देवादिभिः कृतं ५ शिवस्तोत्रम्
तुष्टाव परमेशानं बद्धाञ्जलिपुटः स्थितः ।
द्वैतीभूय जगत्पाति तस्मै पूर्णाय ते नमः ॥ १२४॥
पुरातनाय पुण्याय पुरुषार्थप्रदायिने ।
पुरान्तकाय भूतानां पतये स्थाणवे नमः ॥ १२५॥
एकतः पुरुषाकारमेकतो महिलात्मकम् ।
प्रपञ्चपितरं वन्दे वन्दे विश्वैकमातरम् ॥ १२६॥
क्वचित् कर्बुरवर्णाय क्वचित् कुङ्कुममूर्तये ।
नीलग्रीवाय देवाय निष्कलाय नमो नमः ॥ १२७॥
त्वमादौ रजसाऽऽविष्टः सत्त्वेनासौ जगत्स्थितिः ।
त्वमेवान्ते तु सर्वात्मन् त्वामहं शरणं गतः ॥ १२८॥
त्वामाहुः श्रुतयः सत्यमव्यक्तं व्यक्तमेव च ।
तस्मात्त्वां जगदाधारं प्रणतोऽस्मि सदाशिवम् ॥ १२९॥
तत्तत्कर्मफलप्राप्त्यै यदाज्ञारूढमौलिनः ।
ब्रह्माद्याः सकला देवास्तस्मै पूर्णात्मने नमः ॥ १३०॥
नमश्शिवाय शान्ताय नमस्सोमार्धधारिणे ।
नमस्सकलकल्याणसौभाग्यामरशाखिने ॥ १३१॥
शेखरीकृतपीयूषनिधये निधये नमः ।
यदेकममलं ब्रह्म निर्गुणं परमाद्भुतम् ॥ १३२॥
नमः पराय सर्वेषां भास्कराय नमो नमः ।
इति ताम्रपर्णीमाहात्म्ये ४३-अध्यायान्तर्गतं
देवादिभिः कृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ४३/१२४-१३२॥
tAmraparNImAhAtmya . adhyAya 43/124-132..
Proofread by PSA Easwaran