देवैः कृतं ७ शिवस्तोत्रम्
देवा ऊचुः ।
य एष भगवान् रुद्रो ब्रह्मविष्णुमहेश्वराः ।
स्कन्दश्चापि तथा चेन्द्रो भुवनानि चतुर्दश ।
अश्विनौ ग्रहताराश्च नक्षत्राणि च खं दिशः ॥ १॥
भूतानि च तथा सूर्यः सोमश्चाष्टौ ग्रहास्तथा ।
प्राणः कालो यमो मृत्युरमृतः परमेश्वरः ॥ २॥
भूतं भव्यं भविष्यच्च वर्तमानं महेश्वरः ।
विश्वं कृत्स्नं जगत्सर्वं सत्यं तस्मै नमो नमः ॥ ३॥
त्वमादौ च तथा भूतो भूर्भुवः स्वस्तथैव च ।
अन्ते त्वं विश्वरूपोऽसि शीर्षं तु जगतः सदा ॥ ४॥
ब्रह्मैकस्त्वं द्वित्रिधार्थमधश्च त्वं सुरेश्वरः ।
शान्तिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम् ॥ ५॥
विश्वं चैव तथाऽविश्वं दत्तं वाऽदत्तमीश्वरम् ।
कृतं चाप्यकृतं देवं परमप्यपरं ध्रुवम् ।
परायणं सतां चैव ह्यसतामपि शङ्करम् ॥ ६॥
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्य ॥ ७॥
एतज्जगद्धितं दिव्यमक्षरं सूक्ष्ममव्ययम् ॥ ८॥
प्राजापत्यं पवित्रं च सौम्यमग्राह्यमव्ययम् ।
अग्राह्येणापि वा ग्राह्यं वायव्येन समीरणः ॥ ९॥
सौम्येन सौम्यं ग्रसति तेजसा स्वेन लीलया ।
तस्मै नमोऽपसंहर्त्रे महाग्रासाय शूलिने ॥ १०॥
हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः ।
हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः ॥ ११॥
शिरश्चोत्तरतश्चैव पादौ दक्षिणतस्तथा ।
यो वै चोत्तरतः साक्षात्स ओङ्कारः सनातनः ॥ १२॥
ॐ कारो यः स एवेह प्रणवो व्याप्य तिष्ठति ।
अनन्तस्तारसूक्ष्मं च शुक्लं वैद्युतमेव च ॥ १३॥
परं ब्रह्मा स ईशान एको रुद्रः स एव च ।
भवान्महेश्वरः साक्षान्महादेवो न संशयः ॥ १४॥
ऊर्ध्वमुन्नामयत्येव स ओङ्कारः प्रकीर्तितः ।
प्राणानवति यस्तस्मात् प्रणवः परिकीर्तितः ॥ १५॥
सर्वं व्याप्नोति यस्तस्मात्सर्वव्यापी सनातनः ।
ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ॥ १६॥
तथान्ये च ततोऽनन्तो रुद्रः परमकारणम् ।
यस्तारयति संसारात्तार इत्यभिधीयते ॥ १७॥
सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यधितिष्ठति ।
तस्मात्सूक्ष्मः समाख्यातो भगवन्नीललोहितः ॥ १८॥
नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात् ।
स्कन्दतेऽस्य यतः शुक्रं तथा शुक्रमपैति च ॥ १९॥
विद्योतयति यस्तस्माद्वैद्युतः परिगीयते ।
बृहत्त्वाद्बृंहणत्वाच्च बृहते च परापरे ॥ २०॥
तस्माद्बृंहति यस्माद्धि परं ब्रह्मेति कीर्तितम् ।
अद्वितीयोऽथ भगवांस्तुरीयः परमेश्वरः ॥ २१॥
ईशानमस्य जगतः स्वर्दृशां चक्षुरीश्वरम् ।
ईशानमिन्द्रसूरयः सर्वेषामपि सर्वदा ॥ २२॥
ईशानः सर्वविद्यानां यत्तदीशान उच्यते ।
यदीक्षते च भगवान्निरीक्ष्यमिति चाज्ञया ॥ २३॥
आत्मज्ञानं महादेवो योगं गमयति स्वयम् ।
भगवांश्चोच्यते देवो देवदेवो महेश्वरः ॥ २४॥
सर्वांल्लोकान् क्रमेणैव यो गृह्णति महेश्वरः ।
विसृजत्येष देवेशो वासयत्यपि लीलया ॥ २५॥
एषो हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति सर्वतोमुखः ॥ २६॥
उपासितव्यं यत्नेन तदेतत्सद्भिरव्ययम् ।
यतो वाचो निवर्तन्ते ह्यप्राप्य मनसा सह ॥ २७॥
तदग्रहणमेवेह यद्वाग्वदति यत्नतः ।
अपरं च परं वेति परायणमिति स्वयम् ॥ २८॥
वदन्ति वाचः सर्वज्ञः शङ्करं नीललोहितम् ।
एष सर्वो नमस्तस्मै पुरुषः पिङ्गलः शिवः ॥ २९॥
स एष स महारुद्रो विश्वं भूतं भविष्यति ।
भुवनं बहुधा जातं जायमानमितस्ततः ॥ ३०॥
हिरण्यबाहुर्भगवान् हिरण्यपतिरीश्वरः ।
अम्बिकापतिरीशानो हेमरेता वृषध्वजः ॥ ३१॥
उमापतिर्विरूपाक्षो विश्वसृग्विश्ववाहनः ।
ब्रह्माणं विदधे योऽसौ पुत्रमग्रे सनातनम् ॥ ३२॥
प्रहिणोति स्म तस्यैव ज्ञानमात्मप्रकाशकम् ।
तमेकं पुरुषं रुद्रं पुरुहूतं पुरुष्टुतम् ॥ ३३॥
बालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं वह्निरूपं वरेण्यम् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३४॥
महतो यो महीयांश्च ह्यणोरप्यणुरव्ययः ।
गुहायां निहितश्चात्मा जन्तोरस्य महेश्वरः ॥ ३५॥
वेश्मभूतोऽस्य विश्वस्य कमलस्थो हृदि स्वयम् ।
गह्वरं गहनं तत्स्थं तस्यान्तश्चोर्ध्वतः स्थितः ॥ ३६॥
तत्रापि दह्रं गगनमोङ्कारं परमेश्वरम् ।
बालाग्रमात्रं तन्मध्ये ऋतं परमकारणम् ॥ ३७॥
सत्यं ब्रह्म महादेवं पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरतेसमीशानं विरूपाक्षमजोद्भवम् ॥ ३८॥
अधितिष्ठति योनिं यो योनिं वाचैक ईश्वरः ।
देहं पञ्चविधं येन तमीशानं पुरातनम् ॥ ३९॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे अष्टादशाध्यायान्तर्गतं
देवैः कृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । उत्तरभाग । अध्याय १८/१-३९॥
lingapurANa . uttarabhAga . adhyAya 18/1-39..
Proofread by PSA Easwaran