द्विजप्रोक्तं शिवार्चनोपदेशम् १

द्विजप्रोक्तं शिवार्चनोपदेशम् १

(शिवरहस्यान्तर्गते उग्राख्ये) द्विजः (उवाच) । येनैकमपि दृष्टं स्यात् शिवलिङ्गं शिवात्मकम् । तस्याप्येनांसि नश्यन्ति विविधान्यपि तत्क्षणे ॥ ३९९॥ शिवलिङ्गान्यमेयानि रेवायां सन्ति सर्वतः । एतेषां दर्शने प्राप्ते विनश्यन्त्यघकोटयः ॥ ४००॥ वस्तुतः शिवलिङ्गस्य स्मरणेनापि सत्वरम् । पातकानि विनश्यन्ति विचित्राण्यमितानि च ॥ ४०१॥ शिवलिङ्गप्रदेशोत्थवायुस्पर्शोऽपि तत्क्षणे । विनाशयति पापानि घोराणि विविधान्यपि ॥ ४०२॥ शिवलिङ्गाश्रितं देशं यः प्राप्तुं यतते यदा । तदैवाखिलपापानि नश्यन्त्यस्ति हि सा श्रुतिः ॥ ४०३॥ अस्माकं शिवभक्तानां श्रुतिप्रमाण्यवादिनाम् । धर्माधर्मविचारार्थं श्रुतिरेवावलम्वनम् ॥ ४०४॥ शिवोक्ताः श्रुतयोऽस्माभिः शिवभक्तैः समादृताः । शिवलिङ्गानि दृष्टानि सायमद्य त्वयाधुना ॥ ४०५॥ अतः तव पातकानि न स्थास्यन्ति त्वयि ध्रुवम । यानि पापान्यनन्तानि प्रतिजन्मार्जितान्यपि ॥ ४०६॥ तानि सद्यो विनश्यन्ति सायं शङ्करदर्शनात् । सायङ्काले मनुष्याणां दुर्लभं शिवदर्शनम् ॥ ४०७॥ महेशदर्शनं सायं देवानामपि दुर्लभम् । यस्मिन्कृपा महेशस्य पूर्णा तिष्ठति सर्वदा ॥ ४०८॥ तस्य सायं महेशस्य दर्शनं भवति ध्रुवम । सर्वथा हतभाग्यानां पुरुषाणां दुरात्मनाम् ॥ ४०९॥ शिवस्य दर्शनं सायं प्रदोषे दुर्लभं ध्रुवम् । सायं दृष्ट्वा महादेवं यः पूजयति सादरम् ॥ ४१०॥ स सर्वपापनिर्मुक्तः शिवसायुज्यमेष्यति । प्रातमध्याह्नतः सायं निशि वा योऽर्चयेच्छिवम् ॥ ४११॥ स जन्मकोटिपापेभ्यः सद्यो मुच्येत सर्वथा । तावत्पापानि तिष्ठन्ति न यावच्छिवमर्चयेत् ॥ ४१२॥ पापक्षयो भाग्यवृद्धिरायुर्वृद्धिः क्षणे क्षणे । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ ४१३॥ आयुरारोग्यमैश्वर्यं तत्वज्ञानमनामयम् । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ ४१४॥ शत्रुनाशो दुःखनाशो मोहनाशश्च सर्वथा । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ ४१५॥ विद्यावृद्धिः पुत्रवृद्धिर्वंशवृद्धिस्तथैव च । भवत्यवश्यं मर्त्यानां श्रीमहादेवपूजया ॥ ४१६॥ शिवलिङ्गार्चकासाध्यं न किञ्चिदपि सर्वथा । यत्प्रसादांशलेशस्य लेशेनापि जनार्दनः ॥ ४१७॥ वैकुण्ठं प्राप शत्रूंश्च जघानार्च्यैव शङ्करम् । यतन्ते यत्प्रसादार्थं विष्णुब्रह्मादयः सुराः ॥ ४१८॥ ॥ इति शिवरहस्यान्तर्गते ऋषि द्विजप्रोक्तं शिवार्चनोपदेशं १ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ३९९-४१८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 399-418.. Notes: While speaking in context of Revāliṅgam रेवालिङ्गम् (Nārmadaliṅgam नार्मदलिङ्गम्), the Dvija द्विजः delivers Upadeśa उपदेश about merits of worshiping or even seeing / looking at a Śivaliṇga शिवलिङ्ग and about worshiping Mahādeva Śiva महादेव शिव. Proofread by Ruma Dewan
% Text title            : Dvijaproktam Shivarchanopadesham 1
% File name             : dvijaproktaMshivArchanopadesham1.itx
% itxtitle              : shivArchanopadesham 1 dvijaproktaM (shivarahasyAntargatam yenaikamapi dRiShTaM syAt shivaliNgaM shivAtmakam)
% engtitle              : dvijaproktaM shivArchanopadesham 1
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 399-418||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org