देवी मलयजाकृतं शिवस्तोत्रम्
देव्युवाच ।
भवाय भवनाशाय नमः पापापहारिणे ।
परिपूर्णाय पूर्णेन्दुवदनाय नमो नमः ॥ ६८॥
नमो विश्वाय पतये विश्वरक्षाविनोदिने ।
वेदवेदान्तवेद्याय नमस्ते विदितात्मने ॥ ६९॥
शर्वाय निर्विकाराय शम्भवे वेधसे नमः ।
गङ्गाधराय गौराय गिरीशाय नमो नमः ॥ ७०॥
पापघ्नाय भयघ्नाय परञ्जोतिस्वरूपिणे ।
विरूपाक्षाय वीराय विधात्रे ब्रह्मणे नमः ॥ ७१॥
अव्यक्तव्यक्तरूपाय व्यक्तिविन्याससाक्षिणे ।
विश्वरक्षाध्वरैकान्तदीक्षिताय नमो नमः ॥ ७२॥
नमः सोमावतंसाय धात्रे भस्माङ्गरागिणे ।
गिरीशायाखिलेशाय पापनाशाय ते नमः ॥ ७३॥
कर्मणे निर्मिताशेषभुवनघ्नाय हारिणे ।
विश्वत्राणाय वीराय कालरुद्राय ते नमः ॥ ७४॥
नमः पापविनाशाय पापनाशाय शम्भवे ।
पातकध्वान्तरवये शिवयाऽऽश्लिष्ट मूर्तये ॥ ७५॥
नमो नमो नमस्तुभ्यं नमस्तुभ्यं पिनाकिने ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ७६॥
शिवशम्भो महादेव देवदेव सदाशिव ।
जगन्नाथ जगन्नाथ पापनाश नमो नमः ॥ ७७॥
इथं स्तुवन्त्यां ताम्रायां विस्मितेषु जनेष्वपि ।
तल्लिङ्गान्मूर्तिमानग्रे प्रत्यदृश्यत शङ्करः ॥ ७८॥
इति ताम्रपर्णीमाहात्म्ये एकविंशाध्यायान्तर्गतं
देवी मलयजाकृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय २१/६८-७८॥
tAmraparNImAhAtmya . adhyAya 21/68-78..
Proofread by PSA Easwaran