दक्षप्रति ऋषिदधीचिप्रोक्तं शिवज्ञानोपदेशम्
(शिवरहस्यान्तर्गते ईशाख्ये)
दधीचिरुवाच ।
ब्रह्मणो मानसः पुत्रो दक्ष दक्षोऽसि दीक्षितः ।
कस्मान्न यजसे रुद्रं साक्षादध्वरनायकम् ॥ ३३॥
देवदेवं विरूपाक्षं यज्ञेशं परमेश्वरम् ।
कस्मान्न यजसे रुद्रं साक्षादध्वरनायकम् ॥ ३४॥
विश्वतश्चक्षुषं देवं विश्वतो मुखमीश्वरम् ।
कस्मान्न यजसे रुद्रं साक्षादध्वरनायकम् ॥ ३५॥
विश्वाधिकं महादेवं विष्णुब्रह्मादिनायकम् ।
कस्मान्न यजसे रुद्रं साक्षादध्वरनायकम् ॥ ३६॥
विश्वजातेषु पशुषु स कथं पशुपो भवेत् ।
कस्मान्न यजसे रुद्रं साक्षादध्वरनायकम् ॥ ३७॥
यन्मायामोहिताः सर्वे विष्णुब्रह्मादयः सुराः ।
भवानपि महादेवं किं न जानासि शङ्करम् ॥ ३८॥
कस्मान्न यजसे रुद्रं साक्षादध्वरनायकम् ।
ब्रह्मणोऽस्य शिरश्छिन्नं महेशेन पिनाकिना ॥ ३९॥
ब्रह्मणेऽस्मै ददौ शम्भुश्चक्रं दैत्यविनाशकृत् ।
विष्णवेऽस्मै महालक्ष्मीं भार्यात्वेन ददौ हरः ॥ ४०॥
वैकुण्ठस्याधिपत्यं च नीलकण्ठो ददौ पुरा ।
गर्वोद्रिक्तो महाविष्णुरभूल्लोकविनाशकृत् ॥ ४१॥
मत्स्यवाराहसिह्माद्यैर्देहैर्लोकापकारकः ।
संशिक्षितश्च बहुधा महादेवेन शूलिना ॥ ४२॥
तवायं कोपदग्धस्य महादेवो हि रक्षकः ।
को वाऽयं विष्णुरेवाद्य रक्षकस्ते कथं भवेत् ॥ ४३॥
मृगेन्द्रनखराघातं जम्बुकः किं सहिष्यति ।
यद्भक्तैर्धिक्कृतो विष्णुः सहलक्ष्म्याऽति कोपने ॥ ४४॥
शापास्त्रैर्दारितो विष्णुरस्त्रैः शिवगणैरपि ।
विष्णोः कपालं निर्भिद्य पपौ रक्तं स भैरवः ॥ ४५॥
विष्वक्सेनो गणोऽस्यैव विष्णोः सम्पश्यतः पुरः ।
ईषीका प्रोतलीक्षेव शूलप्रोतमथाकरोत् ॥ ४६॥
इन्द्रस्यास्य भुजस्तम्भो येनाकारि पिनाकिना ।
सवज्रः ससुरैः पूर्वं गुरुणेशः प्रसादितः ॥ ४७॥
तदा मुमोचैव हसन् महेशो भक्तवत्सलः ।
यमोऽयं निहतः पूर्वं शिवपादाग्रताडितः ॥ ४८॥
मृकण्डुतनयस्यास्य रक्षार्थं शूलपाणिना ।
वायुरोपोऽशितः पूर्वं तृणाग्रचलनेऽप्ययम् ॥ ४९॥
महादेवस्य पुरतो नादहत्तृणमप्ययम् ।
अग्निः शिखावलीढोऽयं यद्धविर्भक्षणेरितः ॥ ५०॥
चन्द्रोऽयं तव शापेन यक्ष्मरोगार्दितः पुरा ।
प्रसादितो महेशेन सुधाधामैकमौलिना ॥ ५१॥
सूर्योऽयं नेत्रपातृत्वमगच्छच्छङ्करस्य हि ।
कुबेरोऽप्ययमीशस्य प्रसादात्सख्यमाप्तवान् ॥ ५२॥
वरुणो जलरोगार्तो महेशेन प्रसादितः ।
वसवोऽपि महेशेन दयया सम्प्रसाधिनः ॥ ५३॥
तत्प्रसादाय कर्माणि कुर्वन्तिमुनयः सुराः ।
तस्य लिङ्गं सदाकालं पूजयन्ति सुरासुराः ॥ ५४॥
आदित्या मरुतः सर्वे शक्रेण सह भागिनः ।
चकार परमेशोऽयं प्रसादेन महेश्वरः ॥ ५५॥
तथान्ये मुनयः सिद्धा महेशेन प्रसादिताः ।
पशुभूतेषु युष्मासु कथं पशुपतिः शिवः ॥ ५६॥
गण्यते देवदेवोऽसौ महादेवः सनातनः ।
विश्वाधिको महारुद्रः पूजनीयस्त्वयेज्यया ॥ ५७॥
पूज्योऽयं देवदेवेशः सर्वेषां सर्वकर्मभिः ।
तस्य प्रसादेन तव सफलोऽस्तु मनोरथः ॥ ५८॥
तत्प्रसादेन सर्वस्य भुक्तिर्मुक्तिर्हि सिध्यतः ।
तस्मान्मा विपदः सन्तु शृणु मद्वचनं मुदा ॥ ५९॥
रुद्रक्रोधाग्निदग्धस्य तव नान्यत्परायणम् ।
न ब्रह्माऽयं नैव विष्णुः न चात्र(न्ये)सुरपुङ्गवाः ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते दक्षप्रति ऋषिदधीचिप्रोक्तं शिवज्ञानोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ५ सतीदेहत्यागः । ३३-६० ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 5 satIdehatyAgaH . 33-60 ..
Notes:
Ṛṣi Dadhīci ऋषि दधीचि reprimands Dakṣa दक्ष for not inviting Śiva शिव to the Yajña यज्ञ following his feelings of insolence; and delivers Upadeśa उपदेश to him about the Stature of Śiva शिव - who Himself is Adhvaranāyaka अध्वरनायक.
Proofread by Ruma Dewan