देवैः कृता ९ शिवस्तुतिः
(शिवरहस्यान्तर्गते ईश्वराख्ये)
देवा ऊचुः ।
शम्भो बालमृगाङ्कशेखर जटाजूटोरुकोटीरधृक्
स्फारोर्वीधर धैर्यदारण महागङ्गा तरङेगौघहृत् ।
कालान्धान्तक कामदक्षभगदृक्संहार पाह्यद्य नो
देवान् मङ्कणनृत्तभीतिपरमानाश्वासयाद्य प्रभो ॥ ९.३२॥
प्रालेयाचलकन्यकाविलसितश्रीमन्युदेह प्रभो
मन्युं संहर दैन्यनाशक हर त्वत्तो हि नान्यः सुरः ।
धन्यान्नः कुरु पापजन्यसुरतादुःखं विहन्याः प्रभो
स्वर्वापीन्दुकलाललाम भगवन् त्वं चाहनन्यो गतिः ॥ ९.३३॥
भव भूतपते सुरेषु भाव्यं
भवदुःखं भुवि नाशयाशु भावैः ।
भवभावविभावना भवेन्नो
विभवाः सन्तु भवाय ते नमोऽस्तु ॥ ९.३४॥
अभ्यर्णं भव तावकीनचरणं सन्तार्णमेवास्तु नः
भावोद्यं भवकार्णवैकतरणे उद्दीर्णमेव प्रभो
पाह्यस्माञ्छरणाय पूर्णदयया दीर्णं सुराणां गणं
तूर्णं घूर्णितमेतदद्य सुमुनेर्नृत्तं हि निर्वापय ॥ ९.३५॥
हरि शशि शिखि बाल घोणघूर्ण -
त्रिपुरवितारण शेषभूषणाद्य ।
फणिमणिघृणिकङ्कणोरुहस्त
प्रमथाधीश सनाथयाशु हृद्य ॥ ९.३६॥
गुरुवरगरगौरवोरुबिभ्यत्
त्रिदशानां शिव दुर्दशाविनाश ।
अविनाशशरीर व्योमकेश
जगदाकाशशरीर कोशकाश ॥ ९.३७॥
मुनयः प्रशमायनाः सदा ते
शमनाघातपदं हृदाभिधाय ।
समुदायमिमं मुदा त्वघानां
मदनारे किल नाशयन्ति शम्भो ॥ ९.३८॥
शम्भो त्वदङ्कवसतेः किल मङ्कणोऽयं
तुल्यप्रभो भसितभासितनुः सदैषः ।
क्रौञ्चान्तकस्य सदृशः सुदृशा तमीक्ष्य
तं वारयाशु नटनाज्जगतोऽवनाय ॥ ९.३९॥
गीर्वाणवर्गकृतसंस्तुतिभिः प्रतुष्टः
ईष्टे हरो मुनिमसावभिद्रष्टुमेव ।
यातो दयासुरसया सुरवृन्दवन्द्यो
मोदाय पर्वतवरात्मजया समेतः ॥ ९.४०॥
कैलासगोपुरवरान्निरगात्पुरारिः
पादाम्बुजं तुरगवैरिवहान्तकं स्वम् ।
सन्दर्शयन्नुरगवैरिवहादिदेवा-
नालोकयन्हिमगिरौ मुनिलोकनाय ॥ ९.४१॥
देवादिमस्त्वमसि सोमकलाललाम-
स्सामादिसंस्तुतपदः श्रुतिसीमभूमा ।
व्योमावकाश महिमा गरिमा त्वमीश-
स्सर्वेषु हृत्सु सुधियामवनो महेश ॥ १०.१२॥
हेमाचलत्तधनुषा करमुत्कटं ते
कामादिदर्पविनिवारकसत्पदं ते ।
भामार्धकायमतिसुन्दरमीक्षितं ते
त्र्यक्षाधुना सुरगणेषु भवत्कृपा ते ॥ १०.१३॥
॥ इति शिवरहस्यान्तर्गते देवैः कृता शिवस्तुतिः ९ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ९-१० । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 9-10 . vAvRRittashlokAH ..
Proofread by Ruma Dewan