देवैः कृता शिवस्तुतिः ४
(शिवरहस्यान्तर्गते उग्राख्ये)
देवा ऊचुः
नमो नमः शरण्याय वरेण्याय नमो नमः ।
नमो नमो महेशाय महेष्वासाय ते नमः ॥ ९५॥
नमो नमो गिरीशाय गिरिशाय नमो नमः ।
नमो नमो विरूपाय सुरूपाय नमो नमः ॥ ९६॥
नमो नमो विदूराय दूरस्थाय नमो नमः ।
नमो नमो विनादाय सनादाय नमो नमः ॥ ९७॥
नमो नमोऽस्तु मायेश मोहनाय नमो नमः ।
नमो नमस्तापसाय तापहाय नमो नमः ॥ ९८॥
नमो नमोऽस्तु मौञ्जाय मौञ्जायास्तु नमो नमः ।
नमो नमस्ते सोम्याय सोभ्यायास्तु नमो नमः ॥ ९९॥
नमो नमस्ते पाराय सुपाराय नमो नमः ।
नमोऽस्तु ते महापार पारविन्दाय ते नमः ॥ १००॥
नमो नमस्ते रुद्राय चेकितानाय ते नमः ।
नमो नमः परेशाय परमेशाय ते नमः ॥ १०१॥
नमो नमः शङ्कराय वृषारूढाय ते नमः ।
नमो नमोग्रशस्त्राय (नमस्त उग्रशस्त्राय)
शूलहस्ताय ते नमः ॥ १०२॥
नमः कर्पूरगौराय नमोऽनन्तेन्दुतेजसे ।
नमो डमरुहस्ताय मृगहस्ताय ते नमः ॥ १०३॥
नमो देवाधिदेवाय देवाधीशाय ते नमः ।
नमो भस्मविभूषाय सर्पभूषाय ते नमः ॥ १०४॥
नमो निष्कलरूपाय निर्गुणाय नमो नमः ।
नमोऽमेयस्वरूपाय मानातीताय ते नमः ॥ १०५॥
नमः शान्तस्वरूपाय वेदवेद्याय ते नमः ।
नमः कल्याणरूपाय कल्याणाय नमो नमः ॥ १०६॥
नमो नमोऽमिताक्षाय मिताक्षाय नमो नमः ।
नमो नमः समाक्षाय विरूपाक्षाय ते नमः ॥ १०७॥
नमः शिवासमेताय शिवरूपाय ते नमः ।
नमः शिवाय शुद्धाय नमः शिवतराय च ॥ १०८॥
॥ इति शिवरहस्यान्तर्गते देवैः कृता शिवस्तुतिः ४ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । ९५-१०८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 95-108..
Notes:
Viṣṇu विष्णु, Brahmā ब्रह्मा et al Devāḥ देवाः eulogize Śiva शिव after He annihilates Gajāsura गजासुर.
Proofread by Ruma Dewan