देवादिभिः कृतं ६ शिवस्तोत्रम्
दक्षोक्तिं च सतीच्छां च सम्प्राप्य मुनयः सुराः ।
पूजां प्राप्य सतीं नत्वा जग्मुः कैलासभूभृतम् ॥ ६७॥
सावित्रीहितो ब्रह्मा लक्ष्मीनारायणस्तथा ।
रमया सहितो विष्णुर्देवीभिः सहिताः सुराः ॥ ६८॥
सप्तर्षयः स्वपत्नीभिः सहिता मनवस्तथा ।
जग्मुः कैलासशिखरं यत्र देवो महेश्वरः ॥ ६९॥
गत्वा शम्भुं प्रणम्यैव दृष्ट्वा शान्तं च योगिनम् ।
तुष्टुवुर्विविधैः स्तोत्रैर्बद्धाञ्जलिपुटा मुदा ॥ ७०॥
नमोऽक्षरस्वरूपाय कृष्णनेत्रात्मने नमः ।
नमः सदाशिवाख्याय तेजःपूजाय ते नमः ॥ ७१॥
वैराजपुत्ररूपाय ब्रह्मचर्याय ते नमः ।
नमो ब्रह्मस्वरूपाय सदा शान्ताय ते नमः ॥ ७२॥
निर्गुणाय गुणाढ्याय वैष्णवाय नमो नमः ।
अव्यक्तरात्रिदेहाय निर्विकाराय ते नमः ॥ ७३॥
महेशाय परेशाय शिवाऽधिपतये नमः ।
क्वचिच्छान्तिकृते कादाचित्कसंहारिणे नमः ॥ ७४॥
नमः शेषाय सङ्कर्षणस्वरूपाय ते नमः ।
नमो वैराग्यवासाय सतीरागाय ते नमः ॥ ७५॥
न यस्य देवा ऋषयः सिद्धाः साध्व्यश्च साधवः ।
विदुः पदं स्वरूपं च तस्मै शिवाय ते नमः ॥ ७६॥
पदं दिदृक्षवो यस्य यतन्ते योगिनः सदा ।
तस्मै नमः परेशाय योगस्थाय नमो नमः ॥ ७७॥
अनन्तसिद्धियुक्ताय गिरां दूराय ते नमः ।
नम आत्मप्रकाशाय निर्वाणस्थाय ते नमः ॥ ७८॥
ज्ञानिने ते नमश्चास्तु निष्क्रियायाऽऽत्मवेदिने ।
तपसा द्राक् प्रसन्नाय सर्वदात्रे च ते नमः ॥ ७९॥
त्रिनेत्राय सचन्द्राय सर्वाध्यक्षाय ते नमः ।
शरणायातप्रार्थ्यार्थलाभदाय च ते नमः ॥ ८०॥
ऐश्वर्याणां प्रदात्रे ते मोक्षदाय च ते नमः ।
भक्तेष्टपूरकायाऽम्नायोदधये च ते नमः ॥ ८१॥
स्वप्रकाशाय नित्याय प्रत्यक्द्रष्ट्रे च ते नमः ।
सकामा वाथ निष्कामा भक्तास्ते शरणागताः ॥ ८२॥
अप्राप्य सिद्धिं यस्मान्न निवर्तन्ते च ते नमः ।
काचित्कन्या त्वदर्थं वै करोति तप उत्कटम् ॥ ८३॥
त्वं कथं चाऽकरुणोऽसि प्रसन्नो भव ते नमः ।
लोककार्यप्रवाहार्थं विचारं कुरु शङ्कर ॥ ८४॥
अध्यात्मयोगगम्य त्वां प्रणमामः स्तुमो वयम् ।
न त्वं देवोऽसुरो मर्त्यो न तिर्यङ्न् द्विजः पशुः ॥ ८५॥
न स्त्री न षण्ढो न पुमान् योऽसि सोऽसि च ते नमः ।
विश्वलयकृते विश्वधारिणे प्रणता वयम् ॥ ८६॥
साङ्ख्या ज्ञानेन पश्यन्ति समाधौ योगिनश्च यम् ।
भक्ताः कृपया पश्यन्ति त्रयीमयं च ते नमः ॥ ८७॥
नमो भक्तोद्धारकर्त्रे नमस्ते गूढवर्चसे ।
नमः प्रत्यक्षदेवाय चाऽपरोक्षानुभूतये ॥ ८८॥
कालरात्रिविलासाय दक्षपुत्र्यार्थिताय च ।
प्रवृत्ताय नमस्तुभ्यं निवृत्ताय च ते नमः ॥ ८९॥
भक्तेच्छापूरक! स्वामिन् पूरयेच्छां च वेधसः ।
तूष्णीमासन्नितिस्तुत्वा श्रुत्वा शम्भुर्जहास वै ॥ ९०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १७१-अध्यायान्तर्गतं
देवादिभिः कृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १७१/६७-९०॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 171/67-90..
Proofread by PSA Easwaran