श्रीमद्द्राक्षापुरीवास भीमेश्वरसुप्रभातम्
श्रीमद्दक्षपुरीवास भीमेश्वर महाप्रभो ।
भवच्चरणसान्निद्ध्ये सुप्रभातं मयार्पितम् ॥ १॥
उत्तिष्ठोत्तिष्ठ भीमेश उत्तिष्ठ वृषवाहन ।
उत्तिष्ठ शिव गौरीश त्रैलोक्यं मङ्गलं कुरु ॥ २॥
जय दक्षपुराधीश जय श्रीवृषभध्वज ।
जय माणिक्यदेवीश त्रैलोक्यं मङ्गलं कुरु ॥ ३॥
मातस्समस्तजगतां सुखदानदक्षे
भीमेशवामनिलये श्रितपारिजाते ।
शर्वाणि दक्षपुरनित्यनिवासदीक्षे
भीमेशदेवदयिते तव सुप्रभातम् ॥ ४॥
तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रशोभिते ।
विधिवासुदेववनितादिपूजिते
भीमेशदेवदयिते तव सुप्रभातम् ॥ ५॥
शर्वाणि सस्मितलसन्मुखचन्द्रबिम्बे
भीमाधरोष्ठपरिपूर्णकृपावलम्बे ।
कादम्बिकावननिवासिनि लोकमान्ये
भीमेशदेवदयिते तव सुप्रभातम् ॥ ६॥
चम्पालताङ्गि शुभकारिणि शातकुम्भ-
शुम्भत्प्रभाजयविराजदुरोजयुग्मे ।
शर्मप्रदायिनि शशाङ्ककलावतंसे
भीमेशदेवदयिते तव सुप्रभातम् ॥ ७॥
देवेन्द्रमौलिमणिस्थलनतपादपद्म
सर्वाप्सराभिनयशोभितचत्वरान्त ।
भक्तार्तिपर्वतसुवज्रशिवेश शम्भो
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ८॥
श्रीभीमनाथ करुणाकर दीनबन्धो
श्रीशादिदेवगणपालितलोकबन्धो ।
श्रीपार्वतीवदनपङ्कजपद्मबन्धो
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ९॥
ब्रह्मादिदेवनुत देवगणाधिनाथ
देवेन्द्रवन्द्य मृदुपङ्कजपादयुग्म ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १०॥
हीरादिदिव्यमणियुक्तकिरीटहार-
केयूरकुण्डललसत्कवचाभिराम ।
भक्तार्चित प्रणववाच्यनिजस्वरूप
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ११॥
श्रीदक्षवाटपुरसंस्थितदिव्यलिङ्ग
त्रैलिङ्गलिङ्ग त्रिगुणात्मक शक्तियुक्त ।
वन्दारुवृन्दनुत वेदवनीविहार
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १२॥
पञ्चाक्षरादिमनुयन्त्रितगाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रयुतैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त शिवासनाथ
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १३॥
कैलासनाथ कलिदोषमहान्धसूर्य
कञ्जासनादिसुरवन्दितपादपद्म ।
वेश्याप्रनृत्यपरितुष्टमनोऽम्बुजात
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १४॥
अग्रे वसन्ति तव पादतले सुभक्त्या
दिक्पालका विनयनम्रशिरःप्रयुक्ताः ।
शम्भो महेश इति देव वदन्ति ये त्वां
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १५॥
लिङ्गाकृते निखिलजीवगणात्मलिङ्ग
गङ्गाधर प्रमथसेवितदिव्यपाद ।
भोगीन्द्रहार परिरक्षितसाधुलोक
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १६॥
शम्भो शशाङ्कधर शङ्कर शूलपाणे
स्वामिन् त्रिशूलधर मोक्षद भोगदायिन् ।
सर्वावतारधर पालितजीवलोक
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १७॥
श्रीभीमनाथ हर दिव्यतलाधिवास
श्रीपार्वतीहृदयपङ्कजभृङ्गरूप ।
श्रीनीलकण्ठ पर शर्व उमेश शम्भो
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १८॥
कन्दर्पदर्पहर कञ्जभवादिवन्द्य
गौरीकुचाम्बुरुहकुट्मललोलदृष्टे ।
भद्रप्रदातृभवभक्तिसुलभ्य देव
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १९॥
भस्मप्रलिप्तशुभदायक दिव्यमूर्ते
भस्मासुरादिखलमर्दनकम्ररूप ।
गौरीविनिर्मितसुभक्ष्यसुभोज्यभोजिन्
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २०॥
नन्दीशवाह नरकार्णवकर्णधार
नारायणादिसुरसंस्तुतदिव्यनाम ।
श्रीदक्षवाटपुरनिर्मितदिव्यसौध
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २१॥
श्रीमन्गणादिमुनिभावितदिव्यदेह
त्रय्यन्तवेद्य त्रिपुरान्तक श्रीत्रिनेत्र ।
ज्ञानार्थदानपरिनिष्ठितदिव्यचित्त
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २२॥
व्यासादिपण्डितवरस्तुत दिव्यचित्त
भक्तालिदिव्यपदवीप्रद भासुराङ्ग ।
संसारसार शिव शान्त सुरूप शम्भो
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २३॥
उन्मील्य नेत्रयुगलं द्विजवृन्दमाशु
पञ्चाक्षरीजपसुनिष्ठितदिव्यचित्त ।
आयाति ते पदसरोजतलन्तु नित्यं
श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २४॥
तन्त्रीनिबद्धस्वरयुक्तवर्णा
गायन्ति ते दिव्यचरित्रमारात् ।
भक्त्या नितान्तं भवनारदाद्या
भीमेशभूयात् तव सुप्रभातम् ॥ २५॥
श्रितालिसत्काम्यसुपारिजात
श्रीविष्णुचक्रप्रद भव्यतीर्थ ।
श्रीसूर्यहस्तार्चितदिव्यपाद
भीमेशभूयात् तव सुप्रभातम् ॥ २६॥
श्रीबिल्वपत्रार्चितपादपद्म
श्रीविष्णुहृत्तामरसाभिरम्य ।
नागेन्द्रभूषाप्रिय नाकवन्द्य
भीमेशभूयात् तव सुप्रभातम् ॥ २७॥
श्रीसप्तगोदावरिहेमपदैः
सम्पूजितुं त्वां तु नितान्तभक्त्या ।
आयान्ति भक्ताश्च सुदूरदेशात्
भीमेशभूयात् तव सुप्रभातम् ॥ २८॥
श्रीसप्तगोदावरिपूतनीरैः
मूर्धाभिषिक्तेश्वर मङ्गलाङ्ग ।
शम्भो महादेव जगन्निवास
भीमेशभूयात् तव सुप्रभातम् ॥ २९॥
इत्थं वृषध्वजविभोरिह सुप्रभातं
ये सज्जनाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये शिवभक्तिमाद्यां
प्रज्ञां सुमुक्तिपदवीं श्रियमाशु दद्यात् ॥ ३०॥
इति द्राक्षारामभीमेश्वरसुप्रभातं सम्पूर्णम् ।
Proofread by PSA Easwaran