द्विजप्रोक्तं शिवार्चनोपदेशम् ३

द्विजप्रोक्तं शिवार्चनोपदेशम् ३

(शिवरहस्यान्तर्गते उग्राख्ये) द्विज उवाच । विभूतिधारणं कृत्वा शिवैकशरणोऽधुना । सर्वाघौघनिवृत्त्यर्थं रुद्रमावर्तय द्विज ॥ ५७१॥ शिवमन्त्रसमूहोऽयं रुद्राध्यायः शिवात्मकः । अतस्तद्रुद्रपाठेन नश्यत्यघकुलं क्षणात् ॥ ५७२॥ नामैकमपि रुद्रस्य सर्वपापविनाशकम् । स्वर्गापवर्गफलदं शैवं जप्तं न संशयः ॥ ५७३॥ कृत्वाप्यघकुलं नित्यं शिवैकशरणो द्विज । यदि रौद्रं जपेन्मन्त्रं सर्वपापैः प्रमुच्यते ॥ ५७४॥ रुद्रस्मरणमात्रेण महापातककोटयः । विनश्यन्त्यनलक्रान्ताः शलभा इव तत्क्षणे ॥ ५७५॥ तावदेव हि पापानि यावन्न स्मर्यते शिवः । स्मृते शिवे पातकानि विनश्यन्ति बहून्यपि ॥ ५७६॥ अशैवा ये भविष्यन्ति ते महापातकालयाः । पापानि स्वालयं त्यक्त्वा तिष्ठन्ति न कदाचन ॥ ५७७॥ पुण्यालयेषु शैवेषु पुण्यान्येव न संशयः । न तिष्ठन्ति हि शैवेषु पातकानि कदाचन ॥ ५७८॥ पुण्यैकनिलयः शैवो नाश्रयः पुण्यपापयोः । पुण्यपापाश्रयो नैकस्तेजस्तिमिरयोरपि ॥ ५७९॥ यदा यत्रोज्ज्वलं तेजो न तत्र तिमिरं तदा । ततो यदा यत्र पुण्यं तदा तत्र न पातकम् ॥ ५८०॥ ततो यदा यत्र पुण्यं तदा तत्र न पातकम् । मृद्घटे सङ्गृहीतस्य जलस्य क्षरणं यथा ॥ ५८१॥ तथा शैवकृताघानि क्षरन्त्येव क्षणे क्षणे । अद्यप्रभृति भो विप्र शैवो भूत्वा शिवं यज ॥ ५८२॥ शिवः शैवकृतां पूजां प्रीत्या गृह्णाति सादरम् । शैवो भूत्वा बिल्वपत्रैर्यः पूजयति शङ्करम् ॥ ५८३॥ सर्वपापविनिर्मुक्तो भुक्तिं मुक्तिं च विन्दति । शिवलिङ्गार्चनेनैव तुष्टो भवति शङ्करः ॥ ५८४॥ सन्तुष्टः पार्वतीनाथः प्रयच्छत्येव वाञ्छितम् । शैवो भूत्वा महादेवं पूजय श्रद्धयान्वहम् ॥ ५८५॥ शिवपूजां कुरु प्रीत्या पातकेभ्यो भयं त्यज । कर्मणा मनसा वाचा भवानीरमणं यज ॥ ५८६॥ ॥ इति शिवरहस्यान्तर्गते द्विजप्रोक्तं शिवार्चनोपदेशं ३ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। ५७१-५८६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 571-586.. Notes: Dvija द्विज delivers a detailed Upadeśa उपदेश about the merits worship of Rudra-Śiva रुद्र-शिव. Proofread by Ruma Dewan
% Text title            : Dvijaproktam Shivarchanopadesham 3
% File name             : dvijaproktaMshivArchanopadesham3.itx
% itxtitle              : shivArchanopadesham 3 dvijaproktaM (shivarahasyAntargatam vibhUtidhAraNaM kRitvA shivaikasharaNo.adhunA)
% engtitle              : dvijaproktaM shivArchanopadesham 3
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 571-586||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org