श्रीदक्षिणास्यनक्षत्रमालास्तोत्रम्
श्रीकण्ठमिन्द्वर्भकभासिचूडं श्रीज्ञानदानव्रतबद्धदीक्षम् ।
श्रीशाम्बुजन्मप्रभवादिपूज्यं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १॥
हरन्तमानम्रजनानुतापं हयेभवक्त्रे डितपादपद्मम् ।
हृदा मुनीन्द्रैः परिचिन्त्यमानं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २॥
हस्ताब्जराजद्वरपुस्तमुद्रामुक्ताक्षमालामृतपूर्णकुम्भम् ।
हरिद्धवाकाङ्क्षितपादसेवं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ३॥
हंसाग्निचन्द्रेक्षणमन्धकारिमाकारनिर्धूतमनोजगर्वम् ।
हृतादिमाज्ञानमगोद्भवेशं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ४॥
हत्वा पुरा कालमखर्वगर्वं मृकण्डुसूनोः परिरक्षणं यः ।
चकार कारुण्यवशात्तमेनं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ५॥
हृत्वा तमः सत्वरमेव हार्दं दत्वा च बोधं परमार्थसंस्थम् ।
मोक्षं ददात्याशु नताय यस्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ६॥
हसन्मुखाम्भोरुहमिन्दुकुन्दनीकाशदन्तावलिशोभमानम् ।
रदाम्बराधःकृतपक्वबिम्बं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥
हेलालवान्निर्मितविश्ववृन्दं बालारुणाभाङ्घ्रियुगं दयालुम् ।
पश्यन्तमुत्सङ्गगतं षडास्यं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ८॥
ह्रीमान्भवेद्देवगुरुर्यदीयपादाब्जसंसेवकलोकवाचा ।
तं दिव्यवाग्दानधुरीणमाशु श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ९॥
हारायिताहीशमनङ्गगर्वभङ्गप्रगल्भान्प्रणतानशेषान् ।
कुर्वन्तभिष्टप्रदमष्टमूर्तिं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १०॥
हरिर्जहाराचलकन्यका च यद्वर्ष्मणोऽर्धं तपसा हि पूर्वम् ।
अतोऽशरीरं तमशेषसंस्थं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ११॥
हन्यादशेषं कलुषं यदङ्घ्रिपूजा प्रदद्यादपि सर्वमिष्टम् ।
तं पार्वतीमानसराजहंसं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १२॥
हठादियोगान् प्रविधाय चित्तस्थैर्यं प्रपद्याङ्घ्रियुगं यदीयम् ।
ध्यायन्ति योगिप्रवरा मुदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १३॥
हितोपदेष्टा दयया नतानां निसर्गया यो यमिनां जवाद्धि ।
न्यग्रोधमूलैकनिकेतनं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १४॥
हतारिषट्कैरनुभूयमानं नितान्तमानन्दघनस्वरूपम् ।
नतापराधान्सहमानमीशं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १५॥
हित्वा धनापत्यकलत्रबन्धून् दत्त्वाभयं भूतततेर्द्विजाग्र्याः ।
यं यान्ति लोके शरणं सदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १६॥
हृदम्बुजाते विनिवेश्य चित्तं निरुध्य चक्षुःप्रमुखाक्षवर्गम् ।
ध्यायन्ति यं शैलसुतायुतं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १७॥
हासप्रभानिर्जितभाभिमानं प्रासार्थजुष्टां कवितां दिशन्तम् ।
नतोत्तमाङ्गेषु करं दधानं श्रीदक्षिणास्यं हृदि भाबयेऽहम् ॥ १८॥
हैय्यङ्गवीनं हृदयम्रदिम्ना स्वरेण हंसं चरणेन पद्मम् ।
हसन्तमंसाग्रलसज्जटालं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १९॥
हरेर्विधेश्चैव विवादशान्त्यै लिङ्गात्मना यः प्रबभूव पूर्वम् ।
तमादिमध्यान्तविहीनरूपं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २०॥
हुताशनादित्यमहीप्रमुख्या यस्याष्टमूर्तीर्निजगाद वेदः ।
तं सर्वलोकावनसक्तचित्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २१॥
हस्त्यन्तलक्ष्मीमपि दीनवर्यः प्राप्नोति यत्पादसरोजनत्या ।
तं कल्पवल्लीमदभङ्गदक्षं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २२॥
हयाग्र्यमारुह्य गजोत्तमं वा समेत्य यत्पादयुगार्चकाय ।
यच्छन्ति राज्यं धरणीधवास्तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २३॥
हवींषि सञ्जुह्वति भूसुराग्र्याः कालेषु वह्नौ यदनुग्रहार्थम् ।
कर्मानुगुण्येन फलप्रदं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २४॥
हेत्या ललाटस्थशुचेर्महाघवनं दहन्तं तरसैव मोदात् ।
कुर्वन्तमारान्नतचित्तशुद्धिं श्रीदक्षिणास्यं हदि भावयेऽहम् ॥ २५॥
हेमाश्मनोः साम्यमतिं करोति यत्पादपाथोरुहसक्तचित्तः ।
वैराग्यदानैकधुरन्धरं तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २६॥
हालास्यगोकर्णमुखेषु दिव्यक्षेत्रेषु वासं कृपया करोति ।
यः पादनम्रोद्धतये सदा तं श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २७॥
हंसेन केनापि परादिनेमां कृतां प्रयत्नादतिमोदतश्च ।
नक्षत्रमालां दधतां नराणां कण्ठे भविष्यत्यचिरात्पराप्तिः ॥ २८॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदक्षिणास्यनक्षत्रमालास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran