धनुष्कोटिसेतुबन्धक्षेत्रमहिमवर्णनम्
ईश्वरः -
श्रृणु देवि प्रियतमे अस्ति क्षेत्रवरं मम ।
सेतुबन्धमिति प्रोक्तं भुवि साक्षाद्विमुक्तिदम् ॥ १॥
गन्धमादनसञ्ज्ञश्च तत्रास्ति धरणीधरः ।
स तु लिङ्गमयो देवि नानातीर्थमयो हि सः ॥ २॥
बिल्वामलकहिन्ताललोध्रसालवनावृतः ।
रसालसुरसामोदचन्दनामोदमोदितः ॥ ३॥
अन्यशाखिशतोपेतो नानावल्लीविराजितः ।
तच्छैलशिखरे देवि शिवलिङ्गाकृतिस्त्वमहम् ॥ ४॥
मध्ये तच्छैलशिखरं दृश्यते लवणार्णवे ।
दूरतो वापि शिखरं दृष्ट्वा शिखरिणोऽम्बिके ॥ ५॥
तत्रत्यवातपोतेन पापतापैर्विमुच्यते ।
निवसामि त्वया गौरि सदा गणवरैर्वृतः ॥ ६॥
नाम्नाऽहं भूधरे तस्मिन्गन्धमादन ईश्वरः ।
तत्र शैववरा नित्यं निवसन्ति शुभानने ॥ ७॥
अग्निरित्यादिभिर्मन्त्रैः भस्मोद्धूलितविग्रहाः ।
अनन्तरुद्राक्षकृतकिरीटेन विराजिताः ॥ ८॥
रुद्राक्षहारवलयबाहुकङ्कणभूषिताः ।
त्रिपुण्ड्रनिटिलाः सर्वे तृणीकृतजगत्त्रयाः ॥ ९॥
पञ्चाक्षरपरा नित्यं पञ्चास्यध्यानतत्पराः ।
रुद्राध्यायार्थविज्ञानतज्जपप्रवणाः सदा ॥ १०॥
शिवलिङ्गार्चनपरास्त्रिकालं बिल्वपत्रकैः ।
सदान्नपानविमुखा शिवनामैकजीवनाः ॥ ११॥
स्कन्दनन्दीश्वरमुखामरेश्वरगणेश्वराः ।
तत्र मां बिल्वपत्रैश्च गन्धमादनशङ्करम् ॥ १२॥
पूजयन्ति सदा भक्त्या विष्णुब्रह्मादयः सुराः ।
स्तुवन्ति स्तुतिभिर्नित्यं मां सदा लिङ्गरूपिणम् ॥ १३॥
---
देवर्षिगणेन्द्राः -
संसारदर्पोद्धृतसर्पदष्टा जना न जानन्ति महेश्वरं त्वाम् ।
ते वै महाकामविषप्रदिग्धा दग्धा महामृत्युमुखाग्निमध्ये ॥ १४॥
सन्तप्तभ्रष्टतप्ताः शिवनतिविमुखाश्छिन्नहस्तास्त्वदर्चा-
हीना विच्छिन्नमस्ता भगवति गिरिशे प्रक्रमे पङ्गवो ये ।
त्वन्नामोच्चारणे ये प्रतिदिनमसकृन्मूकभावं प्रपन्ना-
स्त्वल्लिङ्गेक्षाविहीना यमभटपटलीदण्डखण्ड्या भवन्ति ॥ १५॥
---
एवं स्तुवन्ति मां तत्र मुनिदेवगणा गणाः ।
तत्र लिङ्गान्यनन्तानि सुरर्षिस्थापितान्युमे ॥ १६॥
तीर्थानि चैव पुण्यानि स्नातॄणां मुक्तिदानि हि ।
दक्षिणाम्भोनिधेः कोटिः पिनाकधनुषा मया ॥ १७॥
त्रिपुरांस्तांस्तदा हत्वा मद्धनुःकोटिदेशतः ।
दक्षिणाब्धौ तदा रेखा कृता लीलार्थमम्बिके ॥ १८॥
तद्धनुष्कोटिरित्याख्यां गमितं तीर्थमुत्तमम् ।
षट्षष्टिकोटितीर्थानि स्वाघतापनिवृत्तये ॥ १९॥
तत्र स्नान्ति महादेवि तदा लवणसागरे ।
ब्रह्मविष्ण्वादयो देवाः शक्राद्या मरुतां गणाः ॥ २०॥
मुनीनां कोटयो देवि स्नात्वा तत्र दिवं गताः ।
ब्रह्महत्यादिपापानां शोधकं तीर्थमुत्तमम् ॥ २१॥
मयैवं धनुषः कोट्या कृतं लोकहिताय वै ।
स्नाताना तत्र देवेशि मद्ज्ञानं परमं भवेत् ॥ २२॥
ब्रह्मणापि पुरा कन्या निर्मिताऽऽसीत् तिलोत्तमा ।
तां तदा चकमे कामात् तया स मिथुनं गतः ॥ २३॥
तदा पापनिवृत्त्यर्थं स्नात्वा तत्र महोदधौ ।
दृष्ट्वाऽभिपूज्य मां बिल्वैस्ततः शुद्धश्चतुर्मुखः ॥ २४॥
ईशानोऽपि पुरा गौरि हृत्वा ब्रह्मशिरस्तदा ।
मम निन्दाकरं क्रोधाद्ब्रह्महत्या(?)मवाप सः ॥ २५॥
स चापि धनुषः कोटौ स्नात्वा पूतश्च किल्बिषात् ।
शक्रोऽहत्यां पुरा गत्वा स्नात्वा पापैर्विमोचितः ॥ २६॥
अग्निश्च सर्वभक्षोत्थपापैः स्नात्वा विमोचितः ।
वरुणोऽपि महारोगपीडितो मुनिशापतः ॥ २७॥
स्नात्वात्र धनुषः कोटौ रोगान्मुक्तोऽभवच्छिवे ।
दक्षशप्तन्द्रमापि स्नात्वा पापैर्विमोचितः ॥ २८॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे धनुष्कोटिक्षेत्रमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २८॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 28..
Notes:
Shiva describes the merits of worshipping the Shiva Linga at Mount Gandhamadana, and bathing at Setubandha Dhanushkoti Kshetra.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan