दक्षकृतशिवस्तुतिः
दक्ष उवाच ।
नमस्ते देवदेवेश सुरासुरनमस्कृत ।
विश्वभावन विश्वेश तुभ्यं भगवते नमः ॥ १॥
त्वामादिमादिकर्तारं विश्वाद्यं विश्वरक्षकम् ।
पशवः किं नु जानन्ति दक्षाख्योऽहं पशुः परः ॥ २॥
किं मे दैवं पर जातं जन्म वै व्यर्थमाहितम् ।
भगवन्तं महादेवं भवन्तं वै त्वजानतः ॥ ३॥
त्वमात्मा सर्वभूतानां त्वं गतिः परमा ततः ।
त्वं भवो भगवानादिस्त्वमनन्तो भवापहः ॥ ४॥
त्वं शिवाख्यो महाभागः परमेशः पुरातनः ।
हरः सनातनो देवः परमात्मा परेक्षितः ॥ ५॥
क्षमाशीलश्चाशुतोषः सन्तोषश्च प्रतोषकः ।
करुणासागरः शान्तः कमनीयः प्रजापतिः ॥ ६॥
विश्वेश्वरो विश्वबन्धुः पूर्णानन्दो विखण्डधीः ।
केवलानुभवानन्दस्वरूपः परमेश्वरः ॥ ७॥
विरूपो विश्वरूपश्च कालः कालीपतिः पतिः ।
सतीनाथः सतीबन्धुः सबन्धुर्बन्धुरूपवान् ॥ ८॥
भगवान् भगहा नन्दी महानन्दो महामनाः ।
विश्वोद्भवः प्रसन्नात्मा कामरूपः प्रतापवान् ॥ ९॥
कालानलः कालकर्ता कालरूपी कलानिधिः ।
कामिनीनायकः कामी कौतुकी कामलालसः ॥ १०॥
कामः कालाग्निरुद्रात्मा कौषेयाम्बरभूषणः ।
कपर्द्दी कूटकङ्कालः कूटस्थः केवलात्मकः ॥ ११॥
कोङ्कारः कोङ्करीकारः कोङ्कवेङ्कटवासकः ।
क्रीडात्रयपरिश्रान्तः क्रीडाकारी कलिः कलः ॥ १२॥
कायी केयी केयकेयी केकयी शोकयध्वनः ।
कालीपरः कपाली च करपालीविभूषणः ॥ १३॥
कपालभूषणो भव्यो योगविद्योगरूपवान् ।
यज्ञरूपो यज्ञकर्ता यजनीयो यमः स्वयम् ॥ १४॥
यङ्कारशोषको याता यम्भनो यम्भयम्भकः ।
योनिदेवो योनिमाली यशस्वी यत्नवान् परः ॥ १५॥
यक्षनाथो यक्षराजो यक्षराजेश्वरो यमी ।
पुण्यः पवित्ररूपी च परमानन्दविग्रहः ॥ १६॥
पूर्णः पूरयिता पाता पुण्यश्रवणकीर्तनः ।
पद्मगन्धः पद्महस्तः पद्ममुद्रापदाम्बुजः ॥ १७॥
पटुः पटीयान् पवनः पण्डितः परमार्थवान् ।
गोपनीयो गोपनाथो गोपालो गगनस्थितः ॥ १८॥
गुरुर्गगनवासी च गौराङ्गो गौरमस्तकः ।
गोलोकवासी गतिमान् गेयो गानकृती गदी ॥ १९॥
गणाध्यक्षो गयारिश्च पिता माता पितामहः ।
सद्बुद्धिदाता सद्बुद्धिः सात्विकः सत्वरूपवान् ॥ २०॥
साक्षी त्र्यक्षो दयासारो दिव्यभावी दिविस्थितः ।
प्रेतभूमीप्रियो भूतिप्रतिभूषित एव यः ॥ २१॥
त्वं प्रेतस्त्वं जीवरूपो निन्द्यस्त्वं पूजितो भवान् ।
यदुक्तं भवते पूर्वं निन्दावाक्येन भूतिद ॥ २२॥
तैश्च त्वं प्रतिपाद्योऽसि निन्द्यरूपः स्वरूपवान् ।
वेदागम्यो वेदकर्ता वेदवेद्यो विदाम्बरः ॥ २३॥
दक्षस्त्वं कश्यपस्त्वञ्च चन्द्रः सूर्यो भवानपि ।
त्वं विष्णुस्त्वञ्च वै ब्रह्मा राजसस्तामसो भवान् ॥ २४॥
सुमतिः कुमतिस्त्वञ्च शास्त्रकर्ता प्रकर्षणः ।
जृम्भणो मोहनस्त्वं वै द्रावणः क्षोभणो भवान् ॥ २५॥
एकादशात्मा रुद्रस्त्वं जगद्ग्रासकरः परः ।
कोऽहमेकः पशुर्दक्षस्त्वां जाने परमेश्वरम् ।
यस्योदर इदं सर्वं जगत्स्थावरजङ्गमम् ॥ २६॥
॥ इति बृहद्धर्मपुराणे दक्षकृता शिवस्तुतिः सम्पूर्णा ॥
॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ३९। १-२६ ॥
Proofread by Ruma Dewan