देवादिभिः कृतं ३ शिवस्तोत्रम्
देवा ऊचुः ।
आदिदेवोऽसि देवानां जातमेतत्स्वयं तव ।
सर्गस्थित्यन्तकालेषु त्रिधा भेदेन तिष्ठसि ॥ १४९॥
स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षहिमाकर ।
इन्द्र आगम्य तं देवं लिख्यमानमथास्तवीत् ।
जय देव जगत्स्वामिञ्जय देव जगत्पते ॥ १.११.१५॥
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीति वादिनः ।
वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ १५१॥
वालखिल्या ऊचुः ।
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुःस्वरूपरूपाय साम्नां धामग ते नमः ॥ १५२॥
ज्ञानैकरूपदेहाय निर्धूततमसे नमः ।
शुद्धज्योतिःस्वरूपाय त्रिमूर्तायामलात्मने ॥ १५३॥
वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिरूपायानन्तमूर्त्तये ॥ १५४॥
सर्वकारणभूताय निष्ठाय ज्ञानचेतसाम् ।
नमः सूर्यस्वरूपाय प्रकाशालक्ष्यरूपिणे ॥ १५५॥
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ।
सर्वस्मै हेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ॥ १५६॥
त्वं सर्वमेतद्भगवञ्जगच्च भ्रमता त्वया ।
भ्रमत्या विश्वमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं सर्वं स्पृष्टं वै जायते शुचि ॥ १५७॥
क्रियते त्वत्करस्पर्शैर्जलादीनां पवित्रता ॥ १५८॥
होमदानादिको धर्मो नोपकाराय जायते ।
तात यावन्न संयोगि जगदेतत्त्वदंशुभिः ॥ १५९॥
ऋचस्ते सकला ह्येतास्तथा यानि यजूंषि च ।
सकलानि च सामानि निपतन्ति त्वदङ्गतः ॥ १.११.१६०॥
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ।
यतः साममयश्चैव ततो नाथ त्रयीमयः ॥ १६१॥
त्वमेव ब्रह्मणो रूपं परं चापरमेव च ।
मूर्त्तामूर्त्तं तथा सूक्ष्मं स्थूलं रूपेण संस्थितः ॥ १६२॥
निमेषकाष्ठादिमयः कालरूपक्षणात्मकः ।
प्रसीद स्वेच्छया रूपं स्वं तेजः शमनं कुरु ।
त्वं देव जगतां हेतोर्दुःखं सहसि दुःसहम् ॥ १६३॥
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यायतां वरः ।
त्वं गतिः सर्वभूतानां कर्मकाण्डनिवर्तिनाम् ॥ १६४॥
शं प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगताम्पते ॥ १६५॥
त्वं धाता विसृजसि विश्वमेक
एव त्वं पाता स्थितिकरणाय सम्प्रवृत्तः ।
त्वय्यन्ते लयमखिलं प्रयाति चैत-
त्त्वत्तोऽन्यो न हि तपनास्ति सर्वदाता ॥ १६६॥
त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो
वित्तेशः पितृपितरम्बुपः समीरः ।
सोमोऽग्निर्गगनमहाधरादिरूपः
किं न त्वं सकलमनोरथप्रदाता ॥ १६७॥
यज्ञैस्त्वामनुदिनमात्मकर्मसक्ताः
स्तुवन्तो विविधपदैर्द्विजा यजन्ति ।
ध्यायन्तः सविनयचेतसो भवन्तं
योगस्थाः परमपदं प्रयान्ति मर्त्त्या ॥ १६८॥
तपसि पचसि विश्वं पासि भस्मीकरोषि
प्रकटयसि मयूखैर्ह्लादयस्यंशुगर्भैः ।
सृजसि कमलजन्मा पालयस्यच्युताख्यः
क्षपयसि च युगान्ते रुद्ररूपस्त्वमेकः ॥ १६९॥
इति श्रीस्कन्दपुराणे प्रभासखण्डे प्रभासक्षेत्रमाहात्म्ये एकादशाध्यायान्तर्गतं
देवादिभिः कृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । प्रभासखण्ड । अध्याय ११/१४९-१६८॥
skandapurANa . prabhAsakhaNDa . adhyAya 11/149-168..
Proofread by PSA Easwaran