श्रीधर्मपुरी रामलिङ्गेश्वर सुप्रभातम्

श्रीधर्मपुरी रामलिङ्गेश्वर सुप्रभातम्

सुप्रभातंस्तोत्रम् प्रपत्ती च श्रीमद्धर्मपुरीनाथरामचन्द्रप्रतिष्ठित । उत्तिष्ठरामलिङ्गेश रक्षितव्यं जगत्रयम् ॥ १॥ उत्तिष्टोत्तिष्टगौरीश उत्तिष्ठ वृषवाहन । उत्तिष्ठजगदधार उदयाद्रिं गतो रविः ॥ २॥ ऐशान्यकोणगतमन्दिरगोगणेश भक्तैर्भवान् प्रथमतः खलु वन्दनीयः । दन्तैकघातविनिपातितदुष्टदैत्य श्रीरामलिङ्गसुत ते ननु सुप्रभातम् ॥ ३॥ दाक्षयणीतिप्रथमं धृतनामधेये श्रीपार्वतीति तदनु प्रथिते ह्यपर्णे । विश्वेश्वरीतिपतिदत्ततदर्धदेहे श्रीरामलिङ्गदयिते तव सुप्रभातम् ॥ ४॥ देवाधिदेवफणिभूषण नीलकण्ठ शम्भोमहेश शशिभूषण वेदवेद्य । रक्ष्याःसदा सकललोक जनांस्त्वमेव श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ५॥ पित्राज्ञयावनगतेन सभार्यकेण रामेणधर्मनिरतेन हि धर्मपुर्याम् । त्वंगौतमी ??कतया कृतलिङ्गरूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ६॥ एकादशैश्चलघुरुद्रमहातिरुद्रैः रुद्रानुवाकचमकादिक वेदघोषैः । आयान्तिविप्रविबुधाश्च तवार्चनाय श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ७॥ गोदावरीसुजलपूर्णघटान्गृहीत्वा भक्ताललाटसमलंकृतभस्मरेखाः । द्वारेऽत्रसन्ति भवतो ह्यभिषेचनार्थं श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ८॥ ब्राह्मीमुहूर्तमनुगम्यविहङ्गमास्तु अश्वत्थवृक्षमधिरुह्यजनान् स्वरावैः । तेचैव दर्शनफलं ननु बोधयन्ति श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ९॥ तिथ्यादिकंशुकमुखात् पठतीह जीवः तेनारदः पिकमुखात् कुरुतेऽत्र गानम् । भृङ्गीच नृत्यति मुदाऽत्र मयूररूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १०॥ चन्द्रार्कनेत्र भवतः खलु सेवनाय चन्द्रोऽभवच्चशिरस्तव भूषणं हि । पादौहि रञ्जयति ते स्वकरै स्त्विहार्कः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ ११॥ यत्त्वन्बरंतव तनुत्वमुपेत्य भक्त्या भक्तप्रकीर्तितभवत् स्तुतिगीतिरावम् । तुष्यत्तनोतिच दिशाः श्रुतिघोषरूपं श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १२॥ यस्त्वच्छरीरपदवींगमितोऽनलोऽसौ त्वन्मन्दिरंस्वकिरणैस्तु प्रकाशयंश्च । त्वांसेवतेऽत्र खलु निश्चलदीपरूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १३॥ योमारुतस्तव तनुत्वमुपेत्य भक्तः त्वांसेवितुं त्विह हिपूरितवेणु यष्टिः । शम्भोकरोति तव कीर्तिमयं स गानं श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १४॥ यागौतमेन कृतगोहतिपापनाशा गोदावरीतव जटोद्भववाहिनी च । त्वांसेवितुं पुरमिमां तु गताहि सैषा श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १५॥ वाराणसीपुरपतेस्तवदर्शनार्थम् विश्वश्वरेतितपतः खलु भक्तवृन्दान् । संरक्षितुंत्विह समुद्भवलिङ्गरूपः श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १६॥ मात्रास्वरक्षणकृते ह्यवारितो यः विघ्नान्धकारविनिवारकभानुरेषः। तेदर्शनार्थमगजासुत ईक्षतेऽत्र श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १७॥ तेजोहि यत्तव निपातितमग्निमूर्तौ स्कन्दस्तदेवविनिघातिततारकोऽभूत् । षाण्मातुरःस भवतेऽत्र निरीक्षते हि श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १८॥ यात्वाज्ञयैव खलु ते महिषासुराख्यं सिंहस्थ्तिताह्यगमयत् यमराजसद्म । दुर्गामुदाऽत्र तव दर्शनलोलुपैषा श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ १९॥ त्वत्तुल्यपुत्रमभिकामयिताशिलादः यत्त्वत्प्रसादमधिगम्यस यं ह्यवाप । त्वद्दर्शनायस तु ते पुरतोऽस्ति नन्दी श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ २०॥ यश्चाम्बुधेस्तुमथने कृतवान् सहायं योवासुकी च गळभूषणतां गतस्ते । सोऽयंफणी तव सुदर्शनलोलुपोऽत्र श्रीरामलिङ्गभगवन् तव सुप्रभातम् ॥ २१॥ यद्विश्वनाथकृतशङ्कर सुप्रभातं प्रातस्तुये निलयमेत्य पठन्ति भक्त्या । तेरामलिङ्गसदनुग्रपात्रभूताः आजीवनंहि सदभीष्टफलं लभन्ते ॥ २२॥ इति सुप्रभातं समाप्तम् । अथश्री धर्मपुरी श्रीरामलिङ्गेश्वरसुप्रभाताण्तर्गतं स्तोत्रम् । धनुषीकृतमेरुगिरीन्द्रविभो वरचापगुणीकृतनागपते। स्वशरीकृतविष्णुहतत्रिपुर जयरामप्रतिष्ठितलिङ्ग शिव ॥ १॥ शिशुचन्द्रविभूषितमौळितट घनसर्पलसद्भुजदण्डविभो। गिरिजाप्रगतस्वकवामतनो जयरामप्रतिष्ठितलिङ्ग शिव ॥ २॥ निजभक्तवचःपरितुष्ट हर निजशूलविभीतयमादितते। निजपादपवित्रितगोत्रमणे जयरामप्रतिष्ठितलिङ्ग शिव ॥ ३॥ मदमत्तगजाजिनवस्त्रधर स्थिरबद्धजटा भृतदेवनदे । धृतकान्तवपुःपरमात्मविभो जयरामप्रतिष्ठितलिङ्ग शिव ॥ ४॥ त्रिपुरान्तकचान्धकराक्षसहन् प्रळायान्तकभीतकृतान्त विभो । वरताण्डवनन्दितभक्ततते जयरामप्रतिष्ठितलिङ्ग शिव ॥ ५॥ शिपिविष्टदिगम्बर शूलकर शशिशेखरनागविभूषतनो । अवताज्जगतींनिजभक्तयुतां जयरामप्रतिष्ठितलिङ्ग शिव ॥ ६॥ ननुधर्मपथं स्वयमाचरितुं धृतरामवपुर्हरिणाप्रणुतः । शिवकेशवयोर्न हि भेद इति जयरामप्रतिष्ठितलिङ्ग शिव ॥ ७॥ मनसावचसा वपुषा सततं करणैश्चत्रिभिस्तव नाम जपन् । भवतोहि नरो निलयं लभते जयरामप्रतिष्ठितलिङ्ग शिव ॥ ८॥ कृतयाऽर्चनयाहृतपापचयाः जितयोगिहृदस्तवभक्त वराः । पटवोनिलयाधिगमे हर ते जयरामप्रतिष्ठितलिङ्ग शिव ॥ ९॥ भवभस्म विलेपितदेहधरः शतरुद्रविधानक पूजयिता । सच तुष्टिकरस्तव भक्तवरो जयरामप्रतिष्ठितलिङ्ग शिव ॥ १०॥ हरिपादसमुद्भवदेवनदी निजनाथगृहाधिगमेऽभिरता । भुवनत्रयंखलु पावयितुं हरते निलयं गमिता सा ॥ ११॥ भवमूडमतिं तव भक्तममुं हरपश्य सदा दयया वरद । निजभक्तमनोरथसिद्धिकर जयरामप्रतिष्ठितलिङ्ग शिव ॥ १२॥ इति स्तोत्रं सम्पूर्णम् । अथश्री धर्मपुरी श्रीरामलिङ्गेश्वरसुप्रभाताण्तर्गता प्रपत्तिः । योब्रह्मादि समस्त देवविनुतो लिङ्गात्मकस्यात्मजः यंलब्ध्वा हि मुदान्विता सुतनयं गौरी जगन्मातृका । यस्येष्टानुगुणंसमस्तविपदो दूरीकृता भक्तगाः वन्देतं वररामलिङ्गतनयं श्रीविघ्ननाथं सदा ॥ १॥ अयिकरिकर्णिकमूषिकवाहन पर्वतजासुत साम्बप्रिय नुतजनपोषकषण्मुखसेवित शङ्करचुम्बितफालतट । वरचतुराननदेवगणार्चितदानवभञ्जक दासरत जयगणनायक विघ्नविनाशक धर्मपुरीजनपाल विभो ॥ २॥ यैषादुष्टनिवारणे सुनिरता भक्तार्तिनिर्हारिणी यस्यास्त्विष्टतयाहि लब्धविभवा निष्किञ्चनाः प्राणिनः । मूढान्ज्ञानवतः करोति सततं या स्वप्रसादान्मुदा वन्देधर्मपुरीस्थितां भगवतीं तां रामलिङ्गेश्वरीम् ॥ ३॥ हरनिजमूर्धजपाशजटोद्भवगौतमजासिकतोद्भव भोः वररघुवंशकळानिधिकीर्तितराघवसेवितलिङ्गतनो। निजवरभक्तकृताघविनाशकदासजनार्थितदानरते जयरजनीकरभूषितशेखर धर्मपुरीविलसन्निलय ॥ ४॥ ध्यानेलीनयतीन्द्रवृन्दहृदयं सम्मोदयंश्चैकतः वामाङ्गस्थितपार्वतीमपिनिजां संलालयंश्चान्यतः । स्वर्लोकाद्भुवनत्रयं जिगमिषुं गङ्गां तथा धारयन् योभक्तान् खलु रक्षतीह वरदस्तं रामलिङ्गं भजे ॥ ५॥ भस्मोद्धूलितविग्रहोऽपिसततं भक्तेभ्य ऐश्वर्यदः नाम्नारुद्रकमूर्तिरप्यविरतं शान्तस्वभावश्च यः । दारायत्तशरीरकोऽपिनियतैः संस्तूयते ऽहर्निशं वन्देधर्मपुरी स्थितं भवहरं त्वां रामलिङ्गेश्वर ॥ ६॥ यागङ्गा चतुराननस्य कलशात् श्रीविष्णुपादं गता यालोकत्रयपावनाय भवतो मूर्ध्नि स्थिता पावनी । सैषाते ह्यभिषेचनाय गमिता गोदवरीत्वं त्विह वन्देधर्मपुरी स्थितं त्वघहरं त्वां रामलिङ्गेश्वर ॥ ७॥ ब्रह्मादिदेवमकुटाग्रमणिप्रदीप्तौ याभ्यांहि पावित तनुर् हिमवान् नितान्तम् । यौरावणस्य भुकदर्पविनाशहेतू तौरामलिङ्ग चरणौ शरणं प्रपद्ये ॥ ८॥ वेदान्तिभिःशिव भवान् प्रणतो हि ब्रह्म यःसाङ्ख्याकै स्तु पुरुषः प्रकृतेर् विभिन्नः । विष्णुर्विरिञ्चिरिति नैकबुधै स्त्वमेकः त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ ९॥ योराजन्नसुलोचनः फणिधरः रामारमः शङ्करः । प्रार्थीराज्यप्रसाददःशशिधरः यो विश्वनाथो जयः । योऽसौहैमवती सुकान्तवरदः भागीरथी शेखरः वन्देत्वां नटराज रामवरदं हीन्दूत्तमाङ्गाद्विक ॥ १०॥ ब्रह्मात्वमेव जगतः खलु सृष्टि कार्ये विष्णुस्त्वमेव ननु सूद्धरणे च तस्य । रुद्रस्त्वमेवविलयी करणे च तस्य त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ ११॥ भूम्यादयोहि भवतस्तनवोऽष्टमूर्ते निस्स्वार्थतांप्रकटयन्ति न केवलं तु । तेचैव लोकसुहिताय भवन्ति नूनं त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १२॥ हेपार्वतीश वरद त्वयि भक्तिशून्यः वेदान्तशास्त्रनिखिलागमपण्डितोयः । तज्जीवनंगिरिश तस्य निरर्थकं स्यात् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १३॥ गाणाधिपत्यमधिगन्तुमहोनु दन्ती यत्तेप्रदक्षिणविधिं कृतवान् सुभक्तः । तेभक्तिशून्यमितरत्तु निरर्थकं तत् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १४॥ मारःशरीकृत सु पुष्पनिपातनेन त्वत्क्रोधजन्यनिटलेक्षणवह्निदग्धः । मत्तस्यभक्तिरहितस्य फलं नुचैतत् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १५॥ नादिंह्यजो तव समैक्षत लिङ्गमूर्तेः नान्तंच विष्णुरपि ते शिव मूर्तिमत्त्वम् । वेत्तुंतु कैस्तव विलासमहो नु साध्यं त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १६॥ रामोहि धर्मनिरतो भवतश्च भक्तः भक्तस्त्वधर्मनिरतस्त्वथरावणोऽपि । धर्मोऽभवद्धिविजयी भवतः प्रसादात् त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १७॥ कैरातकेनवपुषा सुपरीक्षतः सन् प्रापार्जुनोहि तव पाशुपतं कृपाळो । येनारिनशनविधावभवत्समर्थः त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १८॥ रामस्तुशत्रुमवधीच्च तवार्चनेन कृष्णःप्रियसुतमवाप तवार्चनेन विष्णुःसुदर्शनमवाप तवार्चनेन त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ १९॥ सम्प्राप्यमृत्युसमयं तु मृकण्डुसूनुः त्यक्तोयमेन भवतो नु दयां स लब्ध्वा । भक्तार्तिनाशनविधौत्वमहो निबद्धः त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २०॥ दुग्धाम्बुधेःसुमथितात्तु सुरासुरैश्च तस्माद्धिजातगरळं भवता निपीय । हेनीलकण्ठ जगतो विहिता सुरक्षा त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २१॥ यःस्त्री मिषाद्धरिरमोहयदङ्ग भोस्त्वां प्रासूतसैष भुवनारिविनाशपुत्रम् । सर्वाःक्रियास्तव हि लोकहिता भवन्ति त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २२॥ बाल्यात्त्वमेवशिव मे ननु चात्मबन्धुः नत्वां विना मम सखा हुदयङ्गतो यः । त्वय्येवदत्तहृदयस्तु करोमि सर्वं त्वांरामलिङ्ग शुभदं शरणं प्रपद्ये ॥ २३॥ हेरामलिङ्ग भगवन् तव सेवनेषु किंवा कृतं त्वयि मया त्व विचिन्त्य दोषम् । यस्मात्तवस्मृति पथाद्धि विसृष्ट एषः तत्प्राप्तुमीश करवाणि किमद्य हृद्यम् ॥ २४॥ याचेत्वहं न हि धनं ननु नीलकण्ठ कीर्तिंच नैव न तु विस्तृत सार्वभौमम् । याचेतु केवलमहं भवतः कृपां तां यांचिन्तयामि भुवनाधिपतेरनूनाम् ॥ २५॥ श्रीरामलिङ्ग भगवान् वरपाठकेभ्यो नित्यंत्वभीष्ट शुभ सौख्य फलं ददातु । लक्ष्मीःसमाविशतु भक्तगृहाणि भद्रा सर्वत्रचास्तु विजयः सकलस्तु तेषाम् ॥ २६॥ ॥ इति संस्कृतसाहित्यरत्नबिरुदाञ्चितस्य बुधकोटिनुतस्य प्रथितकविपण्डितगणाग्रणीवरस्याखिलशिष्यकोटिवृन्दार्चित- पादपद्मयुगळस्याचार्यकोरिडेराजन्नशास्त्रिणः द्वितीयपुत्रेण कोरिडेविश्वनाथ शर्मणा विरचिता श्रीधर्मपुरीरामलिङ्गेश्वर प्रपत्तिःसमाप्ता ॥ Composedby Koride Vishwanatha Sharma, Dharmapuri, Telangana Proofread by Koride Vishwanatha Sharma.
% Text title            : Dharmapuri Ramalingeshvara Suprabhatam
% File name             : dharmapurIrAmaliNgeshvarasuprabhAtam.itx
% itxtitle              : dharmapurIrAmaliNgeshvarasuprabhAtam prapattI cha (koriDe vishvanAthasharmaNAvirachitam)
% engtitle              : dharmapurIrAmaliNgeshvarasuprabhAtam
% Category              : shiva, koriDevishvanAthasharmA, suprabhAta, prapatti
% Location              : doc_shiva
% Author                : koriDe vishvanAthasharmA, dharmapurI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : koriDe vishvanAthasharmA
% Proofread by          : koriDe vishvanAthasharmA
% Description/comments  : Includes second suprabhAtam and prapatti
% Indexextra            : (blog)
% Acknowledge-Permission: Koride Vishwanatha Sharma
% Latest update         : March 15, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org