धराधरकृतं शिवस्तोत्रम्
अस्तौषीदग्रतो देवं साम्बमभ्युदयात्मकम् ।
नमश्शिवाय देवाय सर्वातीताय वेधसे ॥ ६८॥
गुणत्वाकृतिमानाय गुणाकाराय हेतवे ।
मन्त्रतन्त्रस्वरूपाय पञ्चतन्मात्रसाक्षिणे ॥ ६९॥
अपञ्चीकृतभूताय पञ्चभूतात्मने नमः ।
तीर्थमूर्त्या जगत्सर्वं पापात्त्राताऽऽत्मसेविनाम् ॥ ७०॥
योऽसौ सीदन्तमशुचौ मां पालयतु भूतभृत् ।
गङ्गाधरः शशिधरो भवो भीमो भवान्तकः ॥ ७१॥
अन्तकस्यान्तकस्सोऽयमवतादंहसो विभुः ।
यमेनमकृताकारमेकद्वित्रिभेदतः ॥ ७२॥
एकमेव परं प्राहुस्तस्मै सोमाय ते नमः ।
सर्वेषामेव जन्तूनामन्तर्जीवकलात्मकम् ॥ ७३॥
प्रवृत्तिश्चोपलब्धिश्च कथितः तमुपास्महे ।
नादबिन्दुकलाभेदैः क्षराक्षरविकल्पनैः ॥ ७४॥
स्तूयते निगमैर्योऽसौ सदा भवतु मे गतिः ।
यदेकदेशादर्काद्याः द्योतन्ते हि नभस्थले ॥ ७५॥
यदाज्ञया ब्रह्ममुखाः तस्मै ब्रह्मात्मने नमः ।
केचित्तरन्ति वै मृत्युं केचिदंहो दुरत्ययम् ॥ ७६॥
केचित्तरन्ति दारिद्र्यं नमस्तस्मै दयात्मने ।
अष्टमूर्तिरनेकात्मा निगमान्तः प्रदर्शितः ॥ ७७॥
सर्वात्मा शङ्करः साक्षी क्षेमाय पुरतोऽस्तु मे ।
त्वां देवदेवं पुरुषं सद्योजातमनामयम् ॥ ७८॥
क्षेमङ्करं वामदेवमघोरं प्रणतोऽस्म्यहम् ।
ईशानः शाश्वतः साक्षी सोऽयं तत्पुरुषो विभुः ॥ ७९॥
नमो नमश्शाश्वतशान्तिकरिन् शमांवतां भूरिकरप्रियाकरः ॥ ८०॥
स नः समस्ताभ्युदयैकहेतुको भवेद्भयानामुपशान्तिकृद्विभुः ।
इति ताम्रपर्णीमाहात्म्ये ५२-अध्यायान्तर्गतं
धराधरकृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ५२/६८-८०॥
tAmraparNImAhAtmya . adhyAya 52/68-80..
Proofread by PSA Easwaran