रियाय च । नमो यज्ञाधिपतये भूताय प्रस्तुताय च ॥ २८॥ यज्ञवाहाय दान्ताय तप्याय च भगाय च । नमस्तटाय तट्याय तटिनीपतये नमः ॥ २९॥ अन्नदायान्नपतये नमस्त्वन्नभुजाय च । नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ ३०॥ सहस्रोद्धतशूलाय सहस्रनयनाय च । नमो बालार्कवर्णाय बालरूपधराय च ॥ ३१॥ नमो बालार्करूपाय कालक्रीडनकाय च । नमः शुद्धाय बुद्धाय क्षोभणाय भयाय च ॥ ३२॥ तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥ ३३॥ वर्णाश्रमाणां विधिवत्पृथग्धर्मप्रवर्तिने । नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥ ३४॥ श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥ ३५॥ साख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । नमो रथ्याथिरथ्याय चतुष्पथपथाय च ॥ ३६॥ कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ईशान रुद्रसङ्घात हरिकेश नमोऽस्तु ते ॥ ३७॥ त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमोऽस्तु ते । कालकामदकामघ्न दुष्टोद्वृत्तनिषूदन ॥ ३८॥ सर्वगर्हित सर्वघ्न सद्योजात नमोऽस्तु ते । उन्मादनशतावर्त गङ्गातोयार्द्रमूर्धज ॥ ३९॥ चन्द्रार्धसंयुगावर्त मेघावर्त नमोऽस्तु ते । नमोऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥ ४०॥ अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल । जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥ ४१॥ त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः । चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥ ४२॥ त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते । सर्वस्य परमा योनिः सुधांशो ज्योतिषां निधिः ॥ ४३॥ ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः । हायि हायि हरे हायि हुवाहावेति वाऽसकृत् ॥ ४४॥ गायन्ति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः । यजुर्मयो ऋङ्मयश्च सामाथर्वयुतस्तथा ॥ ४५॥ पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णश्रिमाश्च ये ॥ ४६॥ त्वमेवाश्रमसङ्घाश्च विद्युत्स्तनितमेव च । संवत्सरस्त्वमृतवो मासा मासार्धमेवच ॥ ४७॥ कला काष्ठा निसेषाश्च नक्षत्राणि युगानि च । वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥ ४८॥ सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् । क्षीरोदो ह्युदधीनां च मन्त्राणां प्रणवस्तथा ॥ ४९॥ वज्रं प्रहरणानां च व्रतानां सत्यमेव च । त्वमेवेच्छा च द्वेषश्च रागो मोहः शमः क्षमा ॥ ५०॥ व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ । त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्गरी तथा ॥ ५१॥ छेत्ता भेत्ता प्रहर्ता च नेता मन्ताऽसि नो मतः । दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ॥ ५२॥ इन्दुः समुद्रः सरितः पल्वलानि सरांसि च । लतावल्यस्तृणौषध्यः पशवो मृगपक्षिणः ॥ ५३॥ द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः । आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च ॥ ५४॥ हरितो लोहितः कृष्णो नीलः पीतस्तथा क्षणः । कद्रुश्च कपिलो बभ्रुः कपोतो मच्छ(त्स्य)कस्तथा ॥ ५५॥ सुवर्णरेता विख्यातः सुवर्णश्चाप्यथो मतः । सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ ५६॥ त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः । उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ॥ ५७॥ होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । त्रिसौपर्णस्तथा ब्रह्मन्यजुषां शतरुद्रियम् ॥ ५८॥ पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥ ५९॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । उन्मेषश्च निमेषश्च क्षुत्तृड्जृम्भा तथैव च ॥ ६०॥ लोहताङ्गश्च दंष्ट्री च महावक्त्रो महोदरः । शुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशश्चलाचलः ॥ ६१॥ गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । मत्स्यो जालो जलोऽजय्यो जलव्यालः कुटीचरः ॥ ६२॥ विकालश्च सुकालश्च दुष्कालः कालनाशनः । मृत्युश्चैवाक्षयोऽन्तश्च क्षमामायाकरोत्करः ॥ ६३॥ संवर्तो वर्तकश्चैव संवर्तकबलाहकौ । घण्टाकी घण्टकी घण्टी चूडालो लवणोदधिः ॥ ६४॥ ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् । चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ६५॥ चातुराश्रम्यनेता च चातुवर्ण्यकरश्च ह । क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणाधिपः ॥ ६६॥ रक्तमाल्याम्बराधरो गिरीशो गिरिजाप्रियः । शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्प्रिप्रवर्तकः ॥ ६७॥ भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः । स्वाहा स्वधा वषट्कारो नमस्कार नमोऽस्तु ते ॥ ६८॥ गूढव्रतश्च गूढश्च गूढव्रतनिषेधितः । तरणस्तारणश्चैव सर्वभूतेषु तारणः ॥ ६९॥ धाता विधाता सन्धाता निधाता धारणो धरः । तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथाऽऽर्जवम् ॥ ७०॥ भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः । भूर्भूवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥ ७१॥ ब्रह्मावर्तः सुरावर्तः कामावर्त नमोऽस्तु ते । कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥ ७२॥ गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः । त्रैलोक्यगोप्ता गोविन्दो गोप्ता गोगर्ग एव च ॥ ७३॥ अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखोऽमुखः । चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥ ७४॥ हिरण्यगर्भः शकुनिर्धनदोऽर्थपतिर्विराट् । अधर्महा महादक्षो दण्डधारो रणप्रियः ॥ ७५॥ तिष्ठन्स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः । दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥ ७६॥ दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः । शशः शशाङ्कनयनशीतोष्णः श्रुत्तृषा जरा ॥ ७७॥ आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः । सह्यो यज्ञमृगव्याधो व्याधिनामाकरोऽकरः ॥ ७८॥ शिखण्डी पुण्डरीकश्च पुणडरीकावलोकनः । दण्डधृक्चक्रदण्डश्च रौद्रभागविनाशनः ॥ ७९॥ विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः । मधुपश्चापपश्चैव सर्वपश्च बलाबलः ॥ ८०॥ वृषाङ्गराम्भो वृषभस्तथा वृषभलोचनः । वृषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥ ८१॥ चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । अग्निष्टोमस्तथा देहो धर्मकर्मप्रसाधितः ॥ ८२॥ न ब्रह्मा न च गोविन्दः पुराणऋषयो न च । माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ८३॥ शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् । ताभिर्मां सर्वतो रक्ष पिता पुत्रमिवौरसम् ॥ ८४॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते । भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥ ८५॥ यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् । तिष्ठत्येकः समुद्रान्ते स मे गोप्ताऽस्तु नित्यशः ॥ ८६॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः समादर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ८७॥ सम्भक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥ ८८॥ प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरे च ॥ ८९॥ अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते च मां नित्यं नित्यं चाप्याययन्तु माम् ॥ ९०॥ येनाप्युत्पादिता गर्भा अपो भागगताश्च ये । तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥ ९१॥ येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च । हर्षयन्ति न कृष्यन्ति नमस्तेभ्यस्तु नित्यशः ॥ ९२॥ ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ ९३॥ चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ ९४॥ येषु पञ्चसु भूतेषु दिशासु विदिशासु च । इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ९५॥ रसातलगता ये च ये च तस्मात्परं गताः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥ ९६॥ सर्वस्त्वं सर्वगो देवः सर्वभूतपतिर्भवः । सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ९७॥ त्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः । त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ९८॥ अथवा मायया देव मोहितः सूक्ष्मया तव । तस्मात्तु कारणाद्वाऽपि त्वं मया न निमन्त्रितः ॥ ९९॥ प्रसीद मम देवेश त्वमेव शरणं मम । त्वं गतिस्त्वं प्रतिष्ठा च न चान्योऽस्तीति ने मतिः ॥ १००॥ इति ब्रह्मपुराणे चत्वारिंशाध्यायान्तर्गतं दक्षकृतं शिवस्तोत्रं समाप्तम् । ब्रह्मपुराण । अध्याय ४०/२-१००॥ brahmapurANa . adhyAya 40/2-100.. Proofread by PSA Easwaran
% Text title            : Dakshakritam 1 Shiva Stotram
% File name             : dakShakRRitaM1shivastotram.itx
% itxtitle              : shivastotram (dakShakRitaM 1 brahmapurANAntargatam namaste devadevesha namaste.andhakasUdana)
% engtitle              : dakShakRRitaM 1 shivastotram
% Category              : shiva, brahmapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmapurANa | adhyAya 40/2-100||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : September 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org