श्रीदशश्लोकी
यद्यत्प्रसादविमुखेन पुरा न लब्धं
लब्धं यदद्य च गुरो भवतः प्रसादात् ।
विज्ञापयामि तदिदं कुतुकातिरेक-
सम्प्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १॥
न त्वां स्मरामि न भजामि यजामि नान्त-
र्नो वा बहिर्न च शिवं न च दैवमन्यत् ।
नाहं भवामि न च नाहमहं भवामि
किं वा भवामि तदहं न हि वक्तुमीशे ॥ २॥
साक्षादहं स परमः शिव एव जातो
जातोऽधुना स परमोऽपि शिवोऽहमेव ।
आवां पुरा चिरमभूव तमःप्रकाश
क ?? परस्परयु ?? पयसे इवाद्य ॥ ३॥
मत्तस्तदेतदखिलं जगदाविरस्ति
मत्तश्च जीवति लयं च तथा (तथैव) मत्तः ।
मत्तः स्थिरो भवति मुक्तिमुपैति मत्तो
मत्तो न चैतदमुतोऽपि च नाहमन्यः ॥ ४॥
आधारये क्षितिरहं सततं पयोऽहं
सम्प्लावये परिपचामि च पावकोऽहम् ।
आन्दोलयामि पवनोऽहमिहावकाशं
मुञ्चामि चाम्बरमहं स्थितये ममैव ॥ ५॥
मायामरुद्भिरभितः क्षुभितो भवामि
ब्रह्माण्डखण्डनवबुद्बुदजाललोलः ।
संहृत्य सर्वमथ शक्तितरङ्गडोला-
केलिक्षयादहमसौ स्तिमितश्चिदब्धिः ॥ ६॥
लोकास्त्रिविष्टपमुखा निरयावसाना
ये सर्व एव त (इ) मे मम केलिरेखाः ।
नैवाहमेषु मम केतुवशं वदन्ति
मद्धाम्नि नार्कशशिनौ न च पावकोऽयम् ॥ ७॥
यस्यां वसामि च स किं ननु नैव काशी
विश्वेश्वरः स च यमीशधिया स्पृशामि ।
यद्व्याहरामि सकलं प्रणवस्तदेव
मुक्ताश्च ते सहचरन्ति भया क्षणं ये ॥ ८॥
निर्बन्धनोऽपि निजरूपमवेक्ष्य बद्धो
मुच्येत् किलैतदथ वीक्ष्य च नित्यमुक्तः ।
धामत्रयातिचकितो गतिभोक्तृभोग्य-
भोगान्वयोऽस्मि स परः शिव एव सोऽहम् ॥ ९॥
इत्थं भवाब्धिमतिलङ्घ्य भवत्प्रसादात्
धन्यस्य मे यदुदभूच्छिवसामरस्यम् ।
आपिण्डविच्युति गुरो सुखमेतदीयं
दिव्यं त्वदङ्घ्रिसरसीरुहसात्करोति ॥ १०॥
॥ इति श्रीविद्याधर चक्रवर्तिरचिता दशश्लोकी सम्पूर्णा ॥
Proofread by Aruna Narayanan