देवैः कृतं शिवस्तवः
(शिवरहस्यान्तर्गते ईशाख्ये)
देवा ऊचुः ।
विद्युत्पुञ्जपिशङ्गचञ्चलजटाजूटस्फुरत्स्वर्धुनी-
खेलद्वालमरालविभ्रमकरश्रीचन्द्रलेखाङ्कितम् ।
अम्भोजासनमग्रनासनिहितप्रेक्षं महेशाभिधं
तेजः किञ्चन पूजितं सुरवरैर्निर्वातदीपप्रभम् ॥ ११॥
भ्राजत्कोटीरशीर्षभ्रमदमरधुनी लोलकल्लोलखेल-
च्चन्द्रोद्वान्तामृतास्वादनमुदितहृदः पाहि भो नस्त्वजस्रम् ॥ १२॥
कटकितचक्षुःश्रवसे
कलितावनतिः करीन्द्रचर्मवसे ।
मस्तकधृतचन्द्रमसे
कैलासक्षेत्रवासिने महसे ॥ १३॥
भजन्तु कातिचिच्छ्रुतिं निगमशीर्षभीमाटवीं
चरन्तु कतिचित्परे परिचरन्तु कर्माटवीम् ।
वयं त्रिदशनिम्नगा तरुणचन्द्रलेखालस-
ज्जटामकुटमण्डितं प्रणतिभिः प्रमोदामहे ॥ १४॥
मरुन्मौलिज्ज्योतिर्यममकुट नीराजितलस-
त्पादाम्भोजद्वन्द्वं रजतगिरिसौधे मणिमये ।
समासीनं कल्पद्रुमरुचिरमूले गिरिजया (?)
सहोपास्यं देवं भवजलधिसन्तारणपटुम् ॥ १५॥
पुष्यप्रख्यातदिव्योत्सवभवपरमानन्दसम्पूर्णमूर्तिः
सर्वैर्देवैः समेतो दिवि भुवि मनुजैः श्रीमहादेवमूर्तिः ।
चित्रं सङ्गीयमानो मणिगणविलसत् हेमपुष्पे विमाने
भाति श्रीशैलकन्यातटभुवि सगुणः पातु नश्चन्द्रचूडः ॥ १६॥
कान्तं दान्तं प्रशान्तं सकलदिविषदैस्तोषयन्तं ज्वलन्तं
कान्तं सन्तं महान्तं मुनिहृदि सततं संवसन्तं विभान्तम् ।
शान्ताहन्ता महान्तः श्रुतिशिरसि सदा स्वान्तसङ्क्रान्तचित्ता
ये ध्यायन्ति क्षणार्धं गिरिशमनुपमास्तेभ्य एवानतिर्नः ॥ १७॥
वेदान्तप्रतिपाद्यवस्तु विजयप्रौढात्मलाभ . . . . .
(words missing in source text)
परावारनिमग्नचित्तसनकप्रेष्ठाश्च योगीश्वराः ।
जानन्ति प्रभवं न यस्य निगमा वक्तुं न दक्षाश्चय-
च्छैवं तत्सवितुर्वरेण्यमतुलं ज्योतिः परं धीमहि ॥ १८॥
धूतं यद्विभवेन खं सुमनसां वृन्दैर्यदाज्ञोह्यते
मालेवातुलशेवधिं श्रुतिशिरोभीमाटवीमध्यगम् ।
धन्या मूलिकयाधियान्ति सततं यन्मार्गयन्ते सदा
शैवं तत्सवितिर्वरेण्यमतुलं ज्योतिः परं धीमहि ॥ १९॥
शुक्लं शुक्लसमस्त धर्मकरणं चित्रं यदीयेक्षणाद्-
भेदध्यानकलां सहस्रशनिका नार्हन्ति अहो सर्वदा ।
ज्योतींषि प्रवराण्तीन्द्रियदशां यत्रोदयेयन्ति खे
शैवं तत्सवितिर्वरेण्यमतुलं ज्योतिः परं धीमहि ॥ २०॥
प्रमोदूतो लोकस्त्रिपुरहर शम्भो कथमहे
त्वदीयोऽहं दूतो वसति तदिशोहं यदि वदेः ।
भवेयुस्त्वद्दूता नहसितविधीन्द्राद्विपतका
अतस्त्रायस्वेमं नलिनरुगपाङ्गैककृपया ॥ २१॥
प्रजोत्पत्तिं यस्य द्रुहिणसुरनाथप्रभृतयो
घनारब्धामीक्ष्य क्षुभितहृदया निर्जरगणाः ।
प्रसाद्य स्तोत्रैर्यत्सकल सुरसेनापतिमगुः
वरेण्यं तद्भर्गः सवितुरिति भीमैरनुपमम् ॥ २२॥
सर्वैराङ्गिरसैरपि प्रविहितं कृत्यादिकं यत्स्मृति-
ध्वस्तं स्यात्प्रतिपाद्यवस्तु गिरिश सच्चित्सुखात्मा शिवः ।
यस्यास्तां रविमण्डलान्तरगतां ज्योतिर्मयीं चिन्मयीं
गायत्रीं हृदि भावयाम सतं तत्वैकधीसिद्धये ॥ २३॥
यस्य श्रीमुख सर्वदेववनिता नृत्यन्ति गायन्ति त-
द्भर्तारस्तु महाप्रदोषसमये मार्दङ्गिकाः केचन ।
प्रौढाः केचन वेणुतालकृतिनः प्रीतिं सुराः कुर्वते
शैवं तत्सवितुर्वरेण्यमतुलं ज्योतिः परं धीमहि ॥ २४॥
योऽपाराद्भवसागरात्सकृदपि ध्यान स्वनामस्मृति-
प्रीतस्तारयति प्रभुः करुणया पर्णाशनानामपि
ध्यानाङ्गस्य तनुश्रुति प्रवचसा दूरीकृतात्मा परः
तं शम्भुं रविमण्डलान्तरगतं ज्योतिर्मयं धीमहि ॥ २५॥
प्राप्तं नित्ययुवत्वमायुरमृतं देवैर्मृकण्डोः परं
पुत्रेणामिततेजसा धनदता सर्वातिशायिन्यहो ।
यक्षेशेन मदीयभक्तिफलदध्यानात्मविद्यर्षिभिः
तं शम्भुं रविमण्डलान्तरगतं ज्योतिर्मयं धीमहि ॥ २६॥
धातुः सृष्टिपरम्पराचतुरता सर्वज्ञतेरेशता
प्रोक्तं व्याकरणं समस्तमुनिषु व्यातेषु विख्यापितम् ।
कृत्स्नं पाणिनिना पुरातिगहनं सद्भक्तितः सूत्रतः
तद्व्याख्यातमहीश्वरेण स परां वाचं प्रदिश्याच्छिवः ॥ २७॥
वेदाशेषपुराणभारतचिरप्रख्यातसर्वामर-
ब्रह्मर्षित्रिदशर्षिसर्वमनुजप्रोद्गीयमानं सदा ।
यस्यान्वर्थमपीश्वरत्वमतुलं नित्यं विजेजीयते
शैवं तत्सवितुर्वरेण्यमतुलं ज्योतिः परं धीमहि ॥ २८॥
प्राप्यन्ते बहुधान्यरत्नकनक स्त्रीरत्नसद्मोत्तम-
क्रीडाचामरशारदेन्दुरुचिरछत्रेभघोटादयः ।
वैरिञ्चम्पदमैन्दिरेशममरेशत्वं च यस्येज्यया
शैवं तत्सवितुर्वरेण्यमतुलं ज्योतिः परं धीमहि ॥ २९॥
॥ इति शिवरहस्यान्तर्गते देवैः कृतं शिवस्तवः सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः १५ देवस्तवः । ११-२९ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 15 devastavaH . 11-29 ..
Notes:
Devā-s देवाः approach Śiva शिव and eulogize Him profusely before attempting to plead with Him to marry Pārvatī पार्वती so that His son could be born for the purpose of annihilating Tārakāsura तारकासुर.
Proofread by Ruma Dewan