एकलिङ्गमाहात्म्यम्
Use the indexed version for easy navigation.
1. Prathamo'Adhyāyaḥ प्रथमोऽध्यायः ।
2. Dvitīyo'Adhyāyaḥ द्वितीयोऽध्यायः ।
3. Tṛtīyo'Adhyāyaḥ तृतीयोऽध्यायः ।
4. Caturtho'Adhyāyaḥ चतुर्थोऽध्यायः ।
5. Pañcamo'Adhyāyaḥ पञ्चमोऽध्यायः ।
6. Ṣaṣṭho'Adhyāyaḥ षष्ठोऽध्यायः ।
7. Ṣaptamo'Adhyāyaḥ सप्तमोऽध्यायः ।
8. Aṣṭmo'Adhyāyaḥ अष्टमोऽध्यायः । कामधेनुवरदानम् ।
9. Navamo'Adhyāyaḥ नवमोऽध्यायः । इन्द्रवरदानम् ।
10. Daśamo'Adhyāyaḥ दशमोऽध्यायः । तीर्थयात्राफलम् ।
10.1 Daśamo'Adhyāyaḥ Pūrvārdha दशमोऽध्यायः पूर्वार्धः
10.2 Daśamo'Adhyāyaḥ Uttarārdha दशमोऽध्यायः उत्तरार्धः
11. Ekādaśo'Adhyāyaḥ एकादशोऽध्यायः । राष्ट्रश्येनाप्रादुर्भावः ।
12. Dvādaśo'Adhyāyaḥ द्वादशोऽध्यायः । कलिस्वरूपवर्णनम् ।
13. Trayodaśo'Adhyāyaḥ त्रयोदशोऽध्यायः । लोमशाश्रमवर्णनम् ।
14. Caturdaśo'Adhyāyaḥ चतुर्दशोऽध्यायः । सोमनाथमाहात्म्ये माहेन्द्रीवर्णनम् ।
15. Pañcadaśo'Adhyāyaḥ पञ्चदशोऽध्यायः । क्षीरेश्वरमाहात्म्यम् ।
16. Ṣoḍaśo'Adhyāyaḥ षोडशोऽध्यायः । गौतममाहात्म्यम् ।
17. Saptadaśo'Adhyāyaḥ सप्तदशोऽध्यायः । गौतमेश्वरमाहात्म्यम् ।
18. Aṣṭādaśo'Adhyāyaḥ अष्टादशोऽध्यायः । वायुनारदसंवादः ।
19. Ekonaviṃśo'Adhyāyaḥ एकोनविंशोऽध्यायः । बाष्पमन्त्रसाधनम् ।
20. Viṃśo'Adhyāyaḥ विंशोऽध्यायः । बाष्पान्वयम् ।
21. Ekaviṃśo'Adhyāyaḥ एकविंशोऽध्यायः । बाष्पान्वयम् ।
22. Dvāviṃśo'Adhyāyaḥ द्वाविंशोऽध्यायः । बाष्पान्वये प्रातःकृत्यादिकथनम् ।
23. Trayoviṃśo'Adhyāyaḥ त्रयोविंशोऽध्यायः । मन्त्राराधनकथनम् ।
24. Caturviṃśo'Adhyāyaḥ चतुर्विंशोऽध्यायः । बाष्पान्वये पञ्चवक्त्रपूजाकथनम् ।
25. Pañcaviṃśo'Adhyāyaḥ पञ्चविंशोऽध्यायः । बाष्पान्वये पूजाकथनम् ।
26. Ṣaḍviṃśo'Adhyāyaḥ षड्विंशोऽध्यायः । बाष्पान्वयम् ।
27. Ṣaptaviṃśo'Adhyāyaḥ सप्तविंशोऽध्यायः । श्रीनारायणप्रादुर्भावः ।
28. Aṣṭāviṃśo'Adhyāyaḥ अष्टाविंशोऽध्यायः । तीर्थक्रमवर्णनम् ।
29. Ekonatriṃśo'Adhyāyaḥ एकोनत्रिंशोऽध्यायः । राष्ट्रश्येनापूजाविधिः ।
30. Triṃśo'Adhyāyaḥ त्रिंशोऽध्यायः । गणेशमन्त्रकथनम् ।
31. Ekatriṃśo'Adhyāyaḥ एकत्रिंशोऽध्यायः । बाष्पान्वयम् ।
32. Dvātriṃśo'Adhyāyaḥ द्वात्रिंशोऽध्यायः । यात्राविधिमहोत्सववर्णनम् ।
ॐ
॥ श्रीमदेकलिङ्गो जयति ॥
॥ श्रीगणेशाय नमः ॥
अथ एकलिङ्गमाहात्म्यम् ।
(पौराणिकम्)
अथ प्रथमोऽध्यायः ।
1. Query is asked about why Pṛthvī पृथ्वी is also known as Medinī मेदिनी, and the significance of these two names.
यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेऽञ्जलिं त्रिनेत्रः स जयति सूर्यो निधिर्धाम्नाम् ॥ १-१॥
जयति जगति ज्ञानकरी तस्करदुर्गहरी(हंस)वाहनी ।
सुवहा मोक्षस्य कृतौ या सा स्याद्विदुषामलङ्करणम् ॥ १-२॥
नारद उवाच -
भुवनत्रितयं दृष्टं त्वया वायो समन्ततः ।
तेषां यथा यथा वृत्तं विस्तरात् कथितं मम ॥ १-३॥
सप्तद्वीपवतीं पृथ्वीं सशैलवनकाननाम् ।
त्वदुक्तां श्रुतवानस्मि यतस्त्वं सर्वतोगतिः ॥ १-४॥
त्वया सर्वं जगद्व्याप्तं त्वयि प्राणाः प्रतिष्ठिताः ।
त्वत्सृष्टं मोदते विश्वं त्वद्युक्तमथ पावनम् ॥ १-५॥
सर्वज्ञस्त्वमतो वायो संशयं छिन्धि मेऽनघ ।
कस्मात् पृथ्वीति विख्याता मेदिनीति कथं स्मृता ॥ १-६॥
वायुरुवाच -
कथयिष्याम्यहं ब्रह्मन् यथादृष्टं यथाश्रुतम् ।
अतीन्द्रियज्ञाननिधे यन्मां त्वं परिपृच्छसि ॥ १-७॥
तथापि कथयाम्यद्य सर्वलोकहिताय वै ।
भृगुगोत्रोद्भवः श्रेष्ठः शौनको नाम विश्रुतः ॥ १-८॥
तस्यैव वर्तमानेऽत्र यज्ञे द्वादशवार्षिके ।
तत्रागच्छन्मुनिगणा आहूता ब्रह्मवादिनः ॥ १-९॥
तपः कृशाः संयमिनो गृणन्तः परमव्ययम् ।
वसिष्ठः कश्यपोऽत्रिश्च मरीचिर्भगवान् मुनिः ॥ १-१०॥
गालवो जमदग्निश्च विश्वामित्रोऽथ गौतमः ।
भारद्वाजोऽङ्गिराश्चैव कृष्णाद्वैपायनः शुकः ॥ १-११॥
पराशर ऋचीकश्च दुर्वासा गर्ग एव च ।
उद्दालकस्तथा कङ्कः कचः कण्वोऽथ देवलः ॥ १-१२॥
अगस्तिर्लोमशो रैभ्यो याज्ञवल्क्यो बृहस्पतिः ।
उशनाः पुलहश्चैव पुलस्तिः कपिलस्तथा ॥ १-१३॥
आसुरिर्वामदेवश्च हारीताद्या महर्षयः ।
इन्द्राद्याः सकला देवा यक्षविद्याधरादयः ॥ १-१४॥
तत्रागच्छन्मुनिगणा आहूताः शौनकेन ह ।
आसनेषूपविष्टेषु सतां संसदि ते तदा ॥ १-१५॥
सूतं योगिषु मान्यं च शौनको वाक्यमब्रवीत् ॥ १-१६॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्य प्रथमोऽध्यायः । १॥
अथ द्वितीयोऽध्यायः ।
2. Suta सूत narrates the story of MadhuKaiṭabha मधुकैटभ and how Vasundharā वसुन्धरा came to be known as Medinī मेदिनी and Pṛthvī पृथ्वी.
शौनक उवाच -
अष्टादश पुराणानि कथितानि त्वयानघ ।
इतिहासानि सर्वाणि रामस्य चरितं महत् ॥ २-१॥
भारतानां कथाश्चित्रा यथावत् परिकीर्तिताः ।
पौराणिको भवान् तात वरदानान्न संशयः ॥ २-२॥
वायोः पुराणमखिलं त्वयोक्तं सूतनन्दन ।
जगत्त्रयस्य यद्वृत्तं कथितं च समासतः ॥ २-३॥
कथं पृथ्वीति विख्याता मेदिनीति कथं द्विज ।
एतद्विस्तरतो ब्रूहि श्रुतं यच्चरितं महत् ॥ २-४॥
सूत उवाच -
पुराणमेतद्विपुलं वायुना परिकीर्तितम् ।
तदहं कथयिष्यामि यथाज्ञातं यथाश्रुतम् ॥ २-५॥
एकार्णवे पुरा भूते जगत्स्थावरजङ्गमे ।
तत्र सुप्तो जगन्नाथः शेषमास्तीर्य वीर्यवान् ॥ २-६॥
मधुकैटभौ महादैत्यौ विष्णुकर्णमलोद्भवौ* ।
(*द्रष्टव्य दुर्गा सप्तशती ११६८)
नाभिपङ्कजसंस्थौ तौ हन्तु ब्रह्माणमुद्यतौ ॥ २-७॥
पितामहस्ततो दृष्ट्वा दुष्टभावं दुरात्मनोः ।
तुष्टाव योगनिद्रां तां तया मुक्तो जनार्दनः ॥ २-८॥
उत्तस्थौ भगवान् विष्णुर्बाहुयुद्धमथाकरोत् ।
पञ्चवर्षसहस्राणि बहुमायापरो विभुः ॥ २-९॥
ततो विमोहितौ दैत्यौ मायया पद्मयोनिना ।
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ २-१० ॥
श्रीभगवानुवाच -
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ।
किमन्येन वरेणात्रेतावद्विवृतं मया ॥ २-११॥
सूत उवाच -
तावूचतुर्हरिं दैत्यौ महामायाविमोहितौ ।
मधुकैटभौ दुरात्मानौ दुःप्रधर्ष्यौ सुरैरपि ॥ २-१२॥
प्रीतौ स्वस्तव युद्धेन श्लाध्यस्त्वं मृत्युरावयोः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ २-१३॥
सूत उवाच -
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।
कृत्त्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ २-१४॥
ततो वै मेदसाप्लाव्य पूरितेयं वसुन्धरा ।
मेदिनीति च विख्याता पृथ्वीसंज्ञामतः शृणु ॥ २-१५॥
पृथुर्वेन्योऽभवद्राजा धार्मिको यज्ञकृच्छुचिः ।
मधुकैटभदेहोत्थैर्मेदोऽसृग्भिस्तथाऽस्थिभिः ॥ २-१६॥
पूरितामवनीं दृष्ट्वा समां चक्रे ए पृथुस्तदा ।
तस्या मह्याः स्वकं रूपं प्रादुश्चके पृथुः पुरा ॥ २-१७॥
धेनुरूपं समास्थाय वरदेत्यब्रवीन्नृपम् ।
धेनुरुवाच -
वरदाऽहं नृपश्रेष्ठ वृणीष्वावहितो वरम् ॥ २-१८॥
पृथुरुवाच -
यदि प्रसन्ना वरदे सस्यं देहि ममाथ वै ।
मम नाम्ना सुता भूत्वा ख्यातिं यातुं त्वमर्हसि ॥ २-१९॥
वायुरुवाच -
एवं नारद तद्वाक्यं मेदिनी हर्षसंयुता ।
तथेत्युक्त्वा नृपश्रेष्ठं वरदानेन तोषितम् ॥ २-२०॥
अन्तर्द्धानं ययौ धेनुः पृथुः पृथ्वीं शशास ह ।
इति पृथ्वीति नाम्नेयं मेदिनीति बभूव ह ॥ २-२१॥
किमन्यत् कथयाम्यद्य तद्भवान् वक्तुमर्हसि ॥ २-२२॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये द्वितीयोऽध्यायः । २॥
अथ तृतीयोऽध्यायः ।
3. Query is made about significance of the name of the place called Medapāṭa मेदपाट. Suta सूत narrates the story where Śaṅkara शङ्कर makes appearance in Dāruvana दारुवन at behest of Pārvatī पार्वती in order to cause cittabhraṃśa चित्तभ्रंश of the wives of the Muni-s मुनयः. When the latter get infatuated with His appearance, the Muni-s मुनयः, realizing the cause, curse Śaṅkara शङ्कर.
शौनक उवाच -
जम्बुद्वीपस्य माहात्म्यं प्रमाणं कथितं त्वया ।
यानि तीर्थानि ये देशा यथावत् परिकीर्तिताः ॥ १॥
अङ्गबङ्गकलिङ्गाश्च शूरसेनाश्च केरलाः ।
महाराष्ट्रास्तथान्ध्राश्च कार्णाटा कुङ्कुणास्तथा ॥ ३-२॥
मागधाश्च कुरूषाश्च विदेहाः कैङ्कणाश्च ये ।
कौशलाः कुरवश्चैव चैद्या द्रविडपुण्ढ्रकाः ॥ ३-३॥
कुन्तिभोजप्रभृतयः सर्वे ते परिकीर्तिताः ।
मेदपाटं कथं प्रोक्तं तद्भवान् वक्तुमर्हति ॥ ३-४॥
सूत उवाच -
जम्बुद्वीपस्य मध्ये तु जातं दारुवनं महत् ।
सदाफलं सदापुष्पं कान्तं चैव वनं महत् ॥ ३-५॥
वसन्ति तत्र मुनयः सदा संयममास्थिताः ।
गौतमश्च भरद्वाजो विश्वामित्रोऽथ कश्यपः ॥ ३-६॥
वशिष्ठो ह्यङ्गिरास्त्वत्रिः पुलस्तिश्च तपोधनाः ।
न तत्र वातदण्डः स्यान्न शोषयति भास्करः ॥ ३-७॥
कामवर्षी सदा मेघो न चाग्निस्तत्र बाधते ।
सत्त्वानां न विरोधोऽस्ति मैत्रीं सत्त्वानि भेजिरे ॥ ३-८॥
मुनीनां नियमान् मत्तः शृणुष्वावहितो द्विज ।
सदा त्रिषवणस्नाताः सदाशौचा दयालवः ॥ ३-९॥
पञ्चयज्ञरता नित्यं नित्यं चातिथिपूजकाः ।
पितृदेवमनुष्याणां सदा तृप्तिकरा मुने ॥ ३-१०॥
ग्रीष्मे पञ्चाग्निमध्यस्था वर्षासु स्थण्डिलेशयाः ।
आर्द्रवासाश्च हेमन्ते तपस्युग्रे व्यवस्थिताः ॥ ३-११॥
एकाशिनो निराहारा दन्तकुट्टाश्मकुट्टकाः ।
पर्णाशिनोऽम्बुभक्षाश्च वायुभक्षास्तपस्विनः ॥ ३-१२॥
तद्वनं मुनिभिः पूर्णं शुशुभे मुनिसत्तम ।
एकदा तद्वनं प्राप्य(प्राप्तः) शङ्करः पार्वतीयुतः ॥ ३-१३॥
भावित्वात् पार्वती देवी शङ्करं वाक्यमब्रवीत् ।
देव्युवाच -
तत्ते ए शम्भो वनं रम्यं मुनीनामिव मानसम् ।
ऋषिपत्न्यः प्रकाशन्ते पातिव्रत्यं समाश्रिताः ॥ ३-१४॥
पतिभक्तिपरा नित्यं नित्यं पतिपरायणाः ।
चित्तमासां यथा भ्रश्येत्तथा कार्यं त्वया विभो ॥ ३-१५॥
ईश्वर उवाच -
मैवं वदस्व कल्याणि ब्रह्मतेजो महत्तरम् ।
शपेयुर्मां महाकोपादकृत्यं क्रियते कथम् ॥ ३-१६॥
देव्युवाच -
यदि कृत्यमकृत्यं वा क्रियतां वचनान्मम ।
कथं शपेयुर्मुनयो भवन्तं विश्वरूपिणम् ॥ ३-१७॥
सूत उवाच -
इत्यादिष्टो जगन्नाथः कामरूप इवाभवत् ।
संविन्मयो ह्यरुणभानुसहस्रकान्तिः
पाशाङ्कुशप्रवरकार्मुकपञ्चबाणान् ।
ध्येयस्त्रिलोकविजयी स्वकरैर्दधानः
श्रीसुन्दरो मणिविभूषणभूषिताङ्गः ॥ ३-१८॥
विचचार वने तस्मिन् मुनीनां भावितात्मनाम् ।
कुशेध्माहरणे याताश्चैकचित्ता बभूविरे ॥ ३-१९॥
वृद्धास्तरुण्यो मोहेन तद्दर्शनपरायणाः ।
चित्तमासां समादाय जगामादर्शनं विभुः ॥ ३-२०॥
मुमूर्च्छुस्ता मुहुः स्वस्था ददृशुश्च दिशो दश ।
एतस्मिन्नन्तरे ब्रह्मन् मुनयस्ते समागताः ॥ ३-२१॥
स्वपत्न्यो विधुरा दृष्टाः प्रोचुस्ते च परस्परम् ।
ध्यानेन कारणं ज्ञात्वा सर्वे चैकमते स्थिताः ॥ ३-२२॥
अशपन् शङ्करं देवं क्रोधयुक्तास्तपस्विनः ।
यस्मान्मोहयसे शभ्भो भार्याचारित्रमाश्रिताः ॥ ३-२३॥
अस्मच्छापान्महीपृष्ठे तव लिङ्ग पतिष्यति ।
एवं शप्तो मुनिगणैर्गतः शम्भुर्यथागतः ॥ ३-२४॥
नातिव्यग्रा मुनिगणास्तेपुस्ते परमं तपः ।
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये तृतीयोऽध्यायः । ३॥
अथ चतुर्थोऽध्यायः ।
4. Story of atrocities of Daitya Tāraka दैत्य तारक and events preceding birth of Kārtikeya कार्तिकेय, including that of Liṅgapatana लिङ्गपतन that causes much distress to Her.
वायुरुवाच -
अथ तारकनामाऽभूद्दैत्यः परमकोपनः ।
लुप्ताधिकारास्त्रिदशास्तेनेशं शरणं गताः ॥ ४-१॥
तुष्टुवुः संयता देवास्तं देवं वृषभध्वजम् ।
पुत्रार्थं दैत्यनाशाय गौर्या चैकान्तमास्थितम् ॥ ४-२॥
भित्त्वा ते समयं देवा औत्सुक्याच्च समागमन् ।
पिनाकी तान् स्थिरान् दृष्ट्वा त्यक्त्वा तल्पं समुत्थितः ॥ ४-३॥
ततो रेतोऽपतत्तस्य तद्रेतोऽग्निरगृह्यत ।
पारावतेन रूपेण जाह्नव्यामुत्क्षिपन् स ह ॥ ४-४॥
ततो देवी विरेतस्कं शङ्करं वीक्ष्य चामरान् ।
गर्भहीनेति मत्वा सा व्यशपत्तान् दिवौकसः ॥ ४-५॥
यस्माद्रहोषितं शम्भुं याचितारोऽत्र बालिशाः ।
अहं गर्भेण हीनाऽथ कृता काठिन्यमाश्रितैः ॥ ४-६॥
तस्मादपत्यरहिता आरभ्येतो भविष्यथ ।
काठिन्यादचिरादुर्व्यां दृषत्त्वं प्राप्स्यथामराः ॥ ४-७॥
यदीश्वरोऽपि मां त्यक्त्वा भवदन्तिकमागतः ।
अतो मुनिगणैः शप्तो लिङ्गभ्रंशो भविष्यति ॥ ४-८॥
तदद्य सत्यतां यातु मम शापान्न संशयः ।
सूत उवाच -
ततो हाहा कृते शब्दे देवानां सर्वतो दिशि ।
वासुदेवो जगद्धात्रीं सान्त्वयन् वाक्यमब्रवीत् ॥ ४-९॥
श्रीभगवानुवाच -
कोपं मातः संहराशु त्वदीयः पुत्रो भावी जाह्नवीतीरसंस्थः ।
सेनानीस्ते भाव्यसौ शत्रुहन्ता गाङ्गेयो वै वह्निभूः षण्मुखो यः ॥ ४-१०॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये चतुर्थोऽध्यायः । ४॥
अथ पञ्चमोऽध्यायः ।
5. Devī देवी presets the events that would follow the appearance of Śaṅkara's Liṅga शङ्करलिङ्ग in KaṇṭakākhyaDeśa कण्टकाख्यदेश a.ka. Amarakaṇṭaka अमरकण्टक on Pṛthvī पृथ्वी, and thereafter sequentially in Pātāla पाताल and Medapāṭa मेदपाट.
सूत उवाच -
अनुनीता तदा ब्रह्मन् वासुदेवेन चण्डिका ।
त्यक्त्वा शोकं सुतं लब्ध्वा नारायणमुवाच ह ॥ ५-१॥
देव्युवाच -
नानृतं वचनं मेऽद्य यथा भवति मारिष ।
तथा कायं मया विष्णो शापो हि दुरतिक्रमः ॥ ५-२॥
मेदिनी मेदसां पूरैः पूर्णा सम्प्रति वर्तते ।
मान्धातुश्चेति नगरी शुभकर्यन्तिसुन्दरी ॥ ५-३॥
लिङ्ग पततु तत्रास्य न चिरात् शङ्करस्य च ।
देशेऽस्मिन् कण्टकाख्ये तु तूलराशाविव स्फुटम् ॥ ५-४॥
भूमिं भित्त्वाऽथ तत्रापि पातालं तद्गमिष्यति ।
मेदपाटे पुनर्धेन्वा स्मृतं प्रादुर्भविष्यति ॥ ५-५॥
पाषाणत्वं सुरा यान्तु लिङ्गस्यास्य समीपतः ।
कुटिलत्वादियं गङ्गा मम गर्भापहारिणी ॥ ५-६॥
कुटिलेति नदी तस्मात्तत्समीपे भविष्यति ।
सर्वतीर्थानि सरितः सागराश्च दिवौकसः ॥ ५-७॥
मुनयो गणगन्धर्वा उरगाश्च सहस्रशः ।
लिङ्गाभ्यर्णे भविष्यन्ति शापानुग्रहकारणात् ॥ ५-८॥
नारायणोऽथं भविता गण्डक्यां मुनिपूजितः ।
विशेषेण कलो प्राप्ते शालग्रामाख्यतां गतः ॥ ५-९॥
यादृशं यस्य देवस्य रूपमायुधवाहनम् ।
तादृशीं दार्षदीं मूर्तिं प्राप्य पूज्या भविष्यथ ॥ ५-१०॥
ये मानवा भवन्मूर्तिमर्चयिष्यन्ति सर्वदा ।
शिष्येभ्यः सहिता विप्राः क्षत्रवैश्याश्च भक्तितः ॥ ५-११॥
तेषां यथा यथाकामं पूरयध्वं दिवौकसः ।
कलौ न दृष्टिविषयं देवा यास्यन्तु कर्हिचित् ॥ ५-१२॥
तस्मान्मानवपूजाभिः प्रीताः कामान् प्रयच्छथ ।
अहं स्नेहार्चितं लिङ्ग परिवेष्ट्य समन्ततः ॥ ५-१३॥
स्थास्यामि भक्तलोकस्य चतुर्वर्गफलप्रदा ।
पाशाङ्कुशधनुर्बाणा सर्वाभरणभूषिता ॥ ५-१४॥
रक्तवस्त्रपरीधाना सदा षोडशवार्षिकी ।
अपरां मूर्तिमास्थाय विन्ध्यवासेति विश्रुता ॥ ५-१५॥
सर्वकामप्रदा देवी कुटिलातीरवासिनी ।
सूत उवाच -
तथेत्युक्त्वा प्रणम्यैनां देवा जग्मुर्यथागताः ।
सापि देवी मेदपाटे स्थानं चक्रेऽतिसुन्दरम् ॥ ५-१६॥
शापस्यानुग्रहं कृत्वा प्रत्येवं सा दिवौकसः ।
विन्ध्यवासाऽभवद्देवी भुक्तिमुक्तिफलप्रदा ॥ ५-१७॥
इत्येतत् कथितं ब्रह्मन् किमन्यच्छ्रोतुमर्हसि ॥ ५-१८॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये पञ्चमोऽध्यायः । ५॥
अथ षष्ठोऽध्यायः ।
6.1 Sūta सूत and Vāyu वायु narrate the events following Liṅgapatana लिङ्गपतन, including birth of Śaṅkara शङ्कर as NīlaVṛṣabha नीलवृषभ from the womb of Kāmadhenu कामधेनु and curse to Nandī नन्दी by Devī देवी that He be born on Earth as King Bāṣpa बाष्प राजा.
6.2 Devī देवी ordains that Jayā जया and Vijayā विजया reside in Medapāṭa मेदपाट as Rivers Varṇanāśā वर्णनाशा and Gambhīrā गम्भीरा respectively; while Gaṅgā गङा would be known there as Kuṭilā कुटिला. Thereafter, the Devī देवी goes to the Mountain Peaks of Vindhyādri विन्ध्याद्रिशिखर at the Nāgahrada Tīrtha नागह्रद तीर्थ.
शौनक उवाच -
विचित्रमिदमाख्यानं त्वयोक्तं सूतनन्दन ।
तदहं श्रोतुमिच्छामि विस्तराद्वक्तुमर्हसि ॥ १॥
कथं तदपतल्लिङ्ग शङ्करस्य महात्मनः ।
कस्मिन् देशे महाभाग कथ्यतामनुपूर्वशः ॥ ६-२॥
सूत उवाच -
ततोऽपतच्छङ्करस्य लिङ्ग तस्य महात्मनः ।
ब्रह्मशापान्मुनिश्रेष्ठ कम्पयत् सकलं जगत् ॥ ६-३॥
चचाल वसुधा देवी सशैलवनकानना ।
सूर्यबिम्बमिव व्योम्नो वज्रं शक्रकरादिव ॥ ६-४॥
उल्केव नभसस्तूर्णं धूम्रकेतुरिवापरः ।
विद्युज्ज्वालेव नभसो मेरुशृङ्गमिव च्युतम् ॥ ६-५॥
ब्रह्माण्डमिव कल्पान्ते यथा भौम इव ग्रहः ।
चकिता विस्मिता दृष्ट्वा किमेतदिति ऊचिरे ॥ ६-६॥
देवासुरमनुष्यैश्च यक्षविद्याधरोरगैः ।
भ्रमद्वात्याभिसंयुक्तैः पतन्नक्षत्रसंयुतैः ॥ ६-७॥
दिशोऽचलन् विकम्पेन प्राचलन्मकरालयाः ।
पतितं तस्य तल्लिङ्ग पातालमगमत् क्षणात् ॥ ६-८॥
पतिते शङ्करो देवो व्रीडापीडासमन्वितः ।
गोलोकमगमच्छीघ्रं गर्भवासाय स प्रभुः ॥ ६-९॥
तत्र गर्भगतो घेनौ स्रष्टा यो जगतां प्रभुः ।
कामधेनुस्ततो जज्ञे नीलं वृषभसंज्ञकम् ॥ ६-१०॥
लोहितोऽथ सुवर्णेन मुखे पुच्छे च पाण्डुरः ।
श्वेतं(तः) खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ ६-११॥
वायुरुवाच -
अथ शैलात्मजा ब्रह्मन् शोकव्याकुललोचना ।
नन्दिनं प्रथमं बाष्पं सृजन्ती तमुवाच ह ॥ ६-१२॥
यस्माद्बाष्पं सृजाम्यद्य वियोगाच्छङ्करस्य च ।
पूर्वदत्ताच्च मे शापाद्बाष्पो राजा भविष्यसि ॥ ६-१३॥
कलौ प्राप्ते द्विजाग्र्याणां कुले महति पूजिते ।
तव वंशस्य विच्छित्तिर्न कदाचिद्भविष्यति ॥ ६-१४॥
आराध्य तं जगन्नाथं तीर्थे नागह्रदे शुभे ।
राज्यं शक्र इव प्राप्य ततः स्वर्गमवाप्स्यसि ॥ ६-१५॥
तव वंश्याः शनैश्चाथ वर्णाश्रमविनिन्दकैः ।
संसर्गाद्धर्मरहिताः श्रुत्युक्ताचारगर्हकाः ॥ ६-१६॥
शूद्रा एव भविष्यन्ति शूद्ररूपः कलिर्यतः ।
जयां च विजयां प्राह देवी बाष्पाकुला सती ॥ ६-१७॥
जये त्वं वर्णनाशाच्च वर्णनासा सरिद्वरा ।
भविष्यसि कलौ प्राप्ते मेदपाटेऽघनाशिनी ॥ ६-१८॥
विजयां चाशपद्देवी क्रोधेन कलुषानना ।
गाम्भीर्यरक्षणे त्यक्ते गम्भीरा त्वं नदी भव ॥ ६-१९॥
मा कुरुष्वेत्यतः कोपमित्युवाच सरिद्वरा ।
तां शशापातिरोषेण कुटिलेति सरिद्भव ॥ ६-२०॥
गङ्गोवाच -
किमर्थं मां शपस्यद्य सखि शङ्करवल्लभे ।
हितोपदेशदां देवि शापान्मोचय सुन्दरि ॥ ६-२१॥
पार्वत्युवाच -
एकलिङ्गस्य पुरतो वारुण्यां दिशि नित्यशः ।
प्रवाहेण प्रवर्तस्व लोकानां च हिताय वै ॥ ६-२२॥
तत्र त्वं त्रिकुटागेन्द्रमध्ये धारास्वरूपिणी ।
निःसर स्वर्गसंसिद्धयै त्वन्माहात्म्यं भविष्यति ॥ ६-२३॥
तत्राविच्छिन्नधारा ते दानहोमजपादिकम् ।
करिष्यत्यक्षयं सर्वं शम्भोः सान्निध्यदं सदा ॥ ६-२४॥
तत्रैकलिङ्गसामीप्ये कुटिले ते सहस्रशः ।
धाराश्च सम्भविष्यन्ति प्रायशो गुप्तभावतः ॥ ६-२५॥
कूपे वाप्यां च नद्यां च सरसि निर्झरे तथा ।
गुप्तभावं समासाद्य वर्तयिष्यन्ति सर्वतः ॥ ६-२६॥
तत्र धारेश्वरं तीर्थं त्वन्नाम्ना सम्भविष्यति ।
तत्र यो मातृपितॄणां तर्पणं च करिष्यति ॥ ६-२७॥
तस्य ते पितरस्तुष्टा दास्यन्ति पुत्रपौत्रकान् ।
वैशाखे तु विशेषेण पूर्णिमायां विधानतः ॥ ६-२८॥
यास्यन्त्यमुक्ताः सन्मुक्तिं गयापिण्डप्रदानतः ।
किं बहूक्तेन मेदिन्यां गङ्गासागरसङ्गमात् ॥ ६-२९॥
विन्दन्ते यां गतिं लोकाः सा गतिस्तत्र तोयतः ।
भूमण्डलमभिव्याप्य तोयेनान्तःप्रवर्तिनी ॥ ६-३०॥
पुनीष्व सर्वतीर्थानि राहुस्पर्शे विशेषतः ।
सूत उवाच -
एवं सा स्वगणान् शप्त्वा गोधामारुह्य सत्वरम् ।
सुधाढ्यकलशं हस्ते गृहीत्वा द्विजसत्तम ॥ ६-३१॥
भक्तत्राणपरा नित्यं वरमालां करद्वये ।
कृत्वा चान्येन हस्तेन वरं दातुमिहैव सा ॥ ६-३२॥
सर्वालङ्कारसंयुक्ता सर्वदेवनमस्कृता ।
रक्ताम्बरधरा देवी पार्वती सुमहत्तपः ॥ ६-३३॥
विन्ध्याद्रिशिखरे रम्ये तीर्थे नागह्रदे शुभे ।
चचार लोकजननी लोकानां हितकाम्यया ॥ ६-३४॥
एकलिङ्गस्य चाभ्यर्णे विधिना न परेच्छया ॥ ६-३५॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये षष्ठोऽध्यायः । ६॥
अथ सप्तमोऽध्यायः ।
7.1 Devatā-s देवताः eulogize Surabhi सुरभि (Kāmadhenu कामधेनु) with Nīlavṛṣa नीलवृष and request Her to rescue the Śaṅkara's Liṅga शङ्करलिङ्ग to the stone i.e. Dārṣada दार्षद form - which would then be known as Ekaliṅga एकलिङ्ग.
7.2 Kāmadhenu कामधेनु assures them that She will accomplish the process in Nāgahrada नागह्रद in Medapāṭa मेदपाट and that the Devatā-s देवताः too should reach there in their stone i.e. Dārṣada दार्षद form.
शौनक उवाच -
ततः किमभवत्सूत घेनौ जाते वृषे शिवे ।
विन्ध्याद्रौ विन्ध्यवासायां गतायां तद्वदस्व नः ॥ ७-१॥
कौतूहलमिदं सूत नारदाय महात्मने ।
वायुनोदीरितं यादृक् तादृग् नो वद विस्तरात् ॥ ७-२॥
सूत उवाच -
कामधेन्वां हरे जाते सर्वे देवाः सवासवाः ।
सगणाः सहगन्धर्वा ऋषिभिः पन्नगैर्युताः ॥ ७-३॥
तुष्टुवुस्तत्र गत्वा ते सुरभीं(भिं) नीलसंयुताम् ।
प्रणम्य शिरसा धेनुं कामदोग्ध्रीं यशस्विनीम् ॥ ७-४॥
ताम्रकर्णां च कपिलां पीनोघ्नीं पीवरस्तनीम् ।
द्वितीयेन्दुसमां लेखां ललाटे बिभ्रतीं सदाम् ॥ ७-५॥
बालेन्दुनेव सहितां सन्ध्यां पापप्रणाशिनीम् ।
सूत उवाच -
देवाः सिद्धाऽथर्षयस्तां प्रणेमुर्मातर्विश्वं पाहि पाहीत्युदीर्य ।
रुद्राणां वै वेदमाता वदन्ति सा नो धेनुः सर्वलोकस्य माता ॥ ७-६॥
अब्धौ जातां मन्थने रत्नहेतोः प्राहुश्चैके दक्षपुत्रीति भूयः ।
द्रोणोद्भूतां केचिदन्ये वदन्ति शश्वद्भूतां त्वां परे ज्ञानवन्तः ॥ ७-७॥
सूत उवाच -
एवं देवान् स्तूयमानान् विलोक्य हृष्टा वाक्यं व्याजहाराथ विद्वन् ।
धेनुरुवाच -
किं वः कार्यं करणीयं यदस्ति तन्नो देवा वीतशङ्का वदन्तु ॥ ७-८॥
नाहं दोग्ध्री केवलं पायसानां सर्वान् कामान् दातुमिच्छामि तुष्टा ।
यो यः कामो यस्य यस्यास्ति देवास्तं तं कामं प्रार्थयध्वं समेताः ॥ ७-९॥
सूत उवाच -
एवमुक्ते तया धेन्वा मुमुदुस्ते दिवौकसः ।
प्रणम्य तां जदग्धात्रीमूचिरे वचनं तदा ॥ ७-१०॥
देवा ऊचुः -
शङ्करस्यापि तल्लिङ्ग तीर्थे चामरकण्टके ।
मुनिशापाज्जगन्मातः पातालमगमत्क्षणात् ॥ ७-११॥
नीलग्रीवस्त्वयि जातो नीलो वृष इति श्रुतः ।
अतो माता च रुद्राणामस्माकं तु पितामही ॥ ७-१२॥
लिङ्गमुद्धर कल्याण पातालाद्भुवनेश्वरि ।
भुवस्तले तु तल्लिङ्ग स्थितिमाप्नोति सुन्दरि ॥ ७-१३॥
तथा कार्यं च पार्वत्या वचनाद्दार्षदं भवेत् ।
श्रुत्वैतद्वचनं धेनुर्वाक्यं तान् प्रत्यभाषत ॥ ७-१४॥
मेदोऽस्थिपूरितां भूमिं मत्वा दैत्यवरस्य ह ।
कृष(श) या पातितं लिङ्ग पार्वत्याऽमरकण्टके ॥ ७-१५॥
पातालमगमत्शीघ्रमुद्धरिष्ये दिवौकसः ।
गच्छन्त्वथ पुनर्देवा ऋषिकिन्नरपन्नगाः ॥ ७-१६॥
प्रदेश कथयाम्यद्य सुकुमारं च पावनम् ।
मेदसां पाट इत्यासीद्देशो लोकेषु विश्रुतः ॥ ७-१७॥
मेदपाट इति ख्यातः कोमलस्तूलराशिवत् ।
तत्र गच्छाम्यहं देवाः स्थाने नागह्रदे शुभे ॥ ७-१८॥
भवद्भिस्तत्र भाव्यं वै दार्षदीमूर्तिभिः सह ।
शापो भवान्याः सत्योऽस्तु मा विलम्बं कृथाः सुराः ॥ ७-१९॥
सूत उवाच -
ततो ययौ कामदुधा जयवाद्यादिपूजिता ।
मेदपाटमनुप्राप्य तीर्थे नागहृदे शुभे ॥ ७-२०॥
सर्वतीर्थमयं ब्रह्मन् सर्वदेवमयं शुभम् ।
नानापुष्पलताकीर्णं मुनिसिद्धनिषेवितम् ॥ ७-२१॥
कि बहूक्तेन सर्वेष्टदायि नित्यं न संशयः ।
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये सप्तमोऽध्यायः । ७॥
अथाष्टमोऽध्यायः । कामधेनुवरदानम्
8.1 Vāyu वायु lists to Nārada नारद about the DārṣadīMūrtiḥ दार्षदीमूर्तिः of the Devatā-s देवताः; and reveals the names of the trees, mountains and rivers in which they melded into, in that region. Devī देवी then consents to abide near the Ekaliṅga एकलिङ्ग that has been rescued from the Pātāla पाताल by Kāmadhenu कामधेनु.
8.2 Devatā-s देवताः eulogize Śiva शिव who is in Ekaliṅga एकलिङ्ग form. EkaliṅgaŚiva एकलिङ्गशिव then blesses Kāmadhenu कामधेनु - who had in a way been His Mother, tells Her that She could roam freely on the Pṛthvī पृथ्वी - especially in the Jambudvīpa जम्बुद्वीप.
8.3 Kāmadhenu कामधेनु then goes to Amarakaṇṭaka अमरकण्टक, Om̐kāratīrtha ओंकारतीर्थ, Mahākāla महाकाल in Ujjainī उज्जैनी, Tryambaka त्र्यम्बक, Somanātha सोमनाथ etc., and after travelling around the Pṛthvī पृथ्वी for seven times, She finally ascends to the Ākāśa आकाश.
नारद उवाच -
सर्वगस्त्वं सदा वायो सततं पश्य मेऽनघ ।
कियन्तो देवतास्तत्र दार्षदीं मूर्तिमाश्रिताः ॥ ८-१॥
तेषां पराक्रमं चापि पृथक्त्वेन वदस्व मे ।
वायुरुवाच -
भवान्या वचनाद्ब्रह्मन् सर्वे पाषाणतां गताः ॥ ८-२॥
ब्रह्मा विष्णुर्महेशश्च शक्रो वैश्रवणो यमः ।
वरुणो वायुरग्निश्च ग्रहाः सर्वे सतारकाः ॥ ८-३॥
सिद्धा गणाश्च गन्धर्वाः पिशाचोरगराक्षसाः ।
साध्याश्च मुनयः सर्वे दार्षदीं प्राप्नुवंस्तनुम् ॥ ८-४॥
पर्वताः पर्वतेष्वासन् मेरुप्रभृतयोऽचलाः ।
पारिजातादयो वृक्षा वृक्षेषु स्थितिमाप्नुयुः ॥ ८-५॥
गङगाद्याः सागराद्याश्च वापीकूपसरित्सु च ।
सर्वं जगदिदं दृश्यं तत्रासीद्यत्र शङ्करः ॥ ८-६॥
तेऽप्यूचुस्तां तदा सर्वे सुन्दरीं शिववल्लभाम् ।
त्वद्वाक्यादेव श्रीमातः सर्वे दार्षत्त्वमाश्रिताः ॥ ८-७॥
त्वमप्यस्मिन् प्रदेशे वै दार्षदीं मूर्तिमाश्रिता ।
वरदा भव सर्वेषां लोकत्राणहितेऽनघे ॥ ८-८॥
श्रीदेव्युवाच -
स्थास्यामि वो यथाभीष्टमेकलिङ्गस्य सन्निधौ ।
सूत उवाच -
तत्र गत्वा तु सा धेनुः सर्वदेवसमन्विता ।
सस्मार शङ्करं देवं पयःप्रस्रवणी तदा ॥ ८-९॥
मातृस्नेहादतो ब्रह्मन् शङ्करस्य महात्मनः ।
पातालादुत्थितं लिङ्गमेकलिङ्गमिति श्रुतम् ॥ ८-१०॥
तस्य रूपं प्रवक्ष्यामि भजतां सर्वसिद्धये ।
ज्वलद्वह्निप्रतीकाशं सूर्यकोटिसमप्रभम् ॥ ८-११॥
पातालादेव निष्क्रान्तं दिव्यं रत्नचयत्विषम् ।
बडवाया मुखादेव बडवानलमुत्थितम् ॥ ८-१२॥
वहद्गङ्गाम्भसः स्रोतः शशाङ्ककृतशेखरम् ।
सुरभीपयसा स्नातममृतेनेव सिञ्चितम् ॥ ८-१३॥
गजचर्मपरीधानं महावृषभवाहनम् ।
भस्मालिप्तं चलत्सर्पकुण्डलाङ्गदभूषणम् ॥ ८-१४॥
पञ्चवक्त्रं चतुर्बाहुमुमया सहितं प्रभुम् ।
शूलं कपालं वरदं त्रिनेत्रमभयप्रदम् ॥ ८-१५॥
दिव्याम्बरस्रगालेपदिव्याभरणभूषितम् ।
कस्तूर्यगरुकर्पूरकुङ्कुमोदकचन्दनैः ॥ ८-१६॥
मृगमदादिकैर्दिव्यैर्दिव्यभूषणविग्रहम् ।
रत्न सिंहासने दिव्ये विमानान्तर्गतं शिवम् ॥ ८-१७॥
श्रिया च परया युक्तं सर्वलोकहिते रतम् ।
प्रेक्ष्य तं मुदिता देवा जयपूर्वं प्रणम्य च ॥ ८-१८॥
पुष्पवृष्टिं तदा चक्रुर्वादित्राणि त्ववादयन् ।
मृदङ्गपणवाः शङ्खा भेरीदुन्दुभिनिःस्वनाः ॥ ८-१९॥
झल्लरीपटहादीनि वादित्राणि प्रदघ्मिरे ।
सरितो मार्गवाहिन्यो दिशो नैर्मल्यमाययुः ॥ ८-२०॥
सुखस्पर्शस्तथा वातो बभृव विमलं नभः ।
शुभमासीज्जगत्यस्मिन्नार्विभूते जगत्पतौ ॥ ८-२१॥
सूत उवाच -
अथ देवा नमस्कृत्य शङ्करं लोकशङ्करम् ।
तुष्टुवुर्वाग्भिरर्थ्याभिर्बृहस्पतिपुरोगमाः ॥ ८-२२॥
देवा ऊचुः -
लोकानां त्वं सृष्टिकर्ता महेशः
पाताऽमीषां भुवनानां हिताय ।
सर्वस्यादिस्त्वं न कोऽपि त्वदादि-
रीशो नेशस्त्वदृतेऽन्योऽस्ति भूयः ॥ ८-२३॥
स्थूलः सूक्ष्मो व्यक्तव्यक्तेतरश्च
दीर्घत्वेऽपि त्वं गुरुत्वे वृत्तोऽसि ।
त्वं वै वन्द्यो नो तवैवास्ति वन्द्य
आराध्यस्त्वं न त्वदाराधनीयः ॥ ८-२४॥
धाता विश्वस्यापि धाता न तेऽस्ति
पाता लोकस्यापि पाता न तेऽभूत् ।
संहर्ता त्वं संहरेत्त्वां न कश्चित्
सर्वज्ञस्त्वं सर्वदा सर्वगोऽसि ॥ ८-२५॥
विद्यां वेत्थ त्वां न विद्या विदन्ति
दाता त्वं वै नैव दाता तवास्ति ।
स्तुत्यो लोके स्तुत्य एवास्ति नो ते
पूज्यो लोके नैव पूज्यस्तवास्ति ॥ ८-२६॥
त्वं वै ब्रह्मा विष्णुरूपोऽमरेन्द्र-
स्त्वं वै सूर्यस्त्वं च सोमो नभस्वान् ।
पृथ्वी व्योम ह्यग्निरूपः प्रचेता
भूतात्मा त्वं विश्वरूपस्त्वमेव ॥ ८-२७॥
एतन्मुक्त्वा पावनं नैव कश्चिद्-
भोज्यं भोक्ता ज्ञानवान् ज्ञानमग्र्यम् ।
शास्ता शास्यं सृष्टिकर्ता च सृज्यं
हव्यं होता यज्ञयाज्यस्त्वमाहुः ॥ ८-२८॥
एतद्हीनं विद्यते नैव किञ्चिद्-
हीनस्त्वं वा केनचिन्नैव शम्भो ।
विद्यापूर्णस्तद्गुर्णस्तानपूर्णं (गुणैः स्तादपूर्णः)
सर्वं पश्ये(स्)त्वां न पश्यन्ति केचित् ॥ ८-२९॥
विश्वं तेऽन्तस्त्वं न तस्यान्तरीश
तस्यादिस्त्वं नैव किञ्चित्तवादिः ।
आधारस्त्वं न त्वदाधारतास्ति
विश्वं रूपं नैव रूपं तवास्ति ॥ ८-३०॥
एको रुद्रो न द्वितीयस्तथाऽऽहुः
पाताले वा चान्तरिक्षे च नाके ।
वृक्षे तोये खे तडित्तोयदेषु
कूपे वाथो सागरे ह्रत्सरित्सु ॥ ८-३१॥
देशे देशे लिङ्गरूपेण सर्वं
गुहापाथः पर्वतेष्वाटवीषु ।
क्षेत्रे सस्ये सर्ववस्तुस्वरूपं
विश्वं धत्से सर्वमूर्ते नमस्ते ॥ ८-३२॥
सर्गादौ ये कर्मकारादयोऽपि
शिल्पा ये त्वां नित्ययुक्ता यजन्ते ।
आसङ्ख्येयैरात्मभिश्चैव सृष्टा
यज्या(याः) पुत्रा औरसा विश्वमूर्ते ॥ ८-३३॥
तथा विप्रान् क्षत्रियान् वैश्यशूद्रान्
अन्यान् स्वे स्वे कर्मणि त्वं नियु(यो)ज्य ।
राज्ञो नीत्या पालने यत्प्रजानां
चातुर्वर्ण्यं वेदमार्गे निवेश्य ॥ ८-३४॥
ये ये भक्त्या त्वामुपासन्त ईश
नेशं पापा मन्यमानाः कुतर्कैः ।
ते ते स्वैः स्वैः कर्मभिः पुण्यपापै-
र्लिप्यन्ते वै नाभवत्तेष्वभेदः ॥ ८-३५॥
त्वं वै ज्येष्ठो नैव ज्येष्ठास्तु ते ते
वाचामीशस्त्वं न ते वाच ईशाः ।
काव्ये काव्ये त्वं कविर्नैव चान्यः
कस्ते विन्द्यादेवमन्यो(न्तं) महिम्नः ॥ ८-३६॥
दुष्टान् सर्वान् संहराश्वेकलिङ्ग
पुष्पैर्बाणैः पञ्चकैराशु शम्भो ।
म्लेच्छान् पापान् धर्ममार्गस्य शत्रून्
बद्ध्वा शीघ्रं नागपाशेन दूरे ॥ ८-३७॥
क्षिप्त्वा सर्वा देवताः सौम्यरूप
त्राहि प्रीत्या सेवकान् विश्वमूर्ते ।
संसाराब्धौ पातितं विश्वमीक्ष्य
धृत्वा हस्ते चाङ्कुशं तेन पाहि ॥ ८-३८॥
सूत उवाच -
एवं स्तुतश्चामरैरेकलिङ्गः
प्रीतो देवान् व्याजहारेति वाणीम् ।
यस्माच्छप्ता हैमवत्या भवन्तो
वस्तव्यं मे सन्निधाने भवद्भिः ॥ ८-३९॥
श्रीमदेकलिङ्ग उवाच -
दार्षदीं मूर्तिमास्थाय वस्तव्यमकुतोभयैः ।
इह वासोऽस्तु देवानां मत्समीपे समन्ततः ॥ ८-४०॥
कुटिलायां च विधिना स्नात्वा इन्द्रसरस्यथ ।
वृषं पूर्वं समभ्यर्च्य द्वारदेशे विधानतः ॥ ८-४१॥
मत्पूजानन्तरं पूज्या यूयं चात्र मदाज्ञया ।
मदाबृत्तित्वमायातु मद्भक्तानां हिताय वै ॥ ८-४२॥
अर्चयिष्यन्ति भक्त्या ये मानवा भुवि मत्पराः ।
तेषां कामान् प्रयच्छध्वं भुक्तिमुक्त्यादिकान् बहून् ॥ ८-४३॥
गीतैनृत्यैस्तथा वाद्यैधूपगन्धानुलेपनैः ।
दीपैश्च बलिनैवेद्यैः सुमनोभिः सुगन्धिभिः ॥ ८-४४॥
ददध्वं तेषु कामांश्च भुक्तिमुक्त्यादिकांस्तथा ।
सदा मूर्तिषु वस्तव्यं नान्यलोष्टेषु देवता(ताः) ॥ ८-४५॥
रेवामृते गण्डकीं वा एष वोऽनुग्रहः कृतः ।
सूत उवाच -
ततोऽब्रवीत्स तां धेनुमेकलिङ्गो जगत्पतिः ॥ ८-४६॥
श्रीमदेकलिङ्ग उवाच -
यस्मात्स्मृतो भवत्याऽहं पातालादिह सुव्रते ।
तस्माद्भवस्व रुद्राणां माता त्वं वचनान्मम ॥ ८-४७॥
चरस्व जगतीं कृत्स्नां जम्बुद्वीपे विशेषतः ।
न च प्राप्स्यन्ति मां लोका एकलिङ्गं विदूरतः ॥ ८-४८॥
बहुलिङ्ग तु मां धेनो कुरुष्व वचनान्मम ।
अविच्छिन्नप्रसूतिस्त्वं वरदानाद्भविष्यसि ॥ ८-४९॥
इति तस्यै वरान् दत्वा मातृस्नेहात् स्तुतिं व्यधात् ।
अधीशोऽपि परानन्द एकलिङ्गो जगत्पतिः ॥ ८-५०॥
त्वं धेनो पावनी सत्यं स्नानं त्वत्पादपांशुना ॥ ८-५१॥
दुग्धं मूत्रं गोमयं वै धृतं च दध्ना युक्तं पञ्चगव्यं वदन्ति ।
त्वत्सम्भूता धेनवो या भवेयुर्यज्ञानां ता अग्र्यमङ्गं प्रधानम् ॥ ८-५२॥
सीमायां त्वं शासने ब्राह्मणानां मूर्ति प्राप्यालङ्घनीया भवस्व ।
क्षेत्रे ग्रामे देवदायेऽथ सीम्नि त्वामुल्लङ्घ्य ब्रह्मघ्नास्ते भवन्ति ॥ ८-५३॥
ये वै पापा गोचरं रोधयन्ते ते ते यान्ति तामसा रौरवं वै ।
धेनुग्रासं यो ददाति द्विजो वै भक्त्या नित्यं प्रीतये कामधेनो ।
स स्यात् सत्यं सर्वसम्पत्प्रदायी भोक्ता भोगान् धैनवं प्राप्य लोकम् ॥ ८-५४॥
तृणमन्नजलं यद्यत्तत्सर्व स्वल्पमप्युत ।
स विधूयेह पापानि प्रेत्यानन्दसुखं लभेत् ॥ ८-५५॥
अवध्या त्वं भवस्वाद्य गच्छ कामगतिः सुखम् ।
सूत उवाच -
एवमुक्ता ततो धेनुस्तमापृच्छ्य सुरेश्वरम् ॥ ८-५६॥
जगाम त्वरिता देवी तीर्थं चामरकण्टकम् ।
गत्वा सा पूर्वविधिना स्मृतो देवो वृषध्वजः (ऽस्मरद्देवं वृषध्वजं) ॥ ८-५७॥
उत्तस्थौ भगवान् रुद्रो अमरेश इति प्रभुः ।
कुण्डमध्यान्महादेवः प्रादुर्भूतो जगद्धितं(तः) ॥ ८-५८॥
तस्मिन् कुण्डे नर्मदा च ज्योतिष्मत्यथ सर्वदा ।
शोणभद्र इति ख्यातो नदो हिरण्यगर्भजः ॥ ८-५९॥
प्रत्यक्षतां हितार्थाय अद्यापि मुनिसत्तम ।
वर्तन्ते तत्र चान्येऽपि दृषद्रूपा दिवौकसः ॥ ८-६०॥
तस्मिन् तीर्थे नरः स्नात्वा चतुर्वर्गानवाप्नुयात् ।
ततो ययौ कामधेनुर्यमोङ्कारं विदुर्बुधाः ॥ ८-६१॥
ऊँकारे यो नरः स्नात्वा रेवाकपिलसङ्गमे ।
पितॄन् सन्तर्प्य विधिना श्राद्धं यः कुरुते शुचिः ॥ ८-६२॥
नमस्कृत्य तथोङ्कारं ब्रह्मलोकमवाप्नुयात् ।
वाराणस्यां जले मुक्तिरुज्जयिन्यां जले स्थले ॥ ८-६३॥
मञ्चस्थोऽपि न मञ्चस्थ ओङ्कारेऽमरकण्टके ।
शौनक उवाच -
ओंङ्कारादथ सा धेनुः क्व गता सूतनन्दन ॥ ८-६४॥
शृण्वन्न मे मनस्तुष्टिमुपयाति कुतूहलात् ।
सूत उवाच -
सङ्क्षेपाद्वच्मि ते ब्रह्मन् कामधेनुर्यथा यथा ॥ ८-६५॥
(Shloka/Line formatting and numbering from 66 to 69
in the source text, seems to require some editing)
चचार पृथ्वीमेनां सप्तकृत्वः प्रदक्षिणा(णाः) ।
ततोऽगमन्महाकालमुज्जयिन्यां च पूर्ववत् ।
गोवर्द्धनं ततो गत्वा गोदावर्यास्तटे शुभे ॥ ८-६६॥
ततोऽगच्छत्कपालेशं रामलक्ष्मणसंयुतम् ।
सीतया सहितं रामं गोदावर्यास्तटे पुनः ।
ततो ब्रह्मगिरिं गत्वा त्र्यम्बकं चागमत् पुनः ॥ ८-६७॥
सोमनाथं च सौराष्ट्र सरस्वत्यास्तटे पुनः ॥ ८-६९॥
कामधेनुस्तमामन्त्र्य ययौ द्वारवतीं पुनः ।
ततोऽगच्छत् सरस्वत्यां रुद्रं द्रष्टुं महामते ।
अर्बुदं च ततो गत्वा शारणेश्वरमेव च ॥ ८-६८॥
ततो जगाम केदारं स्मर्तुकामा पिनाकिनम् ।
गङगाकूलद्वयं तीर्त्वा प्रयागमगमत् क्षणात् ॥ ८-७०॥
दृष्ट्वा च माधवं देवं वाराणस्यां ययौ पुनः ।
विश्वनाथं ततो दृष्ट्वा कोटिलिङ्गानि तत्र सा ॥ ८-७१॥
या पुरी भूमिसंस्थाऽपि त्रिशूलस्थेति गद्यते ।
यस्यां तु जन्तवः प्राणांस्त्यक्त्वा मोक्षं व्रजन्ति हि ॥ ८-७२॥
अनन्तान्येव लिङ्गानि ततोऽदर्शत्(पश्यत्) सहस्रशः ।
बाहुल्यान्नैव कथ्यन्ते सङ्क्षिप्य कथितं मया ॥ ८-७३॥
एवं सा कामधेनुश्च चचार पृथिवीमिमाम् ।
सप्तकृत्वो भगवती तमापृच्छय खमुद्ययौ ॥ ८-७४॥
इति सम्यक् कामधेनोश्चरित्रं कीर्तयेत्तु यः ।
शृणुयाद्वा प्रयत्नेन सर्वानिष्टानवाप्नुयात् ॥ ८-७५॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङगमाहात्म्ये कामधेनुवरदानो(नं)नामाष्टमोऽध्यायः । ८॥
अथ नवमोऽध्यायः । इन्द्रवरदानम् ।
9.1 Śiva शिव tells Devatā-s देवताः that they should especially stay in Medapāṭa मेदपाट and in general anywhere in Jambudvīpa जम्बुद्वीप.
9.2 Vāyu वायु mentions that despite being Ekaliṅga एकलिङ्ग, Śiva शिव manifested as Bahuliṅga बहुलिङ्ग due to His Benevolence towards mankind - being established in SataYuga सतयुग by Indra, TretāYuga त्रेतायुग by Nandinī Dhenu नन्दिनी धेनु, in DvāparaYuga द्वापरयुग by Takṣaka तक्षक and in KaliYuga कलियुग by the duo Bāṣpa-Hārīta बाष्प-हारीत.
9.3 Story of Vṛtrāsura वृत्रासुर (that happened during SataYuga सतयुग including the NārāyaṇaStutiḥ नारायणस्तुतिः by Devatās देवताः eulogizing His Daśāvatāra-s दशावताराः is given in this chapter. Indra इन्द्र worships VindhyavāsāDevī विन्ध्यवासा; and as also advised by Bṛhaspati बृहस्पति, worships Ekaliṅga एकलिङ्ग. Ekaliṅga Śiva एकलिङ्ग शिव Blesses Indrasaras इन्द्रसरस् - the lake created by Indra इन्द्र during that process.
सूत उवाच -
तस्यां धेनौ गतायां च गोलोकं शङ्करः प्रभुः ।
देवस्तान् स्थापयामास मूर्तिभिः स्वसमीपतः ॥ ९-१॥
ईश्वर उवाच -
भवद्भिरिह वस्तव्यं मेदपाटे विशेषतः ।
जम्बूद्वीपेऽथ वै देवा यत्र यस्य रुचिर्भवेत् ॥ ९-२॥
ग्रामे ग्रामे तथाऽरण्ये पत्तने खेटपल्लिषु ।
पर्वतेषु च दुर्गेषु मत्समीपे विशेषतः ॥ ९-३॥
इति श्रुत्वा वचस्तस्य प्रणम्याथ त्रिलोचनम् ।
तद्विसृष्टास्तथेत्युक्त्वा तेऽपि देवाः खमुद्ययुः ॥ ९-४॥
वायुरुवाच -
एवं स एकलिङ्गोऽपि बहुलिङ्गोऽभवद्विभुः ।
लोकानां कृपया ब्रह्मन् भक्तानां वरदो हरः ॥ ९-५॥
आराधितः कृतयुगे शक्रेणेह महात्मना ।
नन्दिन्या च तथा धेन्वा त्रेतायां पार्वतीपतिः ॥ ९-६॥
द्वापरे तक्षकेणेह बाष्पहारीतयोः कलौ ।
श्रुत्ववैतच्छौनको वाक्यं सूतमाह सविस्मयः ॥ ९-७॥
विस्तरेणेदमाख्यानमनुपूर्वं वदस्व नः ।
सूत उवाच -
वायुना कथितं ब्रह्मन् नारदाय महात्मने ।
तस्माज्ज्ञातं मया पूर्वं मयोक्तं शृणु शौनक ।
त्वष्टा प्रजापतिश्चासीद्देवश्रेष्ठो महातपाः ॥ ९-९॥
स पुत्रं वै त्रिशिरसमिन्द्रद्रुहमथासृजत् ।
तस्याशयमनु ज्ञात्वा शक्रो बलनिषूदनः ॥ ९-१०॥
वज्रं मुमोच पुत्राय त्वष्टुस्त्रिशिरसे रुषा ।
तेन वज्रप्रहारेण छिन्नमूर्द्धाऽभवत् क्षणात् ॥ ९-११॥
हते तस्मिन् पिता तस्य पुत्रमन्यमजीजनत् ।
इन्द्रशत्रो विवर्द्धस्व सदैव मम तेजसा ॥ ९-१२॥
एवमुक्तोऽत(भ)वत्पुत्रो वृत्रो नामेति विश्रुतः ।
वृद्धिस्तस्य महात्यासीच्छक्रं जेतुं प्रचक्रमे ॥ ९-१३॥
स गत्वा तरसा नाकं शक्रं जित्वाऽमरान्वितम् ।
इन्द्रोऽभूदथ वृत्रोऽसौ कम्पयन्निव मेदिनीम् ॥ ९-१४॥
कृतश्चान्यतमः सूर्यः सोमोऽन्या वह्निरेव च ।
स्वाहाकारवषट्कारै रहितं भूमिमण्डलम् ॥ ९-१५॥
दिशो नैव विकाशन्ते विपरीतं तदा जगत् ।
अथ देवाश्च मुनयो गुह्यकिन्नरयक्षकाः ॥ ९-१६॥
साध्याः सगणगन्धर्वा बृहस्पतिपुरोगमाः ।
जग्मुर्नारायणं देवं प्रणिपत्योपतस्थिरे ॥ ९-१७॥
देवा ऊचुः -
मत्स्यः कूर्मो वामनस्त्वं नृसिंहो
रामो विष्णुः शूकरो भार्गवश्च ।
दत्तात्रेयो बुद्धरूपोऽथ भावी
कल्किरूपः पालयामास विश्वम् ॥ ९-१८॥
भूमेर्भारं त्वदृते कः समर्थो
वोढुं दैत्यान् हन्तुमन्यो न चास्ति ।
मात्स्यं रूपं यो विधायार्णवाम्भ-
स्तूर्णं भित्त्वा सर्वविद्यामयत्वम् ॥ ९-१९॥
नावं कृत्वा तत्र विश्वं निधाय
वेदान् यो वै ब्रह्मणे तान् ददौ हि ।
कूर्मो भूत्वा स्वस्य पृष्ठे निधाय
क्षोणीं न्यस्य तत्र चैनं शिरस्सु ॥ ९-२०॥
विश्वं दध्रे विश्वकर्ता य एकः
कस्ते पारं ज्ञातुमन्यः समर्थः ।
कृत्वा रूपं शूकरं यो महात्मा
मग्नां पृथ्वीं हेलयोच्चैश्चचार ॥ ९-२१॥
सैंही मूर्तिः कशिपु यो हिरण्य-
पूर्वं दद्रे पाणिजैर्वक्षसीह ।
अजो जातो वामनो वामनः सन्
ह्रस्वाद्ध्रस्वं यो विधायाच्छरूपम् ॥ ९-२२॥
धाताऽदित्यां पुत्रतां प्राप्यमानः
पाताले वैरोचनं चच्छलेन ।
रामेण त्रिःसप्तकृत्वो रुषा तु
हन्तुं क्षत्रं हैहयं वै विजित्य ॥ ९-२३॥
ह्रदं कृत्वाऽसृग्भिराशु स्वकीयान्
यो वै पितॄनतर्पयत् रामकूपे ।
दशग्रीवं यो निहत्याजिभूमौ
रामौ भूत्वा लक्ष्मणेनानुयुक्तः ॥ ९-२४॥
बध्वा सेतुं वानरैः सागरेऽपि
पौलस्त्यं यो वै मैथिलीमानिनाय ।
देवक्यां यः पुत्रतामेति भूयः
कंसं जित्वा भूमिभारस्य हर्ता ॥ ९-२५॥
हत्वा चैद्यान्नारकादींश्च सर्वान्
इन्द्रे राज्यं कल्पयामास नाके ।
योगं यो(ऽ)गा(द्)यो बुधस्यैव रूपो
निर्व्यापारो विश्वकृद्विश्वरूपः ॥ ९-२६॥
ध्यानं चक्रे योगमालां गृहीत्वा
योगिध्येयो नास्ति पूज्योऽस्य कश्चित् ।
स्मर्तुं वेदानत्रिपुत्रो भवांश्च
दत्तात्रेयो विश्वयोनेः सकाशात् ॥ ९-२७॥
हृतान् मत्वा मायया विप्रपुत्रान्
भूयोऽदाद्वै ब्राह्मणेभ्यो महात्मा ।
यो वेदानां बहुमार्गं व्यधत्त
पाराशर्यो विश्वमुख्यस्य हेतोः ॥ ९-२८॥
विस्तारत्वं यश्चकाराथ वेदे
संसाराब्धौ पातितं विश्वमीक्ष्य ।
एवं विश्वं यो बिभर्ति स्वरूपै-
रासङ्ख्येयैस्तस्य सङ्ख्यां न विद्मः ॥ ९-२९॥
त्राहि-त्राहि त्रातुमेकः समस्तान्
देवान् वृत्राल्लुप्तसर्वाधिकारान् ।
सूत उवाच -
इति तेभ्यः स्तुतीः श्रुत्वा विष्णुस्तानब्रवीत्ततः ।
सुरा वः सर्वदा कार्यं कार्यं च हितमिच्छताम् ॥ ९-३०॥
गन्तव्यं तत्र युष्माभिर्यत्रासौ वर्ततेऽसुरः ।
सन्धिः कार्योऽथ तेनैव यथा वक्ति तथा तथा ॥ ९-३१॥
साहाय्यं वः करिष्यामि समयः प्रतिपाल्यताम् ।
छलेन हन्यतां देवा त्वष्ट्राऽसौ बलवान् कृतः ॥ ९-३२॥
इति श्रुत्वा ततो देवा वासुदेवस्य तद्वचः ।
प्रणम्य तं तथेत्युक्त्वा तु सन्धिमनन्तरम् ॥ ९-३३॥
गत्वा तस्य समीपं तु मुनिभिः सहिताः सुराः ।
अब्रुवंस्तं मदोन्मत्तं सान्त्वपूर्वमिदं वचः ॥ ९-३४॥
देवा ऊचुः -
त्वया वशीकृतं सर्वं जगत्स्थावरजङ्गमम् ।
निर्जितास्तु तथा देवा निःसत्त्वास्ते त्वदोजसा ॥ ९-३५॥
सख्यं कर्तुमिहेच्छन्ति त्वया साकं बलीयसा ।
अतो भवान् वचोऽस्माकमनुमन्तुमिहार्हसि ॥ ९-३६॥
वृत्र उवाच -
किं तेजसां भवेत्सख्यं तैजसाश्चेह देवताः ।
मया हृतं भवद्राज्यं तेन यूयं समत्सराः ॥ ९-३७॥
मयोक्तेनैव विधिना सख्यं वो यदि रोचते ।
तदा कार्यं मया साकं भवद्भिः कृतनिश्चयैः ॥ ९-३८॥
महास्त्रेण न शस्त्रेण न काष्ठेन न चाश्मना ।
न दिवा न च वा रात्रौ शुष्केनार्द्रेण मुष्टिना ॥ ९-३९॥
अवध्योऽहं च भविता युष्माकं च सदाऽमराः ।
तदा सख्यं भवत्वद्य सहास्माकं सुरैः पुनः ॥ ९-४०॥
सूत उवाच -
एवमस्त्विति ते तस्य वचः स्वीकृत्य पूर्ववत् ।
सख्यं चक्रुस्ततो देवाः सह दिव्यैर्महर्षिभिः ॥ ९-४१॥
तयोर्जाति तदा सख्ये वृत्रवासवयोर्दिवि ।
शशास भुवनं दैत्यो नातिविश्वस्तमानसः ॥ ९-४२॥
अथैकस्मिन्नवसरे तत्र स त्रिदशैः सह ।
सन्ध्यां स्मर्तुं जलनिधौ विवेश परवीरहा ॥ ९-४३॥
वासवोऽवसरं ज्ञात्वा हन्तुकामश्छलेन तम् ।
फेनं दृष्ट्वाद्रिकूटाभं स्मरन् विष्णोर्वरं हृदि ॥ ९-४४॥
नैतच्छस्त्रं न शुष्कं हि नार्द्रमश्म न दारु वा ।
न दिनं न च रात्रिश्च हन्तव्योऽयं मयाऽधुना ॥ ९-४५॥
वासुदेवमनुस्मृत्य फेनमादाय सत्वरम् ।
मुमोचासुरनाथाय चक्रवज्रान्वितं रुषा ॥ ९-४६॥
वैष्णवेन प्रभावेण भिन्नो भूमिं पपात ह ।
निहते दानवास्तत्र शेषाः पातालमाययुः ॥ ९-४७॥
वायुरुवाच -
एवं हत्वा रिपुं ब्रह्मन् वासवो ब्रह्महत्यया ।
पराभूतज्वरोऽभूत् स वृत्रहन्तु(न्ता) निहत्य तम् ॥ ९-४८॥
छद्मना निहतस्तेन वृत्रः स्वामित्वमास्थितः ।
इति सञ्चिन्त्य मनसा बृहस्पतिमुवाच ह ॥ ९-४९॥
इन्द्र उवाच -
वाचस्पते ज्वरो मेऽद्य ब्रह्महत्यासमुद्भवः ।
किं करोमि क्व गच्छामि शाधि त्वं मां बृहस्पते ॥ ९-५०॥
बृहस्पतिरुवाच -
पृथिव्यां भारते क्षेत्र मेदपाटेऽतिविश्रुते ।
कुटिलायास्तटे रम्ये सर्वतीर्थमये शुभे ॥ ९-५१॥
कल्पवृक्षवनान्तस्थे रत्नमण्डपमध्यगे ।
देवदानवगन्धर्वयक्षकिन्नरसेविते ॥ ९-५२॥
तत्रैकलिङ्गदेवोऽस्ति तमाराधय सत्वरम् ।
विन्ध्याद्रिवासिनीं देवीं पूर्वम्माराध्य भक्तितः ॥ ९-५३॥
ततस्तुष्टे जगन्नाथे हत्याया न भयं तव ।
इत्युक्तः स जगामाशु तीर्थं नागह्रदं मुने ॥ ९-५४॥
तत्र गत्वाऽथ तां दृष्ट्वा विन्ध्यवासामथाम्बिकाम् ।
सौवर्णाम्बुजमध्यस्थां त्रिनेत्रां च तडित्प्रभाम् ॥ ९-५५॥
शङ्खचक्रवराभीतीर्दधतीं मुकुटोज्ज्वलाम् ।
सर्वाभरणसंयुक्तां दिव्यवस्त्रपरिष्कृताम् ॥ ९-५६॥
पञ्चाननस्य पार्श्वस्थां हसत्सखीभिरावृताम् ।
प्रणम्यतां च तुष्टाव शक्रः सूनृतया गिरा ॥ ९-५७॥
इन्द्र उवाच -
देवि श्रीस्त्वं शारदा सिद्धिरूपा
बुद्धिस्मृतिर्ज्ञानभूता त्वमेव ।
जाया कीर्तिः सुखदा मोक्षदा च
धात्री पृथ्वी द्यौस्तथा चान्तरिक्षम् ॥ ९-५८॥
प्रज्ञा मेधा पार्वती कालरात्रि-
र्निशानिद्रासौम्यरूपाऽप्यरूपा ।
लज्जा मूर्तिर्दिव्यरूपाभया च
प्रीतिः शान्तिस्तुष्टिदा च क्षुधा च ॥ ९-५९॥
स्वाहा स्वधालंवषड्योगनिद्रा
कान्तिर्मोहा पापनाशा तथासि ।
कला काष्ठाऽनन्तरूपा च तृप्ता
दयारूपा ब्रह्मयुक्ता तृषा च ॥ ९-६०॥
अस्मिन् वै ते(ऽ)दृश्यरूपं तथाऽन्यद्
दृश्यं रूपं विद्यते देवि यच्च ।
सर्वं ते वै रूपमाहुर्मुनीन्द्रा-
स्त्वया हीनं नास्ति नास्त्यद्य किञ्चित् ॥ ९-६१॥
हते शुम्भे माहिषे वै निशुम्भे
त्वया दैत्याः कोटिशो निर्जिताश्च ।
सूत उवाच -
एवं स्तुताथ शक्रेण विन्ध्यवासा महामुने ।
प्रीता तमब्रवीदिन्द्रं वरदास्मीति तं वृणु ॥ ९-६२॥
इन्द्र उवाच -
यदि तुष्टासि मे देवि ब्रह्महत्या न बाधते ।
तथा कार्यं त्वया मातरुपायं तं वदस्व मे ॥ ९-६३॥
देव्युवाच -
एकलिङ्गं मया सार्धमाराधय शतक्रतो ।
तुष्टेऽस्मिन् सकलं विश्वं तुष्टं स्याच्च मया समम् ॥ ९-६४॥
तपः कृत्वा महाशान्तमेकलिङ्गस्य सन्निधौ ।
विधूतपापो भविता (भूत्वा वै) पुनः शक्रत्वमाप्स्यसि ॥ ९-६५॥
सूत उवाच -
तथेत्युक्त्वा तु देवेन्द्रस्तपस्युग्रे व्यवस्थितः ।
एकलिङ्गस्य पुरतः पूर्वस्यां दिशि वृत्रहा ॥ ९-६६॥
कृत्वा पर्णकुटीं रम्यां सरस्तत्र निखन्य च ।
वज्रेण सितधारेण स्वकीयेन महात्मना ॥ ९-६७॥
शिवं ध्यायन् शिवां तद्वत्तत्र संस्मृत्य वासवः ।
तपसा तोषयित्वा तमेकलिङ्ग तदा मुने ॥ ९-६८॥
प्रार्थयामास विप्रेन्द्र लोकानां हितकाम्यया ।
एतत्सरसि यो मर्त्यः स्नानसन्ध्यादिकं तपः ॥ ९-६९॥
करिष्यतीह देवेश तस्याशु वरदो भव ।
इतीन्द्रस्य वचः श्रुत्वा प्रहस्योवाच शङ्करः ॥ ९-७०॥
श्रीमदेकलिङ्ग उवाच -
तव नाम्ना सरश्चेदं ख्यातिमेष्यति वासव ।
अस्मिन् सरसि यः स्नात्वा सर्वतीर्थफलप्रदम् ॥ ९-७१॥
यत्किञ्चित्क्रियते पुण्यं तदक्षयफलं भवेत् ।
सूत उवाच -
इति श्रुत्वाऽथ देवेन्द्रः स्तुत्वा नत्वा प्रहर्षतः ॥ ९-७२॥
स विधूयेह पापानि पुनः स्वर्गं जगाम ह ।
इति ते कथितं ब्रह्मन् सर्वपापप्रणाशनम् ।
यत्पृष्टं च त्वया सर्वमन्यच्छ्रोतुं किमर्हसि ॥ ९-७३॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये इन्द्रवरदानं नाम नवमोऽध्यायः । ९॥
अथ दशमोऽध्यायः । तीर्थयात्राफलम् ।
१०.१ अथ दशमोऽध्यायः - पूर्वार्द्धः ।
10.1.1 Story of the Nandinī Dhenu नन्दिनी धेनु (that happened during TretāYuga त्रेतायुग), is given in this chapter. Nandinī Dhenu नन्दिनी धेनु, who belongs to Rṣi Vasiṣṭha ऋषि वसिष्ठ received Blessings from Ekaliṅga Śiva एकलिङ्ग शिव and Devī देवी and defies the army of Rṣi Viśvāmitra ऋषि विश्वामित्र and is able to return to Her rightful owner.
10.1.2 Further, the Story of Takṣaka Nāga तक्षक नाग (that happened during DvāparaYuga द्वापरयुग), is given in this chapter. Takṣaka Nāga तक्षक नाग, dreading the SarpaSattra सर्पसत्त्र from Pāṇḍava King Janamejaya पाण्डव राजा जनमेजय, did Trikāla Ārādhanā त्रिकाल आराधना of Śiva शिव in a Kuṇḍa कुण्ड that he dug up in Kuṭilā कुटिला. Śiva शिव grants him the boon of ŚivaSānnidhya शिवसान्निध्य, and the Kuṇḍa कुण्ड cam to be known a NāgaHrada Kuṇḍa नागह्रद कुण्ड.
10.1.3 Caṇḍa चण्ड and Nandī नन्दी, who had previously been cursed by The Devī देवी towards a human birth, traversed around in KaliYuga कलियुग on the Pṛthvī पृथ्वी as Hārīta Muniहारीत मुनि and Bāṣpa Rājā बाष्प राजा. They spent their time in worshipping Maheśvara महेश्वर and Devī Vindhyavāsā देवी विन्ध्यवासा. She Granted a Boon to Hārīta Muniहारीत मुनि that his speech will be a mix of Gadya-Padya गद्य-पद्य (i.e. Prose-Poetry) and advised him to thus eulogize Śiva शिव. The Hārītakṛta ŚivaStavaḥ हारीतकृत शिवस्तवः thus has initial 6 Padya पद्य (Stanzas / Verses) and latter part is a long Lalita Gadya ललित गद्य (Lyrical Prose).
वायुरुवाच -
त्रेतायां नन्दिनी धेनुर्वशिष्ठस्य महात्मनः ।
आरराधैकलिङ्गं सा विश्वामित्रकृत्ताद्भयात् ॥ १० पू-१॥
नारद उवाच -
विश्वामित्रात् कथं भीता नन्दिनी सा प्रभञ्जन ।
एतद्विस्तरतो ब्रूहि विचित्राणि हि भाषसे ॥ १० पू-२॥
वायुरुवाच -
पुरा त्रेतायुगे ब्रह्मन् वशिष्ठो भगवानृषिः ।
तपश्चचार सुमहदरुन्धत्या सहैव सः ॥ १० पू-३॥
तस्य सा नन्दिनी धेनुः कामधेनुरिवापरा ।
एकान्ताराधिता धेनुः सर्वकामदुधा किल ॥ १० पू-४॥
कामदोग्ध्रीत्वमस्यास्तु विश्वामित्रो नृपात्मजः ।
श्रुत्वा धेनुसहस्रेण प्रार्थयामास तं मुनिः ॥ १० पू-५॥
नैच्छद्दातुं सहस्रेण गवां स भगवान् मुनिः ।
विश्वामित्रः क्रूरभावादपहर्तुमियेष ताम् ॥ १० पू-६॥
सातस्य क्रूरभावं हि विदित्वाऽथ त्वरान्विता ।
एकलिङ्गमगाच्छीघ्रं विश्वामित्रकृताद्भयात् ॥ १० पू-७॥
हन्तुं शक्या न तेनेयं न देवैरसुरैरपि ।
ततोऽस्य व्यत्ययो मा भूदिति मत्वा जगाम ह ॥ १० पू-८॥
एकलिङ्गं च देवीं सा भक्त्या गन्धादिभिस्तथा ।
आराध्य रक्ष रक्षेति विश्वामित्रकृताद्भयात् ॥ १० पू-९॥
तज्ज्ञात्वा देवदेवोऽपि विहस्य च वरान् ददौ ।
मा भैषीर्नन्दिनी तस्माद्भयं ते न भविष्यति ॥ १० पू-१०॥
मत्प्रभावेण त्वं भूयो ह्यजेया सर्वजन्तुषु ।
इति श्रुत्वा ततो देवी नन्दिनी हर्षसंयुता ॥ १० पू-११॥
एकलिङ्गं प्रणम्याथ सहितं विन्ध्यवासया ।
ताभ्यां सा साधिता धेनुः पुनः प्राप्ता मुनेर्वनम् ॥ १० पू-१२॥
विश्वामित्रस्य तत्सैन्यं जित्वा सा शृङ्गपट्टिशैः ।
वशिष्ठं तोषयामास नन्दिनी मुनिनन्दिनी ॥ १० पू-१३॥
एवमाराधितो देवस्त्रेतायां शङ्करः प्रभुः ।
नन्दिन्या चैकलिङ्गोऽसौ सहितो विन्ध्यवासया ॥ १० पू-१४॥
द्वापरे तक्षकेणेह भयादाराधितस्तथा ।
शृणुष्वावहितो ब्रह्मन् यथावृत्तं पुरा युगे ॥ १० पू-१५॥
सोमवंशोद्भवो राजा पाण्डवो जनमेजयः ।
सर्पसत्रे वर्तमानो तक्षकोऽस्य भयान्वितः ॥ १० पू-१६॥
एकलिङ्गं ययौ भीतः कुटिलायां निखन्य च ।
कुण्डं चकार सुमहत्तत्र स्थित्वा सुसंयतः ॥ १० पू-१७॥
त्रिकालं पूजयन्नित्यं भक्त्या परमया पुनः ।
त्राहि त्राहीति सम्प्रार्थ्य जनमेजयतः प्रभो ॥ १० पू-१८॥
इत्युदीर्य ततो ब्रह्मन् विनयेन प्रणम्य च ।
स्थितः शिवस्य पुरतस्तस्य तुष्टो महेश्वरः ॥ १० पू-१९॥
ददौ वरं भक्तियुक्तं वाक्यं चैनमुवाच ह ।
हे तक्षक वरो मेऽद्य तव भक्तिमतः सतः ॥ १० पू-२०॥
सदा सर्पेषु मे प्रीतिः सान्निध्यं मे भविष्यति ।
भागिनेयो हि भवतो ह्यास्तीको वै भविष्यति ॥ १० पू-२१॥
रक्षिता सर्पसत्राद्वस्तस्मात् क्षेममवाप्स्यथ ।
सूत उवाच -
प्रणम्य शङ्करं सोऽथ समयं प्रतिपालयन् ।
भागिनेयं तमास्तीकं प्राप्याऽसौ रक्षितो मखात् ॥ १० पू-२२॥
अथ सर्पाश्रितं स्थानं सर्वतश्चाभिपूरितम् ।
न दुष्टा मनुजेष्वासन् तस्मिन्नागह्रदे किल ॥ १० पू-२३॥
तेन नागह्रदं नाम जातं तक्षककुण्डतः ।
नागह्रदं द्विजाग्रेभ्यो नृपैर्दत्तं युगे युगे ॥ १० पू-२४॥
तत्रागत्य नरो यस्तु स्नात्वा नागह्रदे शुचिः ।
विप्रान् सम्पूज्य भक्त्या तान् तेभ्यश्चाशिषमानतः ॥ १० पू-२५॥
एकलिङ्गप्रसादो यः सुलभो जायते चिरात् ।
अथान्यदपि ते वच्मि सावधानतया शृणु ॥ १० पू-२६॥
कलौ प्राप्ते यथावृत्तमेकलिङ्गप्रसादजम् ।
पुरा शप्तौ रुषा ब्रह्मन् भवान्या चण्डनन्दिनौ ॥ १० पू-२७॥
भवेतां मनुजौ तत्र मेदपाटे उभावपि ।
हारीतबाष्पनामानौ चेरतुस्तावितस्ततः ॥ १० पू-२८॥
भावित्वात् कर्मणां प्राप्तावेकलिङ्गं महेश्वरम् ।
सिद्धसाधकधर्मज्ञौ गुरुशिष्यस्वरूपिणौ ॥ १० पू-२९॥
तत्र तेपे तपो ब्रह्मन् हारीतो मुनिसत्तमः ।
वाष्पः सु(शु)श्रूषणं चक्रे हारीतस्य शिवस्य च ॥ १० पू-३०॥
चक्रे त्रिषवणं स्नानं सदा संयममाश्रितः ।
क्षमावान् कृपया युक्तः सर्वभूतहिते रतः ॥ १० पू-३१॥
ग्रोष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते भक्त्या चक्रे महत्तपः ॥ १० पू-३१॥
एवमाराधयामास विन्ध्यवासां महेश्वरम् ।
तयोर्भक्त्या कृपाञ्चक्रे विन्ध्यवासा कृपान्विता ॥ १० पू-३३॥
अहो कलियुगे प्राप्ते तपस्तप्तुं न शक्यते ।
एवं मत्वा तु सा देवी प्रादुर्भूत्वा(य) वचोऽब्रवीत् ॥ १० पू-३४॥
देव्युवाच -
गच्छ हारीत वेगेन गद्यैस्तोषय शङ्करम् ।
मत्प्रसादाच्च ते वाणी गद्यपद्या भविष्यति ॥ १० पू-३५॥
सूत उवाच -
तां नमस्कृत्य हारीतः स्तुतिं गद्यैश्चकार ह ।
शौनक उवाच -
तानि गद्यानि सूत त्वं पवित्रं श्रावयाशु माम् ।
यैर्गद्यैस्तोषयित्वेशं हारीतो हरतां गतः ॥ १० पू-३६॥
सूत उवाच -
तद्गद्यं त्वां प्रवक्ष्यामि सद्यः पापहरं परम् ।
यत्स्तोत्रपठनादेव देवदेवोपमो भवेत् ॥ १० पू-३७॥
हारीत ऋषिरुवाच -
इन्द्रः सर्वसुरेश्वरः कृतयुगे भक्त्या यमाराधयत्
त्रेतायां सकलाभिलाषफलिनी धेनुस्तथा द्वापरे ।
नागेशः किल तक्षकः कलियुगे हारीतनामा मुनिः
सोऽयं सर्वजगद्गुरुर्विजयते श्रीदैकलिङ्गः प्रभुः ॥ १० पू-३८॥
कुटिलासरित्समीपे त्रिकूटगिरिगहनभूषणी नित्यम् ।
अभिमतफलप्रदात्री देवी श्रीविन्ध्यवासिनी जयति ॥ १० पू-३९॥
घनवंशकदम्बकमध्यगतं रसकूपमवैहि दुरापतरम् ।
परिगृह्य रसं सरसं वपुषः स्थिरतां कुरु तापसवीर ततः ॥ १० पू-४०॥
जयति जगत्त्रयनाथो जयति परिपूजितः सदा शम्भुः ।
वाञ्छितफलप्रदोऽयं श्रीमानित्येकलिङ्गाख्यः ॥ १० पू-४१॥
जयत्येकशराघातविदारितपुरत्रयः ।
धनुर्धराणां धौरेयः पिनाकी भुवनत्रये ॥ १० पू-४२॥
न स्वर्धुनी न फणिनो न कपालदाम
नेन्दोः कला न गिरिजा न जटा न भस्म ।
यत्रास्ति नान्यदपि किञ्च विचित्रहेतो
रूपं पुराणमुनिसेवितमीश्वरस्य ॥ १० पू-४३॥
ॐ नमः शिवाय -
जयत्यखिललोकशङ्करः शिवः सर्वसर्वपसर्वदप्रणतजनपशुपाशपटल-
पाटनलम्पटप्रसादशीलतालङ्कृतशरीरः, दक्षदक्षमखमथनधातृमुखकुहनिर्झर-
दखिलवेदविद्यासुरसरिज्जात्कारमुखरितत्रिदशकुलशैलराजः, मालतीमल-
यमन्दारकुटजकुन्दकदम्बोन्मत्तकेतकीकल्हारकर्पूरपारिजातकमधुरमधुकर-
कनकचम्पकमल्लिकाबिल्वपत्रपाटलीशतपत्रिकार्ककिंशुकबकुलकमलकर्णि-
कारत्रिसन्ध्यागस्त्यबर्बरिकाकङ्कोलकाञ्चनारकरवीरागरु-श्रीखण्डयक्षकर्द्द-
मलिप्ताङ्गशरीरः, सततसंयुक्तकिन्नरकामिनीभृङ्ग(वृन्द)गीतनृत्यवंशवाद्य-
वीणावेदध्वनिभरितभुवनकैलाशशिखरशिखराग्रशैलराजः, पञ्चार्थतीर्थर-
तरतिभुवनरतितृप्तयोग-योगदयोगिनिर्वाणदः, पार्वतीनखव्रणचिह्नित-
शरीरनिर्मलनिष्कलनिष्कलङ्कः, विषविषमविषयमृत्युमकरकुलाकुलान्दोलि-
तकलिजलजरास्फीतफेनजन्मोर्मिमालासंसारसागरसमुत्तरणैकपोतः, सद-
सदुत्पत्तिपालनविलयकारणधराद्यष्टतनुपरिपालितजगत्त्रितयसकलसुरासुर-
कराकर्षणजनितजवमन्दरपरिवर्तितघोराघातनिर्मथितदुग्धोदधिजातकाल-
कूटचटुलानलकवलेनकृष्णकण्ठः श्रीकण्ठः, ब्रह्मचक्रलब्धलिङ्गावसानपरि-
पूर्णः, परितृप्तदशवदनप्रचण्डदोर्दण्डमण्डपोत्कलितकैलाशशृङ्गचलन-
भयचकितरणरणितरमणीयमणिखचितकनकनूपुरमधुररवमुखरित
चरणकमलःगौरीकुचकलशकुङ्कुमपङ्कलाञ्छितशरीरः, विपुलपीनाङ्गः
शशिशेखरः शिवः शान्तः शाश्वतः, हरिकरखरनखरसमूहतीव्रकिरणपट-
लाट्टाट्टहासभासुरकरतलचपेटापाटितविकटकरिकुम्भस्थलोच्छलितविमल-
मुक्ताफलखचितहरिनारीचर्मविचित्रनितम्बबिम्बः, प्रणतशचीपतिकर्णपूर-
पल्लवोल्लिखितपादपीठः, कण्ठोल्लुठितकपालमालाभरणभूषितशरीरः,
जन्मजरामरणभयवर्जितः, त्र्यम्बको बकुलकुसुमसुरभितमणिशिलातलस-
मुल्लसितविमलजलविलुलितकलहंसमधुरध्वननिर्मलयोनिमधुमथनमधुर-
सामध्वनिसंस्तूयमानः, सहजानन्दोऽतिबलोऽणिमादिसिद्धिगुणनिधानः,
प्रणतजनवत्सलप्रलयजलदतडिदंशुदुर्धरधगधगितनिर्गतकिरणश्रेणिपिशङ्गि-
तवरललाटलोचनोच्छलच्चटुलशिखानिर्द्दग्धमकरध्वजशरीरः, हरो निखि-
लदुःखहरस्त्रिदशशेखरः, क्षरज्जलक(च)चक्रवालकवलितसकलदिग्वल-
यशूलनिर्भिन्नदुर्द्धरान्धकमहासुरः प्रमथनाथः, सप्तलोकेश्वरप्रवरपिनाकमु-
क्तैकशरनिर्गतविषयविशिखशिखासितप्रतापताप्यमानदनुजेन्द्रकर्णपूरभुज-
युगलभस्मीकृतत्रिपुरत्रितयः, रुद्रो रौद्रो रौद्रभूताट्टसङ्ग्रामलम्पटनिशितनि-
र्स्त्रिशशूलपरशुपाशाङ्कुशाशनिशक्तितूणतोमरभल्लिकर्णनालिकनाराचशर-
शार्ङ्गचक्रगदावज्रमुद्गरदण्डभिन्दिपालहलमुसलशम्बलखड्ग(च)छुरिका-
कर्तरीकुणपकुन्तफलकफलिकाभुशुण्डीशङ्कुस्फोटपरिधपट्टिशप्रभृतिवरायु-
धधरः, प्रहतपटुपटहटतटितबधिरितगगनगमनदुर्ललितसकलसुरासुरमौलि-
लीनचरणकमललीलालसाङ्गुलीतलनिर्द्दलितदशवदनमुखासुरसेवितविकट-
किरीटकोटीरभारः, वलिताङ्गभुजङ्गाभरणो भवो भव्यो भाव्यो भूतेशो
विभवप्रदो भवार्तिहरो विशुद्धवदनो भुजङ्गमणिविस्फूर्जितहृदयः,
कालकालमहाकालानलकर्णपूरशिरोमणिः, कपालमालाखण्डमण्डितजटाजू-
टहरिबलवदनकालकूटलेखोद्घटनाङ्कितकण्ठैकदेशः, श्मशानभस्मोद्धूलितस-
कलविग्रहो हारीकृतमहाभुजङ्गः, कपिलकृतसकलविग्रहो विग्रहार्द्धनारी-
धरो भैरवमहाभैरवभैरववैतालमातृपरिवृतः, शुभदशनमुखमयूखखचित-
हसितदीप्तिविदलितबहुलान्धकारः पितृवनसमारब्धताण्डव प्रसारितभुज-
सहस्रदुर्निरीक्षिताकाण्डब्रह्माण्डमण्डपो वरो वरपरशुधरः, परापरः पवित्रः
पवमानःपवनकम्पितकनकचम्पकलतापतितकुसुमधूलिधवलितत्रिशूलःपृथु-
कैलाशगिरिकन्दरनिवासः, शरणदध्यानदज्ञानदमोक्षदः, शुद्धस्फटिकमणि-
सङ्घशुभ्रदेहः, हिमधामधवलितसकलभुवनान्तरालः, शशिकोटिविघटन-
विकटकिरीटकोटीरभारः, सजलजलदजलशुद्धज्ञानैकतत्त्वकठिनपापानङ्गा-
ङ्कुट्टनाकुण्ठितकुठारः, सुरकरिकपोलामलविगलितबहुलसमुज्ज्वलगन्ध-
लुब्धमधुपपददलितकनकपङ्कजरजःपुञ्जपिञ्जरितगगनगमनमन्दाकिनीप्र-
वाहप्रोक्षिततृतीयनयनः, पाञ्चजन्यकुटिलार्द्धलोचनवरवरवृषभस्कन्धरतः,
गजासुरकृत्तिवसनो बाणासुररिपुदर्पनाशनः, तत्त्वदृष्टिमार्गानुरतः,
क्षुभितलक्ष्मीकरकमलान्दोलितोद्दामहेममणिमयदण्डमण्डितचारुचामर-
मरुद्वीजितचरणशतपत्रः, सत्यासत्यवृत्तः, त्रिभुवनैकनाथप्रभुः ।
श्रीमदेकलिङ्गदेव भक्तजनोपजीव्यमानमोक्षाद्यनन्तकल्पपादप, अभि-
ललितनीलोन्मीलितसान्द्रमन्दारकुड्मलोद्दामहेममकरन्दपानमदिरामत्तष-
ट्पदकुलसन्दोहसुन्दरसुन्दरीझङ्कारभूषिताङ्घ्रितामरसयुगलाव्ययाक्षयब्रह्म-
प्राजापत्यद ! विष्णुचक्रद ! इन्द्रराज्यद ! वज्रिवज्रद ! नन्दिगणाधिपत्यद !
उपमन्युक्षीरोदधिदुग्धद ! नरकोदधिमुह्यमानासिपत्रवनसमुत्तरणैकप्रसाद-
पोत ! यमनीतिकालकूट ! जननीजनजीवितैश्वर्यन्दः(द) शङ्कुकर्णन्धनदकम-
लजशक्रचक्रधरप्रमुखसुरासुरसेवितमन्दिरद्वारः(र) त्रिविष्टपप्रकटाटन-
विजयकरणकृष्णरुक्मिणीयुक्तरथगमनतुहिनपर्वतनितम्बबिम्बचुम्बितसुर-
सरिदम्बुप्रवाहधाराधौतधवलोपलतमोपविष्टमुनिजनविशुद्धध्यानसन्तानपू-
जितदत्तभैरवहस्तावलम्बनः(न) भैरवरूप सन्त्रासितासुरगणः(ण)
अवज्ञालसवामकराङ्गुष्ठनखनिकृन्तितपितामहपञ्चमशिरःकमलः(ल)
शरभवच्चञ्चुनखमुखाहतरुषितनरसिंहविग्रहः(ह) विग्रहार्द्धनारीधरः(र)
पूष्णोः दशनपातनः(न) पातितकृष्णकेशस्तम्भितवज्रिवज्रः(ज्र)
बाहुलेयसनत्कुमारयोगापहारकारकः(क) तीव्रतरणिकिरणनिवहविकसि-
तकमलदलविपुलनयनः(न) शशिकरनिकरवर्षशतशङ्कुकर्णः(णं)
हारीतऋषिशोकानलहरो(र) हर नमस्ते हर नमस्ते हर नमस्ते ।
(इति पूर्वार्द्धः । अथोत्तरार्द्धः)
१०.२ अथ दशमोऽध्यायः - उत्तरार्द्धः ।
10.2.1 Pleased with the eulogy by Hārīta Muniहारीत मुनि, Ekaliṅga Śiva एकलिङ्ग शिव grants respectively sought boons to Hārīta Muniहारीत मुनि and Bāṣpa Rājā बाष्प राजा. Hārīta Muniहारीत मुनि accompanies Śiva शिव to His Abode; while, Bāṣpa Rājā बाष्प राजा stays in Medapāṭa मेदपाट - Citrakūṭa चित्रकूट, protected by Rāṣṭrasenā राष्ट्रसेना.
10.2.2 In present times, Medapāṭa मेदपाट and Citrakūṭa चित्रकूट are known as Mevār̤a (Mevar) मेवाड़ and Cittaur̤agar̤ha (Chittorgarh) चित्तौड़गढ़ respectively.
कीर्तनेनैकलिङ्गस्य पापं याति सहस्रधा ।
प्रचण्डपवनेनै(ने) व सघनं घनमण्डलम् ॥ १० उ-१॥
इति सुललितमिष्टं यस्तु हारीतगद्यं
परिपठति मनोज्ञं भावयुक्तः प्रशान्तः ।
भवति स इह लोके वल्लभः सुन्दरीणा-
मुपरमति च लोके चेश्वरत्वं प्रयाति ॥ १० उ-२॥
सूत उवाच -
हारीतेन स्तुतश्चैवं तुष्टः प्रादुरभूच्छिवः ।
उवाच वचनं प्रीत्या स्तुत्या भक्त्या च तोषितः ॥ १० उ-३॥
वरं वरय हारीत यत्ते हृद्यं हृदि स्थितम् ।
वायुरुवाच -
तयोरेको दिवं गन्तुं स्वशरीरेण शङ्करम् ।
विमानेनार्कवर्णेन प्रार्थयामास सत्वरम् ॥ १० उ-४॥
अपरो बाष्पनामापि राज्यमैच्छदविच्युतम् ।
मेदपाटे च विपुले चित्रकूटे स्थिति पुनः ॥ १० उ-५॥
श्रीमदेकलिङ्ग उवाच -
गच्छ हारीत शीघ्रं त्वं विमानेनार्कवर्चसा ।
कैलाशं चण्डरूपेण मोदस्व मम सन्निधौ ॥ १० उ-६॥
बाष्प त्वमपि भूपृष्ठे चित्रकूटाधिपो भव ।
वदान्यो धार्मिकः श्रीमान् प्रजानां परिपालकः ॥ १० उ-७॥
सर्वैर्नृपगणैर्युक्तः सत्यवादी सदा शुचिः ।
अविच्छिन्नाऽस्तु ते कीर्तिः सन्ततिश्च भविष्यति ॥ १० उ-८॥
राज्यं वै मेदपाटस्य मत्प्रसादान्न संशयः ।
सान्निध्यान्मम देशोऽयं हृष्टपुष्टजनः सदा ॥ १० उ-९॥
गोभिरश्वादिभिः पूर्णो रोगहीनो भविष्यति ।
दुर्भिक्षस्य भयं नास्ति यवनानां न वै भयम् ॥ १० उ-१०॥
सदाफलः सदापुष्पः सदासस्यः सदाजलः ।
कृपालुजनसम्पन्नः परिपूर्णमनोरथः ॥ १० उ-११॥
राष्ट्रसेनेति नाम्नी च देवी रक्षां विधास्यति ।
सूत उवाच -
एवं दत्त्वा तयोः शम्भुर्वनमन्तर्दधे पुनः ।
हारीतोऽप्यगमत्स्वर्गं वाष्पो राजा बभूव ह ॥ १० उ-१२॥
क्षात्रेण कर्मणा पृथ्वीं शशास स द्विजोत्तमः ।
नित्यं शिवे रतिस्तस्य राज्ञोऽमात्यपुरोहितैः ॥ १० उ-१३॥
शिव एव गतिर्यस्य न तस्य विद्यते भयम् ।
अस्मिन् देशे विशेषेण शिवभक्तिपरा नराः ॥ १० उ-१४॥
भविष्यन्ति द्विजश्रेष्ठ शिवाज्ञापरिपालकाः ।
इति ते कथितं सर्वमाख्यानं परमाद्भुतम् ॥ १० उ-१५॥
य इदं कीर्तयेद्भक्त्या शिवलोकं स गच्छति ।
शृणुयाद्वा प्रयत्नेन भक्त्या परमया पुनः ॥ १० उ-१६॥
सर्वा(र्वं)बाधाविनिर्मुक्तो धनधान्यसमन्वितः ।
पुत्रपौत्रादिकैर्युक्तः सदा भक्त्या शिवो भवेत् ॥ १० उ-१७॥
सर्पतो न भयं तस्य दस्युतो वा न राजतः ।
न शस्त्रानलतोयौघात् कदाचिन्न भविष्यति ॥ १० उ-१८॥
ग्रहपीडा न वा तस्य दुष्टाणां न भयं तथा ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयम् ॥ १० उ-१९॥
सर्वतीर्थफलं तस्य सर्वक्रतुफलं तथा ।
सर्वव्रतफलं तस्य इष्टापूर्तफलं लभेत् ॥ १० उ-२०॥
मोक्षमार्गमवाप्नोति देहान्ते नात्र संशयः ।
तत्र स्नात्वा तु यः श्राद्धं पितॄणां तर्पणादिकम् ॥ १० उ-२१॥
कृत्वाप्नोति सदा मर्त्यो वाञ्छितं शिवशासनात् ।
एकलिङ्गं समभ्यर्च्य विन्ध्यवासासमन्वितम् ॥ १० उ-२२॥
सर्वमेतत्फलं प्राप्य यन्मयोक्तं महामुने ।
प्राप्नोति परमं स्थानं यद्गत्वा न निवर्त्तते ॥ १० उ-२३॥
एकलिङ्गस्य चरितं तापत्रयहरं मुने ।
कीर्तनादपि तत्सर्वं भवेन्नात्र विचारणा ॥ १० उ-२४॥
इह तीर्थे नरो यात्रां कुर्यात् पर्वणि पर्वणि ।
ब्रह्महत्यादिपापानामुपपातककर्मणाम् ॥ १० उ-२५॥
क्षयं करोति भूतेश एकलिङ्गः कलौ युगे ।
न तीर्थैर्न तपोदानैर्न यज्ञैर्बहुविस्तरैः ॥ १० उ-२६॥
यत्फलं प्राप्यते ब्रह्मन्नेकलिङ्गावलोकनात् ।
केदारं विश्वनाथं च माधवं चार्बुदं तथा ॥ १० उ-२७॥
हरिद्वारं प्रयागं च पूर्वसागरमेव च ।
त्र्यम्बकं च तथोङ्कारं महाकालवनं तथा ॥ १० उ-२८॥
द्वारवत्यां हृषीकेशं सेतुबन्धं च नैमिषम् ।
गङ्गाद्याः सरितः सर्वाः सप्त ये(याः) (शुचयः) स्मृताः ॥ १० उ-२९॥
पुष्कराद्यानि तीर्थानि दृष्ट्वा स्नात्वा फलं च यत् ।
तत्फलं समवाप्नोति चैकलिङ्गे युगे युगे ॥
इष्टापूर्तैर्व्रतैरन्यैर्न तत्फलमवाप्नुयात् ॥ १० उ-३०॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये तीर्थयात्राफलं नाम दशमोऽध्यायः । १०॥
अथैकादशोऽध्यायः । राष्ट्रश्येनाप्रादुर्भावः ।
11. Upon being requested by Nārada नारद, Vāyu वायु yet again describes the TīrthaKṣetra तीर्थक्षेत्र in proximity to Ekaliṅga एकलिङ्ग. The origin of Rāṣṭrasenā राष्ट्रसेना, whose task is protection of Medapāṭa मेदपाट, has been attributed to Vindhyavāsā विन्ध्यवासा.
नारद उवाच -
एकलिङ्गस्य माहात्म्यं त्वयोक्तं च श्रुतं मया ।
समीपे यानि लिङ्गानि यानि तीर्थानि शंस मे ॥ ११-१॥
राष्ट्रसेनेति या देवी तन्ममाचक्ष्व सर्वग ।
वायुरुवाच -
एकलिङ्गे गते तत्र कैलाशः पर्वतोत्तमः ।
स त्रिकूटोऽभवच्छृङ्गी सर्ववृक्षसमन्वितः ॥ ११-२॥
मानसं तत्सरो जातं जाह्नवी कुटिलाऽभवत् ।
अथैकलिङ्गस्थाग्नेय्यां दिशि कुण्डं महत्तरम् ॥ ११-३॥
भवान्या कामधेनूत्थं पञ्चगव्यं निवेशितम् ।
स्वकरेणैव कुण्डेऽस्मिन् तत्करज इति कथ्यते ॥ ११-४॥
लोकानां पावनार्थाय सर्वतीर्थमयं पुनः ।
तस्मिन् कुण्डस्थतोयेन उद्वृत्तेन समाहितः ॥ ११-५॥
स्नात्वा तत्रैकलिङ्गस्य प्रीतये शुभमाचरेत् ।
सर्वान् कामानवाप्यान्ते शिवलोकमवाप्नुयात् ॥ ११-६॥
दर्शने करकुण्डस्य यत्फलं समवाप्नुयात् ।
तत्फलं समवाप्नोति स्मरणादेव नित्यशः ॥ ११-७॥
शिवपार्श्वेन्द्रसरसि यज्जलं दृश्यते मुने ।
अग्नीषोमस्वरूपं तज्जानीहि सर्वकामदम् ॥ ११-८॥
तत्राभिषेकं यः कुर्यात् सर्वतीर्थफलं लभेत् ।
तस्मिन् सरसि यः स्नात्वा करोति पितृतर्पणम् ॥ ११-९॥
श्राद्धं कृत्वा नमस्कृत्य विन्ध्यवासां ततो हरम् ।
सर्वान् कामानवाप्नोति रुद्रलोकं स गच्छति ॥ ११-१०॥
एकलिङ्गादुदीच्यां वै जातं तीर्थद्वयं परम् ।
केदारकुण्डे यः स्नात्वा स्नात्वा कुण्डेऽमृताख्यके ॥ ११-११॥
केदारेश्वरमभ्यर्च्य अमृतेशं तथा मुने ।
सर्वान् कामानवाप्यान्ते ह्यमरत्वमवाप्नुयात् ॥ ११-१२॥
सूत उवाच -
अथ सा विन्ध्यवासा तु पूर्वस्यां दिशि नारद ।
पर्वताग्रे ह्यथारामे सर्वत्तुर्कुसुमोद्भवे ॥ ११-१३॥
प्राकारान्तर्गते हर्म्ये स्वर्णसिंहासने शुभे ।
स्थित्वा तत्र मतिं चक्रे राष्ट्ररक्षणहेतवे ॥ ११-१४॥
स्वदेहाद्राष्ट्रसेनां तां सृष्ट्वा स्थाप्याथ तत्र सा ।
तस्याः स्वरूपे दृष्ट्वा वै हृष्टा वाक्यमुवाच ह ॥ ११-१५॥
श्येनारूपं सम्यगास्थाय देवि
राष्ट्रं त्राहि त्राह्यतो वज्रहस्ता ।
दुष्टान् दैत्यान् राक्षसान् वै पिशाचान्
भूतान् प्रेतान् योगिनीजृम्भकेभ्यः ॥ ११-१६॥
दुष्टग्रहेभ्योऽन्यतमेभ्य एवं
श्येने त्राणं मेदपाटस्य कार्यम् ।
येऽस्मिन् देशे प्रातियोत्स्यन्ति केचित्
ते हन्तव्या मायया दुष्टरूपाः ॥ ११-१७॥
जयः कार्यः स्वदेशीये भूपाले च तथा जने ।
अस्य लोकस्य भूपस्य नित्यं पूजा भविष्यति ॥ ११-१८॥
अष्टम्यां च चतुर्दश्यां सङ्क्रान्त्यादिषु पर्वसु ।
पूजयेत्तां राष्ट्रसेनां तद्रूपां च स्त्रियं तथा ॥ ११-१९॥
ब्राह्मणानपि सम्पूज्य देवी प्रीत्यै विशेषतः ।
तेन तुष्टा राष्ट्रसेना पूजकानां वरप्रदा ॥ ११-२०॥
तस्मात् सम्पूजयेद्भक्त्या राष्ट्रसेनां विधानतः ।
चैत्रमास्यसिते पक्षे भक्त्या नित्यं प्रपूजयेत् ॥ ११-२१॥
राष्ट्रसेनेति नाम्नीयं मेदपाटस्य रक्षणम् ।
करोति न च भङ्गोऽस्य यवनेभ्योऽपराग(द)पि ॥ ११-२२॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये राष्ट्रश्येनाप्रादुर्भावो नामैकादशोऽध्यायः । ११॥
अथ द्वादशोऽध्यायः । कलिस्वरूपवर्णनम् ।
12.1 Upon being requested by Śaunaka शौनक, Sūta सूत redescribes the Devata-s देवताः and Svayambhū Liṅga-s स्वयम्भू लिङ्गाः that are in proximity of Ekaliṅga एकलिङ्ग.
12.2 Nārada नारद attempts to understand from Vāyu वायु about how the Pṛthvī पृथ्वी is sustained in KaliYuga कलियुग.
शौनक उवाच -
एकलिङ्गस्य माहात्म्यं त्वयोक्तं विदितं मया ।
यानि लिङ्गानि देशेऽस्मिन् यत्र यत्र स्थितान्युत ॥ १२-१॥
कथयस्व समासेन मूर्तयश्चात्र याः स्थिताः ।
स्वयम्भूतानि लिङ्गानि धेनुसंस्मरणादपि ॥ १२-२॥
जातानि कथमन्यानि मूर्तयश्चाभवन् कथम् ।
के देवाः परितस्तस्थुरेकलिङ्गं वदस्व नः ॥ १२-३॥
सूत उवाच -
वायुना कथितं ब्रह्मन्नारदाय सुविस्तरम् ।
त्वया पृष्टं च तत्सर्वं कथयिष्याम्यशेषतः ॥ १२-४॥
सर्वविश्वमयो देव एकलिङ्ग इति स्मृतः ।
तस्मिँल्लिङ्गे स्थितो ब्रह्मा वासुदेवो जगद्विभुः ॥ १२-५॥
शक्रो वैश्रवणः सूर्यो वायुर्वरुण एव च ।
वह्निग्रहास्तथा तारा यमो देवा महर्षयः ॥ १२-६॥
यक्षाः सिद्धाः सगन्धर्वाः साध्याः किन्नरपन्नगाः ।
सर्वे देवगणास्तत्र स्थिताश्च परमात्मनि ॥ १२-७॥
द्यौर्भूमिरन्तरिक्षं च तथा पातालमेव च ।
गङ्गाद्याः सरितः सर्वास्तथा सप्तैव सागराः ॥ १२-८॥
महीधरास्तथा सर्वे जगत् स्थावरजङ्गमम् ।
दर्पणे च यथा तोये प्रतिबिम्बं प्रदृश्यते ॥
तद्वदस्मिन् जगत् सर्वं दृश्यते परमात्मनि ॥ १२-९॥
सर्वदेवमयः शम्भुरेकलिङ्ग इति स्मृतः ।
तत्समीपे गणाध्यक्षः सिद्धिबुद्धिप्रदः प्रभुः ॥ १२-१०॥
निवसन्ति सुराः पूज्या यक्षकिन्नरपन्नगाः ।
सर्वकार्यसमारम्भे मन्यन्ते ये सदा बुधैः ॥ १२-११॥
प्रथमं प्रार्थयन् सिद्धिमाराध्यः सर्वकर्मसु ।
सेनाधिपत्यं देवानां चक्रे योऽमितविक्रमः ॥ १२-१२॥
विजघ्ने तारकं दैत्यं जन्मतः प्रथमेऽहनि ।
हेलया क्रौञ्चमभिद(न)त् शक्त्या यो जाह्नवीसुतः ॥ १२-१३॥
षण्मुखस्य विशेषेण पूजनाद भयनाशनम् ।
करिष्यति न सन्देहो भक्त्या तुष्टश्च षण्मुखः ॥ १२-१४॥
मयूरवाहनो नित्यमेकलिङ्गस्य सन्निधौ ।
आस्ते ह्यत्रैव सर्वेषां दुःखनाशनहेतवे ॥ १२-१५॥
असुरानजयत् सङ्ख्ये देवानां हितकाम्यया ।
तत्र ते प्रमथाः सर्वे नन्दिप्रभृतयस्तथा ॥ १२-१६॥
वानरास्यास्त्वहिमुखा महिषोष्ट्रमुखास्तथा ।
खरोलूकमृगास्याश्च मकराश्वमुखास्तथा ॥ १२-१७॥
नानास्याश्च तथा त्र्यक्षा द्विशीर्षा भयवर्द्धनाः ।
त्रिमुखाश्च चतुर्वक्त्राः पञ्चवक्त्राः षडाननाः ॥ १२-१८॥
लम्बोष्ठा दन्तुराः कुब्जा दीर्घजङ्घाः कृशोदराः ।
लम्बग्रीवाश्चलज्जिह्वा ह्रस्वहस्ता दिगम्बराः ॥ १२-१९॥
गजचर्मंपरीधाना एणसिंहाजिनाम्बराः ।
यादृशं यस्य वदनं तादृशं तस्य वाहनम् ॥ १२-२०॥
एवं ते प्रमथा ब्रह्मन्नानारूपाः समन्ततः ।
वसन्ति चैकलिङ्गस्य सामीप्येऽथ सहस्रशः ॥ १२-२१॥
तथा भवानी बहुभी रूपैस्तस्य समीपतः ।
उवाच जगतां धात्री बहुनामा(म्न्य)भवद्भुवि ॥ १२-२२॥
चामुण्डा विन्ध्यवासेति कालिकाथाम्बिकेति च ।
ग्रामनाम्नी क्वचिद्देवी तीर्थपर्वतगोत्रजा ॥ १२-२३॥
विघ्नेभ्यः पाति लोकाँस्त्रीन् यथा माता सुतानि च ।
उवाच तत्र मार्तण्डो द्वादशात्मा त्रयीतनुः ॥ १२-२४॥
शुभाशुभानां यो देवः सदा साक्षी च कर्मणाम् ।
प्रत्यक्षो दृश्यते व्योम्नि सर्वदेवमयो विभुः ॥ १२-२५॥
प्रातः पैतामहं रूपं धत्ते योऽसौ चतुर्मुखः ।
मध्याह्ने शाम्भवं रूपं जटाभस्मास्थिभूषितम् ॥ १२-२६॥
आस्ते नारायणं रूपं शङ्खचक्रगदाधरम् ।
प्रत्यूषे ऋङ्मयो देवो मध्याह्ने स यजुर्मयः ॥ १२-२७॥
अपराह्णे सामरूपस्त्रयीरूपो निगद्यते ।
चतुर्दश तथा विद्या भुवनानि चतुर्दश ॥ १२-२८॥
तत्सर्वं विद्यते तस्मिन्नातोऽन्या देवताः क्वचित् ।
आहुत्या(ऽऽ)प्यायते सूर्यस्तस्माद्वृष्टिः प्रजायते ॥ १२-२९॥
वृष्ट्या सस्यादिसम्पत्तिः सस्यप्राणा हि जन्तवः ।
कल्पान्ते युगपद्विश्वं तप्त्वा द्वादशमूर्तिभिः ॥ १२-३०॥
समुद्रानपि संशोष्य प्रदहत्यखिलं जगत् ।
उदयास्तं व्रजन् विश्वं पाति घातं निवारयन् ॥ १२-३१॥
स्वाहा स्वधादिकं कर्म प्रवर्तयति स प्रभुः ।
वह्निरूपेण यो विश्वं पुष्णात्याहारभक्षणात् ॥ १२-३२॥
स्वाहाकारवषट्कारैस्तर्पयन् देवतान् पितॄन् ।
स मार्तण्डश्च भगवान् जगत्तिमिरनाशनः ॥ १२-३३॥
उवास परितस्तस्य देवो द्वादशमूर्तिभिः ।
अचलायां च सप्तम्यां माघमासे समाहितः ॥ १२-३४॥
कुटिलायामथ स्नात्वा सूर्यं सम्पूज्य भक्तितः ।
अर्ध्यादिना विशेषेण प्राप्नोति परमां गतिम् ॥ १२-३५॥
गण्डक्यां यः शिलास्थानं धत्ते नारायणो विभुः ।
योगिध्येयः स भगवान् शालग्रामाख्यतां गतः ॥ १२-३६॥
अवतारो न मे ग्राह्यः कलाविति शिलामयः ।
पाति विश्वमरूपोऽपि कृपया भक्तवत्सलः ॥ १२-३७॥
शालग्रामं तु यो भक्त्या कलावभ्यर्चयेन्नरः ।
राजसूयसहस्रेण तेनेष्टं प्रतिवासरम् ॥ १२-३८॥
शिलात्रयं तु यो ब्रह्मन्नर्चयेद्भक्तितत्परः ।
मन्येऽहं तेन कृतिना पूजितं भुवनत्रयम् ॥ १२-३९॥
शिला द्वादश यः कश्चिदर्चयेत् वा कलौ युगे ।
तस्य पुण्यस्य संरव्यां नो चित्रगुप्तोऽपि वेत्त्यलम् ॥ १२-४०॥
एवं द्वारवतीचक्रं सहितं त्वर्च्चयेद्भुवि ।
महापापोपपापैश्च वृतो याति न रौरवम् ॥ १२-४१॥
शिवनाभं समभ्यर्च्य भक्त्या परमया पुनः ।
हरिहरात्मकः सौ(कोऽसौ) वै भवेदेव न संशयः ॥ १२-४२॥
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बौद्धः कल्की त्वते(त्विमे) दश ॥ १२-४३॥
भूमेर्भारावताराय वासुदेवो जगत्प्रभुः ।
अवतारैर्दृषद्रूपैरवतीर्णो महीतले ॥ १२-४४॥
नारायणोऽथ भगवान् दामोदर इति क्वचित् ।
त्रिविक्रमो विश्वरूपो गोविन्दोऽथ इति क्वचित् ॥ १२-४५॥
गदाधरो माधवश्च चक्रपाणिरिति क्वचित् ।
एवं रूपैर्बहुविधैर्धत्ते यः पृथिवीमिमाम् ॥ १२-४६॥
जलशायी क्वचित्तत्त्वात् क्वचिल्लक्ष्म्या युतः प्रभुः ।
तार्क्ष्यारूढः क्वचिद्देवः शेषे सुप्तः क्वचित्प्रभुः ॥ १२-४७॥
नृत्यन् वेणुजनादेन गोपीभिः परिवेष्टितः ।
एवंविधैर्बहुविधैर्धत्ते यः पृथिवीमिमाम् ॥ १२-४८॥
सोऽवसत्तत्समीपेऽथ एकलिङ्गस्य केशवः ।
इन्द्रोऽग्निर्धर्मराजश्च वरुणो वायुरेव च ॥ १२-४९॥
कुबेराद्याः सुराः सर्वे न्यवसंस्तत्समीपतः ।
सिद्धचारणगन्धर्वाः पिशाचोरगकिन्नराः ॥ १२-५०॥
मुनयः सागरा नद्यः पर्वताः सकलं च यत् ।
पर्वताः पर्वतेष्वासन् वृक्षा वृक्षेषु संस्थिताः ॥ १२-५१॥
तीर्थानि कूपवापीषु नदीषु च सरस्सु च ।
क्षेत्रपालास्तथा सर्वे दिक्षु सर्वासु संस्थिताः ॥ १२-५२॥
भूतप्रेतपिशाचाश्च रक्षां कुर्वन्ति ये सदा ।
उवास हनुमांस्तत्र शाकिनी रक्षसां गणः ॥ १२-५३॥
विषमज्वरदुष्टादिभयहन्ता नृणां भुवि ।
एवं मुने जगत्सर्वमेकलिङ्गसमीपतः ॥ १२-५४॥
हिताय सर्वभूतानां सर्वकामार्थसिद्धये ।
वसन्ति तत्र चान्येऽपि सूक्ष्मरूपसमाश्रिताः ॥ १२-५५॥
एकलिङ्गस्य पुरतः पूर्वस्यां दिशि तीर्थराट् ।
तडागं वर्तते तत्र समीपे शङ्करस्य यत् ॥ १२-५६॥
इन्द्रतीर्थमिति ख्यातमिन्द्रहत्याविनाशकम् ।
यत्र स्नातः कृतयुगे मुक्तो वृत्रस्य हत्यया ॥ १२-५७॥
एकलिङ्गं समाराध्य प्राप्तं राज्यमकण्टकम् ।
त्रेतायां नन्दिनी धेनुः स्नात्वा पीत्वा पयोऽथ वै ॥ १२-५८॥
प्रणम्य शङ्करं पश्चादजैषीद्गाधिनन्दनम् ।
द्वापरे तक्षको नागस्तत्र स्नात्वा च शङ्करम् ॥ १२-५९॥
समाराध्य भयं लेभे सर्पसत्रान्निरामयः ।
ददौ नागह्रदं ग्रामं द्विजाग्रेभ्यः स तक्षकः ॥ १२-६०॥
अतो नागह्रदं तीर्थं विख्यातं भुवि सर्वतः ।
हृदो नागेन विहितस्तक्षकेण महात्मना ॥ १२-६१॥
तत्र स्नात्वा भयं नास्ति विषात्स्थावरजङ्गमात् ।
श्रावणस्य सिते पक्षे पञ्चम्यां स्त्री नरोऽपि च ॥ १२-६२॥
तत्र स्नात्वा तक्षकेशं दृष्ट्वा स्वर्गमवाप्नुयात् ।
सर्पतो न भयं तस्य दस्युतो वा न रोगतः ॥ १२-६३॥
तत्र स्नात्वा प्रदातव्यं सर्पाणां प्रीतये नरैः ।
ततः कलौ तु सम्प्राप्ते वाष्पहारीतकावुभौ ॥ १२-६४॥
इन्द्रतीर्थे कृतस्नानौ स्वं स्वं काममवापतुः ।
तस्मिन् सरसि यः स्नानं कृत्वा तु पितृतर्पणम् ॥ १२-६५॥
नमस्कृत्यैकलिङ्गं तु विन्ध्यवासां तथाम्बिकाम् ।
सुरानन्यान्नमस्कृत्य शिवलोकं च गच्छति ॥ १२-६६॥
माघस्नानं तु यः कुर्यात् प्रातः स्नानमथापि वा ।
सर्वपापविनिर्मुक्त मोदते शिवसन्निधौ ॥ १२-६७॥
उपोष्य शिवरात्रिं यः स्नात्वा तस्मिन् सरोवरे ।
ब्राह्मणाय वृषं दत्वा रुद्रसायुज्यमश्नुते ॥ १२-६८॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चान्योऽपि मानवः ।
स्नात्वा किञ्चित् प्रदत्वा च सर्वमक्षय्यमाप्नुयात् ॥ १२-६९॥
महापातकयुक्तोऽपि तथा युक्तोऽपि पातकैः ।
स्नात्वा मुञ्चति पापानि जीर्णत्वचमिवोरगः ॥ १२-७०॥
एकलिङ्गस्य पुरतो वेदपारायणं द्विजः ।
अधीत्य पुरतः शम्भो राजसूयफलं लभेत् ॥ १२-७१॥
गीतं नृत्यं तथा वाद्यं कृत्वा पूजादिकं नरः ।
इहलोके भवेद्राजा मृतो रुद्रगणो भवेत् ॥ १२-७२॥
भूमिदानहिरण्यादिधेनुवस्त्रान्नमेव च ।
घृतादिकं प्रियं चान्यद्दत्वानन्तफलं अन् लभेत् ॥ १२-७३॥
पञ्चामृतेन यो देवं स्नापयेद्भक्तितत्परः ।
गर्भवासं न चाप्नोति न वा रौरवमज्जनम् ॥ १२-७४॥
करजे कुण्डके कश्चिदभिषेकं सकृत्कलौ ।
कुरुतेन च गर्भेषु मज्जते देवरूपभाक् ॥ १२-७५॥
अष्टम्यां च चतुर्दश्यां नवम्यां विन्ध्यवासिनी(म्) ।
सम्पूज्य जप्त्वा हुत्वा च चिन्तितं प्राप्नुयात् फलम् ॥ १२-७६॥
गन्धपुष्पादिनैवेद्यैर्गीतैर्नृत्यैरथाम्बिकाम् ।
अर्च्चयन् ब्राह्मणो विद्यामितरो धनमाप्नुयात् ॥ १२-७७॥
कुटिलायां भवेद्येषां देहदाहं शरीरिणाम् ।
गच्छन्ति ते दिवं युक्ताः सगरस्य सुता इव ॥ १२-७८॥
अर्थोदके योऽनशनं कुर्यात् काष्ठाधिरोहणम् ।
वाराणस्यां प्रयागे वा मरणादधिकं भवेत् ॥ १२-७९॥
चातुर्मास्ये तु यस्तत्र वसतीह जितेन्द्रियः ।
वाराणस्यामामरणं तत्फलं प्राप्नुयान्नरः ॥ १२-८०॥
देवीं देवं तु यो भक्त्या परितोष्य प्रदक्षिणाम् ।
कुर्यात् प्रदक्षिणी भूमिः कृता तेन ससागरा ॥ १२-८१॥
शतैः सहस्त्रैः पुष्पाणां लक्षैर्वा कमलादिकैः ।
अर्च्चयेदेकलिङ्गं यो भवेत्पूज्यो जगत्त्रये ॥ १२-८२॥
तृणैः काष्ठेश्च पाषाणैर्यः कुर्याद्देवतालयम् ।
न वसेज्जननीगर्भे मोक्षं याति स निश्चयम् ॥ १२-८३॥
जीर्णोद्धारेण द्विगुणं तत्फलं प्राप्नुयान्नरः ।
वापीकूपतडागानामारामाणां विशेषतः ॥ १२-८४॥
देवानामर्च्चनायैव कुरुते पुष्पवाटिकाम् ।
इहलोके भवेद्भोगी मृतः स्वर्गमवाप्नुयात् ॥ १२-८५॥
यतिभ्यस्तापसेभ्यश्च दीनानाथेभ्य एव च ।
भैक्ष्यमन्नं तु यो दद्यात् सोऽमृतं पिवते दिवि ॥ १२-८६॥
विद्यादानं तु यस्तत्र द्विजातिभ्यः प्रयच्छति ।
अ(आ)मोक्षान्न जहात्येव सो नयत्यमृतं पुनः ॥ १२-८७॥
यो धर्मपथिनीं शालां कुरुते तत्र मानवः ।
तापत्रयविनिर्मुक्तः स स्वर्गे सुखमेधते ॥ १२-८८॥
ये चान्ये कुर्वते दानं जपहोमार्चनादिकम् ।
तेनैव संशयो ब्रह्मन्नेकलिङ्ग परात्मनि ।
विलयं यान्ति कर्मभ्यस्तमः (कर्माणि तमः) सूर्योदये यथा ॥ १२-८९॥
वायुरुवाच -
अथान्यं मेदपाटेऽस्मिन् लिङ्गं स्थावरजङ्गमम् ।
यथा दृष्टं च तत्सर्वं कथयिष्यामि विस्तरम् ॥ १२-९०॥
कला द्वादश सूर्यस्य मासे मासे तु याः स्तुताः ।
एकलिङ्गे स्थितिं कृत्वा मूर्तिभिः परितः स्थिताः ॥ १२-९१॥
प्रतिमासञ्च या विष्णोमूर्तयः परिकीर्तिताः ।
अनुग्रामं तथैवोक्ताः समन्तात् सर्वदिक्ष्वथ ॥ १२-९२॥
विनायकास्तथा ब्रह्मन् दिक्षु सर्वासु संस्थिताः ।
घटितानि तु लिङ्गानि शङ्करस्येह भूतले ॥ १२-९३॥
व्याकर्तुं नैव शक्यन्ते मया वक्त्रशतैरपि ।
क्षेत्रपालास्तथा ह्यासन् क्षेत्ररक्षाकरा भुवि ॥ १२-९४॥
अनुग्रामं स्थिता देशे मेदपाटेऽभयप्रदा ।
भूतप्रेतपिशाचादिराक्षसानां निवारणे ॥ १२-९५॥
आञ्जनेयोऽकरोन्मूर्तिं यो लङ्कामदहद्विभुः ।
हनुमद्भक्तिमात्रेण एकलिङ्गस्य सन्निधौ ॥ १२-९६॥
निवसेन्नैव सन्देहो हनुमत्पूजनात् सदा ।
एकं देवास्त्रयस्त्रिंशत्कोटयो भुवि संस्थिताः ॥ १२-९७॥
यक्षा विद्याधराः सर्पा मुनयोऽत्र समन्ततः ।
प्रत्यक्षतां न ते जग्मुर्मनुजानां कलौ युगे ॥ १२-९८॥
अर्चिता मूर्तिभिस्तत्र भुक्तिमुक्तिप्रदा नृणाम् ।
रत्नधातुप्रवालादिमूर्तयश्चाश्मजाः शुभाः ॥ १२-९९॥
पूजनीया मनुष्यैश्च तथा स्थावरजङ्गमाः ।
जम्बुद्वीपे तु या मूर्त्यो यानि लिङ्गानि भागशः ॥
कथितुं नैव शक्यन्ते मया वक्त्रशतैरपि ॥ १२-१००॥
नारद उवाच -
स्वयम्भवानां लिङ्गानां श(स)कलीकरणं कृतम् ।
कामधेन्वा स्वपयसा तथा स्पृष्टा निवेशिताः ॥ १२-१०१॥
अन्यासां कथमत्रासीन्मूर्तीनां तु प्रभञ्जन ।
कथयस्व मया पृष्टः सर्वज्ञस्त्वं मतं मम ॥ १२-१०२॥
वायुरुवाच -
तपस्तप्त्वाऽसृजद्ब्रह्मा ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १२-१०३॥
भूमिदेवास्तथा विप्रास्तेषां वाक्यमुदीरितम् ।
वासुदेववरात्तच्च नान्यथा जायते क्वचित् ॥ १२-१०४॥
अतो वेदागमोक्तैश्च पुराणस्मृतिचोदितैः ।
सकलीकरणं विद्धि देवानां मूर्तिधारणम् ॥ १२-१०५॥
नारद उवाच -
सकलीकरणं ज्ञानं त्वदुक्तं च तथा तथा ।
देवत्वं यदि मूर्तीनां भग्ने तासां कथं भवेत् ॥ १२-१०६॥
यवनाग्न्यादिघातानां पतनादिसमुद्भवम् ।
संशयं छिन्धि मे वायो सर्वज्ञस्त्वं मतो मम ॥ १२-१०७॥
वायुरुवाच -
यथा दैत्यास्तु देवानां हिंसने मतिमादधुः ।
यवनाद्यास्तथा ब्रह्मन् मूर्तिभङ्गे कृतोद्यमाः ॥ १२-१०८॥
प्रभावैस्ते शपेयुर्न पूर्ववैरनियन्त्रिताः ।
प्रतिमा यदि भग्ना चेदन्यां स्थाप्य सुलक्षणाम् ॥ १२-१०९॥
आवाह्य तत्र चाभ्यर्चेदन्यथा निष्फलं भवेत् ।
अन्ये ये नास्तिकाः क्रूरा वेदबाह्याश्च निन्दकाः ॥ १२-११०॥
पाषण्डिनो विकर्मस्था बिडालबकवृत्तयः ।
कर्मतो यवनान् विद्धि विशेषेण कलौ युगे ॥ १२-१११॥
प्रभावेणापि देवस्तान्न शापं दत्तवानिह ।
महत्पापेन ते शप्ता नरकानेकविंशति(तीः) ॥ १२-११२॥
भुक्त्वाऽतिदुःखं भूयस्ते कुयोनिषु पतन्ति वै ।
काणाः कुब्जाः कुरूपाश्च पङ्ग्वन्धा व्याधिपीडिताः ॥ १२-११३॥
दरिद्रा बहुशोकाश्च जातिहीना मृतप्रजाः ।
तापत्रयेण सन्तप्ता दुःखैरन्यैः समन्विताः ॥ १२-११४॥
कुयोनिषु च सम्भूय स्थावराः कृमिकीटकाः ।
पच्यन्ते नरकेष्वेव यावदाहूतसम्प्लवम् ॥ १२-११५॥
रुद्रो वह्निर्यथा(?)विश्वं कल्पान्ते कालचोदितः ।
तथा मूर्तिजगत् सर्वं नश्यते कालभावतः ॥ १२-११६॥
सङ्गत्या वै पापकृन्मानवानां तुल्यं दण्डं साधवः संस्पृशन्ति ।
शुष्केणार्द्रं दह्यते मिश्रभावात् तस्मात् पापैः सङ्गमं नैव कुर्यात् ॥ १२-११७॥
मनःप्रसन्नताशौचं देवतां मनसि स्मरन् ।
प्रायश्चित्ती च विधिवद्ब्राह्मणानर्चयेद्भुवि ॥ १२-११८॥
स विधूयेह पापानि परं ब्रह्माधिगच्छति ।
सर्वान् कामानवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ १२-११९॥
नारद उवाच -
कलौ प्राप्ते तु लोकानां य आचारो भविष्यति ।
तन्ममाचक्ष्व वेगेन भवात्मा यं(त्वं) यतः स्मृतः ॥ १२-१२०॥
वायुरुवाच -
कृते तु मानवा धर्मास्त्रेतायां गौतमस्मृतिः ।
द्वापरे शङ्खलिखितौ कलौ पाराशरी स्मृतिः ॥ १२-१२१॥
पाराशरीमजानन्तः स्वकर्मपरिपालकाः ।
तेषां न तत्फलं प्रोक्तं विकुर्वाणा द्विजातयः ॥ १२-१२२॥
अतः कालभवो मृत्युस्तान् हिनस्त्यखिलान् जनान् ।
ब्राह्मणस्तु कृतः प्रोक्तस्त्रेता च क्षत्रियः स्मृतः ।
द्वापरो वैश्य इत्याहुः कलिः शूद्र उदाहृतः ॥ १२-१२३॥
कलौ शूद्रा हि राजानो भविष्यन्ति शनैः शनैः ।
वेदमार्गविहीनाश्च स्वेच्छाचारबहिर्मुखाः ॥ १२-१२४॥
वर्णाश्रमाचारधर्मा न(न्न) जानन्तो द्विजातयः ।
उन्मार्गगामिनो नित्यं यथा राजा तथा प्रजाः ॥ १२-१२५॥
शूद्रादीनां कलौ प्राप्ते समृद्धिर्जायते भृशम् ।
शूद्राः शूद्रेषु दास्यन्ति बुद्धरूपो जनार्दनः ॥ १२-१२६॥
कृते चास्थिगताः प्राणास्त्रेतायां मेदसि स्थिताः ।
द्वापरे रुधिरे प्रोक्ताः कलावन्ने प्रकीर्तिताः ॥ १२-१२७॥
कृते राष्ट्रं तथा लिप्येत्त्रेतायां ग्राममेव च ।
द्वापरे कुलमेकं च कलौ कर्ता च लिप्यते ॥ १२-१२८॥
कलौ प्राप्ते मानवा सत्यहीनाः पापाचारा दुष्टसङ्गाः कुरूपाः ।
स्वल्पायुष्या धर्महीनाः कृतघ्नाश्चौरा दुष्टा नास्तिका दुष्टभावाः ॥ १२-१२९॥
नो मन्यन्ते मातरं भ्रातरं च पूज्यं ज्येष्ठं पितृदेवादितीर्थम् ।
नैव प्राज्ञं नो गुरुं भ्रातृजायां नो धर्मं नो वेदमार्गं न शास्त्रम् ॥ १२-१३०॥
पौराणोक्तं स्मृतिमार्गं न चैव इष्टापूर्क्तं नैव जानन्ति किञ्चित् ।
तपो व्रतं कृत्यमकृत्यमेवं न तेषु वै स्यात् शुभं(भः) कर्मभावं (वः) ॥ १२-१३१॥
कामक्रोधौ लोभमोहौ च दम्भो मात्सर्यं वार(ऽग)म्यगामित्वमेव ।
पैशुन्यं वै दुष्टभावः परेषु येषां तुष्टिर्जायतेऽन्यप्रविघ्ने ॥ १२-१३२॥
कीर्ति(र्ते)र्हेतोर्दातुमिच्छा तदीया व्यावृत्या वा कार्यहेतोश्च कामात् ।
लोभान्मोहान्नैव धर्मार्थहेतोः सर्वं दत्तं भस्मसात्तन्नराणाम् ॥ १२-१३३॥
जीवनार्थं हि तीर्थस्य यात्रां कुर्वन्ति मानवाः ।
द्विजातयो व्रतं वापि विद्याभ्यासमथापि वा ॥ १२-१३४॥
अतिथिं तत्र नाहूय श्राद्धे मित्राभिमन्त्रणम् ।
कन्याया विक्रयश्चैव वेदविक्रय एव च ॥ १२-१३५॥
महादानप्रतिग्राही ब्राह्मणो वृषलीपतिः ।
पञ्चयज्ञविहीनश्च सर्वाशी सर्वविक्रयी ॥ १२-१३६॥
असन्मार्गरतो लोको निजमार्गापहारकः ।
जिताश्चौरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥ १२-१३७॥
न शास्त्रं शृणुते लोको विटगोष्ठीविशारदः ।
सन्मार्गगामिनो धर्मं तर्कयन्ति विमार्गगाः ॥ १२-१३८॥
एवंविधैरनेकैश्च दोषैर्युक्ताश्च मानवाः ।
कलो प्राप्ते भविष्यन्ति बुद्धरूपे जनार्द्दने ॥ १२-१३९॥
नारद उवाच -
ध्रियतेऽसौ धरा कस्मात् शेषनागेन मूर्द्धनि ।
पज्र्जन्यो वर्षते कस्मात् नाब्धिः प्लावयते कथम् ॥ १२-१४०॥
वायुरुवाच -
गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः ।
अलुब्धैर्दानशीलैश्च सप्तभिर्धार्यते मही ॥ १२-१४९॥
कृते तु दशभिर्वर्षैस्त्त्रेतायां हायनेन यत् ।
द्वापरे तच्च मासेन ह्यहोरात्रेण तत् कलौ ॥ १२-१४२॥
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन् ।
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ १२-१४३॥
भाराक्रान्ता कलौ भूमिर्गोरूपेण दिवं ययौ ।
पितामहं नमस्कृत्य स्तुत्वोवाच सुदुःखिता ॥ १२-१४४॥
नाहं भारसहा ब्रह्मन् लोकानां पापकर्मणाम् ।
रसातलं गमिष्यामि नो चेत् त्राहि पितामह ॥ १२-१४५॥
ब्रह्मोवाच -
यः कश्चिज्ज्ञानवान् दान्तः शुचिर्दाताऽनसूयकः ।
पञ्चयज्ञरतः शान्तो वेदविद्वेदमार्गगः ॥ १२-१४६॥
युगत्रये य आचारस्तेन वर्तेत कर्हिचित् ।
स वोढव्यस्त्वया देवि किमन्ययैनरकादिभिः ॥ १२-१४७॥
इत्येतत् कथितं सर्वं किमन्यत् कथयामि ते ॥ १२-१४८॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये कलिस्वरूप- वर्णनं नाम द्वादशोऽध्यायः । १२॥
अथ त्रयोदशोऽध्यायः । लोमशाश्रमवर्णनम् ।
13.1 Nārada नारद enquires from Vāyu वायु about how even the evil or wicked people manage to acquire the Grace of Ekaliṅga एकलिङ्ग. Vāyu वायु responds with mention of certain communities and about ŚivaPūjana शिवपूजन.
13.2 Sūta सूत narrates story of ṚṣiŚṛṅga ऋषिशृङ्ग and Daśaratha दशरथ.
13.3 There is mention about Parāśara पराशर, Vyāsa व्यास, Śuka shuka; and description about Parāśara पराशर staying near the Ekaliṅga एकलिङ्ग. Likewise detailed is the stay of Lomaśa लोमश near the Ekaliṅga एकलिङ्ग and significance of Pitṛtarpaṇa पितृतर्पण in that place.
नारद उवाच -
कलौ प्राप्ते मनुष्येषु जरारोगादिकेषु च ।
संसारार्णवमग्नेषु न स्वमार्गे प्रवर्तिषु ॥ १३-१॥
निष्ठुरेषु कृतघ्नेषु पिशुनेषु दुरात्मसु ।
शास्त्रार्थस्यानभिज्ञेषु स्वस्वमत्युपजीविषु ॥ १३-२॥
जीवनार्थोपदेशं वै कृत्वा धर्मपरेषु च ।
दृषे(?)शयोर्मध्यदेशे स्थित्वा(ऽ)धर्मपरेषु च ॥ १३-३॥
ईश्वरस्य च विप्रस्य पूजायां व्युत्क्रमेषु च ।
संसारसागरस्यान्तःपतितेषु समीरण ॥ १३-४॥
एतादृशेषु दृष्टेषु स्वस्वपक्षाश्रितेषु च ।
एकलिङ्गः कृपां चक्रे कथं तेषु वदस्व मे ॥ १३-५॥
वायुरुवाच -
साङ्ख्यैर्नैयायिकेश्चैव जैनपाशुपतादिभिः ।
चार्वाकैर्बौद्धमतिभिः पन्थानो बहवः कृताः ॥ १३-६॥
पाषण्डिभिस्तथाल्पज्ञैर्विस्तृताः क्रूरबुद्धिभिः ।
भ्रामितं च जगत्सर्वं रजोवातैरिवोद्धतम् ॥ १३-७॥
अनीश्वरं जगदिति वदन्त्यन्ये कुतार्किकाः ।
तेषां मतं नु विज्ञाय कलौ प्राप्ते महामुने ॥ १३-८॥
एकलिङ्गोऽथ भगवान् मनुष्येष्वकरोत् कृपाम् ।
अष्टभिर्मूर्तिभिश्चाथ धत्ते स्थावरजङ्गमम् ॥
परोपकृतये शम्भुर्भूतनाथो निगद्यते ॥ १३-९॥
गुरूपदिष्टमार्गेण देवं सम्पूज्य बुद्धिमान् ।
शिवसायुज्यमाप्नोति शिवभक्त्या महामुने ॥ १३-१०॥
यतेरन्त्याश्रमस्यापि शास्त्रज्ञस्य शिवस्य च ।
गुरुत्वं चाथ नान्येषां कदाचित् सम्भवेद्भुवि ॥ १३-११॥
नमः कपर्द्दिने चेति व्युप्तकेशाय चेति च ।
विशिखं(खे) यतिमात्रं(त्रे) तु गुरुत्वं श्रुतिराह च ॥ १३-१२॥
असङ्ख्यातैस्तु रुद्रैश्च पाल्यते भुवनत्रयम् ।
कृतादिषु त्रिषु श्रीशो मत्स्योऽभूद्वामनस्तथा ॥ १३-१३॥
कूर्मो नृसिंह इत्यासीद्रामो राम इति प्रभुः ।
कलौ प्राप्ते स भगवान् बुद्धो योगीश्वरो हरिः ॥ १३-१४॥
यो विष्णुः स च वै रुद्रो यो रुद्रः स जनार्दनः ।
यो ब्रह्मा स च वै शम्भुः प्रधानोऽपि स वै स्मृतः ॥ १३-१५॥
हत्वा दैत्यान् वासुदेवः श्रान्तः शान्तश्च पालने ।
बुद्धरूपधरो देवः कलौ योगीश्वरोऽभवत् ॥ १३-१६॥
बुद्धरूपं हरिं ज्ञात्वा शङ्करो लोकशङ्करः ।
अतः कृपां मनुष्येषु नाथो(ऽ)नाथेषु चाकरोत् ॥ १३-१७॥
वैद्यनाथमयैर्लिङ्गैरसङ्ख्येयैरभूद्विभुः ।
सोमनाथ इति ख्यातिं तथा विश्वस्य पालनात् ॥ १३-१८॥
वैद्यनाथस्य लिङ्गानि बहून्यासन् समन्ततः ।
मेदपाटेऽन्यदेशेषु जम्बूद्वीपे विशेषतः ॥ १३-१९॥
वैद्यनाथ इति ख्यातो रामाख्यो रामरूपधृक् ।
यस्तं पश्यति देवेशं सर्वव्याधिहरं हरम् ॥ १३-२०॥
तस्य रोगभयं नास्ति नरकस्य भयं न च ।
दारिद्रस्य भयं नैव न पापस्य न शत्रु तः ॥ १३-२१॥
रविवारे च यः शम्भुं पञ्चामृतसमुद्भवैः ।
स्नापयेत्तीर्थपानीयैः पुष्पधूपादिभिस्तथा ॥ १३-२२॥
तस्य रोगस्य शोकस्य न भयं विद्यते क्वचित् ।
देहान्ते परमं स्थानं यत्र गत्वा न शोचति ॥ १३-२३॥
सूत उवाच -
ऋषिशृङ्गस्य माहात्म्यं मयोक्तं शृण्वतः परम् ॥ १३-२४॥
पुरा दशरथो राजा सूर्यवंशसमुद्भवः ।
सर्वैर्नृपगुणैर्युक्तो जनं पालयति प्रभुः ॥ १३-२५॥
तस्यैवं शासतो भूमिं शरदामयुतं ययौ ।
सन्ततिस्तस्य नैवासीत् ऋषिशृङ्गमतोऽभ्यगात् ॥ १३-२६॥
वशिष्ठस्य मतेनैव पुत्रेप्सुः स महीपतिः ।
तत्र तं मृगरूपेण चरन्तं मृगजातिषु ॥ १३-२७॥
लोभयामास विविधैर्भक्ष्यभोज्यैरितस्ततः ।
अलङ्कृताभिर्नारीभिर्वंशवीणादिभिस्तथा ॥ १३-२८॥
लोभितस्तेन स मुनिर्विभाण्डकसुतस्ततः ।
एकचित्ततया सर्वं विष्णुरूपमपश्यत ॥ १३-२९॥
लोभितस्तेन स मुनिरानीतो निजमन्दिरम् ।
पुत्रेष्टिं कारयामास वशिष्ठानुमतेन च ॥ १३-३०॥
चत्वारौ य(ज)ज्ञिरे तस्य रामाद्याः कुलभूषणाः ।
चतुर्भिरंशैर्भगवान् वासुदेवो जगत्पतिः ॥ १३-३१॥
भावित्वादवतीर्णोऽसौ रावणस्य वधाय च ।
भूमेर्भारं लघु कर्तुं विश्वस्य स्थितये पुनः ॥ १३-३२॥
रामोऽथ भरतः श्रीमान् लक्ष्मणस्तदनन्तरम् ।
शत्रुहा चैव शत्रुघ्नश्चत्वारो नृपसूनवः ॥ १३-३३॥
यत्प्रसादात्सुताश्चासंस्तस्य राज्ञो महात्मनः ।
तमापृच्छ्य ततः सोऽथ ऋषिशृङ्गः समागतः ॥ १३-३४॥
तेजस्वी ज्ञानसम्पन्नः सर्वभूतहिते रतः ।
ऋषिशृङ्गः स्थितस्तत्र यस्य शृङ्गमभूत्ततः ॥ १३-३५॥
एकलिङ्गस्य सान्निध्यमुवास मुनिसत्तमः ।
वायुभक्षोऽभवद्धीमान् निर्द्वन्द्वो निः(निष्)परिग्रहः ॥ १३-३६॥
वातातपसहो नित्यं निराहारः सदा शुचिः ।
लोभितोऽहं नृपतिना त्यक्त्वा लोभमथाविशत् ॥ १३-३७॥
निर्जले पर्वते ब्रह्मन् फलहीने फलप्रदः ।
भाद्रेमासि मुनिश्रेष्ठ यात्रा तस्य मुनेः स्मृता ॥ १३-३८॥
पञ्चम्यां कृष्णपक्षस्य तर्पयित्वा पितॄन् सुरान् ।
श्राद्धं कृत्वा तथान्यैश्च पायसैर्भोजयैन्नवैः ॥ १३-३९॥
ऋषिशृङ्गं तथाऽभ्यर्च्य पञ्चामृतसमुद्भवैः ।
पुष्पैर्धूपैश्च नैवेद्यैः पायसैर्दीपकैस्तथा ॥ १३-४०॥
सर्वान् कामानवाप्नोति पुत्रान् वंशधुरन्धरान् ।
अथापरो मुनिवरः पाराशर इति स्मृतः ॥ १३-४१॥
अनादिजगतामादिर्ब्रह्मा लोकपितामहः ।
तस्मादभूद्वशिष्ठश्च शक्तिस्तस्मादभून्मुनिः ॥ १३-४२॥
ततः स भगवान् शक्तिः पराशर इति स्मृतः ।
तस्माद्व्यासोऽभवच्छ्रीमान् कृष्णद्वेपायनो विभुः ॥ १३-४३॥
शुकस्तस्मादभूद्योगी समः सर्वेषु जन्तुषु ।
एवं ब्रह्मकुले विप्रजातोऽसौ मुनिसत्तम ॥ १३-४४॥
अतः पराशरमुनिः ख्यातोऽभून्मुनिपुङ्गवः ।
एकलिङ्गं स्थिरं मत्वा वासं तत्र व्यरोचयत् ॥ १३-४५॥
पातालादानयामास गङ्गां त्रिपथगामिनीम् ।
तत्र स्नात्वा च पीत्वा च गङ्गास्नानफलं लभेत् ॥ १३-४६॥
स्नानं तर्पणश्राद्धं च दानं होमं तथा जपम् ।
सर्वमक्षयतां याति गङ्गोद्भेदे कलौ युगे ॥ १३-४७॥
तत्समन्तात् ततो देवा अश्ममूर्तिभिरूषिरे ।
वासुदेवो जगद्व्यापिमार्तण्डाद्या ग्रहास्तथा ॥ १३-४८॥
लिङ्गानि तत्र बहुशो देव्यश्चात्र समन्ततः ।
क्षेत्रपालास्तथा तत्र गणेशो विघ्ननाशनः ॥ १३-४९॥
मुदमान् मादनोन्मादो हार्द्दः प्रह्लादनस्तथा ।
प्रह्लादनं नमस्कृत्य सर्वविघ्नच्छिदं भुवि ॥ १३-५०॥
सर्वान् कामानवाप्नोति शङ्करस्य गणो भवेत् ।
कस्तूर्यगरुकर्पूरैश्चन्दनैः कुङ्कुमादिभिः ॥ १३-५१॥
पुष्पैर्धूपैस्तथा दीपैः शुभैर्मोदकसञ्चयैः ।
गीतैर्वाद्यैस्तथा नृत्यैः स्तुतिभिश्च गणेश्वरम् ॥ १३-५२॥
निर्विघ्नो जायते जन्तुः सदा प्रह्लादनार्च्चकः ।
चतुर्थ्यां यो गणेशं तमर्चयेदतिभक्तिमान् ॥ १३-५३॥
तस्य विघ्नभयं नास्ति आजन्ममरणाद्भुवि ।
अनुप्रवाहं नद्याश्च वैद्यनाथः परे तटे ॥ १३-५४॥
तत्र स्नात्वा तमभ्यर्च्य सर्वपापप्रणाशनम् ।
सर्वकामप्रदं देवं रोगशोकहरं परम् ॥ १३-५५॥
इहलोके सुखं प्राप्य प्रेत्य चानुत्तमं सुखम् ।
दुरिताच्च विनिर्मुक्तः परं ब्रह्माधिगच्छति ॥ १३-५६॥
नद्याश्च दक्षिणे कूले लोमशस्याश्रमं महत् ।
तपश्चचार सुमहल्लोमशो मुनिसत्तमः ॥ १३-५७॥
चान्द्रायणैर्ययौ कालं कृच्छ्रसान्तपनैस्तथा ।
पराकैस्तप्तकृच्छ्रैश्च पादकृच्छ्रादिकैस्तथा ॥ १३-५८॥
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपोषैरनयत् कालं नित्यं ध्यानपरः शुचिः ॥ १३-५९॥
पक्षे गतेऽथवा स्नाति मासे वाऽहनि चागते ।
यः कण्टकैर्वितुदति चन्दनैर्वा विलिम्पति ॥ १३-६०॥
अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ १३-६१॥
आर्द्रवासास्तु हेमन्ते रात्रावप्सु वसन्मुनिः ।
वायुभक्षोऽम्बुभक्षश्च पर्णभक्षः क्वचित्क्वचित् ॥ १३-६२॥
निराहारः क्वचिदपि अस्थिमात्रकलेवरः ।
तदोजसा वनं दीप्तमाकाशमिव भानुना ॥ १३-६३॥
लोमशस्य शरीराच्च महाकल्पे महात्मनः ।
लोमैकं भ्रश्यते ब्रह्मन् तेन वैराग्यमागतः ॥ १३-६४॥
न कुटीं कुरुते सोऽथ विनाशित्वान्निराशवान् ।
अथैकस्मिन्नवसरे लिङ्गैः पूर्णां महीमिमाम् ॥ १३-६५॥
एकलिङ्गस्य सान्निध्ये कामधेनोः प्रभावतः ।
दृष्ट्वा मुनिवरः श्रेष्ठः शिवलिङ्गं चकार ह ॥ १३-६६॥
मत्वाऽविनाशि पाषाणं मह्या सार्द्धं युगक्षये ।
अतः पिञ्जुलिकां बद्ध्वा काष्ठानां मुनिसत्तमः ॥ १३-६७॥
लिङ्गं सस्मार स मुनिः शङ्करस्य महात्मनः ।
काष्ठेश्वर इति ख्यातो दृषत्त्वं प्राप्य शङ्करः ॥ १३-६८॥
तस्मै वेत्रासनं दत्तं तया नद्यां प्रभावतः ।
तेन वेत्रवती नाम्ना ख्यापिता लोमशेन ह ॥ १३-६९॥
तस्यां नद्यां नरः स्नात्वा कृत्वा च पितृतर्पणम् ।
गङ्गायाः फलमाप्नोति सर्वतीर्थफलं लभेत् ॥ १३-७०॥
नमस्कृत्य महेशं तं लोमशं च मुनीश्वरम् ।
स विधूयेह पापानि परं ब्रह्माधिगच्छति ॥ १३-७१॥
नद्या उत्तरतो ब्रह्मन् शेषेति जगदम्बिकाम् ।
अपूजयत् परां राजा सुरथो नाम वीर्यवान् ॥ १३-७२॥
समाधिश्च तथा वैश्यो भक्त्या परमया युतः ।
शेषेति चास्य विश्वस्य पूज्या देवगणैः सह ॥ १३-७३॥
सृष्ट्यादौ च तथान्ते च मध्ये या सर्वदा परा ।
ध्येया सर्वस्य जननी यस्यामादौ न कर्हिचित् ॥ १३-७४॥
वरप्रदा च भक्तानां तेन शेषेति कथ्यते ।
तौ तां महीमयीं मूर्तिमर्चयामासतुः सदा ॥ १३-७५॥
समाधिसुरथौ त्यक्तौ बन्धुभिर्लोभमोहितैः ।
तयोस्तुष्टा जगद्धात्री त्रिभिर्वर्षैर्जितात्मनोः ॥ १३-७६॥
ददौ यथेप्सितं कामं तेन सा ख्यातिमागता ।
अष्टम्यां च नवम्यां च चतुर्द्दश्यां विशेषतः ॥
नद्यां स्नात्वा प्रणम्यैनामीप्सितं लभते फलम् ॥ १३-७७॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये लोमशाश्रमवर्णनं नाम त्रयोदशोऽध्यायः । १३॥
अथ चतुर्दशोऽध्यायः । सोमनाथमाहात्म्ये माहेन्द्रीवर्णनम् ।
14.1 Nārada नारद enquires about the Vaidyanātha वैद्यनाथ, Somanātha सोमनाथ, Viśvanātha विश्वनाथ et al Jyotirliṅga ज्योतिर्लिङ्ग.
14.2 Vāyu वायु thus narrates the story of Somanātha सोमनाथ who was worshipped by Soma सोम for relief from the curse by Dakṣa दक्ष for having favoured only Rohiṇī रोहिणी amongst his 27 wives who were the daughters of Dakṣa दक्ष. Somanātha सोमनाथ advises Soma सोम to take dip in the Svāmī River स्वामी नदी, relieves him of the disease due to the curse and establishes his path in the NakṣatraMaṇḍala नक्षत्रमण्डल.
14.3 There is a brief mention of Vaidyanātha वैद्यनाथ and Viśvanātha विश्वनाथ Jyotirliṅga ज्योतिर्लिङ्ग and establishment of Śivaliṅga शिवलिङ्ग in each village.
14.4 Nārada नारद enquires about the Svāmī River स्वामी नदी, to which Vāyu वायु responds with story of Mahiṣa Daitya महिष दैत्य - who having won over the Deva-s देवाः was causing atrocities against humans. Somanātha सोमनाथ instructs Skanda स्कन्द to annihilate Mahiṣa Daitya महिष दैत्य. Skanda स्कन्द deploys the Vidyutprabhā Śakti विद्युत्प्रभा शक्ति for the same; following which, Mahiṣa Daitya महिष दैत्य enters Pātāla पाताल. Further, there is description about the Svāmī River स्वामी नदी (the underground Sarasvatī River सरस्वती नदी in that region), MāhendraTīrtha माहेन्द्रतीर्थ and Māhendrī River माहेन्द्री नदी.
नारद उवाच -
वैद्यनाथादिलिङ्गानि त्वयोक्तानि समासतः ।
सोमनाथ इति प्रोक्तः क्वासौ तिष्ठति शङ्करः ॥ १४-१॥
सोमनाथः क्व सम्भूतो विश्वनाथः प्रचक्षते ।
एतद्विस्तरतोऽस्माकं कथयस्व प्रभञ्जन ॥ १४-२॥
वायुरुवाच -
एकलिङ्गा(द्)दक्षिणतो योजनानां च सप्तकात् ।
स्मृतोऽसौ कामधेन्वा च स्वयम्भूतो महेश्वरः ॥ १४-३॥
पुरा दक्ष इति ख्यातो विश्वस्यास्य प्रजापतिः ।
पुत्राणामसृजत् सोऽथ सहस्रं भूरितेजसाम् ॥ १४-४॥
सृष्ट्यर्थं तु प्रजाः सृष्ट्वा तानुवाचेति पुत्रकान् ।
भुवः प्रमाणं विदितं भवद्भिर्नेति तेऽब्रुवन् ॥ १४-५॥
तेनोक्तं चैव सर्वेभ्यो ज्ञातव्या भूः प्रमाणतः ।
सृष्टिः स्यादधिका ह्येषा पृथ्वी किं वाऽधिका पुनः ॥ १४-६॥
विषमत्वं भवेदद्य तस्मादुर्वीं विलोक्यताम् ।
तथेत्युक्त्वा तु ते सर्वे दिक्षु सर्वासु जग्मिरे ॥ १४-७॥
अद्यापि न निवर्तन्ते भुवोऽन्तमनवाप्य च ।
ततो दक्षोऽसृजत् पुत्रसहस्रमपरं किल ॥ १४-८॥
तमभ्येत्य मुने ते हि पूर्वमार्गे निवेशिताः ।
तेषां गतिमनु ज्ञात्वा ततो दक्षोऽसृजत् पुनः ॥ १४-९॥
दुहितॄणां सहस्रं च सृष्ट्यर्थं भगवान् पुनः ।
सोमाय च ददौ सप्तविंशतिं सृष्टिहेतवे ॥ १४-१०॥
सोमस्ताभिर्मनोज्ञाभिर्मुमुदे देववल्लभः ।
तथाऽसौ रोहिणीं भार्यामधिचक्रे सुमध्यमाम् ॥ १४-११॥
अन्यासु न तथा प्रीतिर्वर्तते तस्य कामिनः ।
ताभिरुक्तं च सर्वं वै ज्ञात्वा तदाऽशपद्विधुम् ॥ १४-१२॥
दक्षोऽपि ज्ञानदृष्ट्या वै बुद्ध्वा क्रुद्धस्त्वरान्वितः ।
गत्वा चन्द्रमसो गेहमित्युवाच महामुने ॥ १४-१३॥
यस्मान् मम सुताः सोम व्यक्तिभेदेन पश्यसि ।
तस्मात् क्षयी भवाद्याशु मम शापान्न संशयः ॥ १४-१४॥
सूत उवाच -
क्षीणीभूते ततश्चन्द्रे जगत् स्थावरजङ्गमम् ।
क्षीणरूपं तथा ह्यासीत्ततः सोमो जगाम ह ॥ १४-१५॥
आरिराधयिषुः शम्भुं सोमनाथं क्षयान्वितः ।
गन्धादिना तमभ्यर्च्य भक्त्या परमया पुनः ॥ १४-१६॥
तं तु प्रणम्य देवेशं स्तुतिं चक्रे महात्मनः ।
सोम उवाच -
धत्ते विश्वं विश्वकृद्यो विधाय
मूर्तीरष्टौ पालयन् यो जगन्ति ।
देहे देहे दीपवत् स्वप्रकाशः
कृत्वा चान्ते सञ्जहाराथ विश्वम् ॥ १४-१७॥
यस्य स्मृत्या पातकानाममुष्मिन्
लोके लोकस्याशु दुःखापहारः ।
दुर्वासा वै मुनिरत्रिप्रसूत-
स्तपश्चक्रे आनसूयत्वमीहन् ॥ १४-१८॥
ब्रह्माण्डाद्यां निःसृतां जह्नुकन्यां
दृष्ट्वा चास्या उग्रतापाच्च भूमेः ।
भेदं मत्वा यां व्यवत्ताथ मूर्ध्ना
नमस्तस्मै सोमनाथाय नित्यम् ॥ १४-१९॥
रोषात् कामं भस्मसाद्यश्चकार
योषिद्रूपैर्मोहयन्तं जगन्ति ।
कृत्वाऽनङ्गं तं च सृष्टयार्थमेव
नमस्तस्मै सोमनाथाय नित्यम् ॥ १४-२०॥
कैलाशाद्रिमुज्जिहीर्षुं दशास्यं
यो वै चक्रे पीडितं स्वाङ्घ्रिभारात् ।
उमाभीत्या श्लेषतुष्टोऽस्य नूनं
नमस्तस्मै सोमनाथाय नित्यम् ॥ १४-२१॥
ज्ञातुं ब्रह्मा यस्य रूपं तथोर्ध्व-
मगाद्विष्णुरप्यधस्ताद्यदन्तम् ।
ताभ्यामन्तस्तस्य न ज्ञात एव
नमस्तस्मै सोमनाथाय नित्यम् ॥ १४-२२॥
यज्ञध्वंसं यश्चकारोग्ररूपो
रूपो(?)दक्षस्याशुरोषाद्भवान्याः ।
बहूनि रूपाण्यसृजद्य एको
नमस्तस्मै सोमनाथाय नित्यम् ॥ १४-२३॥
पुरा देवैर्मन्थने सागरेऽपि
तस्माज्जातेष्वाशु रत्नेषु भूयः ।
विषं कोऽन्यस्त्वदृते भक्षते वा
नमस्तस्मै सोमनाथाय नित्यम् ॥ १४-२४॥
कलौ प्राप्तेऽनाथवत्सु
नाथो भूत्वा सोमनाथेन नाम्ना ।
पङ्गूनन्धान् दद्रुकुष्ठादितप्तान्
रोगग्रस्तान् त्वदृते (कुरुते) यो नवीनान् ॥ १४-२५॥
सूत उवाच -
एवं स्तुतः सोमनाथः सोमेन क्षयरोगिणा ।
तुतोषास्मै करुणया सोमं वाक्यमुवाच ह ॥ १४-२६॥
सोमनाथ उवाच -
यथा क्षयी भवान् जातः सोमे(म) विदितमेव हि ।
नद्यां स्वाम्यां समाप्लुत्य समाराधय सत्वरम् ॥
क्षीणशापस्ततो भूत्वा क्षीणोऽक्षीणो भविष्यसि ॥ १४-२७॥
कृष्णपक्षे तनुक्षीणः सितेऽक्षीणवपुः पुनः ।
ह्रासवृद्ध्या च कलया पक्षे पक्षे भविष्यसि ॥ १४-२८॥
दर्शे दर्शे तु मां दृष्ट्वा स्नात्वा स्वाम्यां निशाकर ।
मोदयस्व म(मु)दं प्राप्य जगत् स्थावरजङ्गमम् ॥ १४-२९॥
सोमनाथो भविष्यामि त्वन्नाम्नाऽहं युगे युगे ।
यो भक्त्याऽऽराधयेन्नित्यं सोमवारे विशेषतः ॥ १४-३०॥
तस्य रोगभयं न स्यात् किं वा शोकभयं पुनः ।
पापौघमखिलं हन्मि दुःखतोऽथ भयं तथा ॥ १४-३१॥
काममन्यमभीष्टं वा दद्यां भक्तस्य चन्द्रमः ।
अहं यास्यामि लिङ्गत्वं कलौ प्राप्ते दृषन्मयम् ॥ १४-३२॥
वायुरुवाच -
इति श्रुत्वा प्रणम्यैनं तपस्तप्त्वाऽथ चन्द्रमाः ।
तत्प्रसादाद्वरं प्राप्य गतो नक्षत्रमण्डलम् ॥ १४-३३॥
एवं स भगवान् रुद्रो बह्वीभिश्च स्वमूर्तिभिः ।
पालयामास भुवनं पिता पुत्रानिवौरसान् ॥ १४-३४॥
क्वचित् सोमेश्वर इति वैद्यनाथ इति क्वचित् ।
अनीश्वरं जगदिति वाक्यं श्रुत्वा कुतर्किणाम् ॥ १४-३५॥
भुवनं पाति विश्वात्मा विशेषेण कलौ युगे ।
विश्वनाथः परानन्दः पाति नित्यं जगत्त्रयम् ॥ १४-३६॥
पञ्चक्रोशात्मको भूत्वा वाराणस्यां सदा मुने ।
कृतादिषु त्रिषु हरिरवतीर्य मुहुर्महीम् ॥ १४-३७॥
वाति रूपैर्नृसिहाद्यैर्बुद्धः सोऽद्य कलौ स्थितः ।
अतोऽनीशं कलियुगं मत्वा शास्ति जगत्प्रभुः ॥ १४-३८॥
सोमेशविश्वनाथाद्यै रूपैर्व्याप्य महीमिमाम् ।
जन्तून् कुष्ठादिभी रोगैर्ग्रस्तान् दृष्ट्वा पुनर्नवान् ॥ १४-३९॥
करोति कृपया शम्भुः स्वभक्तान् भक्तवत्सलः ।
पञ्चामृताद्यैर्यो देवं सोमवारे विशेषतः ॥ १४-४०॥
स्नापयन्नैव सो(स) याति मातुर्गर्भे पुनः क्वचित् ।
शतैः सहस्रैः पुष्पाणां तथा लक्षैः सकृत्कलो ॥ १४-४१॥
सोमेशमर्चयेद्भक्त्या सोऽर्च्यः स्याद्भुवनत्रये ।
गन्धधूपादिगीताद्यैर्नैवेद्यैस्तर्पयेच्छिवम् ॥ १४-४२॥
तापत्रयविनिर्मुक्तो वसेद्रुद्रस्य सन्निधौ ।
उपोष्य शिवरात्रिं यो रात्री जागरणं(जागृयान्) नरः ॥ १४-४३॥
स्वर्गेप्सुः स्वर्गतिं याति मोक्षेप्सुर्मोक्षमाप्नुयात् ।
येन केनैव कामेन सोमेशं पूजयेन्नरः ॥ १४-४४॥
तं तं काममवाप्नोति लभेद्वाञ्छाधिकं फलम् ।
पुत्रार्थी लभते पुत्रान् धनार्थी च तथा धनम् ॥ १४-४५॥
सुखमारोग्यमृद्धिं च राज्यमायुः शुभां मतिम् ।
सुकलत्रं तथारोग्यमैश्वर्य लोकपूज्यताम् ॥ १४-४६॥
सर्वप्रियत्वं सौभाग्यं सत्कीर्तिं शुभजन्मताम् ।
विद्वत्त्वं च शुभं चान्यत् सर्व हि प्राप्नुयान्नरः ॥ १४-४७॥
एकरात्रं द्विरात्रं च त्रिचतुःपञ्चरात्रकम् ।
वसेत्सोमेशसामीप्ये नरो नार्यथवा शिशुः ॥ १४-४८॥
सप्तजन्म भवेद्भोगी हीनस्तापत्रयेण च ।
अन्ते शिवं परं धाम प्राप्नोति स न संशयः ॥ १४-४९॥
स्तुतिं करोति देवस्य वेदपारायणं द्विजः ।
सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥ १४-५०॥
वेदान्तस्योक्तविधिना मोक्षभाग्जायते नरः ।
क्षत्रियो राज्यमाप्नोति वैश्यः शूद्रो धनं लभेत् ॥ १४-५१॥
अन्योऽपि सोमनाथं तमर्चयित्वा कलौ युगे ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयम् ॥ १४-५२॥
सोमनाथस्य लिङ्गानि वैद्यनाथस्य चैव च ।
ग्रामे ग्रामे स्थितिं जग्मुः स्वयम्भूस्थापितानि च ॥ १४-५३॥
तत्र तत्र स्थितः शम्भुर्जगतः परिपालनम् ।
करोति रोगशोकार्त्तितप्तानां भक्तवत्सलः ॥ १४-५४॥
परलोकेऽन्यदेवानामर्चाभिः प्राप्यते फलम् ।
परत्रेह च देवस्य सोमेशस्य फलं लभेत् ॥ १४-५५॥
कलिना पीडितान् दृष्ट्वा मनुष्यान् सोमशङ्करः ।
कृपां मनुष्येष्वकरोद्दीनानाथेषु रोगिषु ॥ १४-५६॥
सर्वरोगाभिभृतेषु जनेषु फलदः प्रभुः ।
कलौ रोगापहो नित्यमृते नास्तिककिल्विषात् ॥ १४-५७॥
जपहोमादिभिर्जातु गन्धधूपैश्च भक्तिभिः ।
पापरोगविनिर्मुक्तान् सद्वैद्यश्चौषधैरिव ॥ १४-५८॥
हिनस्त्यर्को यथा ध्वान्तं स्मृतः पापमिवाच्युतः ।
रोगपापं तथा जन्तोः सोमः शो (सोमेशो) नाशयेत्पुनः ॥ १४-५९॥
परोपकृतये शम्भुरष्टमूर्तिरिति स्मृतः ।
महिमा नैव वाच्योऽस्य मया वक्त्रशतैरपि ॥ १४-६०॥
वायुरुवाच -
इदं यः कीर्तयेज्जन्तुः सोमेशचरितं महत् ।
पाप रोगविनिर्मुक्तः परां सिद्धिमवाप्नुयात् ॥ १४-६१॥
तापत्रयभयं नास्ति सुखमत्यन्तमश्नुते ।
यत्रैतद्विद्यते लिङ्गं सोमनाथस्य नारद ॥ १४-६२॥
तत्र रोगभयं न स्यात् शोकपापभयं नहि ।
काले वर्षति पर्जन्यो मही सस्याभिपूरिता ॥ १४-६३॥
काले च सफला वृक्षा हृष्टपुष्टा नृपास्तथा ।
हृष्टपुष्टजनः सर्वो न भयं तत्र विद्यते ॥ १४-६४॥
नारद उवाच -
सोमनाथस्य माहात्म्यं त्वयोक्तं च श्रुतं मया ।
स्वामिनाम्नी कथं जाता नदी तत्र वदस्व नः ॥ १४-६५॥
वायुरुवाच -
पुरा महिषनामाऽभूद्दैत्यो देवबलार्दनः ।
विजित्य समरे देवान् प्राप्याथ माहिषं वपुः ॥ १४-६६॥
ततो भूमिमनुप्राप्तो मानवानप्यपीडयत् ।
पीडयित्वा महीं सर्वां सोमनाथसमीपतः ॥ १४-६७॥
गत्वाऽसौ विघ्नमकरोद्मनुजानां समन्ततः ।
तं दृष्ट्वा सोमनाथोऽथ स्कन्दमाह महेश्वरः ॥ १४-६८॥
शक्त्यैनं जहि कल्याण लोकविघ्नकरं शठम् ।
स्वामिनाऽथ तमुद्दिश्य शक्तिविद्युत्प्रभा मुने ॥ १४-६९॥
मुक्ता सती तस्य पार्श्वं किञ्चिद्भित्त्वा व्यवस्थिता ।
ब्रह्मणो वरदानात्तु न बिभेद शरीरकम् ॥ १४-७०॥
महिषोऽथ तथा विद्धः शक्त्या सह पलायितः ।
माहेन्द्रोमगमच्छोघ्रं शक्तिवह्निप्रदीपितः ॥ १४-७१॥
तापार्त्तश्च प्रहारार्त्तो जलेप्सुः स जलप्रियः ।
नद्या ह्रदं चाभ्यपतद्महिषस्तप्तमानसः ॥ १४-७२॥
पातालमगमच्छीघ्रं यत्र ते दानवाः स्थिताः ।
जिघृक्षुः शक्तिमगमत् स्कन्दो वेगेन पृष्ठतः ॥ १४-७३॥
शक्तिलेखामनुप्राप्य ततो जग्राह तां पुनः ।
आचकर्ष करेणैव शक्तिं सेनापतिस्तदा ॥ १४-७४॥
रेखामन्ववहत्तत्र स्वामिनाम्नी सरस्वती ।
भूमिमध्यस्थता नित्यं वर्ततेऽन्तर्जला नदी ॥ १४-७५॥
अतः स्वामीति नाम्ना सा नदी ख्याता महीतले ।
तस्यां (यः) कुरुते स्नानं सरस्वत्याः फलं लभेत् ॥ १४-७६॥
कार्तिकेयोऽथ तां शक्तिं गृहीत्वा शङ्करप्रियः ।
वाल्मीकिं तोषयामास माहेन्द्रीतीरवासिनम् ॥ १४-७७॥
महिषं शप्तः (शप्तु) कामं तं तपोव्ययकृतक्षमम् ।
वाल्मीकिना दत्तवरः कुमारोऽमितविक्रमः ॥ १४-७८॥
आपृच्छ्य तं मुनिवरं पुनरागान्महेश्वरम् ।
वाल्मीकिः स्वाश्रमं गत्वा जहो महिषजं भयम् ॥ १४-७९॥
तत्र त्वादिह्रदं नाम तीर्थं माहेन्द्रसम्भवम् ।
तत्र स्नात्वा च पीत्वा च वसेदिन्द्रस्य सन्निधौ ॥ १४-८०॥
माहेन्द्र्यां स्नानमात्रेण लभते वाञ्छितं फलम् ।
ब्रह्महा मद्यपः स्तेयी तत्सङ्गी गुरुतल्पगः ।
माहेन्द्रीस्नानमात्रेण दह्यन्ते तूलराशिवत् ॥ १४-८१॥
नद्यां स्नानं तु यः कश्चिन्माहेन्द्र्यां कुरुते नरः ।
माहेन्द्रीस्नानमात्रण सर्वपापैः प्रमुच्यते ॥ १४-८२॥
उपपापानि सर्वाणि तथा क्षुद्राण्यनेकशः ।
प्रयागस्य समं प्रोक्तं विशेषेण कलौ युगे ॥ १४-८३॥
यथा महेन्द्रो देवानां गरुडश्च पतत्रिणाम् ।
नक्षत्राणां यथा सोमो ग्रहाणां च दिवाकरः ॥ १४-८४॥
ह्रदाणामुदधिः श्रेष्ठो मेरुः शिखरिणामिव ।
धातूनां च यथा हेम माहेन्द्री च सरिद्वरा ॥ १४-८५॥
कृत्वा स्नानं (च) माहेन्द्रयां तर्पयित्वा पितॄंस्ततः ।
श्राद्धं कृत्वा नरो याति माहेन्द्रस्य च सन्निधौ ॥ १४-८६॥
न दानैर्न तपोभिश्च न व्रतैस्तीर्थगाहनैः ।
या गतिः प्राप्यते पुम्भिर्महेन्द्रयां सा गतिर्भवेत् ॥ १४-८७॥
माहेन्द्रीति कलौ प्रोक्ता महत्त्वाच्च विशेषतः ।
सर्वतीर्थाधिका कृत्वा मुनिभिः परिकीर्तिता ॥ १४-८८॥
माहेन्द्र्यां तु नरः स्नानं कुर्यात् पर्वणि पर्वणि ।
तस्य पुण्यस्य सङ्ख्यां नो चित्रगुप्तोऽपि वेत्त्यलम् ॥ १४-८९॥
इति ते कथितं सर्वं सोमनाथस्य कीर्त्तनम् ।
स्वामिनद्याश्च माहेन्द्र्याः किमन्यत् कथयामि ते ॥ १४-९०॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये सोमनाथमाहात्म्ये माहेन्द्रीवर्णनं नाम चतुर्द्दशोऽध्यायः । १४॥
अथ पञ्चदशोऽध्यायः । क्षीरेश्वरमाहात्म्यम् ।
15.1 Śaunaka शौनक asks Sūta सूत about the path taken by Kāmadhenu कामधेनु towards reaching Amarakaṇṭaka अमरकण्टक; to which Sūta सूत responds by describing several tīrthasthala तीर्थस्थल including Kuṅdeśvara कुण्डेश्वर, Guheśvara गुहेश्वर, Somanātha सोमनाथ, Vaidyanātha वैद्यनाथ, Nīlakaṇṭha/Nīlavarṇaka नीलकण्ठ/नीलवर्णक, Kedāra केदार, Kapileśa कपिलेश, Viśvanātha विश्वनाथ, Pātāleśvara पातालेश्वर, Acaleśa अचलेश, Rāmeśvara रामेश्वर, and rivers including Gomatī गोमती, Candrabhāgā चन्द्रभागा.
15.2 The story of Kṣīreśvara Śiva क्षीरेश्वर शिव is narrated.
शौनक उवाच -
कथितं च त्वया सर्व यत्पृष्टं सूतनन्दन ।
एकलिङ्गस्य माहात्म्यं सुराणामपि दुर्लभम् ॥ १५-१॥
वैद्यनाथादिलिङ्गानि सोमनाथस्य चैव हि ।
एकलिङ्गात् कथं धेनुर्गता साऽमरकण्टकम् ॥ १५-२॥
केन मार्गेण वा सूत दिशि कस्यामथापि वा ।
एतद्विस्तरतो ब्रूहि पुराणस्यार्थविद्भवान् ॥ १५-३॥
सूत उवाच -
मुनिना नारदेनैतद्वायुः पृष्टः सविस्तरम् ।
तदहं कथयिष्यामि शृणुष्वैकमना द्विज ॥ १५-४॥
एकलिङ्गात्ततो धेनुः पश्चिमां दिशमाश्रिता ।
क्रोशद्वयमितं ज्ञात्वा गर्जयामास सा तदा ॥ १५-५॥
एकलिङ्गं स्मरन् भूमौ न्यखनच्छृङ्गकोटिना ।
तेन सन्तोषयामास गर्त्तमध्यान्महेश्वरः ॥ १५-६॥
आविभूर्तो मुनिश्रेष्ठ कुण्डेश्वर इति प्रभुः ।
तस्य दर्शनमात्रेण भवाब्धौ न निमज्जति ॥ १५-७॥
तत्र सा सुचिरं स्थित्वा उदीच्यां सत्वरं पुरा ।
जगाम मेदपाटान्तं कृत्वा लिङ्गमयं पुरा ॥ १५-८॥
ततोऽभ्यगच्छन्मुदिता स्मृत्वा देवं महेश्वरम् ।
यत्र यत्र च सा धेनुश्चचार पृथिवीमिमाम् ॥ १५-९॥
तत्र तत्राभवन् ब्रह्मन् लिङ्गानामथ कोटयः ।
गुहेश्वरः सोमनाथो वैद्यनाथस्तथैव च ॥ १५-१०॥
नीलकण्ठः कापिलेशो विश्वनाथ इति स्मृतः ।
कुण्डेश्वर इति ख्यातो पातालेश्वर इत्यपि ॥ १५-११॥
अचलेश इति ख्यातो रामेश्वर इति प्रभुः ।
देवर्षिगणगन्धर्वयक्षविद्याधरोरगैः ॥ १५-१२॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि महामुने ।
वेदोक्तेनैव विधिना मन्त्त्रैर्वैदिकसम्भवैः ॥ १५-१३॥
स्थापनं चार्चनं तेषां त्रैवर्ण्यानां शुभप्रदम् ।
शूद्राणां नाममन्त्रैश्च विधिरेष सनातनः ॥
न वैदिकैर्यजेच्छूद्रः स्वधर्ममनुपालयन् ॥ १५-१४॥
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ १५-१५॥
(श्रीमद्भगवद्गीता ३।३५)
येन येनैव यल्लिङ्गं स्थापितं यत्र यत्र च ।
तत्तन्नाम्ना महेशोऽभूत् सर्वलिङ्गमयो विभुः ॥ १५-१६॥
स्थावरं जङ्गमं वापि पार्थिवं वा स्वयं विभुः ।
अर्च्चयेच्छङ्करं भक्त्या न वसेद्गर्भमन्दिरम् ॥ १५-१७॥
कृत्वा लिङ्गसहस्राणि गच्छन्न(न्त्य)मरकण्टकम् ।
कामधेनुरथापश्यल्लावण्यह्रदमुत्तमं ॥ १५-१८॥
दृष्ट्वा तु तत्प्रभावं च सा धेनुर्मुदिताऽभवत् ।
रुद्राणां च स्थितिं मत्वा सस्मारैकादशैव सा ॥ १५-१९॥
रुद्रानेकस्थितान् कर्त्तुलोकानां हितमिच्छ(न्)ती ।
अथ तत्र स्थिरा भूत्वा ध्यायन्ती नीलवर्णकम् ॥ १५-२०॥
प्रस्रवेणाभिवर्षन्ती भुवं कोष्णेन तत्र च ।
पयसां भूमिसंयोगात् प्रवाहः समपद्यत ॥ १५-२१॥
गोमतीति नदी तत्र ख्याता लोके बभूव ह ।
पयसा सिञ्चिता भूमिरमृतेनैव भूयसा ॥ १५-२२॥
आविश्चकार रुद्राणां षट्कपञ्चाधिकं तदा ।
धयन्ती तर्णकं धेनुर्मूत्रोद्गारं चकार ह ॥ १५-२३॥
तत्र कुण्डत्रयं जातं पुष्करत्रितयं परम् ।
चन्द्रभागा षोडशधा आविर्भूता समन्ततः ॥ १५-२४॥
भूषणार्थं च रुद्राणां तत्राभूदपरा सरित् ।
चन्द्रभागेति विख्याता गोमत्या सह सङ्गता ॥ १५-२५॥
गोमत्याश्चन्द्रभागायाः कुण्डेभ्यो यः समुत्थितः ।
प्रवाहस्त्रिविधो भूत्वा पश्चादैक्यं जगाम ह ॥ १५-२६॥
तत्सङ्गमे नरः स्नात्वा प्रयागस्य फलं लभेत् ।
वृषोत्सर्ग तु यः कुर्यात् तत्र क्षीरेशसन्निधौ ॥ १५-२७॥
मोक्षतीर्थफलं तस्य गयापिण्डेन यत्फलम् ।
तत्फलं समवाप्नोति पिशाचो न त्वयं भवेत् ॥ १५-२८॥
भूतप्रेतोऽपि वा ब्रह्मन् दुष्टत्वेन मृतोऽपि वा ।
मोक्षं स लभते वेगाद्महापापोऽपि निश्चितम् ॥ १५-२९॥
प्रयागं विदधे ब्रह्मा प्रजानां हितकाम्यया ।
तथा त्रिसङ्गमं चैतद्भुक्तिमुक्तिप्रदं कलौ ॥ १५-३०॥
तस्मिन् कुण्डे नरः स्नानं तर्पणं श्राद्धमेव च ।
त्रिपुष्करफलं तस्य तत्सर्वमक्षयं भवेत् ॥ १५-३१॥
केदारे उदकं पीत्वा स्नात्वा चैव पृथूदके ।
तत्फलं समवाप्नोति कुण्डेऽस्मिन्नात्र संशयः ॥ १५-३२॥
रुद्रैकादशकं तत्र कामधेनुश्चकार ह ।
एकादश तथा रुद्राः प्रादुरासन्महीतलात् ॥ १५-३३॥
तान् दृष्ट्वा ब्रह्महा शुद्ध्येत् किमुतान्ये दुरात्म(त्मा)नः ।
क्षीरेश्वर इति ख्यातो जगदादिर्महामुने ॥ १५-३४॥
तमभ्यर्च्य नरा यान्ति स्वर्गे देवगणा इव ।
कामधेनुर्यथा कामं कामं चिन्तामणिर्यथा ॥ १५-३५॥
कल्पवृक्षो यथा कामं प्रयागश्च यथा फलम् ।
क्षीरेश्वरस्तथा पुंसां सर्वान् कामान् प्रयच्छति ॥ १५-३६॥
सहितो दशभी रुद्रैर्नास्ति तत्र विचारणा ।
क्षीरेश्वरः क्षीरप्रदः सर्वकामप्रदस्तथा ॥ १५-३७॥
भुक्तिमुक्तिप्रदः शम्भुस्तथा लक्ष्मीप्रदः प्रभुः ।
कामदो मोक्षदश्चैव सुकलत्रप्रदस्तथा ॥ १५-३८॥
विद्याप्रदश्च विप्राणां राज्ञां च पृथिवीप्रदः ।
पुत्रदश्चैव नारीणां तथा सौभाग्यदो विभुः ॥ १५-३९॥
अवैधव्यप्रदस्तासां सौख्या रोग्यप्रदस्तथा ।
जयप्रदो नृपाणां च भक्तानां सुमतिप्रदः ॥ १५-४०॥
उपोष्य शिवरात्रिं यो रात्रौ जागरणं त्विह ।
करोति च नरो नारी सर्वान् कामानवाप्नुयात् ॥ १५-४१॥
शौनक उवाच -
क्षीरेश इत्यथाख्यातः कस्माज्जातो वदस्व नः ।
क्षीरेशस्य च माहात्म्यं वर्णयस्व विशेषतः ॥ १५-४२॥
सूत उवाच -
गोक्षीरादुद्गतं लिङ्गं तेन क्षीरेश्वरोऽभवत् ।
दुग्धं चन्द्रं रसं चैव गोमूत्रं युगपत् स्थितम् ॥ १५-४३॥
ह्रदे तस्मिन्नतः ख्यातिर्लावण्यह्रद इत्यपि ।
गणेश्वरास्तत्र वासं चक्रुर्विघ्नहरा नृणाम् ॥ १५-४४॥
मातरः सप्त चान्याश्च वसन्ति स्म तदन्तिके ।
विवस्वान् कर्मसाक्षी च वेदत्रयमयो विभुः ॥ १५-४५॥
ब्रह्मविष्णुमयश्चैव तथा रुद्रमयः प्रभुः ।
विद्यामयो ज्योतिर्मयो विश्वात्मा विश्वकृद्विभुः ॥ १५-४६॥
भूर्भुवः स्वर्मध्यतो यस्तमोहन्ता दिवाकरः ।
अग्नीषोममयो देवः सर्वदेवमयः प्रभुः ॥ १५-४७॥
सर्वदेवमयो भास्वानोङ्कारार्णमयः पुरा ।
यस्य देहे सर्वदेवा नद्यश्च भुवनानि च ॥ १५-४८॥
तीर्थाणि चैव सर्वाणि सागराः सरितस्तथा ।
महीध्राः पन्नगाः सर्वे यत्किञ्चिद्विद्यते जगत् ॥ १५-४९॥
दृश्यते ब्रह्मणि यथा जगत् स्थावरजङ्गमम् ।
सोऽभवद्भगवान् सूर्यो विश्वसाक्षी जगत्प्रभुः ॥ १५-५०॥
नारायणस्तथानन्तो दशभिः सह विश्वसृक् ।
रूपैर्मत्स्यादिभिरिह वसति स्म श्रिया युतः ॥ १५-५१॥
क्षेत्रपालोऽथ भगवान् क्षेत्ररक्षाकरः प्रभुः ।
श्मशानवासी यो नित्यं भूतप्रेतयुतः सदा ॥ १५-५२॥
करालवदनो घोरश्चलज्जिह्वः कृशोदरः ।
कपालमालाभरणः स्थूलमूर्द्धा शुनां प्रियः ॥ १५-५३॥
भक्तानां रक्षणं कुर्वन् भूतप्रेतादिकान् छलन् ।
अतः क्षेत्रपप्रीत्यर्थं सुरामांसादिभिर्युतः ॥ १५-५४॥
पूजयेद्भक्तिभावेन चतुर्वर्गप्रसिद्धये ।
हनुमानाञ्जनेयोऽथ यो लङ्कामदहत् पुरीम् ॥ १५-५५॥
सहायो रामभद्रस्य हनुमानिति विश्रुतः ।
ब्रह्मशापपरामृष्टः स्ववीर्यज्ञानयन्त्रियः(तः) ॥ १५-५६॥
कदाचिन्नाकरोद्वीर्यं स्मारितो वाऽकरोद्बलम् ।
तुतोष सीतां सन्देशै रामस्य महिषीं प्रियाम् ॥ १५-५७॥
सूर्याद्व्याकरणं लेभे जघ्नेऽसङ्ख्यान् स राक्षसान् ।
य उल्लङ्घ्याब्धिसहितामुर्वीमामेरुदर्शनात् ॥ १५-५८॥
ओषधीश्च समं तूर्णमाजहाराचलं विभुः ।
शिशुत्वे सूर्यबिम्बं यः फलभ्रान्त्योत्पपात ह ॥ १५-५९॥
तमुत्सृज्याभ्यगात्तूर्णं राहुमत्तुं पराक्रमी ।
देवेभ्यो यो वरं प्राप्य शक्त्या(ऽ)भेद्योऽमरोऽभवत् ॥ १५-६०॥
कौबेर्य्यां दिशि रामस्य कीर्तिस्तम्भ इव स्थितः ।
योऽजुनस्य ध्वजे पञ्चशतभूतैः समन्ततः ॥ १५-६१॥
स्थितोऽपश्यत् कुरूणां च पाण्डवैः सुमहत्क्षयः(यम्) ।
ब्रह्मचारी स भगवान् वायुपुत्रो महाबलः ॥ १५-६२॥
देवैरेकादशो रुद्रः पृथिव्यां योऽवतारितः ।
रक्षोभूतपिशाचादिशाकिन्यादिमहद्भयम् ॥ १५-६३॥
छिनत्ति पूजितो नित्यं बाल्येनापि महद्विभुः ।
निराकरोति भूतानां डाकिन्यादिमहद्भयम् ।
उवास हनुमांस्तत्र सर्वैः समुदितो गुणैः ॥ १५-६४॥
नारद उवाच -
कथितं चास्य तीर्थस्य माहात्म्यमखिलं त्वया ।
प्रत्ययं ब्रूहि मे वायो श्रद्दधामि तथा पुनः ॥ १५-६५॥
वायुरुवाच -
सूर्यवंशोद्भवो राजा ध्रुवसन्धिरिति श्रुतः ।
वदान्यो यज्ञवान् धीमान् प्रजानां परिपालकः ॥ १५-६६॥
स कदाचिन्नृपो ब्रह्मन् मृगयारसिको भृशम् ।
वनं जगाम सुमहद्वारा(मा)दिव्यूहसंवृतः ॥ १५-६७॥
बद्धगोलाङ्गुलीत्राणो धनुःशरकरो नृपः ।
भूमेर्धुरं समारोप्य मूलमाप्तेषु निश्चलम् ॥ १५-६८॥
वनाद्वनं ययौ राजा मृगानुपदमेव च ।
स कदाचिद्दशपुरं जगामाथ महीपतिः ॥ १५-६९॥
विनेष्यन्निव दुष्टानि सत्त्वानि च दिवानिशम् ।
मृगयाक्रीडतो राजा कान्तारे गहने द्विज ॥ १५-७०॥
दैत्यपुत्रो दुरात्मानौ नाम्ना जम्भकरम्भकौ ।
हन्तुकामौ नृपं वैरात् स्वपितुः सिंहरूपिणी ॥ १५-७१॥
अन्वेष्यन्तौ छलोपायं तद्वनं समगच्छताम् ।
तस्मिन्नवसरे राजा मृगयूथमपश्यत(द्ह) ॥ १५-७२॥
दृष्ट्वा हयेनाभ्यपतन्मनसा समरंहसा ।
वित्रस्ते मृगयूथे तु मृगमेकमगान्नृपः ॥ १५-७३॥
गच्छन्तमनु दैत्यौ तौ जग्मतुर्वातरंहसौ ।
सिंहरूपधरौ दुष्टो हन्तुकामौ छलान्नृपम् ॥ १५-७४॥
तौ भूपं पुरतो दृष्ट्वा यथा (?) शून्यं नृपात्मजम् ।
तौ दृष्ट्वा नृपतिश्रेष्ठो बाणवर्षैरिवाकिरन् ॥ १५-७५॥
मुखमेकस्य वेगेन पूरयन् शरवृष्टिभिः ।
तूणीरमिव पूर्णास्यं हतं दृष्ट्वा परोऽसुरः ॥ १५-७६॥
वेगेन धनुरुद्यम्य जघान सहयं रथम् ।
शिरस्तस्य पुरा दैत्यश्चकर्तास्येन(स्त्रेण) वीर्यवान् ॥ १५-७७॥
गृहीत्वा तच्छिरो दूरमगमत्स वनाद्वनम् ।
प्रगृह्य कुण्डले दुष्ट उत्ससर्ज शिरो वने ॥ १५-७८॥
पलायितस्ततः शीघ्रं पितुरानृण्यमेयिवान् ।
प्रत्यूषे तच्छिरः श्येनो गृहीत्वा व्योमनि स्थितः ॥ १५-७९॥
आगतस्तत्र वेगेन क्षीरेशो यत्र शङ्करः ।
नद्यास्त्रिसङ्गमे वृक्षं समीपस्थं ददर्श ह ॥ १५-८०॥
श्येनस्तत्रोपविश्याशु भक्षयामास तच्छिरः ।
कपालं संस्थितं तस्य तरोः शाखावलम्बितम् ॥
गतः श्येनः स्वमार्गेण मांसतृप्तः स्वनीडकम् ॥ १५-८१॥
वायुरुवाच -
एतस्मिन्नन्तरे ब्रह्मन् राज्ञस्तस्य पदानुगाः ।
समीक्षन्तो नृपं सर्वे हयमार्गे प्रचक्रमुः ॥ १५-८२॥
दृष्ट्वा तु ते नृपं तत्र हतं सिंहेन दुःखिताः ।
रुरुदुः परिवार्यैनं जगदुर्मुषिता इति ॥ १५-८३॥
न पश्यन्तः शिरस्तस्य बभ्रमुः सर्वतो दिशम् ।
शरीरं तस्य नृपतेरदहंस्ते विधानतः ॥ १५-८४॥
पुरं दाशरथं नीत्वा काष्ठेश्चागरुसम्भवैः ।
वेदोक्तेन विधानेन गतः स्वर्गं नृपात्मजः ॥ १५-८५॥
कामगेन विमानेन यज्ञकृद्धार्मिकः शुचिः ।
विरूपवदनो जात(तः) अदाहाच्छिरसस्तदा ॥ १५-८६॥
अतप्यत नृपो ब्रह्मन् स्वकर्म परिचिन्तयन् ।
जगाम शङ्करं देवं यं दृष्ट्वा नैव शोच्यते ॥ १५-८७॥
नत्वाऽथ शङ्करं राजा स्तुत्वा चैनमुवाच ह ।
राजोवाच -
भगवन् सूर्यवंशी यो राजा ते शरणं गतः ॥ १५-८८॥
दुष्कृतं न कृतं शम्भो येन मे विकृताननम् ।
जातं न तं(तत्) स्मराम्यद्य आजन्ममरणादिति ॥ १५-८९॥
भवेदपि मयि स्थाणो कृपया शंस सत्वरम् ॥ १५-९०॥
ईश्वर उवाच -
निहतस्त्वं नृपश्रेष्ठ सिंहेन गहने वने ।
उत्कृत्य ते शिरो दूरात् त्यक्तं दुष्टात्मना रुषा ॥ १५-९१॥
तच्छिरो वायुवेगेन श्येनेनाप्याहृतं नृप ।
लावण्यह्रदनामाख्ये तीर्थे क्षीरेशसन्निधौ ॥ १५-९२॥
निक्षिप्तं सङ्गमे नद्या गोमत्यास्तीरजे द्रुमे ।
तत्र गत्वा नृपश्रेष्ठ सरितः सङ्गमे शुभे ॥ १५-९३॥
कपालं तद्द्रुमात्तोये सङ्गमेऽस्या निवेशय ।
एवं ते वदनं भूयः सोमाब्जसदृशं नृप ॥ १५-९४॥
भविष्यति च तत्तीर्थं प्रभावात् शङ्करस्य च ।
वायुरुवाच -
एतच्छ्रुत्वा नृपश्रेष्ठः प्रणम्य वृषभध्वजम् ॥ १५-९५॥
जगाम त्वरितस्तत्र क्षीरेशो यत्र शङ्करः ।
त्रिसङ्गमे कपालं तत् क्षिप्त्वा स्नात्वा च शङ्करम् ॥ १५-९६॥
प्रणम्याथ ययो राजा विमानेनेशसन्निधौ ।
स्तूयमानः सगन्धर्वैरप्सरोगणसेवितः ॥ १५-९७॥
इति ते कथितं सर्व तीर्थस्यास्य फलं महत् ।
य इदं कीर्तयेन्नित्यं रुद्रलोकं स गच्छति ॥ १५-९८॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये क्षीरेश्वरमाहात्म्यं नाम पञ्चदशोऽध्यायः । १५॥
अथ षोडशोऽध्यायः । गौतममाहात्म्यम् ।
16.1 Vāyu वायु continues to narrate that after annihilating Vṛtra वृत्र, Indra इन्द्र along with other Deva-s देवाः ask Bṛhaspati बृहस्पति about relief from the sin. Bṛhaspati बृहस्पति guides them to go to Kurumā Nadī कुरुमा नदी near Medapāṭa मेदपाट and conduct a process that results in manifestation of River Sarasvatī सरस्वती that by nature relieves from sin and debts. The Deva-s देवाः bathed in its waters and having gotten freed from their sins and debts reach their abode. Kāmadhenu कामधेनु reaches there too and this is followed by manifestation of Ṛṇamocana Śiva ऋणमोचन शिव.
16.2 Upon being requested by Nārada नारद about Godvāra गोद्वार, Vāyu वायु narrates the story of Ṛṣi Gautama ऋषि गौतम and his curse to his wife Ahalyā अहल्या and Indra इन्द्र at Brahmagiri ब्रह्मगिरि in Daṇḍakāraṇya दण्डकारण्य. Following the episode, Ṛṣi Gautama ऋषि गौतम accidentally hits the Dhenu धेनु albeit due to the error of some Muni-s मुनयः. He conducts intense penance for this act; whereby, Śiva शिव makes an appearance and declares him sinless. Per the request by Ṛṣi Gautama ऋषि गौतम, Śiva शिव resides at Tryambaka Parvata त्र्यम्बक पर्वत as Gautameśvara गौतमेश्वर, with Gaṅgā गङ्गा following suit.
वायुरुवाच -
अतः परं मार्गवशाद्गच्छन्त्यमरकण्टकम् ।
कुरुमेति पुरा प्रोक्ता भूमौ गुप्ता सरस्वती ॥ १६-१॥
तस्याः प्रभावं वक्ष्येऽहं यथाऽभूत्सा सरिद्वरा ।
पुरा वृत्रे हते देवैश्छद्मना सागरान्तिके ॥ १६-२॥
हत्याभिभूतास्त्रिदशाः संसर्गाद्वासवस्य च ।
बृहस्पतिं देवगुरुमपृच्छन् सहिताः सुराः ॥ १६-३॥
देवा ऊचुः -
बृहस्पते यथास्माकं ब्रह्महत्या न बाधते ।
तथा कुरु महाभाग एनसोऽस्य क्षयो भवेत् ॥ १६-४॥
बृहस्पतिरुवाच -
गच्छध्वं सहिता देवा मेदपाटान्तिकं पुनः ।
कुरुमेति नदी पुण्या जाङ्गले पर्वते स्थिता ॥ १६-५॥
तत्र गत्वा गिरेः शृङ्गं धर्मो वैवस्वतः प्रभुः ।
भिनत्तु दण्डेन महीं ततः प्रादुर्भविष्यति ॥ १६-६॥
आपृच्छ्य ते तथेत्युक्त्वा देवा धर्मपुरःसराः ।
तस्मिन् देशे च सहिताः सविद्याधरकिन्नराः ॥ १६-७॥
महर्षिगणगन्धर्वा जाङ्गले पर्वतोत्तमे ।
धर्मराजोऽथ दण्डेन बिभेद गिरिमस्तकम् ॥ १६-८॥
तस्माद्भेदान्नदी जाता पुण्यतोया सरस्वती ।
बहुप्रवाहा गङ्गेव शीतैरुष्णः क्वचिज्जलैः ॥ १६-९॥
ऋणहा पापहा देवी ख्यातिं याता महीतले ।
नारद उवाच -
ऋणहेति कथं जाता पापहेति कथं पुनः ॥ १६-१०॥
एतद्विस्तरतो वायो ब्रूहि त्वं सर्वगो यतः ।
वायुरुवाच -
वृत्रस्यापि पुरा देवै राज्यं सम्प्रतिपादितम् ॥ १६-११॥
वाचा दत्तं मैत्र्यभावात् छद्मनापहृतं पुनः ।
ततो हत्याभिभूतास्ते स्नानं चक्रुर्दिवौकसः ॥ १६-१२॥
तेन सा पापहा जाता ऋणहा ऋणमोचनात् ।
तत्र देवास्त्रयस्त्रिंशत्कोटयो ऋणमोचने ॥ १६-१३॥
स्नानं कृत्वा तु विधिवत् प्रयाता व्रतकर्षिता(ताः) ।
वाचा ऋणेन निर्मुक्ता(ताः) पापमुक्तास्ततोऽन्यतः ॥ १६-१४॥
यमकुण्डं ततः प्रोक्तं यमहत्याव्यपोहनम् ।
कत्तंरीति च लोकेषु ख्यातिं चैव पृथक् पृथक् ॥ १६-१५॥
तेषु कुण्डेषु यः स्नानं करोति भुवि मानवः ।
वाचा ऋणेन चान्येन मुच्यते तत्क्षणादपि ॥ १६-१६॥
वाण्या यत्क्रियते पापं वाण्या यद्धारितं पुनः ।
तत्सर्वं विलयं याति तत्र स्नात्वा न संशयः ॥ १६-१७॥
ततो देवाः कृतस्नानाः शुद्धाश्चासन् महामुने ।
विमानानि समारुह्य स्वं स्वं भवनमाययुः ॥ १६-१८॥
ततो मार्गवशाद्धेनुर्गता सा ऋणमोचनम् ।
पीत्वा तत्रापि पानीयं ज्ञात्वा तीर्थं प्रहर्षिता ॥ १६-१९॥
सस्मार शङ्करं देवी स्मृतः प्रादुरभूच्छिवः ।
ऋणमोचननामाऽसौ भुवि ख्यातो महेश्वरः ॥
तत्र स्नातस्तमभ्यर्च्य सर्वपापैः प्रमुच्यते ॥ १६-२०॥
तस्य लिङ्गस्य सान्निध्ये वनं जातं महत्तरम् ।
वटैराम्रैश्च पालाशैर्जम्बूदुम्बरपाटलैः ॥ १६-२१॥
अश्वत्थचारभल्लातैः करवीरैश्च दाडिमैः ।
केतकैः शतपत्रैश्च वानीरैरर्जुनैस्तथा ॥ १६-२२॥
मालतीभिः सनारङ्गैश्चम्पकैश्च मनोहरैः ।
मधु(धू)कैर्बीजपूरैश्च कदलीभिः सकर्णिकैः ॥ १६-२३॥
कदम्बैर्वीजपूरेश्च पनसैश्चापि सुन्दरैः ।
करञ्जवञ्जुलैश्चैव मुचुकुन्दैः सुगन्धिभिः ॥ १६-२४॥
लताभिश्च तथा पूर्णमन्यवृक्षैः सहस्रशः ।
सदाफलं सदापुष्पं मृगपक्षिगणाश्रितम् ॥ १६-२५॥
मत्तभ्रमरसंयुक्तं कोकिलारावपूरितम् ।
वनं दृष्ट्वाऽथ सा धेनुर्मुदिताऽभून्महामुने ॥ १६-२६॥
महीमच्छिन्नसलिलां चक्रे तां च सरस्वतीम् ।
तस्याः प्रवाहे यः स्नानं करोति भुवि मानवः ॥
स विधूयेह पापानि शक्रलोके सदा वसेत् ॥ १६-२७॥
रविवारे च सङ्क्रान्तौ दर्शे वाप्यन्यपर्वसु ।
प्रवाहे वैधूते तस्याः स्नानं दानं विशेषतः ॥ १६-२८॥
करोति यो नरः स्नानं तर्पणं देवतार्च्चनम् ।
तत्सर्वमक्षयं ब्रह्मन् भवतीह न संशयः ॥ १६-२९॥
दृष्ट्वा तां सरितं धेनुः स्मृत्वा चाथ महेश्वरम् ।
पुनर्ययौ मार्गवशान्माहेन्द्र्यां द्विजसत्तम ॥ १६-३०॥
तत्र पीत्वा जलं धेनुर्गता मार्गेण सा पुनः ।
किरातानां महत्सैन्यं पर्वताग्राद्विनिःसृतम् ॥ १६-३१॥
धनुः पाशविषाणैश्च शरपूर्णैश्च पूरितम् ।
शक्तितोमरखड्गैश्च शस्त्रैरन्यैः समन्वितम् ॥ १६-३२॥
दृष्ट्वा धेनुर्हेलयैव दुष्टभावं च तस्य तत् ।
ज्ञात्वैव साऽथ सुरभी जनकाचलमाश्रिता ॥ १६-३३॥
जनकाचल इत्यत्र देवः ख्यातिं समागतः ।
दुष्टभावं विदित्वा सा तस्य सैन्यस्य कोपिता ॥ १६-३४॥
पुच्छमुत्थाप्य वेगेन ततो(थो)न्नम्य शिरोधराम् ।
हुङ्कारानथ कृत्वा तु ननाद सा मुहुर्मुहुः ॥ १६-३५॥
त्रासयामास तत्सैन्यं कैरातं शृङ्गपट्टिशैः ।
खुराभिघातैः पुच्छेन तुण्डेनैवोरसा पुनः ॥ १६-३६॥
विद्रुतं तत्क्षणात् सैन्यं दिशो भेजे भयातुरम् ।
ततो धेनू रुषा सैन्यमशपद्वनवासिनाम् ॥ १६-३७॥
यस्माद्विघ्नं कृतं मेऽद्य भवद्भिः क्रूरबुद्धिभिः ।
पिबन्त्याः स्वेच्छ्या तोयं माहेन्द्र्यां च किरातकाः ॥ १६-३८॥
देशेऽस्मिन्नृपमुख्यानां तस्माद्वश्या भविष्यथ ।
जलाद्रोगभयं चाद्य दिनान्नित्यं भविष्यति ॥ १६-३९॥
नृपा येऽत्र भविष्यन्ति वदान्याश्चिरजीविनः ।
न तेषु तोयरोगोत्थं भयं स्यान्न भवद्भयम् ॥ १६-४०॥
इति शप्त्वा तु सा धेनुर्ययौ गोद्वारसंज्ञकम् ।
यत्रेश्वरो जगद्व्यापी गुहायां संस्थितो विभुः ॥ १६-४१॥
नारद उवाच -
गोद्वारमिति यत्प्रोक्तं कथं जातं समीरण ॥ १६-४२॥
कथं स भगवान् शम्भुराविर्भूतो जगत्प्रभुः ।
एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ १६-४३॥
वायुरुवाच -
पितामहसुतः श्रीमान् गौतमो नाम विश्रुतः ।
स कदाचित्तपस्तप्तु दण्डकारण्यमाविशत् ॥ १६-४४॥
तत्र ब्रह्मगिरिर्नाम पर्वतो भुवि विश्रुतः ।
तस्य तीरे स भगवान् गौतमो मुनिसत्तमः ॥ १६-४५॥
तपश्चकार सुमहदहल्यासहितो विभुः ।
सदा त्रिषवणस्नानी वेदाभ्यासरतः सदा ॥ १६-४६॥
पञ्चाग्निनिरतो ग्रीष्मे वर्षासु स्थण्डिलेशयः ।
हेमन्ते च वसेदप्सु शीतवातसहो मुनिः ॥ १६-४७॥
ऊनं न सत्त्वेष्वधिको बबाधे तत्प्रभावतः ।
न दावाग्निभयं तत्र झञ्झावातभयं न च ॥ १६-४८॥
सदाफलं सदापुष्पं वनं चैत्ररथं यथा ।
शालैस्तालैस्तमालैश्च पनसैर्बकुलैरपि ॥ १६-४९॥
प्रियालुनालिकेरैश्च खर्ज्जूरैश्च सदाफलैः ।
पूगीफलैरनेकैश्च जम्बूदुम्बरपाटलैः ॥ १६-५१॥
वटाश्वत्थकपित्थैश्च चूताशोकार्जुनैस्तथा ।
पलाशखदिराकैश्च निम्बचिञ्चिणिकैस्तथा ॥ १६-५२॥
बिल्वामलकभल्लातैः करञ्चधवतिन्दुकैः ।
मधूकैः शल्लकीभिश्च चारुभिश्च हरीतकैः ॥ १६-५३॥
निगुर्ण्डीकर्मदीभिश्च वैतसैश्च सहस्रशः ।
लवङ्गलानागवल्लीद्राक्षाजातीफलैस्तथा ॥ १६-५४॥
चम्पकैः करवीरैश्च दाडिमैश्च सदाफलैः ।
जम्बीरैर्बीजपूरैश्च नारिङ्गेश्च समन्ततः ॥ १६-५५॥
जातीभिः शतपत्रीभिर्मुचकुन्दैर्जपादिभिः ।
कदलीकेतकीभिश्च अन्यैश्च विविधैर्दुमैः ॥ १६-५६॥
सदाफलं सदापुष्पं सदापान्थनिषेवित्तम् ।
न तत्र दुर्भिक्षभयं गौतमस्य प्रभावतः ॥ १६-५७॥
कामवर्षी सदा मेघः कृष्टा कृष्टा सदा मही ।
सदा सस्यसमायुक्ता बहुतोया सदाफला ॥ १६-५८॥
सशाद्वला सदा ब्रह्मन् गावः क्षीरप्रदाः सदा ।
नैव रोगभयं तत्र नैव शोकभयं तथा ॥ १६-५९॥
मुनेः प्रभावाद्देशेऽस्मिन् सर्वसौख्यं प्रवर्तते ।
कस्मिंश्चिदथ काले तु जनो दुर्भिक्षपीडितः ॥ १६-६०॥
अखिलेष्वपि देशेषु वर्षद्वादशसङ्ख्यया ।
अभाग्याच्चैव लोकानां नववर्षुर्बलाहकाः ॥ १६-६१॥
अथ द्विजाः क्षत्रियाश्च विशः शूद्रास्तथा परेः ।
दुर्भिक्षपीडिता जग्मुर्यत्रासौ गौतमो मुनिः ॥ १६-६२॥
गत्वा तत्र तथा सर्वे हृष्टाः पुष्टा बभूविरे ।
फलान्नमधुपानानि चक्रुस्ते स्वेच्छया सदा ॥ १६-६३॥
पुष्टाङ्गाश्चाभवन् सर्वे सपुत्रपशुबान्धवाः ।
एतस्मिन्नन्तरे शक्रः कामबाणैः प्रपीडितः ॥ १६-६४॥
अहल्यां कामसन्तप्त ऋषिभार्यां तपस्विनीम् ।
सदा स संस्मरन् मूढस्तं देशमगमत् क्षणात् ॥ १६-६५॥
तत्र गत्वा मुने रूपं गौतमस्य चकार ह ।
स समित्कुशमाहर्त्तुं गते तस्मिन् द्विजर्षभे ॥ १६-६६॥
अहल्यां प्रार्थयामास कान्तां मनोहरां गृहे ।
विस्मयन्ती तु सा तत्र सत्रपा गृहमाविशत् ॥ १६-६७॥
अनु पश्चाद्ययौ शक्रः कामबाणप्रपीडितः ।
गौतमस्तत्क्षणादेव भावित्वादगमद्गृहम् ॥ १६-६८॥
शक्रोऽथ गौतमं दृष्ट्वा चकम्पे भयविह्वलः ।
मार्जाररूपमास्थाय गन्तुमेवोपचक्रमे ॥ १६-६९॥
गौतमोऽथ बिडालं तं ज्ञात्वा ध्यानेन वासवम् ।
अहल्यामब्रवीत् क्रुद्धः कोऽयं मे गृहमागतः ॥ १६-७०॥
मुनिं तमब्रवीत् साध्वी मार्जार इति शङ्किता ।
ततोऽशपद्गौतमस्तं देवेन्द्रं मुनिसत्तमः ॥ १६-७१॥
यस्मान्मदीयदारांस्त्वं धर्षसे पापमोहितः ।
अप्सरसां सहस्रेषु तवाधीनेषु सर्वतः ॥ १६-७२॥
तस्माद्भगसहस्रेण युक्तदेहो भविष्यसि ।
अहल्यामशपत्क्रुद्धः कम्पन्तीं कदलीमिव ॥ १६-७३॥
शिलारूपा भवस्वाद्य मम शापाच्च पुंश्चलि ।
तयानुनीतो भगवान् प्रणम्य च पुनः पुनः ॥ १६-७४॥
नापराधोऽस्ति मे कश्चिन्मनोवाक्कायसम्भवः ।
वञ्चिताऽहं त्वदीयेन वेषेणैव दुरात्मना ॥ १६-७५॥
क्षन्तव्यमिति मे ब्रह्मन् यथा शापो न ब्राधते ।
तथा कार्यं मुनिश्रेष्ठ कृपां कृत्वा ममोपरि ॥ १६-७६॥
तदा शापं च विज्ञाय गौतमो वाक्यमब्रवीत् ।
नानृतं वचनं मेऽद्य शापो हि दुरतिक्रमः ॥ १६-७७॥
शापमोक्षं च ते वच्मि शृणुष्वैकमनाः शुभे ।
सूर्यवंशान्वये जातो रामो दाशरथिः स्मृतः ॥ १६-७८॥
लक्ष्मणेन सह भ्रात्रा सीताया (सीतया) सहितः प्रभुः ।
वनमेष्यति धर्मात्मा नियोगात्पितुरात्मनः ॥ १६-७९॥
तत्पादरजसा पूता शापान्मोक्ष्यसि दारुणात् ।
अहल्यामनुकम्प्याथ गौतमो मुनिसत्तमः ॥ १६-८०॥
तपश्चकार विपुलं तस्मिन् ब्रह्मगिरौ मुने ।
शक्रोऽथ गर्हितं रूपं निरीक्ष्य भगचेष्टितम् ॥ १६-८१॥
आत्मानं गर्हयामास सकामं दुर्मदेन च ।
धिक्कामं दुर्मदं शत्रुं देहस्थमपराजितम् ॥ १६-८२॥
अमार्गगामिनं पापं सदा सन्तापकारकम् ।
तावत्कुलस्य गणना शीलस्यापि श्रुतस्य च ॥ १६-८३॥
मातृपित्रोर्भयं तावत्स्वजनस्य नृपस्य च ।
लज्जा तावन्नृणां देहे तावच्छास्त्रार्थञ्चिन्तनम् ॥ १६-८४॥
यावन्नारीषु कामोऽयं चित्तं न्यस्यति पापकृत् ।
धर्मस्यार्थस्य हन्तारं यशसश्च विनाशनम् ॥ १६-८५॥
पापराशिमिमं कामं को जित्वा सुखमेधते ।
नारीति रूपं दृष्ट्वाऽत्र मुह्यन्ति मादृशा नराः ॥ १६-८६॥
अस्थिस्तम्भं वसाबद्धं मांसं रक्तकलेवरम् ।
चर्मावनद्धमशुचि पूर्णं मूत्रपुरीषयोः ॥ १६-८७॥
भर्त्त्रादिरक्षितं नित्यं संयोगे मरणप्रदम् ।
नार्याः शरीरमीदृक् तद्दृष्ट्वा मुह्यन्ति मद्विधाः ॥ १६-८८॥
किं करोमि क्व गच्छामि हतवीर्य इवोरगः ।
इति सञ्चिन्त्य मनसा लोकालोकमगात् सरः ॥ १६-८९॥
तत्र गत्वाणुरूपोऽभूत् कृमिः पद्मवने मुने ।
नालं भित्वा लयं लेभे भीतः कृत्यं विगर्हयन् ॥ १६-९०॥
ततो देवा गते शक्रे मुनिभिः सहितास्तदा ।
अराजकं ततो दृष्ट्वा ज्ञात्वा तस्यैव कारणम् ॥ १६-९१॥
तीर्थेऽवगाहने शुद्धिं ज्ञात्वा चैवं प्रचोदितः ।
पुष्कराद्यानि तीर्थानि स्नात्वा च विधिना ततः ॥ १६-९२॥
कृततीर्थोऽथ शक्तश्च गतपापस्तदा मुने ।
सहस्रनेत्रो मुनिभिश्चक्रे राज्यमकण्टकम् ॥ १६-९३॥
गौतमोऽथ मुनिश्रेष्ठस्तपस्युग्रे व्यवस्थितः ।
कदाचित्स द्विजान् दृष्ट्वा मुदितान्निजसन्निधौ ॥ १६-९४॥
पानदेहान् सुपुष्टाङ्गान् तानुवाच हितं वचः ।
ब्रह्मणा ब्राह्मणाः सृष्टास्तपसा च महात्मना ॥ १६-९५॥
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ।
तस्मात्तपः प्रकर्त्तव्यं तपोमूला द्विजातयः ॥ १६-९६॥
किं कायेन सुपुष्टेन अध्रुवेणेह देहिनः ।
तपसा प्राप्यते स्वर्गं तपसा मोक्ष एव च ।
तपसानन्तसौख्यानि नासाध्यं तपसः किमु ॥ १६-९७॥
गौतमस्य वचः श्रुत्वा मुनयोऽन्तः समत्सराः ।
उपायं चिन्तयन्तस्ते देहं त्यक्तुं सगौतमम् ॥ १६-९८॥
अथ मायामयीं धेनुं कपिलां वत्ससंयुताम् ।
निर्माय गौतमाभ्याशे शालिक्षेत्रसमीपगाम् ॥ १६-९९॥
सा सञ्चरन्ती कलमान् स्वयंरूढानितस्ततः ।
दृष्ट्वा तां गौतमो रक्षन्नभ्यधावत्त्वरान्वितः ॥ १६-१००॥
कुशाग्रेणैव धेनुं तां ताडयामास वेगवान् ।
सा ताडिता कुशाग्रेण सद्यः प्राणैर्व्ययुज्यत ॥ १६-१०१॥
गौतमोऽप्यथ तां दृष्ट्वा मृतां मोहं समाविशत् ।
लब्धसंज्ञः पुनः सोऽपि रुरोद भृशदुःखितः ॥ १६-१०२॥
मुनयो रुदितं श्रुत्वा गौतमस्य महात्मनः ।
आगत्य तत्समीपं च हाहेति तमथाब्रुवन् ॥ १६-१०३॥
नतमाश्वास्य शनकैराजग्मुः स्वाश्रमं प्रति ।
ये(य) आगता ययुस्तेऽथ सर्वे साग्निपरिग्रहाः ॥ १६-१०४॥
गतेषु तेषु मुनिषु गौतमो मुनिसत्तमः ।
ज्ञात्वा तदा स्वयं ध्यानात्तपस्तप्तुं प्रचक्रमे ॥ १६-१०५॥
गोचर्मणा परीताङ्गी निराहारो जितेन्द्रियः ।
शीतवातातपसहः सर्वभूतहिते रतः ॥ १६-१०६॥
शिवमाराधयामास पदेनैकेन संस्थितः ।
तस्यैवमाराधयतस्त्र्यम्बकं पूजितं तदा ॥ १६-१०७॥
वर्षाणामयुतं ब्रह्मन् जगाम दिवसैः क्वचित् ।
दीपितं तद्वनं सर्वं तपसा गौतमस्य च ॥ १६-१०८॥
पिङ्गीकृतस्तेजसाऽद्रिर्द्वरान्मेरुरिवाबभौ ।
वह्निज्वालेव महती वडवानलसम्भवा ॥ १६-१०९॥
तपसा प्रबलं मत्वा गौतमस्य महात्मनः ।
शम्भुराविरभूत्तत्र भक्त्या तुष्टो महामुने ॥ १६-११०॥
देवदेवो जगन्नाथस्त्र्यम्बको वृषवाहनः ।
प्रादुर्भूतो मुनिं प्राह शङ्करो लोकशङ्करः ॥ १६-१११॥
ईश्वर उवाच -
मुने मा साहसं कार्षीस्तपोराशिर्यन्तो भवान् ।
किं तवानेन तपसाऽसाध्यं जगति विद्यते ॥ १६-११२॥
न दूरं तमहं मन्ये शाधि किं करवाण्यहम् ।
गौतम उवाच -
शालिक्षेत्रगता धेनुः कुशाग्रेणैव ताडिता ॥ १६-११३॥
मया पूर्वं मृता सद्यः सा मद्भाग्यविपर्यया ।
गोघ्नं मां त्राहि भगवन् पापादस्मान् महेश्वर ॥ १६-११४॥
ईश्वर उवाच -
कृत्रिमेयं कृता धेनुर्मुनिभिः किल छद्मना ।
कथं हत्या प्रभवति त्वयि पापहरे नृणाम् ॥ १६-११५॥
यस्त्वां पश्यति गोघ्नोऽपि ब्रह्महा गुरुतल्पगः ।
सुरापो हेमहारी च उपपापं समाश्रितः ॥ १६-११६॥
सद्यः स मुच्यते पापाद्विना दानतपोऽध्वरैः ।
गौतम उवाच -
यदि प्रसन्नो भगवान् कृपां कुरु ममोपरि ॥ १६-११७॥
स्वर्गे पृथिव्यां पाताले लिङ्गरूपधरो भव ।
मनुष्यलोकस्य यथा गम्यो भूत्वा बलप्रदः ॥ १६-११८॥
तथा कुरु महेश र्त्व (त्वं?) त्रिषु लोकेषु संस्थितः ।
गङ्गामानय वेगेन अस्मिन् ब्रह्मगिरौ विभो ॥ १६-११९॥
ईश्वर उवाच -
कुशावर्त्तं कुरु मुने त्वमिहोपरि पर्वतम् ।
अधस्ताच्च तथा ब्रह्मन् गङ्गाऽत्राविर्भविष्यति ॥ १६-१२०॥
अहं च त्रिषु लोकेषु लिङ्गरूपधरो मुने ।
स्थास्यामि सततं तुष्ट्यै त्र्यम्बकः पर्वतोत्तमे ॥ १६-१२१॥
तथाऽधस्ताद्भविष्यामि त्र्यम्बको भूमिसंस्थितः ।
उज्जयिन्याः प्रदेशे तु जनकाचलविश्रुतः ॥ १६-१२२॥
समीपं तस्य गत्वा त्वं गोद्वारं कुरु सत्वरम् ।
गौतमेश्वरनामाहं तत्र स्थास्यामि लिङ्गवान् ॥ १६-१२३॥
अतः स्वर्गे च पाताले भूम्यां चैव त्रिधा स्मृतः ।
मनुष्यदेवसर्पाणां भविष्यामि सुपूजितः ॥ १६-१२४॥
इति दत्वा वरं शम्भुर्गौतमस्य महात्मनः ।
अदृश्योऽभूज्जगन्नाथः स्तुत्या भक्त्याथ तोषितः ॥ १६-१२५॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये गौतममाहात्म्यं नाम षोडशोऽध्यायः । १६॥
अथ सप्तदशोऽध्यायः । गौतमेश्वरमाहात्म्यम् ।
17.1 Vāyu वायु continues to describe about establishment of Śivaliṅga शिवलिङ्ग in Kuśāvarta कुशावर्त, Janakācala जनकाचल, Godvāra गोद्वार etc.
17.2 In the same context, there is description about GautameśaMāhātmyam गौतमेशमाहात्म्यम् and Karmabhūmi कर्मभूमि.
17.3 Kāmadhenu कामधेनु journeys from Gautameśvara गौतमेश्वर to Ujjayinī उज्जयिनी.
वायुरुवाच -
त्र्यम्बकाच्च वरं प्राप्य गौतमो मुनिसत्तमः ।
त्र्यम्बकं पर्वते स्थाप्य कुशावर्तं तदग्रतः ॥ १७-१॥
तथा चाद्रेः समीपस्थं भूमौ स्थाप्य महेश्वरम् ।
कुशावर्त्तं च विन्यस्य सर्वपापप्रणाशनम् ॥ १७-२॥
ततो जगाम त्वरितो जनकाचलसन्निधौ ।
तत्समीपे मुनिवरो गोद्वारं च चकार ह ॥ १७-३॥
कुशाग्रेण महातेजा भूमिं भित्त्वा वरं स्मरन् ।
ततो गोद्वारमभवद्विपुलं भूमिमण्डले ॥ १७-४॥
प्रविश्य तत्र भगवान् सस्मार त्रिपुरान्तकम् ।
स्मृतः प्रादुरभूच्छम्भुर्गोतमस्य तदा मुने ॥ १७-५॥
देवदेवो जगन्नाथस्त्रिनेत्रो वृषभध्वजः ।
कृत्तिवासाः कपाली च त्रिशूली च पिनाकधृक् ॥ १७-६॥
उमया सहितः स्थाणुः शशाङ्ककृतशेखरः ।
पञ्चवक्त्रो दशभुजः कपर्दी भस्मभूषितः ॥ १७-७॥
नागकुण्डलकेयूरखट्वाङ्गी त्रिपुरान्तकः ।
कामारिरष्टमूर्तिश्च तथानन्तवपुः प्रभुः ॥ १७-८॥
त्रयीमयो ज्ञानमयः सर्वज्ञः शङ्करो हरः ।
स्रष्टा पाता च संहर्त्ता सूर्यकोटिसमप्रभः ॥ १७-९॥
शरीरे दृश्यते चास्य जगत्स्थावरजङ्गमम् ।
गङ्गाद्याः सरितः सर्वा भुवनानि चतुर्दश ॥ १७-१०॥
सागराः सप्त दृश्यन्ते मेरुप्रभृतयोऽचलाः ।
सप्तद्वीपवती पृथ्वी सशैलवनकानना ॥ १७-११॥
पुष्कराद्यानि तीर्थानि दृश्यन्ते परमात्मनि ।
ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याः सर्वदेवताः ॥ १७-११॥
यक्ष किन्नरगन्धर्वा मुनिसर्पासुरादयः ।
वेदाः साङ्गाः पुराणानि दर्शनानि षडेव च ॥ १७-१३॥
स्मृतिव्याकरणादीनि ज्योतिःशास्त्रमथापि वा ।
कलाकाष्ठामुहूर्त्तादिग्रहनक्षत्रदेवताः ॥ १७-१४॥
आश्रमास्तत्र दृश्यन्ते द्विजातीनां पृथक् पृथक् ।
शरीरे विश्वरूपस्य शङ्करस्य महात्मनः ॥ १७-१५॥
यत्किञ्चिद्विद्यते चान्यत् शरीरे वास्य दृश्यते ।
इत्थं स गौतमो दृष्ट्वा शङ्करस्य महात्मनः ॥ १७-१६॥
नमस्कृत्य स्तुतिं चक्रे जयपूर्वं महामुने ।
स्तुत्या भक्त्या च सन्तुष्टः शङ्करो लोकशङ्करः ॥ १७-१७॥
तुष्टोऽस्मीत्यब्रवीच्छम्भुर्गौतमं मुनिसत्तमम् ।
ईश्वर उवाच -
यमिच्छसि वरं ब्रह्मन् मत्तः प्रार्थयं सुव्रत ।
तपसा तोषितः पूर्वं स्तुत्या भक्त्या त्वयाऽनघ ॥ १७-१८॥
गौतम उवाच -
यदि प्रसन्नो देवेश स्थातव्यमिह नित्यशः ।
गौतमेश इति ख्यातो भक्तानामभयप्रदः ॥ १७-१९॥
गङ्गाद्वारं प्रभवतु नित्यं गोद्वारतः प्रभो ।
उपवीतं त्वदीये तु लिङ्गे भूयाद्युगे युगे ॥ १७-२०॥
सूत उवाच -
तथेत्युक्त्वा तु भगवान् गौतमेशोऽभवद्विभुः ।
भुक्तिमुक्तिप्रदः शम्भुः सर्वदः सर्वजन्तुषु ॥ १७-२१॥
वायुरुवाच -
एवं स भगवान् रुद्रो गौतमेन महात्मना ।
स्वर्गे पृथिव्यां पाताले स्थिरः स्थाणुः कृतो मुने ॥ १७-२२॥
गोद्वारे संस्थितस्तेन हेतुना जगतां पतिः ।
भुक्तिमुक्तिप्रदः श्रीमान् सर्वपापप्रणाशनः ॥ १७-२३॥
तत्र सा कामधेनुश्च जगामामितविक्रमा ।
सस्मार गौतमेशं तं गोद्वारे मुनिसत्तम ॥ १७-२४॥
स्नानं च पयसा चक्रे शङ्करस्य महात्मनः ।
कृतस्नानोऽथ भगवान् वरं तस्यै ददौ विभुः ॥ १७-२५॥
दार्षदं लिङ्गमास्थाय प्रसन्नात्मा जगद्गुरुः ।
भक्तानां वरदः शम्भुर्विशेषेण कलौ युगे ॥ १७-२६॥
तस्मिन् कुण्डे नरः स्नानं कृत्वा च पितृतर्पणम् ।
श्राद्धं कृत्वा द्विजातिभ्यः कपिलां यः प्रयच्छति ॥ १७-२७॥
सप्तजन्म भवेद्राजा वदान्यी जनवल्लभः ।
रुक्मं च रक्तिकामात्रं ब्राह्मणेभ्यः प्रयच्छति ॥ १७-२८॥
तदक्षयं भवेत्तस्य वसेच्च शिवसन्निधौ ।
वस्त्रमन्नं फलं मूलमुपानत्कम्बलादिकम् ॥ १७-२९॥
दत्वा नरो भवेत्पूतो धनाढ्योऽतिथिवल्लभः ।
अस्थिक्षेपं तु यः कुर्यात् तस्मिन् तोये समाहितः ॥ १७-३०॥
न तावन्नरकं यान्ति तस्य ते मृतपूर्वजाः ।
यावदस्थि मनुष्यस्य गङ्गातोये निमज्जति ॥ १७-३१॥
तावद्वर्षसहस्राणि विष्णुलोकं न मुञ्चति ।
तन्निर्जरभवे तोये अस्थिर्यस्य पतिष्यति ॥ १७-३२॥
दृषत्त्वं च भवेदस्थि गङ्गातोयाधिकं यतः ।
स याति परमं स्थानं सगरस्य सुता यथा ॥ १७-३३॥
अस्थिक्षेपालये तस्मिन् देवरूपधरो भवेत् ।
पृथिव्यामवतीर्णोऽसौ राजा भवति धार्मिकः ॥ १७-३४॥
आयुष्मान् पुत्रवान् श्रीमान् रूपवान् शीलवानपि ।
कुलीनो ज्ञानवान् दाता पूज्यो नीरुक् सदा सुखी ॥ १७-३५॥
पञ्चामृतेन यः स्नानं कारयेद्गौतमेश्वरम् ।
तीर्थतोयैस्तथा चान्यैर्गन्धपुष्पैर्मनोरमैः ॥ १७-३६॥
धूपदीपैश्च नैवेद्यैर्गीतैर्वाद्यैरनेकशः ।
प्रीतिं यः कुरुते शम्भौ नृपताविव यः पुमान् ॥ १७-३७॥
सदा स रमते स्वर्गे विमानेनार्कवर्चसा ।
अप्सरोभिर्वृतः श्रीमान् द्वितीय इव भास्करं(रः) ॥ १७-३८॥
कर्मभूमिरियं ब्रह्मन् इह कर्म शुभाशुभं ।
करोति यो नरो मोहात् र प्रेत्य फलमश्नुते ॥ १७-३९॥
न पिता बन्धुजननीभ्रातृपुत्रसुहृत्प्रियाः ।
सुखदुःखस्य भोक्तारः स्वयं भुङ्क्तेऽवशः पुमान् ॥ १७-४०॥
धनभागी बन्धुवर्गः सुखभागी धने सति ।
न परत्रेह भागोऽस्ति कस्यचित् पुण्यपापयोः ॥ १७-४१॥
मम पुत्रः सुहृद्भ्राता पिता माता प्रिया धनम् ।
वक्तीति च नरो जीवन् मृत एकोऽपि गच्छति ॥ १७-४२॥
हाहेति बान्धवा जन्तुं परिवार्य मृतं पुरः ।
रुदन्ति स्वार्थतस्तत्र तस्य हेतोर्न ते पुनः ॥ १७-४३॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ १७-४४॥
(मनु० अ०४ श्लो० २४१)
यथा नटो बहुविधैर्वर्णयत्यात्मनो वपुः ।
नानारूपाणि कुर्वाणस्तथात्मा कर्मजां तनुम् ॥ १७-४५॥
काणः कुब्जोऽथ पङ्गुश्च दन्तुरो बधिरस्तथा ।
अन्धो मूकश्च विकलो अपस्मारी दरिद्रकः ॥ १७-४६॥
षण्डोऽथ वामनः कुष्ठी क्षयरोगान्वितो बहु ।
सदा दुःखी सशोकश्च पराधीनो मलिम्लुचः ॥ १७-४७॥
प्रेतरूप इवाभाति पृथिव्यां बहुदुःखितः ।
सदा चौरश्च पिशुनः परदारोपसेवकः ॥ १७-४८॥
परनिन्दारतः पापः परविघ्नेन तोषितः ।
न्यासहर्ता कृतघ्नश्च कूटसाक्षी सदाऽनृती ॥ १७-४९॥
बकवृत्तिर्मनुष्येषु जायते पापकर्मतः ।
पुण्यकर्मफलं ब्रह्मन् कथयामि तवानघ ॥ १७-५०॥
स्वर्गप्रान्ते यतो जन्म शेषपुण्येन जायते ।
कुले महति वर्णानां सदाचारे समुन्नते ॥ १७-५१॥
दीर्घायुश्च श्रिया युक्तो रूपवांश्च गुणाधिकः ।
सदा भोगी सुखी चैव जगत्पूज्यो बहुप्रजः ॥ १७-५२॥
धनधान्यसमायुक्तो व्याधिहीनश्च कीर्तिमान् ।
उपजीव्यश्च बन्धूनां दीनानां च सदा भुवि ॥ १७-५३॥
विद्वाननीचः सुमतिः सर्वभूतहिते रतः ।
परवृद्ध्या सदा हृष्टः कृतज्ञो धार्मिकः शुचिः ॥ १७-५४॥
निजमार्गरतो नित्यं सदा शास्त्रार्थचिन्तकः ।
इष्टापूर्त्तरतो नित्यं न्यायागतधनस्तथा ॥ १७-५५॥
पितृदेवातिथीनां च प्रीतिदः सत्यवाग्यमी ।
यं यं प्रार्थयते कामं तं तं प्राप्नोति निश्चयम् ॥ १७-५६॥
भूतग्रहभयं नश्येच्चौराग्न्यादिभयं तथा ।
पूर्वोक्तगुणसम्पन्नो देवो भूत्वा चिरं दिवि ॥ १७-५७॥
इहलोके सुखं प्राप्य पुनर्देवः पुनर्नरः ।
मुक्तिमार्गं ततो याति शुभकर्मप्रभावतः ॥ १७-५८॥
नास्तिका दाम्भिकाः क्रूराः शोकव्याधिदरिद्रकाः ।
पतन्ति नरकेष्वेव जायन्ते कृमियोनिषु ॥ १७-५९॥
यथा सती स्वभर्तारं परलोकेऽधिगच्छति ।
तथा मनुष्यं प्रकृतिरनुयाति युगे युगे ॥ १७-६०॥
(शिशुपालवध प्रथम सर्ग श्लो० ७२)
इहलोके परे लोके भुज्यते कर्मणः फलम् ।
अर्थभागी भवेद्बन्धुः पापभागी न कश्चन ॥ १७-६१॥
एवं विचिन्त्य यो धीमान् पुण्यमार्गे प्रवर्तते ।
स विधूयेह पापानि स्वर्गमार्गं स (च) गच्छति ॥ १७-६२॥
इति ज्ञात्वा तु यो विष्णुं शङ्करं वाऽर्चयेन्नरः ।
इष्टापूर्तशतं तेन कृतं स्यात् प्रतिवासरम् ॥ १७-६३॥
गोद्वारे गौतमेशं च सर्वकामफलप्रदम् ।
समभ्यर्च्य नरो याति शङ्करस्यालयं प्रति ॥ १७-६४॥
दृष्ट्वा ब्रह्मगिरेः शृङ्गं दृष्ट्वा देवं च त्र्यम्बकम् ।
महापापविनिर्मुक्तः सिंहस्थे च विशेषतः ॥ १७-६५॥
अबुर्दै गौतमं दृष्ट्वा सिंहस्थे च बृहस्पतौ ।
गौतम्यां द्वादशगुणममायां सोमवासरे ॥ १७-६६॥
गौतमं भौमवारेण दर्शे सर्वाष्टकेषु च ।
तत्फलं समवाप्नोति दृष्ट्वा च गौतमेश्वरम् ॥ १७-६७॥
भूमि भित्त्वा कुशाग्रेण गौतमेन महेश्वरः ।
आविःकृतो महीपुत्रो वारेण तु महत्फलम् ॥ १७-६८॥
वायुरुवाच -
कामधेनुस्तमामन्त्र्य गौतमेशं जगत्प्रभुम् ।
उज्जयिन्यां ययौ ब्रह्मन् शिवलिङ्गानि पश्यन्ती ॥ १७-६९॥
य इदं कीर्तयेच्छम्भोश्चरित्रं गौतमस्य च ।
सर्वतीर्थफलं तस्य सर्वदानफलं भवेत् ॥ १७-७०॥
व्याधितो मुच्यते रोगी निर्धनो धनमाप्नुयात् ।
अपुत्रो लभते पुत्रान् राज्यार्थी राज्यमाप्नुयात् ॥ १७-७१॥
विद्यार्थी लभते विद्यां सर्वान् कामानवाप्नुयात् ।
देहान्ते परमं स्थानं स गच्छेन्नात्र संशयः ॥ १७-७२॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये गौतमेश्वरमाहात्म्यं नाम सप्तदशोऽध्यायः । १७॥
अथाष्टादशोऽध्यायः । वायुनारदसंवादः ।
18.1 Vāyu वायु continues to describe about the journey taken by Kāmadhenu कामधेनु, who reaches Ujjayinī उज्जयिनी after bathing in the Carmaṇvatī Nadī चर्मण्वती नदी.
18.2 The significance of intent in reaping benefit from Dharma धर्म, Tīrtha तीर्थ, Dāna दान is emphasized.
18.3 Vāyu वायु narrates the story about Kṛṣṇa कृष्ण advising Pāṇḍava-s पाण्डवाः to proceed towards Himādri हिमाद्रि. Thereafter, in Dvārāvatī द्वारावती, Kṛṣṇa कृष्ण remembers Pṛthvī पृथ्वी who appears in form of a cow. Kṛṣṇa कृष्ण tells her that in KaliYuga कलियुग her role will be greater than ever and that she will have to protect any human who by any chance is on the righteous path. The path of dharma धर्म in three yuga युगाः has been detailed in this context.
18.4 At behest of Pārvatī पार्वती, Brahma ब्रह्मा and other devata-s देवताः manifest as stone idols i.e. PāṣāṇaMūrtī-s पाषाणमूर्तयः in order to reduce the adverse effect of KaliYuga कलियुग.
वायुरुवाच -
ततो जगाम सा धेनुरवन्तीं प्रथितां भुवि ।
विस्तारयन्ती लिङ्गानि तस्मिन् देशे समन्ततः ॥ १८-१॥
रन्तिदेवस्य नृपतेः कीर्तिभूता महीतले ।
तावच्चर्मण्वतीं प्राप्य ययौ तोयं यदृच्छया ॥ १८-२॥
यत्र स्नात्वा नरा यान्ति वैकुण्ठसदनं ज्वलत् ।
न तीर्थैनं तपोदानैर्न व्रतैराप्यते नृभिः ॥ १८-३॥
या गतिः प्राप्यते तस्यां स्नानमात्रेण सत्वरम् ।
तामतीत्य नदीं धेनुरुज्जयिन्यां जगाम ह ॥ १८-४॥
तं च दृष्ट्वा महाकालं सर्वदेवमयं विभुम् ।
पयसा स्नापयित्वा तं देवं च वृषभध्वजम् ॥ १८-५॥
भुक्तिमुक्तिप्रदातारं कामदं त्रिपुरान्तकम् ।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम् ॥ १८-६॥
कपालखट्वाङ्गधरं जटामुकुटभूषितम् ।
भस्मास्थिव्यालशोभाढ्यं सेवितं सनकादिभिः ॥ १८-७॥
महाकालं च संस्मृत्य वभ्रामोच्चैरितस्ततः ।
लिङ्गानि सं(सम)भवंस्तत्र शतशोऽथ सहस्रशः ॥ १८-८॥
ब्रह्माद्याः सकला देवा वासुदेवस्य मूर्त्तयः ।
विनायकास्तथा रुद्रा ब्रह्मन् देव्यस्तथाऽवसन् ॥ १८-९॥
हरसिद्धिप्रभृतयः क्षेत्रपालाः समन्ततः ।
शक्तिभेदः कुमारेण कृतस्तत्र महात्मना ॥ १८-१०॥
तीर्थानां च तथा षष्टिरासीत्तत्राधिकाष्टभिः ।
सरितस्तत्र सम्भूता निवसन्ति समन्ततः ॥ १८-११॥
निरायासेन भवति मुक्तिर्यत्र नृणां भुवि ।
मरणं स्वेच्छया यत्र मोक्षमार्गो न दूरतः ॥ १८-१२॥
कीचकोऽपि मृतो यत्र मुक्तिं याति विशङ्कितः ।
विना दानेन तपसा नियमेन व्रतेन च ॥ १८-१३॥
विना तीर्थेन यज्ञेन शुभेन स्वेन कर्मणा ।
हेलया प्राप्यते मुक्तिरुषित्वा यत्र निश्चितम् ॥ १८-१४॥
असंस्कृतः संस्कृतो वा विधिनाऽविधिना तथा ।
यस्यां देहात्ययं प्राप्य न शरीरं पुनर्लभेत् ॥ १८-१५॥
अज्ञानी ज्ञानवान् वापि मुक्तो भवति निश्चितम् ।
मरणादुज्जयिन्यां च विना नास्तिकवञ्चकात् ॥ १८-१६॥
भावेनान्येन दुहितुराश्लेषो जायते यथा ।
तथा कान्तस्य कान्तायास्तस्माद्भावो हि कारणम् ॥ १८-१७॥
(सङ्गीर्तराज रसरत्नकोश)
धर्मे तपसि सत्ये च तीर्थे दाने तथा श्रुते ।
मरणे च यथा भावस्तथा सिद्धिर्न संशयम् ॥ १८-१८॥
वासं करोति यस्तत्र मतिपूर्वं सुनिश्चयः ।
यथा तथा मृतस्तस्यां मुक्तिं याति विनिश्चितम् ॥ १८-१९॥
मूर्खो वा पण्डितो वापि पापीयानथ पुण्यकृत् ।
नरो नार्युत्तमो हीनो मृतस्तत्रामृतं लभेत् ॥ १८-२०॥
तस्यामवन्त्यां सुरभी महाकालं विलोक्य च ।
तमापृच्छ्यागमच्छीघ्रं क्षेत्रं चामरकण्टकम् ॥ १८-२१॥
तस्मिन् मार्गे तु लिङ्गानि विनिवेष्ट्य समन्ततः ।
प्राप्य रेवां च तत्रापः पीत्वौङ्कारं ददर्श ह ॥ १८-२२॥
पयसा स्नापयित्वा तमोङ्कारं सुरभी तदा ।
निवेश्य तत्र लिङ्गानि शङ्करस्य सहस्रशः ॥ १८-२३॥
नमस्कृत्य तथोङ्कारं शङ्करं जगतः प्रभुम् ।
संस्थाप्य देवतास्तत्र ब्रह्माद्या ऋषयस्तथा ॥ १८-२४॥
परिभ्राम्य महीं कृत्स्नां सशैलवनसागराम् ।
लिङ्गपूर्णां विधायेमां गोलोकं सा जगाम ह ॥ १८-२५॥
इति ते कथितं सर्वं लिङ्गानामुद्भवं भुवि ।
सूत उवाच -
कलौ प्राप्ते विशेषेण दृषन्मूर्तिषु देवताः ॥ १८-२६॥
आराध्याश्च नृणां ब्रह्मन् सर्वकामफलप्रदाः ।
कृतादिषु पुरा देवो वासुदेवो जगत्पतिः ॥ १८-२७॥
निराकारोऽपि भूभारमवतीर्यं च संहृतः ।
अवतारं न कुरुते कलावाचारवर्जिते ॥ १८-२८॥
बुद्धरूपं समास्थाय योगमार्गे व्यवस्थितः ।
कृतादिषु चतुर्ष्वेव य आचारो बुधैः स्मृतः ॥ १८-२९॥
शंस तं मे समीर त्वं वर्णानामनुपूर्वशः ।
वायुरुवाच -
द्वापरान्तं पुरा दृष्ट्वा वासुदेवो जगत्पतिः ॥ १८-३०॥
प्राप्तं कलियुगं दृष्ट्वा पाण्डवानिदमब्रवीत् ।
भगवानुवाच -
नातः परं महासत्त्वा(त्त्वाः) स्थातव्यं वै महीतल ॥ १८-३१॥
न शक्यते कलौ प्राप्ते राज्यं कर्तुं भवादृशैः ।
उपायो नास्ति वै सौम्या(म्याः) स्वर्गतिं प्रति नान्यतः ॥ १८-३२॥
भवन्तस्त्वरिता यान्तु बिलम्बो नात्र युज्यते ।
गोत्रहत्याभिभूतानां तथा भ्रूणादिहत्यया ॥ १८-३३॥
हतास्ते न्यायतो दुष्टास्तथैवान्ये महत्तराः ।
गच्छध्वमचलं यूयं हिमाद्रि द्रौपदीयुताः ॥ १८-३४॥
तमद्रिमवगाह्याथ गमिष्यथ परां गतिम् ।
वायुरुवाच -
तथेत्युक्त्वा गतेष्वेव पाण्डवेषु महात्मसु ।
स्थिरो द्वारावतीं कृष्णः संस्मरन् जगतीप्रभुः ॥ १८-३५॥
स्मृता तेनाथ वसुधा गौर्भूत्वाविरभून्मुने ।
प्रणम्य देवकीपुत्रं तमुवाचाथ मेदिनी ॥ १८-३६॥
पृथ्वी उवाच -
सर्वंसहा ह्यहं विष्णो त्वत्कृता दुष्टशासनात् ।
भगवानुवाच -
कृतादिषु त्रिष्वपि ते न भारो विद्यते तथा ॥ १८-३७॥
भविष्यति कलौ तद्वन् महाभारोऽतिदुःसहः ।
कृतादिषु यथा देवि वर्तन्ते दिवि देवताः ॥ १८-३८१॥
तथा भुवि समाहूता यज्वि(ज्व)भिर्मुनिपुङ्गवाः ।
नृपा द्विजातिमुख्याश्च यथा भुवि तथा दिवि ॥ १८-३९॥
वर्तन्ते स्वेच्छया देवि द्योभूम्योर्नान्तरं क्वचित् ।
ब्राह्मणो वेदमार्गेण सर्वभूतहिते रतः ॥ १८-४०॥
सदाचारस्तपस्वी च क्षमावाननसूयकः ।
यतेन्द्रियस्तत्त्ववेत्ता देवतातिथिपूजकः ॥ १८-४१॥
पञ्चयज्ञरतो नित्यं न्यायागतधनस्तथा ।
सदा पितृमनुष्याणां तृप्तिदः सत्यवाक् शुचिः ॥ १८-४२॥
इष्टापूर्तरतो नित्यं गुरुभक्तः सदा शुभे ।
एतैरेव गुणैर्युक्तः क्षत्रियो वैश्य एव च ॥ १८-४३॥
निषेकाद्याः श्मशानान्तास्तेषां चैव पृथक् क्रियाः ।
ब्रह्मचर्ये गृहस्थे वै वानप्रस्थे यतिव्रते ॥ १८-४४॥
ब्रह्मक्षत्रविशः सर्वे वर्तन्ते चानुपूर्वशः ।
चत्वारो ह्याश्रमाः प्रोक्ता ब्राह्मणानां युगे युगे ॥ १८-४५॥
क्षत्रियस्य त्रयः प्रोक्ता द्वावेको वैश्यशूद्रयोः ।
ब्राह्मणीं क्षत्रियां वैश्यां परिणेत(णयेद्) द्विजो यतः ॥ १८-४६॥
क्षत्रियः क्षत्रियां वैश्यां वैश्यः शूद्रश्च शूद्रजाम् ।
वेदस्मृतिपुराणेषु वर्त्तन्ते ब्राह्मणास्तथा ॥ १८-४७॥
शूद्राणां द्विजशुश्रूषा वैश्यानां क्रयविक्रयः ।
प्रघानं क्षत्रियाणां च प्रजानां परिपालनम् ॥ १८-४८॥
कुसीदे कृषिवाणिज्यं पशुपाल्यं विशः स्मृतम् ।
स्ववर्णाश्रमधर्मेषु वर्तन्ते तेऽतिधार्मिकाः ॥ १८-४९॥
नृपो विप्रार्चनपरः स्वर्गमार्गाविरोधकः ।
वर्णानां ब्राह्मणाः श्रेस्ठास्तेषां पूज्यो यतिः स्मृतः ॥ १८-५०॥
यतेः पूज्यो न कोऽप्यस्ति तस्मात् पूज्यो यतिः स्मृतः ।
येषां पूजनमात्रेण पूजिताः सर्वदेवताः ॥ १८-५१॥
वासुदेवस्य द्वे मूर्ती चरं चाचरमेव च ।
चरं सन्यासिनां रूपमचरं प्रतिमादिकम् ॥ १८-५२॥
युगत्रयेष्वतो भूमेः कामवर्षी च तोयदः ।
बहुसस्या तथा त्वं वै बहुदुग्धाश्च धेनवः ॥ १८-५३॥
सदाफला भूमिरुहः शुभमन्यत् प्रवर्त्तते ।
शरदामयुतं नॄणामायुः सर्वत्र दृश्यते ॥ १८-५४॥
गोमहिष्यादिभूतानि बह्वायूंषि महान्ति च ।
नाकाले मरणं तेषु न जरारोगजं भयम् ॥ १८-५५॥
व्यक्तिक्रमान्न मरणं जायते च जगत्त्रये ।
स्वर्गे मोक्षे च वर्तन्ते नरकेषु न ते क्वचित् ॥ १८-५६॥
महापापीपपापेषु जायते न मतिर्नृणाम् ।
कथञ्चित् पापसम्पर्कात् प्रायश्चित्तं चरन्त्यतः ॥ १८-५७॥
पुण्या लघीयसा ये तु वोढव्यास्ते त्वयाऽनघे ।
दुराचाराश्च ये तत्र अवतीर्य मया हताः ॥ १८-५८॥
अवतारो न मे ग्राह्मः कलौ प्राप्ते च मेदिनि ।
दुराचाराश्च मनुजा भविष्यन्ति सदा भुवि ॥ १८-५९॥
अतो दृषन्मयै रूपैरवतीर्णा दिवौकसः ।
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ॥ १८-६०॥
अलुब्धैर्दानशीलैश्च स्थिरा त्वं भव मेदिनि ।
यः कश्चिद्विंशतौ भागे सन्मार्गेषु प्रवर्तते ॥ १८-६१॥
स वोढव्यश्चिरं देवि किमन्यैः पापकर्मभिः ।
कलौ प्राप्ते च मनुजाः सदा लोभेन पूरिताः ॥ १८-६२॥
निधिच्छवो भविष्यन्ति जराभयविमुक्तये ।
निधीः पद्ममहापद्मौ तथा मकरकच्छपौ ॥ १८-६३॥
मुकुन्दन(कु)न्दनौ नीलशङ्खखर्वा अनुक्रमात् ।
सत्त्वाश्रितो महापद्म स्थिरश्च कुलमण्डनः ॥ १८-६४॥
रतिस्तस्य भवे(त्) तीर्थे यतिस्त्रेताग्निकर्मसु ।
तामसो मकरश्चैव नान्यं गच्छति तत्सुखम् ॥ १८-६५॥
शस्त्रप्रियोद्यमकरो धनार्थं मृत्युमीहकः ।
तमोगुणः कच्छपोऽपि स चैकपुरुषं वसेत् ॥ १८-६६॥
कर्म संहरते चैव विश्वासो नैव कुत्रचित् ।
रजोगुणो मुकुन्दोऽपि भोगवृत्त्यादितुष्टिकृत् ॥ १८-६७॥
दाता कुटिलमल्लादिविटेष्वेव न साधुषु ।
रजःसत्त्वमयो नन्दः स्थिरश्चासप्तपूरुषः ॥ १८-६८॥
मानकृच्च कुलाधारो बहुभार्योऽतिमानकृत् ।
तमः सत्त्वमयो नीलस्तिष्ठति पुरुषत्रयम् ॥ १८-६९॥
भोगारामतडागादिचैत्यकूपेषु यो रतः ।
रजस्तमोमयः शङ्खः कृपणश्चैकभुग्रहः ॥ १८-७०॥
वञ्चकः स्वसुतानन्यानन्मृतो मुञ्चति कष्टतः ।
निधयोऽष्टौ समाख्यातास्तेषां श्रीरधिदेवता ॥ १८-७१॥
विशेषेण कलौ शङ्खनिधिराश्र(श्री)यते नरैः ।
पद्मिनी चित्रिणी जात्या हस्तिनी शङ्खिनीति च ॥ १८-७२॥
चतुर्विधाः स्त्रियः प्रोक्ता गुणतो रूपतस्तथा ।
विशेषेण कलौ प्राप्ते शङ्खिनी जायते भुवि ॥ १८-७३॥
पद्मिनी पद्मवद्गन्धा चित्ररूपाणि(हि)चित्रिणी ।
हस्तिनी हस्तिवद्देहा क्षारगन्धा च शङ्खिनी ॥ १८-७४॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो युगचतुष्टयम् ।
क्रमादतः कलौ प्राप्ते क्वचिच्शूद्रा इव द्विजाः ॥ १८-७५॥
कलौ प्राप्ते मया देवि कृष्णद्वैपायनेन च ।
ब्राह्मणाद्याश्च चत्वारः पृथक्केचिन्निवेशिताः ॥ १८-७६॥
ज्ञातिबन्धः कृतोऽमीषां वर्णसङ्करजाद्भयात् ।
विवाह्या ब्राह्मणी विप्रैः क्षत्रिया क्षत्रियेण च ॥ १८-७७॥
वैश्या वैश्येन वोढव्या शूद्री शूद्रेण चैव हि ।
यत्र तत्र न भोक्तव्यं अनिन्द्यामन्त्रणादृते ॥ १८-७८॥
जातीयेषु गृहेष्वेव भुञ्जन्दोषैर्न लिप्यते ।
न मांसभुग्भवेद्विप्रो नाज्ञातं भक्षयेत्क्वचित् ॥ १८-७९॥
दीक्षितो ब्रह्मसूत्री च यष्टिमान् सकमण्डलुः ।
सदाचारः कलियुगे तेनेयं जगती धृता ॥ १८-८०॥
कलो नृपतयः सर्वे व्यवहारमया यतः ।
जिताश्चौरैः सदा भूपाः प्रजापीडनतत्पराः ॥ १८-८१॥
लुब्धाश्च क्रूरमतयो मदोन्मत्ता विवेकिनः ।
कुपात्रत्यागिनः सर्वे सन्मार्गनिरताः क्वचित् ॥ १८-८२॥
इष्टापूर्तादिकं कर्म न जानन्ति विकर्मिणः ।
कामादिविषयासक्ता भविष्यन्ति कलौ युगे ॥ १८-८३॥
तथा क्षत्रविशश्चैव भविष्यन्ति च शूद्रवत् ।
ब्रह्मचारिप्रभृतिषु स्वाश्रमेषु चतुर्ष्वपि ॥ १८-८४॥
मोहाद्गृहस्थनाम्नैव भविष्यन्ति न धर्मतः ।
यथा वर्णाश्च चत्त्वारः कृताद्याश्च तथा युगाः ॥ १८-८५॥
अतः शूद्रः कलियुगः शूद्राचारा द्विजातयः ।
बहूनां जन्मनामन्ते स्वधर्मविषयेषु च ॥ १८-८६॥
रतिं प्राप्येह कष्टेन मोक्षधर्मे प्रवर्तयेत् ।
यौवने पलितः सर्व अकालमरणं कलौ ॥ १८-८७॥
न शास्त्रगामिनो वर्णा न स्वमार्गेषु गामिनः ।
उत्पथे गमनं तेषां प्रभिन्नकरिणामिव ॥ १८-८८॥
न माता न गुरुस्तेषां न पिताऽन्यो न देवता ।
वेदस्मृतिपुराणानि न धर्मो (ऽ) धर्मकीर्तन(म्) ॥ १८-८९॥
पाषण्डिनो विकर्मस्थाः परदारोपसेवकाः ।
महापापोपपापैश्च युक्ताश्चौराश्च नाम ते ॥ १८-९०॥
धृतभार्यान् कलियुगे दृष्ट्वा प्रीतो भविष्यति ।
कलौ स्वल्पजला मेघा अल्पपुष्पफलद्रुमाः ॥ १८-९१॥
स्वल्पक्षीरास्तथा गावः स्वल्पसस्या च मेदिनी ।
नार्यो द्वादशमे वर्षे बहुपुत्राल्पपुत्रकाः ॥ १८-९२॥
मकरादिभयं तत्र दुर्भिक्षश्वादिचौरजम् ।
तापत्रयभयं नित्यमकालमरणाद्भयम् ॥ १८-९३॥
श्रुतिस्मृतिभवा मार्गाः सरिदोघाः शुचाविव ।
दृष्टादृष्टा भविष्यन्ति मयि बौद्धत्वमागते ॥ १८-९४॥
शूद्रः कलियुगो नाम विलोक्यावनिमण्डलम् ।
दुराचारांश्च मनुजान् हर्षं प्राप्य मुहुर्मुहुः ॥ १८-५९॥
आधिक्यं स्त्रीषु शूद्रेषु चकार वसुधे सदा ।
तत्र त्वया च रक्षीया (रक्षणीया) सदाचारा द्विजातयः ॥ १८-९६॥
इष्टापूर्तरता वेदशास्त्रज्ञाः सत्यवादिनः ।
त्यागिनोऽलुब्धकाश्चैव गावो नार्यः पतिव्रताः ॥ १८-९७॥
आर्त्तार्त्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
आयान्तीं पतिसंयुक्तां विमानस्थां सतीं किल ।
सूर्यस्त्यजति तन्मार्गं भयान्मण्डलभेदतः ॥ १८-९८॥
धृतस्त्री पतिमन्वेति मृतं चास्मिन् कलो युगे ।
सापि तारयते कान्तं युगेष्वन्येषु किम्पुनः ॥ १८-९९॥
धृतायाश्च सुतः श्राद्धे पिण्डक्षेत्राधिपाय च ।
दद्यात्पूर्वं ततस्तस्य पित्रादेरनुपूर्वशः ॥ १८-१००॥
अन्येषामपि पापानां कलौ प्राप्ते नृणां भुवि ।
विशुद्धिर्दानतीर्थेन भृग्वग्न्यनशनाम्बुभिः ॥ १८-१०१॥
सङ्ग्रामे गोगृहे वापि सर्वपापैः प्रमुच्यते ।
कलौ पापमतिर्जन्तुः प्रायश्चित्तं कथं चरेत् ॥ १८-१०२॥
तत्पुरश्चरणं दानं तीर्थं चान्तेऽग्निसेवनम् ।
न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ॥ १८-१०३॥
श्राद्धकृत्सत्प्रवादी च गृहस्थोऽपि विमुच्यते ।
अस्मिन् कलियुगे प्राप्ते बहवः पापकारिणः ॥ १८-१०४॥
यद्येषु च बहुष्वेको धार्मिको विद्यते क्वचित् ।
तस्यैकस्य त्वया रक्षा कर्तव्या चैव मेदिनि ॥ १८-१०५॥
रत्नगर्भेति ते नाम सत्यं भवतु निश्चितम् ।
स वोढव्यश्चिरं देवि मद्भक्तो धार्मिकः शुचिः ॥ १८-१०६॥
कलिना क्रूरमतिना क्लेशितं धार्मिकं परम् ।
रक्ष रक्ष सदा तस्मात् पापाद्गङ्गेव मानवम् ॥ १८-१०७॥
ईदृग्विधेन भूमे त्वं धार्यसे पुण्यकर्मणा ।
रक्षैनं च प्रयत्नेन किमन्ययै रक्षितैस्त्वया ॥ १८-१०८॥
कलेरन्यत्र न भयं विद्यते धार्मिके नरे ।
तस्मात् त्राहि नरं शीघ्रं चण्डीन्द्रं महिषादिव ॥ १८-१०९॥
इति श्रुत्वा मही देवी श्रीकृष्णस्य च तद्वचः ।
तथेत्युक्त्वा प्रणम्यैनं जगामादर्शनं मुने ॥ १८-११०॥
वायुरुवाच -
इत्थं लघीयसीं कर्त्तुमवतेरुर्महीतले ।
ब्रह्माद्या देवताः सर्वाः पार्वत्या वचनान्मुने ॥ १८-१११॥
ग्रामे ग्रामे तथा तीर्थे जम्बुद्वीपे कलौ युगे ।
दृषन्मूर्ति विधायाशु लोकानां हितकाम्यया ॥ १८-११२॥
य इदं कीर्तयेद्विप्रो देवानामग्रतो मुने ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयम् ॥ १८-११३॥
पारायणं पुराणस्य कुर्यादभ्यर्थ्यं देवताः ।
विद्याश्चतुर्दशफलं राजसूयफलं लभेत् ॥ १८-११४॥
तापत्रयविनिर्मुक्तः प्रहृष्टः पुत्रपौत्रकैः ।
विद्याचारधनायुर्भिर्भवेदच्छिन्नसन्ततिः ॥ १८-११५॥
ग्रहपीडा न तस्यास्ति नाग्निचौरनृपाद्भयम् ।
रक्षोभूतपिशाचादिरोगशोकं न चाप्नुयात् ॥ १८-११६॥
महापापोपपापं च वाङ्मनःकर्मभिः कृतम् ।
तत्सर्वं विलयं याति तमःसूर्योदये यथा ॥ १८-११७॥
अभिमानी कृतघ्नोऽपि निन्दको दाम्भिकोऽशुचिः ।
कृपणोऽसूयकः कामी निद्रातन्द्रासमन्वितः ॥ १८-११८॥
य इदं कीर्तयेज्जह्यादेनसोऽहिरिव त्वचम् ।
पुराणकीर्तिता देवाः संसाराब्धिं विलङ्घ्य च ॥ १८-११९॥
येन केनापि कामेन पुराणं कीर्तयेद्द्विजः ।
अनायासात्पुमानस्मिंल्लभेद वाञ्छाधिकं फलम् ॥ १८-१२०॥
इदं सद्वाचकाद्ब्रह्मन् श्रुत्वा भक्तिसमन्वितः ।
नियमस्थः शुचिः श्रोता शृण्वन् स फलमश्नुते ॥ १८-१२१॥
अप्सरोगणसङ्कीर्णं विमानं लभते महत् ।
प्रहृष्टः स तु देवैश्च दिवं याति न संशयः ॥ १८-१२२॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
दिव्याङ्गनादिभूषाढ्यो वाचस्पतिरिवापरः ॥ १८-१२३॥
दिव्यं विमानमारुह्य चरेन्नित्यं जगत्त्रये ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥ १८-१२४॥
सेव्यमानो वरस्त्रीणां चन्द्राकारमुखैः शुभैः ।
मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥ १८-१२५॥
अङ्के परमनारीणां सुखसुप्तो विबुध्यते ।
भुक्त्वा भोगान् यथा बाष्पो मुक्तिमापैकलिङ्गकात् ॥ १८-१२६॥
तस्माच्चतुराश्रमिणामप्यस्मिन्नधिकारिता ।
किं बहूक्तेन सर्वेष्टदायिनि त्वं(न्यत्र) न संशयः ॥ १८-१२७॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये वायुनारदसंवादे अष्टादशोऽध्यायः । १८॥
अथ एकोनविंशोऽध्यायः । बाष्पमन्त्रसाधनम् ।
19.1 Nārada नारद enquires from Vāyu वायु about how did Bāṣpa बाष्प conduct Śiva Pūjā शिव पूजा, and how was his lineage i.e. vaṃśa वंश.
19.2 Vāyu वायु narrates the story of a Vedajña Brāhmaṇa वेदज्ञ ब्राह्मण called ŚivaŚarmā शिवशर्मा, who was a devotee of Ekaliṅga एकलिङ्ग. During Caitrī Yātrā चैत्री यात्रा, a Ṛṣi ऋषि came to his house, and ŚivaŚarmā शिवशर्मा went along with him for Ekaliṅga darśana एकलिङ्ग दर्शन. There he spent his lifetime in study of Vedānta वेदान्त and took Saṃnyāsa संन्यास. When he passed away, his son Bāṣpa बाष्प stayed at the site of Ekaliṅga एकलिङ्ग. Bāṣpa बाष्प practiced the Sanātana Mantra सनातन मन्त्र of the form of HaṃSa हंस.
19.3 Pañcopacāra pūjā पञ्चोपचार पूजा and the list of articles for naivedya नैवेद्य that include preparation of pakvānna पक्वान्न, pAnaka पानक, sandhānaka सन्धानक are described.
नारद उवाच -
बाष्पस्य चान्वयं ब्रूहि द्विजाग्र्यस्याथ तस्य च ।
केन पुण्यप्रभावेण शङ्करश्चाकरोत् कृपाम् ॥ १९-१॥
सेवा च कीदृशी तस्य कथयस्व यथायथम् ।
किं जप्तं केन विधिना पूजितं च द्विजन्मना ॥ १९-२॥
सन्देहोऽस्त्यत्र मे वायो यथावदनुवर्णय ।
एकलिङ्गस्य भक्तस्य वृत्तान्तं वेत्सि नापरः ॥ १९-३॥
तत्सर्वं कथ्यतां वायो तस्य चोत्पत्तिपूर्वकम् ।
सन्ततिस्तस्य भूपस्य कीदृगासीन्महात्मनः ॥ १९-४॥
वायुरुवाच -
वक्ष्यमाणं यथा ब्रह्मन् सावधानतया शृणु ।
धन्योऽसि कृतकृत्योऽसि सर्वज्ञोऽसि विशेषतः ॥ १९-५॥
जानन्नप्यथ मां प्रष्टुमुद्युक्तोऽसि यथाऽज्ञवत् ।
लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ।
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् ॥ १९-६॥
कलावाराधनफलमेकलिङ्गाच्च लब्धवान् ।
तस्य चारित्रमाकर्ण्य प्राप्नुयात् परमां गतिम् ॥ १९-७॥
मेदपाटस्य मध्ये यच्चित्रकूटस्य सन्निधौ ।
अथानन्दपुरं नाम पत्तनं महदद्भुतम् ॥ १९-८॥
तत्रासीच्छिवशर्माख्यो ब्राह्मणो वेदपारगः ।
सर्वशास्त्रार्थतत्त्वज्ञो याज्ञिको धार्मिकः शुचिः ॥ १९-९॥
पुत्रपौत्रादिकैर्युक्तः प्रजावान् पशुमान् गृही ।
अतिथीनागतान्नित्यं भोजनावसरे ततः ॥ १९-१०॥
अन्नाछा(च्छा)दनद्रव्येण वाण्या चापि तु तोषयन् ।
एकलिङ्गस्य च धिया पश्यन् सर्वानपूजयत् ॥ १९-११॥
एवं प्रवर्तमाने तु चैत्रीयात्रार्थमुद्यताः ।
ऋषयस्ते समायातास्तद्गृहं प्रति नारद ॥ १९-१२॥
अतीथीनागतान् दृष्ट्वा पूजयामास भक्तितः ।
तेभ्यश्चाशिषमादाय पृष्टवानिति तान् प्रति ॥ १९-१३॥
कुतः समागताः यूयं किञ्चिकीर्षु(च कर्तु)मिहेच्छथ ।
इति तस्य वचः श्रुत्वा अथर्वा त्वब्रवीदिदम् ॥ १९-१४॥
चैत्री यात्रा समायाता एकलिङ्गस्य वार्षिकी ।
तस्माद्वयं गमिष्याम एकलिङ्गस्य सन्निधौ ॥ १९-१५॥
इन्द्राद्या देवताः सर्वा यक्षगन्धर्वकिन्नराः ।
ऋषयो मुनिसिद्धाश्च तत्रायास्यन्ति वै तदा ॥ १९-१६॥
इति तद्वचनं श्रुत्वा शिवशर्माऽप्युवाच तम् ।
मयाऽपि वार्षिकी यात्रा क्रियते प्रतिवत्सरम् ॥ १९-१७॥
इत्युत्का(क्त्वा) सर्वसम्भारान् रथेसं स्थाप्य प्रस्थितः ।
तेषां सहैव हर्षेण एकलिङ्गदिदृक्षया ॥ १९-१८॥
सपुत्रपौत्रभार्यादिबन्धुभृत्यसमन्वितः ।
मार्गे चान्नार्थिनामन्नं ददन्नित्यं समागतः ॥ १९-१९॥
कुटिलाद्यष्टतीर्थेषु स्नात्वाऽभ्यर्च्यैकलिङ्गकम् ।
स्तुत्वा नत्वा तथागत्य नैरृत्यां दिशि संस्थितिम् ॥ १९-२०॥
अकरोत्तेन विधिना दिक्पालानर्च्च्यवास्तुपम् ।
अथा(आथ)र्वणस्य पार्श्वे तु वेदान्तश्रवणादिना ॥ १९-२१॥
कालं निर्गम्य पश्चात्तु वेदान्ते मतिमादधत् ।
स्ववित्तं भागशः कृत्वा पुत्रेभ्यो व्यभजच्च तत् ।
स्वकीयं भागमादाय आथर्वण(णा)र्थमादरात् ॥ १९-२२॥
मठं सम्यगथारच्य दीपस्थानं विलोक्य च ।
तत्र संस्थाप्य स्वगुरुमथर्वाणं सुतापसम् ॥ १९-२३॥
तपश्चचार सुमहच्छिवशर्माऽथ स द्विजः ।
अन्ते संन्यस्य विधिना परं धाम अवाप सः ॥ १९-२४॥
अपरे भ्रातरः सर्वे काले कालवशं गताः ।
ततः स बाष्पः सुमहत् पितुरन्त्येष्टिमादरात् ॥ १९-२५॥
कृत्वात्रैव स्थितः पश्चाज्जजाप मनुमुत्तमम् ।
पराप्रासादमन्त्रोऽयं सर्वमन्त्रोत्तमं महत् ॥ १९-२६॥
नारद उवाच -
कुतो लब्धोऽथ मन्त्रोऽयं ममाचक्ष्व समीरण ।
कस्मिन् काले च माहात्म्यं विधानमपि सुव्रत ॥ १९-२७॥
मन्त्रस्य देवता काऽत्र स्वरूपमपि ब्रूह्यथ ।
सूत उवाच -
इति नारदवाक्यं तच्छ्रुत्वा वायुरथाब्रवीत् ॥ १९-२८॥
हारीतादिति सङ्क्षिप्य पुनः सम्यगथाब्रवीत् ।
क्षणं विचिन्त्य स्वात्मानं हंसरूपं सनातनम् ॥ १९-२९॥
हकारेण विशन्तं तं सकारेण विनिर्गतम् ।
शक्तिं च परमानन्दरूपिणीं परदेवताम् ॥ १९-३०॥
वर्णद्वयमयं मन्त्रमोङ्कारेणेन्दुसंयुतम् ।
सर्वदेहेषु जीवोऽयं वर्तते मुनिसत्तम ॥ १९-३१॥
माहात्म्यमपि मन्त्रस्य वर्णितुं केन शक्यते ।
वेदान्तविज्ञानफलं मन्त्रोऽयं मुनिपूजितः ॥ १९-३२॥
मोक्षरूपस्य मन्त्रस्य वर्णितुं केन शक्यते ।
शिवशक्त्यात्मको मन्त्रो मन्त्रिणां सिद्धिदः क्षणात् ॥ १९-३३॥
अनेन मन्त्रराजेन साङ्गन्यासयुतेन च ।
वेदागमोक्तविधिना पूजितः सुफलप्रदः ॥ १९-३४॥
इति श्रुत्वा वचो वायो नारदः पर्यपृच्छत ।
नारद उवाच -
हारीतः केन विधिना दत्तवान् स द्विजन्मने ॥ १९-३५॥
हारीतेन कुतो लब्धो मन्त्रराजः पराभिधः ।
एतत्सर्वं च सङ्क्षिप्य कथयस्व समीरण ॥ १९-३६॥
वायुरुवाच -
कदाचिदागतावस्मिन् क्षेत्रे नागह्रदाभिधे ।
चैत्रे सूर्योपरागे तु स्थितावेकत्र तौ द्विजो ॥ १९-३७॥
हारीतमभिवाद्यैव साष्टाङ्गं विनयेन च ।
बाष्पः पप्रच्छ भोः स्वामिन् गुरो दीक्षां प्रदेहि मे ॥ १९-३८॥
केन मार्गेण जीवोऽयं तत्क्षणाद्ब्रह्मतां व्रजेत् ।
संशयं छिन्धि मे ब्रह्मन् सद्यः प्रत्ययकारकम् ॥ १९-३९॥
हारीत उवाच -
भजस्व त्वरया बाष्प एकलिङ्गं महाप्रभुम् ।
तत्क्षणान्मोक्ष्यसे दुःखादिहामुत्र न संशयः ॥ १९-४०॥
नास्य दीक्षाविधानादितिथिवारादिचिन्तनम् ।
नात्र सिद्धादि द्रष्टव्ये(व्यं) गुर्वनुग्रहकाङ्क्षिकैः ॥ १९-४१॥
मन्त्रे तद्देवतायां च तथा मन्त्रप्रदे गुरौ ।
त्रिषु भक्तिः सदा कार्या सा हि प्रथमसाधनम् ॥ १९-४२॥
यस्य मन्त्रे च देवे च गुरौ च त्रिषु निश्चला ।
न व्यवच्छिद्यते भक्तिस्तस्य सिद्धिरदूरतः ॥ १९-४३॥
लक्षमात्रेण जप्तेन मन्त्रसिद्धिर्भवेद्ध्रुवम् ।
षोढा न्यासादयो न्यासा नोच्यन्ते ग्रन्थविस्तरात् ॥ १९-४४॥
षडङ्गावरणाद्यैश्च इन्द्राद्यावरणैः सह ।
यजन्नाप्नोति दैवत्वं देवतावरदानतः ॥ १९-४५॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मनः ॥ १९-४६॥
(श्वेताश्वतरोपनिषत् ६.२३ ।)
ततो मे मित्रभूतोऽसि पृच्छसे भक्तितः खलु ।
तवानुग्रहमुद्दिश्य वक्ष्याम्यद्येशसन्निधौ ॥ १९-४७॥
मन्त्रस्यास्य ऋषिर्ब्रह्मा जगतीछन्द उच्यते ।
हकारो बीज इत्युक्तः सकारः शक्तिरुच्यते ॥ १९-४८॥
बिन्दुना कीलितं सर्वं तेन कीलकमुच्यते ।
अतस्त्वमपि विप्रेन्द्र ऋष्यादीन् स्वकलेवरे ॥ १९-४९॥
कृताञ्जलिपुटो भूत्वा नमस्काराख्यमुद्रया ।
मूर्ध्नि हृद्गुह्यपादेषु सर्वाङ्गेषु विभावय ॥ १९-५०॥
षड्दीर्घस्वरभेदेन षडङ्गानि समाचर ।
तारेण पुटितं कृत्वा सर्वाङ्गे व्यापकं त्रिधा ।
विरच्य च ततो ध्यायेदर्द्धनारीश्वरं शिवम् ॥ १९-५१॥
सर्वाभरणसंयुक्तं सर्वदेवनमस्कृतम् ।
दिव्याम्बरस्रगालेपं दिव्यभोगसमन्वितम् ॥ १९-५२॥
पानपात्रं च चिन्मुद्रां त्रिशूलं पुस्तकं करैः ।
बिभ्राणं सुप्रसन्नं च भक्तानुग्रहकातरम् ॥ १९-५३॥
त्रिकोणान्तःसमासीनं चन्द्रसूर्यायुतप्रभम् ।
एवं स्वहृदि सञ्चिन्त्य मूर्ध्नि वा गुरुमात्मनः ॥ १९-५४॥
भावयित्वा चिरं कालं मुद्रादशकमाचर ।
लिङ्गं योनिं च सुरभिं त्रिशूलं ज्ञानमेव च ॥ १९-५५॥
पुस्तकं पानपात्रं च वनमालां न (च) भात्मकम् (? ) ।
नतिमुद्रां च संरच्य मनसा सम्प्रपूजय ॥ १९-५६॥
आह्वानाद्युपचारैश्च भोजनावसरे ततः ।
मन्त्रं प्रजप साहस्रं श्वासोच्छ्वासविवर्जितः ॥ १९-५७॥
एवं तु वर्षमात्रं यः प्रजपेन्नियतः सुधीः ।
दशांशतोऽथ हुत्वैवं ब्राह्मणानपि भोजय ॥ १९-५८॥
तेभ्यश्चाशिषमादाय भुङ्क्ष्व नैवेद्यमादरात् ।
पुराणश्रवणं पश्चात् कुर्याद्वेदान्तचिन्तनम् ॥ १९-५९॥
वायुरुवाच -
इति संशिक्ष्य तं वाष्पं हारीतो मुनिसत्तमः ।
तत्कर्णे कथयामास ऋष्यादिन्यासपूर्वकम् ॥ १९-६०॥
मन्त्रराजममुं ब्रह्मन् सहौम्बिन्दुयुतं शनैः ।
सफलं करमादाय तस्य मूर्ध्न्यथ दत्तवान् ॥ १९-६१॥
अन्तर्हृदि नियन्तारं बहिश्च गुरुरूपिणम् ।
उभयत्रैकलिङ्गाख्यं संस्मृत्य च महर्षिणा ॥ १९-६२॥
आशीर्दत्ताथ बाष्पाय तव यद्यदभीप्सितम् ।
तत्सर्वं सफलं यातु एकलिङ्गप्रसादतः ॥ १९-६३॥
बाष्पश्चापि विनीतोऽयं पूजयामास तं गुरुम् ।
धूपदीपैश्च नैवेद्येः सुमनोभिः सुगन्धिभिः ॥ १९-६४॥
पञ्चोपचारमार्गेण वित्तशाठ्यविवर्जितः ।
शुश्रूषयाऽथ सन्तोष्य मुदं लेभे परं तदा ॥ १९-६५॥
यस्य चानुग्रहादेव महर्षे तत्क्षणात् किल ।
तस्य चारित्र्यमाहात्म्यं वक्तुं केनेह शक्यते ॥ १९-६६॥
इति ते कथितं ब्रह्मन् वाष्पस्याराधनं शुभम् ॥ १९-६७॥
नारद उवाच -
पञ्चोपचारपूजां मे सङ्क्षेपेण समीरण ।
वदस्व येन विधिना सर्वमङ्गलदा भवेत् ॥ १९-६८॥
वायुरुवाच -
हारीतेन यथाऽकारि पूजा च शास्त्रवर्त्मना ।
बाष्पद्वारा समासेन तत्तवाग्रे वदाम्यहम् ॥ १९-६९॥
अष्टाद्रव्योद्भवं गन्धमेकलिङ्गाय चार्पयत् ।
अक्षतांस्तण्डुलान्पश्चात् काश्मीरयुतमादरात् ॥ १९-७०॥
समर्प्य पत्रपुष्पाणि धूपदीपौ विधानतः ।
निवेद्य चाथ नैवेद्यं तदा भक्त्या महामुने ॥ १९-७१॥
तोषयामास स गुरु वाष्पो वै द्विजसत्तमः ।
श्रूयतां मुनिशार्दूल श्रवणान्मनसः सदा ॥ १९-७२॥
सन्तोषमेष्यति सदा नैवेद्यस्य च भक्षणे ।
पायसं चाथ संयावं लडुकाः पूरिका वटाः ॥ १९-७३॥
खण्डमण्डकनामानि क्षीरमोदकमेव च ।
अपूपं पोलिका खाद्यं सोहाली घृतपूरकम् ॥ १९-७४॥
सुखापूपकसंज्ञं च मण्डकानि च घारिका ।
खण्डवर्त्तिकमिन्दूरं टूटिरीचकरञ्जकाः ॥ १९-७५॥
कर्पूरनलिका चैव ललत्प्रासिकसंज्ञकम् ।
सम्यङ्निष्पन्नरोटी च फेनसंज्ञं च मुर्मुरम् ॥ १९-७६॥
शाल्यन्नं कलमान्नं च गन्धशालिभवं तथा ।
राजान्नं सञ्चसंज्ञं च चक्रोदर्यभिधं तथा ॥ १९-७७॥
कामोदं श्वेतसंज्ञं च षष्टिकाद्यादिवौदनम् ।
मुद्गदालिकया जातं निस्त्वचासूपमुत्तमम् ॥ १९-७८॥
सत्वग्भिः केवलैर्मुद्गैर्मध्यमं सूपमेव च ।
कदापि न कृतं तेन वर्णिना बाष्पधीमता ॥ १९-७९॥
तुवरीचणकाद्यैश्च सूपाधममुदाहृतम् ।
तद्य (द) त्र न मया दृष्टं तस्य नैवेद्यभाजने ॥ १९-८०॥
गव्यं घृतं प्रशस्तं स्यात्सद्यः सन्ताप्य निर्मितम् ।
तदेव च घनीभूतमुत्तमोत्तममुच्यते ॥ १९-८१॥
माहिषं मध्यमं प्रोक्तमजादीनां तथाधमम् ।
नानीतं तेन विप्रेण उत्तमास्ते न सर्वदा ॥ १९-८२॥
चतुर्विधानि शाकानि प्रशस्तानि निवेदने ।
ताडिते(तं)भर्जितं चैव रन्धितं बाष्पितं तथा ॥ १९-८३॥
शिम्ब्यादिभिः फलैः शाकैर्घृतपाकैश्च ताडितम् ।
वर्यैः फलैर्घृतैः पक्वैर्भर्जितं शाकौ(कं) उच्यते ॥ १९-८४॥
शालिपर्पटकादीनि भर्जितं परिचक्षते ।
वास्तूकपत्रशाकादि रन्धितं परिचक्षते ॥ १९-८५॥
कन्दाद्या बाष्पिताः प्रोक्ताः शाकभेदा निवेदने ।
तदपि प्रत्यहं दृष्टं भाजने च पृथक् पृथक् ॥ १९-८६॥
नानीतं शुनं शाकं गुरुनैवेद्यकर्मणि ।
अतिपक्वमपक्वं च पूतिदुर्गन्धवस्तु(त्तु) यत् ॥ १९-८७॥
संस्कारहीनं विरसं रहितं मरिचादिभिः ।
पानकानि च तत्रैव दृष्टानि मुनिसत्तम ॥ १९-८८॥
शृणुष्वैकाग्रमनसा वक्ष्याम्युद्देशमात्रतः ।
अम्लिकासम्भवं श्रेष्ठमेकभागस्तथाऽम्लिका ॥ १९-८९॥
भागत्रयं तु खण्डस्य मारीचस्त्रिशको मतः ।
एलायास्तु तथा भागश्चतुःषष्टिः प्रकल्पितः ॥ १९-९०॥
लवणस्य तथा भागः शतांशपरिकल्पितः ।
तथा कर्पूरसंयुक्तं सुगन्धिसुमनांसि च ॥ १९-९१॥
दत्वाऽथ वासयित्वाऽथ अष्टांशेन जलं पुनः ।
निक्षिप्य तत्समानीय गुरवे च समर्पितम् ॥ १९-९२॥
एवं पानकयोगं तु निम्बुक्यादौ तथा चरेत् ।
अम्लानि यानि वस्तूनि नारङ्ग्यादीनि तैरपि ॥ १९-९३॥
द्राक्षाखर्जूरकादीनां मध्ये चिञ्चादिमिश्रितम् ।
अष्टमेन तु भागेन निम्बुनारङ्गकं तथा ॥ १९-९४॥
कादले पानसे चैव पानकक्रम एषकः ।
तथा शिखरिणी दत्ता तत्प्रकारोऽधुनोच्यते ॥ १९-९५॥
अनम्लं च तथा(दधि)ग्राह्यं निर्ज्जलं स्फेटयेच्च तत् ।
घनीभूतस्य दध्नश्च भागैकः शर्करा समा ॥ १९-९६॥
आम्लिका विंशको भागो दुग्धभागश्चतुर्थकः ।
मरिचस्य तथा भागो द्वात्रिंशच्चूर्णितस्य च ॥
चतुःषष्टितमो भाग एलायाः परिकल्पितः ॥ १९-९७॥
सुश्लक्ष्णे धवले वस्त्रे सर्वमेतत्तु गालयेत् ।
सुशीतले तथा स्थाने व्यजनैर्वीज्य वासितम् ॥ १९-९८॥
शिखरिणीमिति ब्रह्मन् गुरुरूपशिवाय वै ।
समर्प्य च ततः पश्चाद्दध्योदनसमी(मधी)श्वरे ॥ १९-९९॥
निवेदितं सुभक्त्या तच्छृण्वतां सुखदं सदा ।
अष्टावशिष्टं दुग्धं स्याच्चतुर्थांशावशेषितम् ॥ १९-१००॥
दधि स्यान्मधुरं तद्वत्ससितं पित्तहारकम् ।
सन्धानकानि यद्दत्तं तच्च वक्ष्याम्यविस्तरम् ॥ १९-१०१॥
नीम्बूकार्द्रकचूतकन्दकदलीकौशातकी कर्कटी-
धात्रीबिल्वकरीरकैर्विरचितान्यानन्दसंवृद्धये ।
नानादेशसमुद्भवान्यपि तथा किं वर्णयाम्युत्तमा-
न्यन्यान्यादरपूर्वकाणि सततं तस्मै तदा दत्तवान् ॥ १९-१०२॥
कर्पूरवासितं तोयं हिमशीतलनिर्मलम् ।
दत्वा पानार्थमेवं हि ताम्बूलं च ततोऽर्पयत् ॥ १९-१०३॥
गुरुभक्त्या च स गुरुर्हारीतोऽङ्गीकृतः प्रभुः ।
स्तुत्वा च बहुधा भक्त्या ननामाष्टाङ्गवन्दनैः ॥ १९-१०४॥
एवं पञ्चोपचारैः स बाष्पो द्विजवरस्तुतम् ।
हारीतं च तथा तस्य गुरु तद्गुरुमेव च ॥ १९-१०५॥
पूजयामास धर्मात्मा शिवबुद्ध्या महामुने ।
हारीतोऽपि प्रसन्नात्मा पूजां स्वीकृत्य चात्मवित् ॥ १९-१०६॥
शास्त्रे यद्यद्रहस्यं स्यात्तत्सर्वं कथितं तदा ।
बाष्पोऽपि विनयेनैव गृहीत्वा शिवम(मा)र्चयत् ॥ १९-१०७॥
इति नारद यत्पृष्टं तत्सर्वं कथितं मया ।
प्रसङ्गात्तु पुनश्चात्र मुने किं प्रष्टुमीहसे ॥ १९-१०८॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पमन्त्रसाधनं नामैकोनविंशोऽध्यायः । १९॥
अथ विंशोऽध्यायः । बाष्पान्वयम् ।
20.1 Vāyu वायु describes about Śaḍṛtu षड् ऋतु in Ahorātra अहोरात्र.
20.2 SadāŚiva सदाशिव makes His appearance to Baṣpa बाष्प and his Guru Hārīta गुरु हारीत. He instructs that should proceed to Bāṣpa बाष्प to Citrakūṭa चित्रकूट and Hārīta हारीत to Svarga स्वर्ग.
20.3 Bāṣpa बाष्प; in accordance with Vaikhānasa Dharma वैखानस धर्म (i.e. of Vānaprastha वानप्रस्थ, hands over the reins of his kingdom to his son and goes to ĀtharvaṇaGuru आथर्वणगुरु in Nāgahrada नागह्रद and requests him for Saṃnyāsa संन्यास.
20.4 Hearing about the same, his son Bhoja भोज rushes to meet him. Bāṣpa बाष्प pacifies is son and thereafter conducts Guru Pūjana गुरु पूजन.
20.5 There is description about NṛpaDharma/Rājadharma नृपधर्म/राजधर्म, Saṃnyāsa संन्यास and GuruParamparā गुरुपरम्परा in that context.
20.6 SadāŚiva सदाशिव, Īśvara ईश्वर, Rudra रुद्र, Viṣṇu विष्णु, Brahmā ब्रह्मा, Nakulīśa नकुलीश, Gaurīśa गौरीश, Atrīśa अत्रीश, Mitreśa मित्रेश, Kapilāṇḍa कपिलाण्ड, Siddhaśāsana सिद्धशासन, Piṅgākṣa पिङ्गाक्ष, Manuṣya मनुष्य, Puṣpadanta पुष्पदन्त, Śantanu शन्तनु, Agasti अगस्ति, Durvāsā दुर्वासा, Kauśika कौशिक, Jaigīśa जैगीश, Kauṇḍinya कौण्डिन्य, Bhairavāṣṭaka भैरवाष्टक, Oṃkāra ओंकार, Viśvanātha विश्वनाथ, Someśvara सोमेश्वर, Vaśiṣṭha वशिष्ठ, Śakti शक्ति, Parāśara पराशर, Vyāsa व्यास, Śuka शुक, Gauḍapāda गौडपाद, Govinda गोविन्द, Śaṅkarācārya शङ्कराचार्य; and thereafter the 4 Maṭhāḥ ४ मठाः established by Śaṅkarācārya शङ्कराचार्य and the GuruŚiṣyaParamparāगुरु शिष्य परम्परा are mentioned.
20.7 According to Ātharvaṇa Ācāraya आथर्वण आचार्य, Rājā Bhoja राज भोज - the son of Bāṣpa बाष्प, conducted Guru Pūjana गुरु पूजन every year. After a long time of his rule, he adopted YogaMārga योगमार्ग and stayed at Ekaliṅga एकलिङ्ग until and where he breathed his last. The name of his Guru गुरु was Vedagarbha Muni वेदगर्भ मुनि.
नारद उवाच -
ततः किमभवद्वायो बाष्पस्य च विशेषतः ।
शृण्वतो मे मनस्तुष्टिरुपयाति कुतूहलात् ॥ २०-१॥
स षडृतुषु ग्रीष्मादितपसा तोषितस्तदा ।
इत्युक्तो न च मर्यादां श्रुतवानहमादितः ॥ २०-२॥
वायुरुवाच -
सूर्योदयं समारभ्य घटिकादशसङ्क्रमात् ।
ऋतवः स्युर्वसन्ताद्या ह्यहोरात्रं दिने दिने ॥ २०-३॥
वसन्तग्रीष्मवर्षाख्यशरद्हेमन्तशैशिराः ।
हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि ॥ २०-४॥
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः ।
प्रावृडुच्चाटने ज्ञेयः शरन्मारणकर्मणि ॥ २०-५॥
आविर्भूतोऽथ कलया परया स सदाशिवः ।
उवाच वचनं प्रीत्या बाष्पं तद्गुरुमेव च ॥ २०-६॥
गच्छ बाष्प स्वकं स्थानं चित्रकूटाभिधं परम् ।
इति श्रुत्वा वचस्तस्य प्रणमंश्च मुहुर्मुहुः ॥ २०-७॥
हारीतोऽप्यगमत्स्वर्गमेकलिङ्गाभ्यनुज्ञया ।
अथ बाष्पो गतस्तत्र चित्रकूटं सरत्नकम् ॥ २०-८॥
प्राकारतोरणैर्युक्तगोपुराट्टालमण्डितम् ।
चतुर्द्वारसमोपेतं दिव्यसोपानसंयुतम् ॥ २०-९॥
नानाजनपदाकीर्णमापणारामसंवृतम् ।
स्वज्ञात्यामथ चोद्वाह्य एकपत्नीव्रतेन च ॥ २०-१०॥
प्रत्युष्टं सोमपायी च ब्राह्मणैः सह भूमिपः ।
स्वाश्रमोचितधर्मा ये ज्ञात्वा तान् प्रतिपालयन् ॥ २०-११॥
मातृवत्परदारेषु लोष्टवत्परवस्तुनि ।
पश्यन् सदैकलिङ्गात्मरूपं ध्यायंश्चचार सः ॥ २०-१२॥
न्यायागतधनस्तद्वत्प्रजा धर्मेण पालयन् ।
चक्रवर्ती च बुभुजे चान्यदेशाधिपानपि ॥ २०-१३॥
स्वकीयवशमापाद्य स्ववीर्येणैव वीर्यवान् ।
राज्यं चकार सुमहदेकलिङ्गप्रसादजम् ॥ २०-१४॥
प्रतिमासमथासाद्य शिवरात्रिदिनं च सः ।
एकलिङ्गं समभ्यर्च्य परेऽहनि तु पारणाम् ॥ २०-१५॥
विधाय गुरुणा साकं ब्राह्मणानपि भोजयन् ।
उमामहेश्वराद्याख्यैरिष्टमित्रैः सबन्धुभिः ॥ २०-१६॥
ब्रह्मचारिवनस्थैश्च यतिभिः सह भूमिपः ।
पञ्चरात्रव्रतं कुर्वन् ज्ञानवान् प्रतिहारकः ॥ २०-१७॥
भूत्वा द्वार्यन्थ देवस्य पार्श्वे तिष्ठति भृत्यवत् ।
सुवर्णरत्नखचितयष्टिकां स्वकरे दधत् ॥ २०-१८॥
स्वमौद्धत्यं विहायाथ विनयेन समन्वितः ।
सेवयामास नृपतिः स राज्यं परिपालयन् ॥
स्वपत्निपुत्रभृत्यैश्च सामात्यो नृपतिः सदा ॥ २०-१९॥
एवं कतिपयैर्वर्षेः कृतं राज्यमकण्टकम् ।
गृहे वैखानसान् धर्मानाचरन् स्थिरमानसः ॥ २०-२०॥
राज्यं दत्वा स्वपुत्राय आथर्वणमुपागतः ।
खचन्द्रदिग्गजाख्ये च वर्षे नागह्रदे मुने ॥ २०-२१॥
क्षेत्रे च भुवि विख्याना(ते) स्वगुरोर्गुरुदर्शनम् ।
चकार स समित्पाणिश्चतुर्थाश्रममाश्रयन् ॥ २०-२२॥
परमेष्ठिगुरुः पश्चात्तं तथा काममादरात् ।
पृष्टः सविनयं पुत्र(त्रः) किमागमनकारणम् ॥ २०-२३॥
साम्प्रतं तव देशेऽत्र निर्विघ्नं वर्तते खलु ।
प्रजां सर्वप्रयत्नेन पास्यनिर्विण्णतो यतः ॥ २०-२४॥
इति श्रुत्वा मुनेर्वाक्यं बाष्पराज उवाच तम् ।
प्रश्रयाद्विनयेर्नैव स्तुत्वा नत्वा पुनः पुनः ॥ २०-२५॥
आनन्दबाष्पं मुञ्चन् स कृताञ्जलिपुटस्तथा ।
बाष्प उवाच -
त्वदीयकृपया ब्रह्मन् सर्वतः सुखमस्ति हि ।
राज्यं प्रशासितं सम्यग् विज्ञप्तुं किञ्चिदागतः ॥ २०-२६॥
राज्याभिषेकं भोजाय कारयित्वा विधानतः ।
तस्मै समर्प्य सर्वस्वं चतुर्थाश्रमकाङ्क्षया ॥ २०-२७॥
अत्रागतो ह्यहं ब्रह्मन् मा विलम्बं कुरु प्रभो ।
संसारः स्वप्नतुल्यो हि हृदि ज्ञात्वा विचारतः ॥ २०-२८॥
भवदन्तिकमायातः संसारादुद्धर प्रभो ।
वायुरुवाच -
तं तथाविधमालक्ष्य प्रोवाच मुनिसत्तमः ॥ २०-२९॥
मुनिरुवाच -
बाल्ये वयसि किं तात चतुर्थाश्रममीहसे ।
राज्यं भुङ्क्ष्वाधुना प्राप्तमेकलिङ्गप्रसादजम् ॥ २०-३०॥
किन्तु साम्प्रतमेतद्धि राज्यं भुङ्क्ष्व समीहितम् ।
त्वयैव प्रार्थितं पूर्वमित्युक्त्वा स महामुनिः ॥ २०-३१॥
वायुरुवाच -
प्रहसन् तत्परीक्षार्थं मौनमास्थाय संस्थितः ।
तद्वाक्यश्रवणार्थं तु राजोवाच प्रसन्नधीः ॥ २०-३२॥
बाष्प उवाच -
हृद्गतं मेऽथ जानन् वै किमितीह विडम्बनम् ।
त्वत्पादावेव सेवे(ऽ)हमिति निश्चित्य वै मया ॥ २०-३३॥
सर्व भुक्तं मया ब्रह्मन् त्वत्प्रसादादिहैव हि ।
स्थास्याम्यत्रैव त्वत्पादावनुध्यायन् महामुने ॥ २०-३४॥
सूत उवाच -
इति श्रुत्वा तु तद्वाक्यं बाष्पस्य च महात्मनः ।
तथेत्युक्त्वा तु मुनिना तस्मै संन्यासमादरात् ॥ २०-३५॥
आश्रमादाश्रमं गच्छेदिति वेदविदां वचः ।
हृदि सञ्चिन्त्य स मुनिः स्वशिष्यं प्रत्यभाषत ॥ २०-३६॥
अथर्वाङ्गिरस उवाच -
वेदमित्रास्य बाष्पस्य सन्यासाधिगतस्य च ।
अष्टश्राद्धादिकर्माणि विरजाहोममेव च ॥ २०-३७॥
क्रियतां मम वाक्यात्तु मा विलम्बं कुरुष्व हि ।
वायुरुवाच -
तथैव तेन सुधिया वर्णिना ब्रह्मचारिणा ॥ २०-३८॥
कृतं तत्तत्विधानोक्तं ब्राह्मणैः सह सोऽथ वै ।
अथर्वा तमथाहूय बाष्पं संन्यासमिच्छुकम् ॥ २०-३९॥
तत्त्वमस्यादिवाक्येन मुनिना तेन बोधितः ।
ततो बाष्पेण यतिना बहुकालमिहैव सः ॥ २०-४०॥
अयाच्यवृत्तिमालम्व्य आथर्वेण सहैव तु ।
ऐकलिङ्गं हृदि ध्यायन् धर्मसंरक्षणाय च ॥ २०-४१॥
अवस्थितिं मठे चात्र वेदान्तश्रवणादिना ।
अकरोन्मतिमान् विद्वन्नेतस्मिन्नन्तरे पुनः ॥ २०-४२॥
राजा भोजश्च तच्छ्रुत्वा पितुः संन्यासकारणम् ।
महत्या चिन्तयाऽऽक्रान्तः पितु दर्शनलालसः ॥ २०-४३॥
सत्वरः स समायात एकलिङ्गस्य सन्निधौ ।
एकलिङ्गं समभ्यर्च्य स्तुत्वा नत्वा प्रहर्षतः ॥ २०-४४॥
पितुरन्तिकमागत्य तद्गुरुं विनयेन च ।
प्रणम्याश्रूणि मुञ्चन् स पितरं यतिरूपिणम् ॥ २०-४५॥
किं कृतं भो महाराज चतुर्थाश्रममाश्रितम् ।
तदिदं मे महद्दुःखमुत्पन्नं साम्प्रतं प्रभो ॥ २०-४६॥
किं करोमि क्व गच्छामि येन मे वञ्चितः पिता ।
सूत उवाच -
लपन्तमीदृशं बाष्पः शनैराश्वास्य चात्मजम् ।
वेदान्तशास्त्रविज्ञानफलाकाङ्क्षी ह्यहं सुत ॥ २०-४७॥
अतः शिवपदं ध्यायन् व्रजेऽहं शिवमादरात् ।
ब्राह्मणाः प्रव्रजन्तीति श्रुति(तं) वाक्यं त्वयैव हि ॥ २०-४८॥
पारायणं प्रकुरुते(षे) तत्किं विस्मृतवानसि ।
स्वधर्मविद्विशेषेण मैवं वक्तुमिहार्हसि ॥ २०-४९॥
इतीदृग्वचनं श्रुत्वा तूष्णीमास सविस्मयः ।
ततः श्रीपादनाम्नाऽथ नित्यानन्दाश्रमा इति ॥ २०-५०॥
ख्यातिराविरभूत्तस्माद्बाष्पराज इति श्रुतम् ।
ततः सोऽथर्वणस्तं तु भोजराजानम(था)ब्रवीत् ॥ २०-५१॥
चिन्तया म्लानवदनमुत्तिष्ठोत्तिष्ठ भूमिप ।
आषाढीपूर्णिमायां वै सम्भारानानय प्रभो ॥ २०-५२॥
गुरूणां पूजनं कार्यं व्यासबुद्धया यतींस्तथा ।
पूजनाद्वर्षपर्यन्तं निर्विघ्नं ते भविष्यति ॥ २०-५३॥
प्रत्यष्टं त्वत्पिताऽप्यत्र व्यासपूजार्थमादरात् ।
सम्भारानानयामास त्वमप्येतत् समाचर ॥ २०-५४॥
इति तस्य वचः श्रुत्वा भोजस्तमनु पृष्टवान् ।
भोज उवाच -
को गुरुः पूजनं कीदृग्विशेषेण प्रशंस मे ॥ २०-५५॥
तच्छ्रुत्वाऽहं तथा कुर्यां यथा शक्त्या सदेव हि ।
भूतानां येऽधिपतयो विशिखासः कपर्द्दिनः ॥ २०-५६॥
श्रुत्याऽप्युदाहृता यस्मात् पूज्यत्वेनैव देहिनाम् ।
आथर्वण उवाच -
शृणुष्वावहितो राजन् यन्मां त्वं परिपृच्छसि ॥ २०-५७॥
तदहं कथयिष्यामि समासेन विबुद्धये ।
गुरुः सदाशिवत्वादौ पश्चादीश्वरसंज्ञकः ॥ २०-५८॥
रुद्रो विष्णुस्ततो ब्रह्मा नकुलीशाभिधः परः ।
गौरीशसंज्ञकस्तस्मादत्रीशो मुनिवन्दितः ॥ २०-५९॥
मित्रेशः कपिलाण्डश्च सिद्धशासनसंज्ञिकः ।
पिङ्गाक्षश्च मनुष्यश्च पुष्पदन्ताभिधस्तथा ॥ २०-६०॥
शन्तनोऽगस्तिसंज्ञश्च दुर्वासाख्यस्तथैव च ।
कौशिकोऽन्यस्ततः प्रोक्तो जैगीशो नामतः परः ॥ २०-६१॥
व्रताचार्यस्तु कौण्डिन्यो भैरवाष्टकसंज्ञितः ।
ओङ्कारो विश्वनाथश्च ततः सोमेश्वराभिधः ॥ २०-६२॥
वशिष्ठः शक्तिसंज्ञश्च ततः पाराशराभिधः ।
व्यासः शुकस्ततो गूढपादगोविन्दसंज्ञकः ॥ २०-६३॥
ततः श्रीशङ्कराचार्यः कलावाचार्य ईरितः ।
तच्छिष्याश्चैव चत्वारः सम्प्रदायप्रवर्तकाः ॥ २०-६४॥
विश्वरूपः पद्मपादस्त्रोटकाचार्य एव च ।
हस्तामलकसंज्ञश्च चतुर्थः परिकीर्तितः ॥ २०-६५॥
मठस्तु शारदा चेति प्रथमः परिकीर्तितः ।
द्वारका क्षेत्रमित्याहुः पश्चिमायां तथा दिशि ॥ २०-६६॥
सिद्धेश्वरो देवताऽत्र भक्तानां सिद्धिदः सदा ।
भद्रकालीति तत्रास्ति गोमती सरितां वरा ॥ २०-६७॥
तत्र ख्यातो विश्वरूपस्तथैवाचार्यतां गतः ।
तच्छिष्यौ द्वौ महाप्राज्ञौ तीर्थाश्रमाविति स्मृतौ ॥ २०-६८॥
नन्दश्च ब्रह्मचारीति तत्सेवायां प्रकल्पितः ।
सम्प्रदायः कीटवारः प्रथमं परिकीर्तितः ॥ २०-६९॥
गोवर्द्धनमठो नाम द्वितीयः परिकीर्तितः ।
पुरुषोत्तम इति क्षेत्रं पूर्वस्यां दिशि भूपते ॥ २०-७०॥
जगन्नाथो देवताऽत्र देवी तु विमला मता ।
महोदधिस्तीर्थराजः पद्मपादस्तथा मुनिः ॥ २०-७१॥
तच्छिष्यौ द्वौ वनारण्यौ चैतन्यब्रह्मचार्यथ ।
तत्सेवायां स्मृतस्तत्र भोगवार इति स्फुटम् ॥ २०-७२॥
तृतीयस्तु मठो ज्योतिः स्थितं(तश्)चोत्तरतो दिशि ।
क्षेत्रं वै बदरी प्रोक्तं देवो नारायणः स्मृतः ॥ २०-७३॥
पुण्यकरीति देवी वाऽलकनन्दा सरित् स्मृता ।
त्रोटकाचार्यसंज्ञश्च सम्प्रदायप्रवर्तकः ॥ २०-७४॥
तस्य शिष्यास्त्रयः प्रोक्ता गिरिपर्वतसागराः ।
स्वरूपब्रह्मचारीति तत्सेवायां प्रकल्पितः ॥ २०-७५॥
चतुर्थः श्रीगिरिमठो याम्यां दिशि तु संस्थितं(तः) ।
रामेश्वरो देवतात्र आदिवाराह एव च ॥ २०-७६॥
कामाक्षीति महादेवी भक्तानां सर्वदायिनी ।
हस्तामलक आचार्य आचारस्य प्रवर्तकः ॥ २०-७७॥
तच्छिष्याश्च त्रयः प्रोक्ताः सरस्वतीति भारती ।
तृतीयस्तु पुरी चेति ब्रह्मचार्यपि शृण्वथ ॥ २०-७८॥
प्रकाश इतिसंज्ञश्च ब्रह्मचर्यप्रवर्तकः ।
तेषां शिष्या इति प्रोक्ता दशसंज्ञा यथाक्रमात् ॥ २०-७९॥
चतुर्युगक्रमेणैव पारम्पर्यमुदाहृतम् ।
युगभेदेन ते वच्मि सङ्क्षिप्य शृणु मद्वचः ॥ २०-८०॥
कृते ज्ञानप्रदः सत्यस्त्रेतायां दत्त एव च ।
द्वापरे व्यासनामा तु कली शङ्करनामधृक् ॥ २०-८१॥
सत्यो ब्रह्मा हरिर्दत्तो व्यासो रुद्रः प्रकीर्तितः ।
शङ्करः सविता साक्षादीश्वराः सर्व एव ते ॥ २०-८२॥
युगे युगे प्रणष्टस्य ज्ञानस्योद्धरणाय वै ।
श्रुतिस्मृत्यर्थबोधाय पाषण्डिनिधनाय च ॥ २०-८३॥
अध्यात्मशास्त्रविज्ञप्त्यै लोकानुग्रहकारणात् ।
अवतारांश्चकारासावीश्वरः परमेश्वरः ॥ २०-८४॥
सत्यः सुमेधसाद्(सो)ब्रह्मा पुत्रभावमुपागतः ।
अत्रेर्दत्त शक्तिपुत्रः सुतो व्यासः प्रकीर्तितः ॥ २०-८५॥
विष्णुतेजाःसुतः साक्षात् शङ्करः परिकीर्तितः ।
रुद्रो व्यास इति प्रोक्तो यस्मात्तस्मान्नृपात्मज ॥ २०-८६॥
रुद्ररूपो गुरुः साक्षाद्भक्त्या पूजां समाचर ।
अतः कलौ विशेषेण व्यासपूजां बिना भवेत् ॥ २०-८७॥
विघ्नबाहुल्यमेतत् ते श्रावितं विघ्ननाशनम् ।
वायुरुवोच -
इति गुरुवचः श्रुत्वा भोजो नाम्ना महीपतिः ॥ २०-८८॥
तथैव विधिना पश्चात् सम्भारानुपगृह्य च ।
आथर्वणाचार्यपार्श्वे स्थाप्य पूजां तथाऽऽचरत् ॥ २०-८९॥
ततः स्वपितरं नत्वा सम्पूज्य च विधानतः ।
प्रत्यष्टं वार्षिकीं पूजां स्वकरेणैव चाकरोत् ॥ २०-९०॥
बाष्पेण यद्यदादिष्टं तत्तथैव समाचरन् ।
राज्यं चकार स नृपः प्रजां सम्यगनुत्तमाम् ॥ २०-९१॥
वर्द्धयन् धर्ममर्यादां बाष्पधर्मान् समाचरन् ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ २०-९२॥
रामेण सदृशो वीर्ये विष्णुना सदृशः स वै ।
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ॥ २०-९३॥
पीनवक्षो विशालाक्षो लक्ष्मीवान् समितिञ्जयः ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो जितेन्द्रियः ॥ २०-९४॥
आजानुहस्तः सुशिराः सुललाटः सुविक्रमः ।
एवं स बाष्पतनयो भोजनामाऽतिविश्रुतः ॥ २०-९५॥
नीताः शतं समास्तत्र चित्रकूटेतिभूधरे ।
वार्द्धे वयसि सोऽप्येवं योगमार्गमुपाश्रितः ॥ २०-९६॥
वेदगर्भमुनेः पार्श्वमवलम्ब्य सुतोत्तम ।
राज्यं समर्प्य विधिना राज्यार्हे मुनिसत्तम ॥ २०-९७॥
एकलिङ्गमथागत्य त्यक्तं स्वीयं कलेवरम् ।
इतिश्रीभोजराजस्य चाख्यानं सम्यगीरितम् ।
पठनाच्छ्रुवणान्नित्यं शिवलोकमवाप्नुयात् ॥ २०-९८॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पान्वये विशोऽध्यायः । २०॥
अथैकविंशोऽध्यायः । बाष्पान्वयम् ।
21.1 Upon being requested by Nārada नारद about son of Rājā Bhoja राजा भोज, Vāyu वायु says that his name was Suṣamāṇa सुषमाण and that he too of his own accord gave up his reign, took to Saṃnyāsa संन्यास and merged in Ekaliṅga एकलिङ्ग.
Saṃnyāsa संन्यास is extolled in this chapter.
21.2 Son of Suṣamāṇa सुषमाण was Govinda गोविन्द and he was very Dhārmika अतिधार्मिक and has been hailed as Nārāyaṇa Avatāra नारायण अवतार. Govinda गोविन्द had received mantra मन्त्र from Ekaliṅga एकलिङ्ग Himself at the age of seven. The Mantra मन्त्र and Dhyāna ध्यान are described in detail. Suṣamāṇa सुषमाण was very pleased with his son's achievement in these terms.
नारद उवाच -
वेदगर्भ इति प्रोक्तः कोऽसौ यस्याश्रयं गतः ।
बाष्पराजसुतः श्रीमान् राजा भोजोऽतिविक्रमः ॥ २१-१॥
वायुरुवाच -
पूर्वमेव मयाख्यातं हारीतस्य गुरुः स वै ।
ब्रह्मचर्याश्रमादेव परिव्राजक इत्युत ॥ २१-२॥
एकलिङ्गं स्मरन्नन्तः स्वधर्ममनुपालयन् ।
आथर्वणस्य शिष्योऽसौ गुरुसेवापरः सदा ॥ २१-३॥
ब्रह्मचर्याश्रमादेव गृहीभूत्वा वनात्ततः ।
एकलिङ्गाभ्यनुज्ञातो हारीतोऽगाद्दिवं जवात् ॥ २१-४॥
सूत उवाच -
इति तद्वाक्यमाकर्ण्य नारदः पर्य(रि)पृष्टवान् ।
देवर्षिरपि सर्वं तज्ज्ञानंल्लोकार्थम्मादरात् ॥ २१-५॥
नारद उवाच -
भोजस्य राज्ञस्तनयः कथं पृथ्वीं शशास ह ।
नाम किं तस्य भूपस्य वर्णयस्व समीरण ॥ २१-६॥
तत्सन्ततिरभूत् कीदृगिति मे पृच्छतः प्रभो ।
सर्वज्ञोऽसि तथा तस्य पराक्रममतो महत् ॥ २१-७॥
बाष्पस्य द्विजवर्यस्य शृण्वंस्तृप्तिं न चाप्नुयाम् ।
वायुरुवाच -
नामकर्मसमारम्भे तस्य पौत्रस्य भूपतेः ॥ २१-८॥
ज्योतिर्विदस्तथाहूय किं नामास्य भविष्यति ।
इति बाष्पेण सम्पृष्टास्ते सर्वेऽप्यूचुरादरात् ॥ २१-९॥
राजन् पौत्रस्य ते नाम सुषमाण इति स्फुटम् ।
ख्यातिमेष्यति भूयस्ते शोभनश्चेति नामतः ॥ २१-१०॥
सुषुमा परमा शोभा शोभनोऽयं च सर्वतः ।
वेदवेदाङ्गसम्पन्नो धार्मिकः सत्पराक्रमः ॥ २१-११॥
समुद्रवलयां पृथ्वीं भोक्षिष्यति महायशाः ।
तव वंशाग्रणीर्भूत्वा पुत्रपौत्रादिकैर्युतः ॥ २१-१२॥
वाजि(ज)पेयादिकृदयं याज्ञिकः शरदां शतम् ।
भुक्त्वा राज्यं महाराजन्नेकलिङ्गप्रसादजम् ॥ २१-१३॥
त्रिकालज्ञानसम्पन्नः क्षात्रधर्मपरायणः ।
काश्यपानां कुले जातो भवान्तरफलान्यदन् ॥ २१-१४॥
इह जन्मनि भुक्त्वा तु ततः शिवपदं पुनः ।
प्राप्नोतीत्यत्र सन्देहो न मनागपि विद्यते ॥ २१-१५॥
इति तेषां वचः श्रुत्वा बाष्पः पौत्रस्य हर्षतः ।
सुवर्णरत्नवासांसि गोगजाश्वादिमाहिषम् ॥ २१-१६॥
ग्रामांश्च ब्राह्मणाग्र्येभ्यो ददौ बन्दिजनाय च ।
चारणाग्रेसरेभ्यश्च रत्नानि विविधानि च ॥ २१-१७॥
सोऽपि कालेन शनकैराराध्याशु स्वकं परम् ।
एकलिङ्गं च सुधिया वेदगर्भस्य सन्निधौ ॥ २१-१८॥
पितृपैतामहान् धर्मान् ज्ञात्वा वेदोक्तकर्मणा ।
एकपत्नीव्रतेनैव गार्हस्थ्यं धर्ममाचरन् ॥ २१-१९॥
मासि मासि समागम्य एकलिङ्गं तथा गुरुम् ।
सम्पूज्य स्वयमेवाथ पट्टराज्ञीयुतः प्रभुः ॥ २१-२०॥
पञ्चरात्रव्रतं कुर्वन् भूशायी विजितेन्द्रियः ।
स्वपुत्रपौत्रकैर्युक्तस्त्रिकालं धर्मतत्परः ॥ २१-२१॥
षष्ठेऽहनि तु सम्पूज्य तमापृच्छ्य च सद्गुरुम् ।
उपानद्यानहीनोऽसौ गमनागमने सदा ॥ २१-२२॥
एकलिङ्गसमीपे स राजा भृत्य इवापरः ।
दूरतश्छत्रयानादिसेनां च विसृजन् सदा ॥ २१-२३॥
गुरोरग्रे स्वमौद्धत्यं मुक्त्वायात्युपहारधृक् ।
पुत्रपौत्रादिपत्न्या च विनयेन महीपतिः ॥ २१-२४॥
एकलिङ्गस्य सामीप्यं मुक्त्वा याति यदा तदा ।
राजचिह्नानि सन्धार्य वि(व्य)राजत्स्वं निकेतनम् ॥ २१-२५॥
प्रविश्य सर्वदा ब्रह्मन् स राजा पितृशासनात् ।
राज्यं प्रशास्ति भूपालो राजधर्माननुस्मरन् ॥ २१-२६॥
एवं बहुत्द्य (बहवोऽ)ग(म)न्वर्षास्तस्मिन् शासति भूपतौ ।
ततः सोऽपि विहायाशु राजलक्ष्मीं यदृच्छ्या ॥ २१-२७॥
कृच्छ्रैश्चान्द्रायणैरन्यैरसङ्ख्येयैर्व्रतैः शुभैः ।
पत्न्या साकं तपः कृत्वा वानप्रस्थाश्रमोचितम् ॥ २१-२८॥
ब्राह्मणैः सह धर्मज्ञः स्वधर्ममनुपालयन् ।
अग्निहोत्रक्रियां त्यक्त्वा वर्षे द्वादशमे गते ॥ २१-२९॥
भार्यापुत्राज्ञया चैव चतुर्थाश्रममाप सः ।
ततः स्वल्पेन वयसा एकलिङ्गे लयं गतः ॥ २१-३०॥
संन्यासमहिमा वक्तुं को वा जानाति तत्त्वतः ।
(संन्यासमहिमानं को वक्तुं जानाति तत्त्वतः ।)
श्रुतिरेवं तथा वक्ति न्यास एवात्परे(त्मनश)चयत् ॥ २१-३१॥
यत्र सात्त्विकधर्मा ये राजसास्तामसा न वै ।
तेषां धर्मा मया सम्यक्तुभ्यमत्र प्रकाशिताः ॥ २१-३२॥
संन्यस्यन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।
अयं मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥ २१-३३॥
देवताप्रतिमां दृष्टवा यति दृष्ट्वैकदण्डिनम् ।
न नमेदपि कायेन ब्रह्महा स निगद्यते ॥ २१-३४॥
यतीनां पुरतो मोहादुच्चासनगताश्च ये ।
महापातकिनस्ते वै सङ्गं तेषां न कारयेत् ॥ २१-३५॥
इति राज्ञश्च तस्याथ सुषमाणस्य धीमतः ।
चरित्रं द्विजवर्यस्य यः शृणोति सुभक्तितः ॥ २१-३६॥
श्रावयेद्वाऽथ मतिमान्सर्वकामानवाप्नुयात् ।
बाष्पस्य राजधानी सा विष्णोरिव यथा शुभा ॥ २१-३७॥
श्रवणात्पठनाद्वाऽपि शिवपार्षत्त्वमाप्नुयात् ।
इति नारद यत्पृष्टं तत्सर्वं कथितं मया ॥ २१-३८॥
किमन्यत्प्रष्टुकामोऽसि तदिदानीं वदस्व मे ।
तवाज्ञातं तु नास्त्येव तथापि लोकहेतवे ॥ २१-३९॥
पृच्छसीति च मे ज्ञातं तद्भवान्वक्तुमर्हसि(ति) ।
नारद उवाच -
पितर्युपरते वायो तत्सूनुः किमकारिवान्(वै) ॥ २१-४०॥
नाम्ना सोऽपि कथं ख्यातस्तद्धर्मानाशु शंस मे ।
सर्वज्ञोऽसि महाबाहो संशयं छिन्धि मेऽनघ ॥ २१-४१॥
वायुरुवाच -
नाम्ना गोविन्द इत्यासीद्द्विजश्रेष्ठोऽतिधार्मिकः ।
दयावाननसूयश्च यज्ञक्रुद्धार्मिकाग्रणीः ॥ २१-४२॥
पितृपैतामहान् धर्मान् संरक्षन् पृथिवीमिमाम् ।
पालयायास धर्मात्मा यथा विष्णुरिवापरः ॥ २१-४३॥
हर्षाद्द्योऽतोलयत् स्वीयं कलत्रं शिशुभिः सह ।
सुवर्णरत्नवैडूर्यैर्ब्राह्मणेभ्यो ह्यदात्ततः ॥ २१-४४॥
प्रतिवर्षं स भूपाल एकलिङ्गस्य सन्निधौ ।
नित्यं तथैकलिङ्गस्य प्रीतये रत्नकाञ्चनैः ॥ २१-४५॥
कुसुमानि विनिर्माय पूजयामास स प्रभुः ।
नवरत्नैर्विनिर्माय भूषयामास भूषणैः ॥ २१-४६॥
एकलिङ्गं तथा देवीं भक्तितः पर्वतात्मजाम् ।
उमामहेश्वरप्रीत्यै दम्पतीनपि सर्वदा ॥ २१-४७॥
मिष्टान्नैर्भोजयामास सहस्रं भूरितैजसः ।
ब्राह्मणान् स नृपो ब्रह्मन् दक्षिणाभिर्विशेषतः ॥ २१-४८॥
एकलिङ्गस्य पुरतः सरसीन्द्राख्यकेऽनिशम् ।
नित्यं व्रतमिमं तस्य गोविन्दस्य च नारद ॥ २१-४९॥
ब्राह्मणक्षत्रियादींश्च स्वस्वधर्मे प्रवर्तयन् ।
स्वयं तथाविधो भूत्वा ब्रह्मण्यो ब्राह्मणप्रियः ॥ २१-५०॥
धनुर्वेदस्य यद्गुह्यं प्राप्तवान् शङ्करात्प्रभुः ॥
स यदा याति सामीप्ये एकलिङ्गस्य पार्थिवः ॥ २१-५१॥
आविर्भूत्वा(य)वचस्तं तु बोधयन् प्रीतमानसः ।
दार्षदं लिङ्गमास्थाय शिवनाभमयं महत् ॥ २१-५२॥
चतुरस्रात्मिकायां तु वेद्यां मध्येऽग्रतः स्थितः ।
नो वदत्येकलिङ्गोऽपि हिताहितमनन्यधीः ॥ २१-५३॥
नारद उवाच -
कथं स एकलिङ्गोऽपि नान्येषां दृष्टिगोचरः ।
गोविन्दस्यैव भवता विशेषेणेह गोचरः ॥ २१-५४॥
इत्युक्तं यत्त्वया वायो कारणं तत्र कथ्यताम् ।
गोविन्दस्यैकलिङ्गस्य परस्परमभूत्किल ॥ २१-५५॥
सख्यत्वं चात्र नान्येषां सेव्यसेवकयोस्तयोः ।
किञ्च तेनेह प्रभुणाऽऽचरितं तच्च कथ्यताम् ॥ २१-५६॥
वायुरुवाच -
श्रूयतां मुनिशार्दूल वक्ष्यमाणं महाद्भुतम् ।
यस्य स्मरणमात्रेण ज्ञानं स्यादीशजीवयोः ॥ २१-५७॥
नारायणोऽथ भगवान् एकलिङ्गाज्ञया प्रभुः ।
बाष्पान्वये समुत्पन्नो धर्मसंरक्षणाय च ॥ २१-५८॥
विनाशाय च दुष्टानां साधूनां पालनाय वै ।
अतोऽत्र जीवरूपेण एकलिङ्गमपूजयन् ॥ २१-५९॥
स्वप्नलब्धममुं मन्त्रं जपन् सम्यग्विधानवित् ।
शिवेन सह मित्रत्वमाप सेवाफलं तदा ॥ २१-६०॥
ततः स्वकुलमार्गेण शिवे लयमवाप सः ।
चतुर्थाश्रमधर्मा ये ब्राह्मणानां युगे युगे ॥ २१-६९॥
विहिताचारयुक्तः सन् ज्ञानाग्निदग्धकिल्विषः ।
इति ते कथितं ब्रह्मन् किमन्यच्छ्रोतुमर्हसि ॥ २१-६२॥
नारद उवाच -
स्वप्नलब्धं कथं मन्त्रं जप्तवानिह सुव्रत ॥
विधानमपि तत्सर्वं कुतः प्राप्त महीभर्ता ॥ २१-६३॥
वायुरुवाच -
जन्मतः सप्तमे वर्षे मौञ्जीबन्धनकर्मणि ।
पितृरूपेण चागत्य स्वोत्सङ्गे विनिवेश्य च ॥ २१-६४॥
एकलिङ्गः स भगवान् तं शिशुं प्रत्यभाषत ।
वत्स गोविन्द भूयस्त्वमिमं मन्त्रं प्रजप्य च ॥ २१-६५॥
परं मुदमवाप्यात्र चित्रकूटाधिपो भव ।
इत्युक्त्वा दक्षकर्णे तु तारं हंसौमितीर्य च ॥ २१-६६॥
क ए इ ले ति सम्प्रोच्य ह्रीमित्यन्ते तथा ह स(सः) ।
कहलेति च सम्प्रोच्य ह्रीमित्यन्ते तथैव च ॥ २१-६७॥
सकलान्ते च हृल्लेखां नमः शिवाय चेत्यथ ।
मन्त्रस्य च ऋषिर्ब्रह्मा विराट् छन्द इहोच्यते ॥ २१-६८॥
देवता चास्य मन्त्रस्य एकलिङ्गो निगद्यते ।
सर्वव्यापी परानन्दः प्रणवो बीजमुच्यते ॥ २१-६९॥
हंसौं शक्तिरिति प्रोक्तं रेफः कीलकमित्यथ ।
चतुर्वर्गाप्तये चात्र विनियोग इतीरितः ॥ २१-७०॥
बीजेन च द्वितीयेन षडङ्गन्यास इत्यपि ।
तारेण पुटितं कृत्वा सर्वाङ्गे व्यापकं कुरु ॥ २१-७१॥
मन्त्रध्यानं प्रवक्ष्यामि त्रिविधं मुनिसत्तम ।
प्रणवस्य जपं कुर्यान्मुनिर्मोक्षपरायणः ॥ २१-७२॥
हृद्गतं योगिभिर्ध्यानगम्यं दीपशिखोपमम् ।
वेद देवत्रयै(येऽप्ये)वं सारं चैकं विमोक्षदम् ॥ २१-७३॥
प्रणवाग्रिमबीजस्य ध्यानं पूर्वं मयेरितम् ।
पञ्चाक्षरस्य मन्त्रस्य ध्यानं सर्वार्थसिद्धिदम् ॥ २१-७४॥
प्रवक्ष्यामि तु शैवानां सर्वस्वं ब्रह्मपुत्रक ।
हिमगिरिशिखराभं पद्मसंस्थं त्रिनेत्रम्
सुरवरमुनिपूज्यं व्याघ्रकृत्तिं वसानम् ।
परशुमृगवराभीर्धारयन्तं प्रसन्नं
निखिलभयविनाशं विश्वकृत्यं च वक्त्रम् ॥ २१-७५॥
त्रिधेति ध्यानमाख्यातं ऋषिपत्न्यग्रतो ह्यभूत् ।
रूपं परमनौपम्यं कामेशो यत्र नामकः ॥ २१-७६॥
वेदागमपुराणेषु ख्यातः सर्वत्र वन्दितः ।
इति ध्यात्वा यथाध्यानं गुरुं मां च कुमारक ॥ २१-७७॥
अष्टोत्तरशतं नित्यं जपस्व मम वल्लभ ।
सूत उवाच -
स तथैवाकरोत् स्वप्ने प्रबुद्ध्य च विधानवित् ।
पितुरन्तिकमागत्य तत्सर्वं कथितं यदा ॥ २१-७८॥
तदा स राजराजोऽपि न मया कथितं तव ।
इत्युक्तं तद्वचः श्रुत्वा पुनराह नृपं प्रति ॥ २१-७९॥
स्वाङ्के निवेश्य मां तात किं त्वया कथितं न मे ।
मृषैव ति नेतीति किमर्थमिह भाषसे ॥ २१-८०॥
तदा राजा (प्र)हर्षेण पुत्रमालिङ्ग्य मानतः ।
शनैः शनैरुवाचेदमेकलिङ्गाच्च लब्धवान् ॥ २१-८१॥
त्वयेति चेति सम्बोध्य एकलिङ्गात् ततः परम् ।
तवेप्सितं सकलं भविष्यति गुरोर्बलात् ॥ २१-८२॥
इत्युक्त्वा विररामासौ स्वसुतं विनयेन तु ।
तत्सुतस्य च भाग्यत्वादिति निश्चित्य भूपतिः ॥ २१-८३॥
नारद उवाच -
ततः किमकरोद्वायो राजा स च महामतिः ।
श्रोतुमिच्छामि वृत्तान्तं तत्पुत्रस्य च विस्तरात् ॥ २१-८४॥
वायुरुवाच -
पितुर्वाक्यमिति श्रुत्वा ववन्दे पितरं तदा ।
हर्षादश्रूणि मुञ्चन् स मातरं प्रत्यभाषत ॥ २१-८५॥
मातरेह्येंहि मे तात वाक्यं शृणु शुभप्रदम् ।
तथा पप्रच्छ भर्तारं किं वक्तीति सुतस्तव ॥ २१-८६॥
इति पृष्टे तया साध्व्या राजा तां हर्षयन् तदा ।
मेघगम्भीरगिरया श्रोतॄणां सुखदं तदा ॥ २१-८७॥
पुत्रस्य स्वप्नवृत्तान्तं भार्यायै सर्वमीरितं(तवान्) ।
सापि तद्वृत्तमाकर्ण्य स्वसुतं प्रत्यभाषत ॥ २१-८८॥
धन्योऽइस कृतकृत्योऽसि सफलं जीवितं सुत ।
ततः स भूपतिर्वाक्यमूचिवानिति पुत्रकम् ॥ २१-८९॥
एकलिङ्गं व्रजाम्याशु पञ्चरात्रव्रताय वै ।
तत्र तेभ्यः सकाशात्तु वेदगर्भाश्रमात् क्रमात् ॥ २१-९०॥
सर्व ज्ञात्वाऽथ शास्त्रीयं साङ्गोपाङ्गमुपासनम् ।
करिष्यामीति निश्चित्य माघस्नानार्थमादरात् ॥ २१-९१॥
आगतः पुत्रभार्याद्यैः सहैवावनिपालकैः ।
हस्त्यश्वरथयानैश्च पदातिभिरथावृतः ॥ २१-९२॥
ग्रामाद्बहिः स्वसैन्यं तत् संस्थाप्याथ समाहितः ॥ २१-९३॥
उपहारकरः पश्चादाजगाम मुनीश्वरम् ।
साष्टाङ्गेन नमस्कृत्य सभार्यः ससुतो नृपः ॥ २१-९४॥
कृताञ्जलिपुटो भूत्वा विनयानतकन्धरः ।
पुरः स्थितस्तदा तेन मुनिना सत्कृतो नृपः ॥ २१-९५॥
पप्रच्छ तं नृपवरं स मुनिः पर्यनन्दयत् ।
कुशलं ते महाराज सपुत्रपशुबान्धवैः ॥ २१-९६॥
कच्चित्ते(त्वं) साम्प्रतं राज्यं निर्विघ्नं पासि पुत्रक ।
वायुरुवाच -
इति तद्वाक्यमाकर्ण्य राजा वचनमब्रवीत् ॥ २१-९७॥
राजोवाच -
स्वामिन् भवन्तमेवाहमनुस्मृत्य यदृच्छया ।
करोमि शासनं सम्यग् यादृगाज्ञा तथैव च ॥ २१-९८॥
आसमुद्रान्तवलयां मेदिनीं मुनिसत्तम ।
एकलिङ्गस्य चारित्रं साम्प्रतं किञ्चिदद्भुतम् ॥ २१-९९॥
प्रष्टुमिच्छाम्यहं ब्रह्मन् मत्पुत्रस्य समीहया ।
तद्विमृश्य यथाऽस्माकं सुखमेघेत तद्वद ॥ २१-१००॥
त्वं गतिः सर्वलोकानां कृपासिन्धो महद्(हा)यते ।
त्वत्तेजसा विशेषेण कृतकृत्योऽस्मि सर्वथा ॥ २१-१०१॥
इति तस्य वचः श्रुत्वा स मुनिस्त्विदमब्रवीत् ।
वेदगर्भ उवाच -
कथ्यतां नृपशार्दूल यत्ते मनसि वर्तते ॥ २१-१०२॥
एकलिङ्गस्य चारित्र्यं पठतां शृण्वतां सदा ।
चतुर्वर्गप्रदं नॄणां प्रोक्तं तद्वायुना पुरा ॥ २१-१०३॥
अतस्त्वमपि जानासि वर्ण्यतामनुपूर्वशः ॥ २१-१०४॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पान्वये एकविंशोऽध्यायः । २१॥
अथ द्वाविंशोऽध्यायः । बाष्पान्वये प्रातःकृत्यादिकथनम् ।
22. Suṣamāṇa सुषमाण requests his Guru Vedagarbha गुरु वेदगर्भ to grant him the benefits of Mantra मन्त्र akin to what his son received. Vedagarbha वेदगर्भ obliges with knowledge of Japa जप, Pūjāvidhi पूजाविधि and MātṛkāNyāsa मातृकान्यास.
सुषुमाण उवाच -
ब्रह्मन् मत्पुत्रभाग्यात्तु एकलिङ्गोऽकरोत् कृपाम् ।
उपदिष्टं यथा स्वप्ने स तथैवावदच्च माम् ॥ २२-१॥
तच्छ्रुत्वा विस्मितश्चाहं त्वरयाऽत्र प्रशाधि माम् ।
गुरोः कृपां विना ब्रह्मन् कथं ज्ञानमवाप्नुयाम् ॥ २२-२॥
तत्र यद्यद्रहस्यं स्यात्तन्मे वक्तुमथार्हसि ।
सूत उवाच -
इति श्रुत्वा नृपात् सोऽपि विस्मयं परमं गतम्(तः) ॥ २२-३॥
बाल्ये वयसि तत्रापि गायत्रीग्रहणे दिने ।
उत्सवे च विशेषेण प्राप्तवान् स्वप्नतः किल ॥ २२-४॥
अतोऽस्य महती कीर्तिर्भविष्यति सुतस्य ते ।
सुषुमाण उवाच -
उपदेशविधानेन पत्न्या सह महामुने ॥ २२-५॥
अद्यैव दिवसः श्रेष्ठो ह्यधुनैवोपदिश्यताम् ।
सूत उवाच -
नृपस्येति वचः श्रुत्वा सम्भारानुपहृत्य च ॥ २२-६॥
पूर्णाभिषेकविधिना ह्यभिषिच्य सपत्निकम् ।
स्वरानुसारतः स्वस्य तत्कर्णे कथितं यदा ॥ २२-३॥
गुरुमन्त्रं तथा शैवं कामेशाख्यं सविस्तरम् ।
सऋषिच्छन्दबीजादिषडङ्गन्यासपूर्वकं ॥ २२-८॥
तथा तदात्मजं(जः) सोऽपि पृथक्त्वेनोपदिष्टवान् ।
वेदगर्भ उवाच -
मन्त्रस्यास्य प्रभावोऽयं वर्णितुं केन शक्यते ॥ २२-९॥
मन्त्रात्मकस्य देवस्य पूजयन् विधिना सदा ।
त्रिकालमेककालं वा मन्त्री सद्गतिमाप्नुयात् ॥ २२-१०॥
जन्मान्तराराधनाच्च स मन्त्रः प्राप्यते पुनः ।
येन येन निमित्तेन सा विद्या फलदा ततः ॥ २२-११॥
अतोऽयमधुना पुत्रः प्राप्तवांस्तव भूपते ।
अस्मिन्नर्थे नृपश्रेष्ठ संशयो माऽस्तु सर्वथा ॥ २२-१२॥
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
(भगवद्गीता ४/४०)
अतो मया विचार्यैवं कथितं ते सविस्तरम् ॥ २२-१३॥
प्रातःकृत्यमतो वक्ष्ये सङ्क्षेपेण नृपोत्तम ।
ब्राह्मे मुहूर्त्ते चोत्थाय कृत्वा शौचादिकं सुधीः ॥ २२-१४॥
परिधायाम्बरं शुद्धं मन्त्रस्नानं विधाय च ।
प्रविश्य देवतागारं कुर्यान्मार्जनलेपने ॥ २२-१५॥
मङ्गलारार्त्तिकं कृत्वा निर्माल्यमपसायं च ।
दद्यात्पुष्पाञ्जलिं दन्तधवनाचमने तथा ॥ २२-१६॥
आधारादिपृथिव्यन्तास्तत्र सम्पूज्य देवता(ताः) ।
आसनं तत्र विन्यस्य चैलाजिनकुशोत्तरम् ॥ २२-१७॥
तारमायात्तथाधारशक्त्यन्ते कमलासनः ।
ओं नमश्चेति सम्प्रोच्य गन्धादिना ततोऽर्चयेत् ॥ २२-१८॥
स्वस्तिकादिक्रमेणैव स्वासने उपविश्य च ।
मूर्ध्नि स्वस्य गुरुंस्मृत्य(त्वा) यथारूपं प्रसन्नधीः ॥ २२-१९॥
वराभयकरं शान्तं स्मरेत्तं मन्त्रपूर्वकम् ।
चिच्छक्त्या सह संसिद्ध्यै ततः सम्पूज्य भक्तितः ॥ २२-२०॥
मानसैरुपचारैश्च ततो यायाज्जलाशयम् ।
देवस्य गुणनामानि कीर्तयन् मौनतः सुधीः ॥ २२-२१॥
स्वशाखोक्तविधानेन स्नात्वा इन्द्रसरस्यथ ।
वाससी परिधायाथ कस्तूर्यगरुकुङ्कुमैः ॥ २२-२२॥
चन्द्रचन्दनसंयुक्तां विभूतिं धारयेत्सुधीः ।
मालां सोदरवक्षस्सु कुर्यात् पञ्चत्रिपुण्ड्रकान् ॥ २२-२३॥
क्रमात्तत्पुरुषाघोरसद्योवामेनामभिः ।
त्रयम्बकेति मन्त्रेण मन्त्रितं भस्म धारयेत् ॥ २२-२४॥
सन्ध्यां च वैदिकीं कृत्वा मन्त्रसन्ध्यां तथैव च ।
कृत्वा च विधिना पश्चात् स्तुतिं कुर्वन् शिवालयम् ॥ २२-२५॥
आगत्य दूरे सङ्क्षाल्य पादौ हस्तौ शुचिस्ततः ।
आचम्य त्रिस्तथा प्राणानायाम्य विधिना तथा ॥ २२-२६॥
पश्चिमद्वार्यथागत्य सामान्यार्घ्यमथाचरेत् ।
अस्त्रेण पात्रं सङ्क्षाल्य साधारं मण्डले न्यसेत् ॥ २२-२७॥
बिन्दुत्रिकोणवृतं तच्चतुरस्त्रमथापि च ।
मण्डलं चेति सम्प्रोक्तं मन्त्रेणानेन पूजयेत् ॥ २२-२८॥
मायाव्यापक इत्युक्त्वा मण्डलाय नमस्तथा ।
हृन्मन्त्रेण जलं पूर्य गन्धाद्यैरर्च्य मुद्रया ॥ २२-२९॥
अमृतीकृत्य मन्त्रेण सकलीकृत्य वै पुनः ।
त्रिधाऽभिमन्त्र्य मूलेन योन्या चोद्दीपयेज्जलम् ॥ २२-३०॥
पुष्पेणोद्धृत्य चात्मानं पूजोपकरणानि च ।
प्रोक्षयेतु तत्तो द्वारदेशे द्वाराधिपानु यजेत् ॥ २२-३१॥
द्वारमस्त्राम्बुभिः प्रोक्ष्य भक्त्या परमया पुनः ।
विघ्नं द्वारोर्ध्वशाखायां महालक्ष्मीं सरस्वतीम् ॥ २२-३२॥
ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्यतः ।
तयोः पार्श्वगते गङ्गायमुने पुष्पकादिभिः ॥ २२-३३॥
धातारं च विधातारं शङ्खपद्मनिधींस्तधा ।
देहल्यामर्चयेदस्त्रं प्रतिद्वारमिति क्रमात् ॥ २२-३४॥
पश्चिमद्वारमारभ्य द्वो द्वावन्यान् प्रपूजयेत् ।
नन्दिसंज्ञो महाकालो गणेशो वृषभस्तथा ॥ २२-३५॥
भृङ्गिरीटिस्तथा स्कन्द उमा चण्डेश्वरस्तथा ।
इति सम्पूज्य विधिना पश्चाद्दक्षिणद्वार्यथ ॥ २२-३६॥
कल्पवृक्षवनान्तस्थवेदिकायां प्रपूजयेत् ।
सरत्या (सरतिं) मन्मथं चादी वसन्तं प्रीतिसंयुतम् ॥ २२-३७॥
सम्पूज्य नृपशार्दूल सर्वमीप्सितमाप्नुयात् ।
द्वारपूजां विधायेत्थं मूलमन्त्रं पठन्धिया ॥ २२-३८॥
दिव्यान्तरिक्षभौमांश्च सर्वविघ्नान्निवारयेत् ।
शिवाज्ञया इतोऽन्यत्र व्रजन्तु सर्व एव हि ॥ २२-३९॥
द्वारपा देवदेवस्य द्वारात्रक्षन्तु सर्वतः ।
विनिवार्याखिलान् विघ्नानित्याज्ञा शम्भुना कृता ॥ २२-४०॥
पार्ष्णिघातत्रयं हत्वा स्वाङ्गं सङ्कोचयञ्शनैः ।
वामशाखां स्पृशन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा ॥ २२-४१॥
तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ २२-४२॥
इत्यनुज्ञां गृहीत्वाऽस्य जपस्थानं विशोधयेत् ।
निरीक्ष्य मूलमन्त्रेण अस्त्रेण प्रोक्ष्य चैव हि ॥ २२-४३॥
ताडयित्वाऽस्त्रमन्त्रेण वर्मणाऽभ्युक्ष्य तां भुवम् ।
चन्दनागरुगन्धाद्यैर्धूपयेदन्तरं ततः ॥ २२-४४॥
उक्तेषु चासनेष्वेकं चैलाजिनकुशोत्तरम् ।
वेदिकायां प्रविन्यस्य प्रोक्षयेत् सलिलैः शुभैः ॥ २२-४५॥
आधारादिपृथिव्यन्तास्तत्र सम्पूज्य देवताः ।
मेरुपृष्ठऋषिश्छन्दः पृथिव्या(व्याः) सुतलं मतम् ॥ २२-४६॥
देवता कूर्म आख्यातः संस्मरेदृषिपूर्वकान् ।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना वृता ॥ २२-४७॥
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।
इति मन्त्रं पठन् पीठे प्राङ्मुखो वाप्युदङ्मुखः ॥ २२-४८॥
स्वस्तिकादिक्रमेणैवं ऋजुकायो विशेद्बुधः ।
स्थापयेद्दक्षिणे भागे पूजाद्रव्याणि चात्मनः ॥ २२-४९॥
सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् ।
प्रक्षालनाय करयोः पृष्ठे पात्रं विधापयेत् ॥ २२-५०॥
घृतादिज्वलितान् दीपान् स्थापयेत् परितः शुभान् ।
दर्पणे चामरं छत्रं तालवृन्तं च पादुके ॥ २२-५१॥
आदर्शः स तु विज्ञेयो दैव आसुर एव वा ।
दैवतं तं विजानीयात् कान्तिर्यत्र समा भवेत् ॥ २२-५२॥
आसुरः स तु विज्ञेयो घोरा यत्र प्रभा भवेत् ।
अतो दैवतसंज्ञो य आदर्शं सङ्ग्रहेत् सदा ॥ २२-५३॥
कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः ।
नत्वा गुरुं गणेशं च पुरतः स्वेष्टदैवतम् ॥ २२-४४॥
रेफत्रयमथोच्चार्य बिन्दुयुक्तं तथोच्चरेत् ।
तेजोज्वलत्प्रकाशाय नमः स्वपरितः स्मरेत् ॥ २२-५५॥
अग्निप्राकारमन्त्रेण स्वस्य रक्षां विधाय च ।
त्रिशूलमुद्रया पूर्वं विदध्यात्तद्विधानतः ॥ २२-५६॥
सुदर्शनस्य मन्त्रेण रक्षां कुर्यात् समन्ततः ।
ओं सहस्रारवर्मास्त्रं सुदर्शनमनुः स्मृतः ॥ २२-५७॥
सुगन्धपुष्पमर्द्धे(र्दे)न सुरभीकृत्य हस्तकौ ।
क्षिपेदुत्तरतः पुष्पं मन्त्री नाराचमुद्रया ॥ २२-५८॥
भूतशुद्धिं ततः कुर्यात्तत्प्रकारोऽधुनोच्यते ।
पादतो जानुपर्यन्तं चतुरस्रं सवज्रकम् ॥ २२-५९॥
लं युतं पीतवर्णं च भुवः स्थानं विचिन्तयेत् ।
जान्वोरानाभिचन्द्रार्द्धनिभं पद्मेन लाञ्छितम् ॥ २२-६१॥
शुक्लवर्णं स्वबीजेन युतं ध्यायेदपां स्थलम् ।
नाभितः कण्ठपर्यन्तं त्रिकोणं रक्तवर्णकम् ॥ २२-६१॥
स्वस्वस्तिकं स्वबीजेन युतं वह्नेस्तु मण्डलम् ।
कष्ठाद्भ्रूमध्यपर्यन्तं कृष्णं वायोस्तु मण्डलम् ॥ २२-६२॥
षट्कोणं बिन्दुभिः षड्भिर्युतं बीजेन चिन्तयेत् ।
भ्रूमध्याद्ब्रह्मरन्ध्रान्तं वर्तुलं ध्वजलाञ्छितम् ॥ २२-६३॥
धूम्रवर्णं स्वबीजेन युक्तं ध्यायेन्नभःस्थलम् ।
एवं ध्यात्वा पुरस्तानि भूतानि प्रविलापयेत् ॥ २२-६४॥
पृथ्वीमप्सु च ता वह्नौ वह्निनं वायो समीरणम् ।
प्रविलाप्य तथाकाशेऽथाकाशं प्रकृतौ ततः ॥ २२-६५॥
परब्रह्मस्वरूपान्तां मायाशक्तिं परात्मनि ।
इत्थं समस्तदेहादिप्रपञ्चं परमात्मनि ॥ २२-६६॥
प्रविलाप्य परब्रह्मरूपस्तिष्ठेत्कियत्क्षणम् ।
पुनरुत्पादयेद्देहं पवित्रं परमात्मनः ॥ २२-६७॥
शब्दब्रह्मात्मिका माया मातृका प्रकृतिः परा ।
अजायत जगन्मातुराकाशं नभसोऽनिलः ॥ २२-६८॥
समीरणादभूद्वह्निर्वह्नेरापस्ततो मही ।
स्वीयमेभ्योऽप भूतेभ्यस्तेजोरूपं कलेवरम् ॥ २२-६९॥
देवताराधने योग्यमुत्पन्नमिति भावयेत् ।
तस्मिन् देहे परात्मानं सर्वज्ञं सर्वशक्तिकम् ॥ २२-७०॥
समस्तदेवतारूपं सर्वमन्त्रमयं शुभम् ।
आत्मरूपेण देहे स्वे बीजभावेन तिष्ठति ॥ २२-७१॥
इत्येषा भावना मुख्या भूतशुद्धिरितीरिता ।
भूतशुद्धिविहीनेन कृता पूजाऽभिचारवत् ॥ २२-७२॥
विपरीतं फलं दद्यादभक्त्या पूजनं यथा ।
भूतशुद्धिं विधायेत्थं ततो वै स्थापयेदसून ॥ २२-७३॥
पाशाङ्कुशेन पुटितां मायामादौ समुद्धरेत् ।
यकारादिसकारान्तान् बिन्दुमस्तकलाञ्छितान् ॥ २२-७४॥
तदन्ते चोद्धरेत्प्राज्ञो व्योमसद्मेन्दुसंयुतम् ।
ततो हंसपरात्मानौ ततोऽमुष्य परं वदेत् ॥ २२-७५॥
प्राणा इति वदेत् पश्चादिह प्राणास्ततः परम् ।
अमुष्य जीव इहतः स्थितोऽमुष्य पदं ततः ॥ २२-७६॥
सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः ।
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् ॥ २२-७७॥
तिष्ठन्त्वग्निवधूपूर्वं प्रत्यमुष्य पदं बुधः ।
पाशाद्यानि प्रयोज्यैवं प्राणमन्त्रं समुद्धरेत् ॥ २२-७८॥
ब्रह्मर्षिरस्य छन्दस्तु विराट् प्राणस्तु देवता ।
प्रणवोऽग्निवधू बीजं शक्तिरुक्ता मनीषिभिः ॥ २२-७९॥
शिरोवदनहृद्गुह्यपादेष्वृष्यादि विन्यसेत् ।
अमुष्येति पदस्थाने साध्यस्य पदमुच्चरेत् ॥ २२-८०॥
त्रिर्जपेत् साध्यसंस्पर्शे कृत्वा मन्त्रमुदारधीः ।
एष प्राणप्रतिष्ठायाः प्रकारः परिकीर्तितः ॥ २२-८१॥
ततस्तु मातृकान्यासं कुर्यादृष्यादिपूर्वकम् ।
अथातः कथयिष्यामि मातृकान्यासमुत्तमम् ॥ २२-८२॥
यत्कृत्वा मन्त्रिणः सर्वे दिव्यभावं प्रपेदिरे ।
ऋषिर्ब्रह्मा समुद्दिष्टो गायत्रं छन्द ईरितम् ॥ २२-८३॥
सरस्वती समारव्याता देवता मातृकाभिधा ।
हलः स्वराः समारव्याता बीजानि शक्तयः क्रमात् ॥ २२-८४॥
अव्यक्तं कीलकं चास्याश्चतुर्वर्गाप्तये नृणाम् ।
अक्लीबह्रस्वदीर्घान्तर्गतैः षड्वर्गकैः क्रमात् ॥ २२-८५॥
अङ्गुष्ठादिष्वङ्गुलीषु न्यसेन्मन्त्रैः सजातिभिः ।
अस्त्रं च तलयोर्न्यस्येत् कुर्यात्तालत्रयादिकम् ॥ २२-८६॥
दिशस्तेनैव बध्नीयाच्छोटिकाभिः समाहितः ।
हृदयादिषु विन्यस्येदङ्गमन्त्रांस्तु जातिभिः ॥ २२-८७॥
हृदयाय नमो ब्रूयाच्छिरसे वह्निवल्लभा ।
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ॥ २२-८८॥
नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् ।
जातयः षट्क्रमादेताः षडङ्गेषु नियोजयेत् ॥ २२-८९॥
हृदयायेति शब्देन हृत्स्थो देवः सविग्रहः ।
नुद्यते नमसा चैव ज्ञानं तदुहृदयं परम् ॥ २२-९०॥
शिरः शब्दो देवताया उष्कृष्टत्वाभिधायकः ।
स्वाहेति विषयः सर्वो देवतायां समर्पितः ॥ २२-९१॥
शिखा ज्योतिः स्वरूपं च वषडपि तदुच्यते ।
देवस्य व्यापकत्वं वै कवचेनाभिधीयते ॥ २२-९२॥
हुमपि व्यापकं तेजो देवतायाः प्रकाश्यते ।
नेत्रशब्देन देवस्य स्ववेद्यत्वं प्रकाश्यते ॥ २२-९३॥
वौषडपि तदेवोक्तमस्त्रशब्देन वारणम् ।
अनिष्टस्य फलस्येदं दाहकं तेज उच्यते ॥ २२-९४॥
ज्ञात्वैवमङ्गमन्त्रार्थमङ्गन्यासं करोति यः ।
करप्रचेयास्तस्यार्थाः पूज्यन्ते त्रिदशैरपि ॥ २२-९५॥
अथान्तर्मातृकान्यासः प्रोच्यते नृपसत्तम ।
आधारे लिङ्गनाभौ च हृत्कण्ठे हि तथा भ्रुवोः ॥ २२-९६॥
वादिसान्तान्न्यसेदादौ वादिलान्तान्न्यसेत्ततः ।
कादिफान्तांस्तथा न्यस्य कादिठान्तांस्तथैव च ॥ २२-९७॥
अकारादिस्वरान् कण्ठे हक्षौ भ्रूमध्यके न्यसेत् ।
एवं न्यासविधि कृत्वा ध्यात्वा वै वेदमातरम् ॥ २२-९८॥
पञ्चोपचारमार्गेण पूजयित्वाऽतिभक्तितः ।
मानसैरुपचारैश्च स्थिरबुद्धया च साधकः ॥ २२-९९॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पान्वये प्रातःकृत्यादिकथनं नाम द्वाविंशोऽध्यायः । २२॥
अथ त्रयोविंशोऽध्यायः । मन्त्राराधनकथनम् ।
23. Vedagarbha वेदगर्भ continues with the JapaPūjāvidhiNirūpaṇa जपपूजाविधिनिरूपण. there is description about the So'haṃ Haṃsaḥ mantra सोऽहं हंसः मन्त्र, processes of Prāṇāyāma प्राणायाम, offerings etc. during Pañcopacāra पञ्चोपचार etc. Pūjā पूजा and some do-s and don't-s about these.
वेदगर्भ उवाच -
अजपाराधनं वक्ष्ये दृष्टादृष्टफलप्रदम् ।
येन विज्ञानमात्रेण मुक्तः संसारबन्धनात् ॥ २३-१॥
विचरेन्नात्र सन्देहो राजन् गुरुमुखात्क्रमात् ।
अज्ञानान्न विजानन्ति सर्वाङ्गं सर्वशक्तिकम् ॥ २३-२॥
स्वात्मानं ये न जानन्ति ज्ञेयास्ते चात्मघातकाः ।
ऋषिर्हंसोऽथ गायत्री छन्दो हंसपराख्यकः ॥ २३-३॥
देवताऽहं तथा बीजं सः शक्तिः सोऽहमित्यथ ।
कीलकं विनियोगोऽत्र चतुर्वर्गाप्तये तथा ॥ २३-४॥
हसषड्दीर्घयुक्तेन षडङ्गानि प्रविन्यसेत् ।
बीजेन व्यापकं कृत्वा ध्यायेद्धंसं प्रसन्नघीः ॥ २३-५॥
अग्नीषोमगरुद्वयं प्रणवकं बिन्दुस्त्रिनेत्रोज्ज्वलं
भास्वद्रुद्रमुखं शिवाङ्घ्रियुगलं पार्श्वस्थसूर्यानलम् ।
उद्यत्सूर्यसहस्रकोटिसदृशं हंसं जगद्व्यापिनं
शब्दं ब्रह्ममयं हृदम्बुजकुटीनीडे सदा संस्मरे(त्) ॥ २३-६॥
आधारे मतिसंयुतं गणपतिं षट्पत्रके गीर्युतं
ब्रह्माणं मणिपूरके हरिरमायुक्तं स्मरे(द्)द्वादशे ।
पार्वत्या सह रुद्रमीश्वरमनोन्मन्या युतं षोडशे
द्वे पत्रे तु परा सदाशिवयुतं मूर्ध्न्यम्बुजे श्रीगुरुम् ॥ २३-७॥
चिच्छक्त्या सह सर्वदा विमलधीर्ध्यायन् जपन्नर्चयन्
सम्प्राप्नोति परां सुसिद्धिमतुलां वेदान्तविज्ञानदाम् ।
ब्रह्माद्यैरपि सेवितां शिवयुतामानन्दकन्दाभिधां
विद्युत्पुञ्जसमप्रभां मुनिजनेराराधितां तां शिवाम् ॥ २३-८॥
षट्शतं तु गणेशाय षट्सहस्त्रं प्रजापतेः ।
षट्सहस्त्रं गदापाणेः षट्सहस्त्रं पिनाकिने ॥ २३-९॥
ईश्वरस्य सहस्रं तु सहस्रं परमात्मने ।
सहस्रं गुरवे दद्यादजपाविनियोगतः ॥ २३-१०॥
हंसो गणेशो विधिरत्र हंसो हंसो हरिश्चैव हरश्च हंसः ।
जीवोऽपि हंसः परमात्महंसो हंसो गुरुश्चैव तथाह्यहं सः ॥ २३-११॥
नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ।
आचार्यजागेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ॥ २३-१२॥
इति नत्वा ततो दिव्यैर्मानसेरुपचारकैः ।
यजेद्देवान् जपेन्मन्त्रान् यजेदग्निमनन्यधीः ॥ २३-१३॥
ततो विशेषकल्पोक्तन्यासानन्यान् समाचरेत् ।
यो न्यासकवचच्छन्नो मन्त्रं नित्यं जपेत् सुधीः ॥ २३-१४॥
स याति परमं स्थानं यत्सुरैरपि दुर्लभम् ।
यथा हि वैष्णवे तन्त्र तत्त्वन्यासं विदुर्बुधाः ॥ २३-१५॥
इति कृतेऽधिकृतो भवति ध्रुवं सकलदैवतमन्त्रजपादिषु ।
पवनसंयमनं त्वमुनाचरेद्यमिह जप्तुमसौ मनुमिच्छति ॥ २३-१६॥
अथवा साधकः कुर्यात् प्रणवेनाशु संयमम् ।
स्त्रीभिः शूद्रैश्च कर्तव्यो लौकिकेनाशु संयमः ॥ २३-१७॥
न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदाचन ।
एतदङ्घ्रिजजातीनां जानीहि नृपसत्तम ॥ २३-१७॥
यथाऽधिकारः श्रौतेयो योषितां कर्मसु स्मृतः ।
एवमेवानुमन्यस्व ब्रह्मणि ब्रह्मवादिनीम् ॥ २३-१९॥
प्राणायामानतः कुर्यात् तत्प्रकारोऽधुनोच्यते ।
अतस्त्रयात्मक(कः) प्रोक्तः पूरकुम्भकरेचकैः ॥ २३-२०॥
बाह्यादापूरणं वायोरुदरे पूरको हि सः ।
सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको मतः ।
बहिर्यद्रेचनं वायोरुदराद्रेचको मतः ॥ २३-२१॥
इडया कर्षयेद्वायुं बाह्यं षोडशमात्रया ।
धारयेत् पूरितं मन्त्री चतुःषष्ट्या तुं मात्रया ॥ २३-२२॥
सुषुम्णामध्यगं सम्यग्द्वात्रिंशन्मानतः शनैः ।
नाड्या पिङ्गलया चैनं रेचयेन्नृपसत्तम ॥ २३-२३॥
येनैव संत्यजेत्तेन पूरयेद्धारयेत्ततः ।
रेचयेच्च ततोऽन्येन शनरेवं पुनः पुनः ॥ २३-२४॥
युक्तं युक्तं पिबेद्वायुं युक्तं युक्तं च धारयेत् ।
युक्तं युक्तं त्यजेदेनमेवं सिद्धिमवाप्नुयात् ॥ २३-२५॥
यथा सिंहो गजो व्याघ्रो भवेद्धार्यः शनैः शनैः ।
तथैव लभते वायुरन्यथा हन्ति साधकम् ॥ २३-२६॥
प्राणायामेन युक्तेन सर्वपापक्षयो भवेत् ।
अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः ॥ २३-२७॥
हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदना ।
भवन्ति विविधा रोगाः प्राणायामव्यतिक्रमात् ॥ २३-२८॥
ततः शास्त्रोक्तमार्गेण प्राणायामान्समाचरेत् ।
त्रिषड्द्वादशवारं वा पुरतः परतो जपात् ॥ २३-२९॥
ज्ञेयं द्विजातिवर्णानां प्राणायामक्रमं शुभम् ॥ २३-३०॥
शुचिः प्राणायामान् प्रणवसहितान् षोडश वशी
प्रभाते सायं च प्रतिदिवसमेवं वितनुते ।
द्विजो यस्तं भ्रूणप्रहरणकृतांहोऽभिकलितं
पुनन्ते तं मासादिह दुरिततूलौघदहनाः ॥ २३-३१॥
त्रायन्त्यमी षड्भिरपीह मासैर्जन्मान्तरोपार्जितपापपुञ्जान् ।
संवत्सराद्ब्रह्मपदं तदेकं प्रकाशयत्येव यदच्युताख्यम् ॥ २३-३२॥
प्राणायामान् विधायेत्थं योगपीठं स्वके तनौ ।
न्यसेदाधारशक्ति च प्रकृतिं कमठं तथा ॥ २३-३३॥
शेषं धरां सुधासिन्धुं रत्नद्वीप मनोरमम् ।
माणेयं मण्डपं दिव्यं कल्पवृक्षांश्च वेदिकाम् ॥ २३-३४॥
रत्नसिंहासनं न्यस्येदेतद्हृदयपङ्कजे ।
अंसोरुयुग्मयोश्चैव प्रादक्षिण्येन साधकः ॥ २३-३५॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं न्यस्य च क्रमात् ।
मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् प्रकल्पयेत् ॥ २३-३६॥
रक्तश्यामहरिद्रेन्द्रनीलवर्णविराजितान् ।
वृषकेसरिभूतेभरूपान् धर्माधिकान्न्यसेत् ॥ २३-३७॥
धर्माद्यधर्मादि च पादगात्रचतुष्टयं हृद्यथ शेषमब्जम् ।
सूर्येन्द्रवह्नीन् प्रणवांशयुक्तान् स्वाद्यक्षरैः सत्त्वरजस्तमांसि ॥ २३-३८॥
आत्मादित्रयमात्मबीजसहितं व्योमाग्निमायालवै-
र्ज्ञानात्मानमथाष्टदिक्षु परितो मध्ये च शक्तीर्नव ।
न्यस्येत्पीठमनुं च तत्र विधिवत् तत्कर्णिकामध्यगं
शम्भोः कल्पविधानबोधिततनुं सञ्चिन्तयेद्धाम तत् ॥ २३-३९॥
राजोवाच -
भगवा(व)न्न(व)शक्तीनां संज्ञां तासां वदस्व मे ।
केन क्रमेण ताः पूज्याः संशयं छिन्धि मेऽधुना ॥ २३-४०॥
रशि(ऋषि)रुवाच -
वामा ज्येष्ठा तथा रौद्री काली कलपदादिका ।
विकरिण्याह्वया प्रोक्ता बलाद्या विकरिण्यथ ॥ २३-४१॥
बलप्रमाथिनी पश्चात्सर्वभूतदमिन्यथ ।
मनोन्मनीति सम्प्रोक्ताः शैवपीठस्य शक्तयः ॥ २३-४२॥
पूर्वादिक्रमतः पूज्यास्तथाऽष्टदलकेसरे ।
ततो ह्युपास्यमत्रस्य न्यासानृष्यादिकांश्चरेत् ॥ २३-४३॥
जपतर्पणहोमार्चाः सिद्धमन्त्रकृता अपि ।
अङ्गन्यासादिभिर्हीना न दास्यन्ति फलान्यमूः ॥ २३-४४॥
ततो मन्त्रपुटैर्वर्णैः मातृकार्णैः सबिन्दुकैः ।
विन्यसेन्मन्त्रवित्सम्यक् शास्त्रदृष्टेन वर्त्मना ॥ २३-४५॥
ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गस्य दोःपत्सन्ध्ययकेषु च ॥ २३-४६॥
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेंऽसके ।
ककुद्यंसे च हृत्पूर्वं पाणिपादयुगे ततः ॥ २३-४७॥
जठराननयोर्न्यस्यैन्मातृकार्णान् यथाक्रमात् ।
ध्यानं कुर्यात् ततो विद्वान् यथाज्ञानं समाहितः ॥ २३-४८॥
ध्यानमात्मेष्टदेवस्य वेदनं मनसा मतम् ।
तदपि द्विगुणं(विधं) प्रोक्तं सगुणं निर्गुणं तथा ॥ २३-४९॥
यज्जीवब्रह्मणोरैक्यं सोऽहं स्यामिति वेदनम् ।
तदेव निर्गुणं ध्यानमिति वेदविदो विदुः ॥ २३-५०॥
आत्मना हृदयाम्भोजं कर्णिकाकेसरान्वितम् ।
प्रफुल्लं सोमसूर्याग्निमण्डलेन विराजितम् ॥ २३-५१॥
स्वीयेष्टदेवतां तत्र ध्यायेद्वेदोक्तमार्गतः ।
एवं यद्वेदनं तद्धि सगुणं ध्यानमुच्यते ॥ २३-५२॥
ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्भोजनान्तकैः ।
भोजनावसरे चान्तर्वैश्वदेवं समाचरेत् ॥ २३-५३॥
मूलाधारते कुण्डे देवताग्निसमुज्ज्वले ।
धर्माधिर्मैधिते त्र्यस्त्रे मूलमन्त्रपुरःसरम् ॥ २३-५४॥
अमूं जुहोमि स्वाहेति प्रत्येकं जुहुयात् सुधीः ।
अहन्ताऽसत्यपैशुन्यकामक्रोधादिकं हविः ॥ २३-५५॥
मन एव स्रुवः प्रोक्तं सुषुम्णः स्रगुदीरिता ।
तदन्ते तन्मयो भूत्वा जपेदिच्छानुरूपतः ॥ २३-५६॥
तं जपं सर्वसम्पत्त्यै देवतायै निवेदयेत् ।
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ २३-५७॥
सिद्धिर्भवतु मे देव त्वत्प्रसादेन शङ्कर ।
इत्युक्त्वा दक्षिणे पाणौ देवस्य च समर्पयेत् ॥ २३-५८॥
ततस्तु देवतारूपो भूत्वा तिष्ठेत् कियत्क्षणम् ।
इत्येवमान्तरं यागं कृत्वा बाह्य प्रपूजयेत् ॥ २३-५९॥
आत्माग्रतश्चतुष्कोणं षडस्रं च त्रिकोणकम् ।
स(सं)मान्यायञ्जलेर्नैव कृत्वाङ्गानि प्रपूजयेत् ॥ २३-६०॥
आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम् ।
नेत्रमध्ये दिक्षु चात्रं तस्मिन् मूलेन क्षालितम् ॥ २३-६१॥
त्रिपादिकां प्रतिष्ठाप्य पूजयेन्मनुनाऽमुना ।
मम(मा)ग्निमण्डलायेति तथा दशकलात्मने ॥ २३-६२॥
नमोऽस्रं(स्र)क्षालितं चार्ध्यपात्रं स्थाप्य च पूजयेत् ।
अम(मा)र्कमण्डलायेत्यमुना द्विषड्(ट्)कलात्मने ॥ २३-६३॥
नमः सुधामयैस्तोयैर्मूलान्ते मातृकां पठन् ।
विलोमां पूरयेत् तस्मिन् पूजयेन्मनुनाऽमुना ॥ २३-६४॥
सं सोममण्डलायेति अष्टयुग्मकलात्मने ।
नमोऽर्कमण्डलातीर्थमावाह्याङ्कुशमुद्रया ॥ २३-६५॥
तीर्थमन्त्रेण विधिवन्मन्त्रस्त्वत्रैव कथ्यते ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥ २३-६६॥
नर्मदे सिन्धु कावेरी(रि) जलेऽस्मिन् सन्निधिं कुरु ।
धेन्वाख्ययाऽमृतीकृत्य चिन्त्य तत्रेष्टदेवताम् ॥ २३-६७॥
अङ्गन्यासेन सकलीकृत्यास्त्रेण दिशो दश ।
कलयेन्नेत्रमन्त्रेण निरीक्ष्य शङ्खमुद्रया ॥ २३-६८॥
अवष्टभ्य तथोद्दीप्य मुद्रया योनिसंज्ञया ।
गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् ॥ २३-६९॥
अष्टकृत्वो जपेन्मूलमाच्छाद्य मत्स्यमुद्रया ।
तज्जलं प्रोक्ष्णीपात्रे कृत्वात्मानं त्रिवारतः ॥ २३-७०॥
आत्मतत्त्वात्मने नमो विद्यातत्त्वात्मने नमः ।
शिवतत्त्वात्मने नमः इत्येतैर्मनुभिस्त्रिमिः ॥ २३-७१॥
प्रोक्ष्य पुष्पादिकं चापि मण्डलं विधिवत्सुधीः ।
ततः सम्पूजयेद्देवं गन्धाद्यौर्मूलमुच्चरन् ॥ २३-७२॥
पञ्चकृत्वः पुनः कुर्यात् पुष्पाञ्जलिमनन्यधीः ।
उत्तमाङ्गहृदाधारपादसर्वाङ्गके क्रमात् ॥ २३-७३॥
आदौ लिखेद्यन्त्रराजं तत्प्रकारमिहोच्यते ।
षट्कोणतं कुर्यादष्टपत्रं मनोहरम् ॥ २३-७४॥
चतुर्द्वारसमोपेतं चतुरस्रात्मविग्रहे ।
कामक्रोधादिनिःशेषमनोमालिन्ययन्त्रणात् ॥ २३-७५॥
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः ।
अष्टगन्धेन संलिख्य मन्त्रराजमनुत्तमम् ॥ २३-७६॥
सौवर्णे राजते ताम्रे पीठे भूर्जे पटे भुवि ।
शालग्रामेऽथवा लिङ्गे मूर्ते वा संलिखेन्नृप ॥ २३-७७॥
बिना यन्त्रेण चेत्पूजा देवता न प्रसीदति ।
पीठन्यासविधानेन पीठं सम्पूज्य पूर्ववत् ॥ २३-७८॥
पञ्चोपचारमार्गेण भक्त्या चैव नृपोत्तम ।
पाद्यार्थ्याचमनार्थं च मधुपर्कार्थमप्युत ॥ २३-७९॥
पात्राण्याधारयुक्तानि स्वर्णादिरचितानि च ।
स्थापयेत्पुरतस्तानि पूरयेत्पूर्ववन्नृप ॥ २३-८०॥
पाद्येश्यामाकदूर्वाब्जविष्णुक्रान्तां(स्) तथैव च ।
अर्घ्ये पुष्पाक्षतयवकुशाग्रतिलसर्षपैः ॥ २३-८१॥
गन्धदूर्वाङ्कुरैः प्रोक्तं ततश्चाचमनीयकम् ।
जातीफलं च कङ्कोलं लवङ्गं सजलं त्विदम् ॥ २३-८२॥
आज्यं दधिमधून्मिश्रं मधुपर्कः समीरितः ।
एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् ॥ २३-८३॥
सर्वोपचारवस्तूनामभावे भावयेद्धिया ।
एवमासाद्य पात्राणि तत्र पीठं निधाय च ॥ २३-८४॥
मूलेन मूर्ति सङ्कल्प्य ध्यात्वा देवं यथोदितम् ।
आवाह्य पूजयेत्तस्यां परिवारगणैः सह ॥ २३-८५॥
शालग्रामे स्थावरे च नावाहनविसर्जने ।
खण्डिते स्फुटिते भ्रष्टे दग्धे मानर्विवर्जिते ॥ २३-८६॥
यागहीनेऽथवोच्छिष्टे पतिते दुष्टभूमिषु ।
अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते ॥ २३-८७॥
दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः ।
इति सर्वगतः शम्भुः परिभाषां चकार ह ॥ २३-८८॥
खण्डितादिनिषिद्धां यत्प्रतिमां सर्वथा बुधः ।
विक्षिपेद्दारुजामग्नौ तथान्यामप्सु निक्षिपेत् ॥ २३-८९॥
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्च्चनम् ।
द्विरात्रे तु महापूजां सम्प्रोक्षणमतः परम् ॥ २३-९०॥
मासादूर्ध्वमनेकाहपूजा यदि विहन्यते ।
प्रतिष्ठैवेष्यते कैश्चित् कैश्चित् सम्प्रोक्षणक्रमः ॥ २३-९१॥
इति श्रीवायुपुराणे श्रीमदपाटीये श्रीमदेकलिङ्गमाहात्म्ये मन्त्राराधनकथनं नाम त्रयोविंशोऽध्यायः । २३॥
अथ चतुर्विंशोऽध्यायः । बाष्पान्वये पञ्चवक्त्रपूजाकथनम् ।
24. There is continuation about the descriptions further to those mentioned in the preceding chapter.
राजोवाच -
प्रतिष्ठा कीदृशी ब्रह्मन् कीदृक् सम्प्रोक्षणं तथा ।
कथ्यतां कृपया मेऽत्र येनाहं सुखमाप्नुयाम् ॥ २४-१॥
ऋषिरुवाच -
अग्न्युत्तारणमन्त्रेण वैदिकेन समासतः ।
अथोच्चरेदश्मन्नूर्जम्मित्यादि वैदिकी(कीं) ऋचा(म्) ॥ २४-२॥
अनेन मन्त्रराजेन अग्न्युत्तारणमष्टधा ।
कृत्वाऽथ सप्तमृत्स्ना च स्नापयेद्भक्तितो नृपः ॥ २४-३॥
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्ह्रदात् ।
गोशृङ्गाच्चाचराच्चैव मृत्तिकाः सप्तकीर्तिताः ॥ २४-५॥
ततः सप्तकषायैश्च अभिषेकं समाचरेत् ।
आम्रो जम्बूस्तथा धात्री प्लक्षश्चैव चतुर्थकः ॥ २४-५॥
अश्वत्थोदुम्बरवटाः कषायाः सप्त कीर्त्तिताः ।
पल्लवैः पञ्चकैश्चैव अभिषेकं ततश्चरेत् ॥ २४-६॥
अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः ।
पञ्चभङ्गा इति प्रोक्ताः सर्वकर्मसु शोभनाः ॥ २४-७॥
ततः पञ्चामृतैश्चैव स्नपनं विधिना चरेत् ।
पञ्चामृतं दधि क्षीरं सिता मधु घृतं य(त)था ॥ २४-८॥
गायत्र्या शैवया चैव त्रिधा समभिमन्त्र्य च ।
हृदयान्निर्गतं तेजो दीपाद्दीपान्तरं यथा ॥ २४-९॥
सुषुम्णावर्त्मना दे(चै)वं नासिकारन्ध्रनिर्गतम् ।
करस्थां मातृकां भोजे (? ) नित्यानन्दगुणोदयम् ॥ २४-१०॥
मूलमन्त्रं समुच्चार्य साङ्गं सम्बोध्य दैवतम् ।
एह्येहीति च मद्धस्ते पादुकाभ्यां दयानिधे ॥ २४-११॥
आसनं कल्पयामीदमास्यतां पद्ममुद्रया ।
कल्पिते चासने विद्वानावाहनाख्यमुद्रया ॥ २४-१२॥
आवाह्य स्थापयेत्सम्यक्संस्थापनाख्यमुद्रया ।
पश्चात्तं सन्निधीकृत्य सन्निधापनमुद्रया ॥ २४-१३॥
सन्निरुध्य निरोधिन्या सम्मुखीकृत्य मुद्रया ।
सम्मुखीकरणं पश्चात् सकलीकृत्य साधकः ॥ २४-१४॥
सकलीकरणात्पश्चादवगुण्ठनमुद्रया ।
अवगुण्ठ्यामृतीकृत्यामृतीकरणमुद्रया ॥ २४-१५॥
मुद्रया परमीकर्ण्या परमीकृत्य साधकः ।
प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थाप्य वैदिकः ॥ २४-१६॥
तदस्तु मित्रावरुणा इति ऋग्वेदमन्त्रतः ।
मनोजूतिरिति यजुः वाङ्मनःप्राणसाम च ॥ २४-१७॥
प्राणागा(ना) हुस् . . . तथाथर्वैश्चक्षुरुत्पादयेत्ततः ।
चक्षुषः पितेति ऋचा तथालिङ्गाभिमर्शनम् ॥ २४-१८॥
अथेशानात्समारभ्य क्रमतः सर्वराशयः ।
सप्तधान्यैस्तु सम्पूर्य देवस्य परितः सुधीः ॥ २४-१९॥
उदग्भागं स्वशक्त्या च राशिः कार्यस्त्रिधातुना ।
तासु दिक्पतयः पूज्यास्तथा सर्वोपचारकै(कैः) ॥ २४-२०॥
मध्ये देवं च सम्पूज्य षोडशैरुपचारकैः ।
ततो होमविधानेन तथाष्टोत्तरशताहुतीः ॥ २४-२१॥
मूलेन सुधिया राजन् ततः पूर्णाहुतिं चरेत् ।
दिक्पतिभ्यो बलिं दत्वा गुरुं सम्पूज्य भक्तितः ॥ २४-२२॥
वस्त्रालङ्कारयानाद्यैर्ब्राह्मणानपि पूजयेत् ।
दक्षिणाभिस्तथान्नैश्च तोषयेद्देवताधिया ॥ २४-२३॥
यवहोमेन चायुष्यं घृतेन सर्वसम्पदः ।
सर्वदुःखक्षयार्थं च मधुनाक्तैः सतन्दुलैः ॥ २४-२४॥
तिलैर्वा यवसम्मिश्रैर्महासौभाग्यमाप्नुयात् ।
महोत्सवं ततः कुर्याद्दिनत्रयमनन्यधीः ॥ २४-२५॥
एवं यः कुरुते मूर्तिप्रतिष्ठां विधिना ततः ।
त्रैलोक्यं पूजितं तेन सफलं तस्य जीवितम् ॥ २४-२६॥
अथ सम्प्रोक्षणं वक्ष्ये मूर्तिसंशुद्धिहेतवे ।
सम्प्रोक्षणं तु देवस्य देवमुद्वास्य पूर्ववत् ॥ २४-२७॥
उत्तिष्ठ देवदेवेश पुनरागमनाय च ।
प्रसीद श्रीमहादेव एकलिङ्ग जगत्प्रभो ॥ २४-२८॥
इत्युद्वास्य च मूलेन संहरिण्या च मुद्रया ।
पञ्चपञ्चक्रमेणैव स्नापयित्वा मृदम्भसा ॥ २४-२९॥
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ।
प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ २४-३०॥
समुष्यं सकुशं पाणिं न्यस्य देवस्य मस्तके ।
पञ्चवारं जपेन्मूलं चाष्टोत्तरशतावधि ॥ २४-३१॥
ततो मूलेन मूर्द्धादि पीठान्तं संस्पृशेदपि ।
तत्वन्यासं लिपिन्यासं मन्त्रन्यासं च विन्यसेत् ॥ २४-३२॥
प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठापनमाचरेत् ।
पूजां च महतीं कुर्यात् स्वतन्त्रोक्तां यथाविधि ॥ २४-३३॥
यागहीनादिषु प्रायः सम्प्रोक्षणविधिः स्मृतः ।
खण्डितादिनिषिद्धेषु प्रतिष्ठा पूर्वमीरिता ॥ २४-३५॥
राजोवाच -
द्विरष्टैरुपचारैस्तु पूजयेदिति सूचितम् ।
तदहं श्रोतुमिच्छामि कथ्यतां मुनिसत्तम ॥ २४-३५॥
वेदगर्भ उवाच -
अथोपचारान् कुर्वीत मन्त्रवित् स्वागतादिकान् ।
स्वागतं कुशलप्रश्नं कृत्वा पुष्पाञ्जलि ततः ॥ २४-३६॥
मूलान्ते सायुधायादि (? ) सर्वात्मन् भगवन् पदे ।
ङे (? ) तं चैवेष्टदेवस्य नाम तादृगुदीरयेत् ॥ २४-३७॥
ततः पाद्यं पदे ब्रूयात् पर्यन्ते कल्पयामि च ।
उक्त्वा तदन्ते हृदयं पाद्यमन्त्रोऽयमीरितः ॥ २४-३८॥
पाद्यं पादाम्बुजे दद्यादनेन मनुना ततः ।
उपचारमिमं तुभ्यं ददामि परमेश्वर ॥ २४-३९॥
मूलान्ते सायुधायादि शक्त्यन्तमनुनाऽमुना ।
दद्यात्पुष्पाञ्जलिं तस्मै पाद्यान्ते साधकोत्तमः ॥ २४-४०॥
पाद्यस्थाने त्वर्घ्यशब्दं नतिस्थाने द्विठं ? वदेत् ।
तदा मन्त्री तदन्ते च शिरस्यर्घ्यं विनिर्दिशेत् ॥ २४-४१॥
ततः पुष्पाञ्जलिं दत्वा पूर्वोक्तमनुना सुधीः ।
अर्ध्यशब्दं परित्यज्य राजन्नाचमनं वदेत् ॥ २४-४२॥
स्वाहास्थाने स्वधां ब्रूयादनेनाचमनं मुखे ।
ततः पुष्पाञ्जलिं दत्वा त्यजेदाचमनं पदे ॥ २४-४३॥
मधुपर्कं प्रयुञ्जीत तद्दद्याद्वदने बुधः ।
पुष्पाञ्जलिं विधायाथ दद्यादाचमनं पुनः ॥ २४-४४॥
तेनैव मनुना तत्र दद्यात्पुष्पाञ्जलिं ततः ।
पादुके परिधायाथ भगवन् रत्ननिर्मिते ॥ २४-४५॥
स्नानमण्डपमायाहि स्नानाय त्वीश दिग्गतम् ।
सम्प्रार्थ्य च प्रयत्नेन स्नानवस्त्रं सुशोभनम् ॥ २४-४६॥
अभ्यङ्गोद्वर्तनं कुर्यान्महाराजोपचारवत् ।
क्षीरदध्याज्यमधुभिः खण्डेनोष्णोदकेन च ॥ २४-४७॥
गन्धाद्भिः कारयेत्स्नानं दद्यादाचमनीयकम् ।
केशाङ्गमार्जनं वस्त्रं दत्वा सूक्ष्मे दुकूलके ॥ २४-४८॥
यज्ञसूत्रं ततो दद्याद्दद्यादाचमनं पुनः ।
पादुके परिधायाथ भगवन् रत्ननिर्मिते ॥ २४-४९॥
आगच्छ निर्मितं याम्यमलङ्काराय मण्डपम् ।
प्रार्थनापूर्वकं चेष्टदेवतां मण्डपं नयेत् ॥ २४-५०॥
संस्थाप्य मण्डपे याम्ये दिव्यमाल्यानुलेपनैः ।
अन्यैराभरणैर्दिव्यैर्नानारत्नसमन्वितैः ॥ २४-५१॥
अलङ्कृत्य ततश्छत्रचामरादर्शपूर्वकम् ।
पादुकायुगमारुह्य पञ्चपाद्यपुरःसरम् ॥ २४-५२॥
यागमण्डपमायाहि परिवारगणैः सह ।
प्रार्थनापूर्वकं चेत्थं योगपीठं नयेत्सुधीः ॥ २४-५३॥
तत्रोपवेश्य गन्धाद्यैरुपचारैः समर्चयेत् ।
यष्टुरभिमुखो देवो देवाभिमुखतो दिशा ॥ २४-५४॥
प्राच्यादिहरितो ज्ञेया पूजाहोमादिकर्मणि ।
न्यासक्रमेण मनुना पुष्टितैर्मातृकाक्षरैः ।
अभ्यर्च्यं देवं गन्धाद्यैरङ्गादीन् पुनरर्चयेत् ॥ २४-५५॥
मूलमन्त्रं समुच्चार्य सम्बोध्य स्वेष्टदेवताम् ।
नमस्ते देवदेवेश सर्वतृप्तिकरं परम् ॥ २४-५६॥
अन्यानिवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ।
अमृतानन्दसम्पूर्णं गृहाण जलमुत्तमम् ॥ २४-५७॥
चन्दनं मलयोत्पन्नमनाघ्रातं सुशीतलम् ।
कर्पूरागरुकस्तूरीहिमाम्बुक्षोदितं शुभम् ॥ २४-५८॥
सकाश्मीरं सबैल्वं तद्यक्षकर्द्दममुत्तमम् ।
परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् ॥ २४-५९॥
गृहाण परमं गन्धं कृपया परमेश्वर ।
अनन्यार्पितपूतं चाच्छिद्रं पूज्यं नवं शुभम् ॥ २४-६०॥
गुणवधे(द्धे)मसम्भूतं नानागन्धमनोहरम् ।
आनन्दसौरभं पुष्पं गृहाण परमेश्वर ! ॥ २४-६१॥
साराङ्गारैर्घृतविलुलितैर्जर्जरैः संविकीर्णैः
कर्पूराद्यैर्घनपरिमलैर्धूपमापाद्य मन्त्री ।
दद्यान्नीचैरसुरमथनायापरेणाथ दोर्स्मा(षा) ।
घण्टां गन्धाक्षतकुसुमकैरर्चितां वादयन् सः ॥ २४-६२॥
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ २४-६३॥
इत्थं धूपं प्रकुर्वीत ताम्रकांस्यादिनिर्मिते ।
भाजने द्विपदे भुग्ननाले पद्माकृतौ शुभे ॥ २४-६४॥
साराङ्गारविनिक्षिप्तैर्गुग्गुलागरुवृक्षजैः ।
निर्यासादुत्थितैर्गन्धद्रव्यैरथोदितैः ॥ २४-६५॥
अनन्यार्पितधूपोऽयं शस्यतेऽर्चनकर्मणि ।
वर्त्या कर्पूरगर्भिण्या सर्पिषा तिलजेन वा ॥ २४-६६॥
आरोप्य दर्शयेद्दीपानुच्चैः सौरभशालिनः ।
स्वप्रकाशो महान् दीपः सर्वतस्तिमिरापहः ॥ २४-६७॥
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
दोपोऽप धूपवर्त्यादिपद्माकारविनिर्मिते ॥ २४-६८॥
प्रतिपत्रं प्रदीपश्च वर्त्या गव्यघृताक्तया ।
ततो नैवेद्यताम्बूलमुखवासादि चार्प्य च ॥ २४-६९॥
अन्यानिवेदिता पूजा काल एव प्रशस्यते ।
अभ्यर्यैवं च तस्याज्ञां गृहीत्वाऽङ्गानि पूजयेत् ॥ २४-७०॥
प्रायः प्रथमतस्तेषां क्वचिदेवान्यथा भवेत् ।
देवतायाश्चाभिमुख्यमारभ्याङ्घ्र्यादि कल्पयेत् ॥ २४-७१॥
रुद्रानेकादशानर्चेत् क्रमात् पूर्वादितः सुधीः ।
अध ऊर्ध्वं तथा मध्ये राजन् सम्पूज्य भक्तितः ॥ २४-७२॥
सर्वान् कामानवाप्नोति तेषां नामानि च ब्रुवे ।
अघोरः पशुपः शर्वो विरूपो विश्वरूपकः ॥ २४-७३॥
त्र्यम्बकश्च कपर्दी च भैरवः शूलपाणिकः ।
ईशानोऽथ महेशश्च देवस्य परितो नृप ॥ २४-७४॥
अभ्यर्च्य चार्घ्यतो येन पूजां देवे समर्प्य तु ।
पुष्पाञ्जलिं समर्प्याथ सद्योजातमथार्चयेत् ॥ २४-७५॥
शिवस्य पश्चिमे वक्त्रे भावयन् ब्रह्मदैवतम् ।
सद्योजातं प्रपद्यामीत्यादिमन्त्रेण पूज्य च ॥ २४-७६॥
मन्त्रं जपेत् ततो राजन् ऋष्यादिस्मृतिपूर्वकम् ।
ऋषिः सद्योऽस्य मन्त्रस्य गायत्री छन्द उच्यते ॥ २४-७७॥
ब्रह्मा च देवता प्रोक्ता लं बीजं श्वेतवर्णकम् ।
हंसारूढः सृष्टिकर्त्ता सृष्ट्यर्थे विनियोजनम् ॥ २४-७८॥
इति ज्ञात्वा ततस्तस्य कलाः सम्पूजयेत् क्रमात् ।
ऋद्धिः सिद्धिर्धृतिर्लक्ष्मीर्मेधा कान्तिः स्तुतिः प्रभा ॥ २४-७९॥
सद्योजातकला ह्येता अष्टौ च परिकीर्तिताः ।
श्वेताक्षतैः श्वेतपुष्पैः पूजयेद्धंसवाहनम् ॥ २४-८०॥
प्रालेयामलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्गमनङ्गदेहदमनं ज्वालावलीलोचनम् ।
ब्रह्मेन्द्रादिमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि-
र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ २४-८१॥
इति पुष्पाञ्जलिं दत्वा वामदेवं ततो(थो)त्तरे ।
वामदेवस्य मन्त्रेण वामदेवाय चेति च ॥ २४-८२॥
मन्त्रस्य वामदेवस्य वामदेव ऋषिः स्मृतः ।
जगती छन्द इत्यत्र देवो विष्णुः सनातनः ॥ २४-८३॥
नं बीजं गौरकाश्मीरवर्णमुक्तं मनीषिभिः ।
आपस्तत्त्वं स्थितिविधौ विनियोगः प्रकीर्तितः ॥ २४-८४॥
गन्धादिना समभ्यर्च्य कलाः सम्पूजयेत्ततः ।
रजसी च तथा रक्षा रती(तिः) पाली च कामिका ॥ २४-८५॥
सञ्जीविनी प्रिया बुद्धिः क्रियाधात्री च भ्रामरी ।
मोहिनी हि जरा चैव पूजयेत् पुरतः क्रमात् ॥ २४-८६॥
वामदेवकला ह्येतास्त्रयोदश वरानने ।
तुलसीशतपत्रैश्च यजेद्गरुडवाहनम् ॥ २४-८७॥
गौरं कुङ्कुमपिञ्जरं सुतिलकं व्यापाण्डुगण्डस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
याजुर्वेदमयं सदा प्रहसितं नीलालकालंङ्कृतं
वामं सिद्धसुरासुरेन्द्रनमितं वक्त्रं हरस्योत्तरम् ॥ २४-८८॥
शिवस्य दक्षिणे वक्त्रे रुद्रं तं पूजयेत् ततः ।
अघोरेति च मन्त्रस्य अघोर ऋषिरीरितः ॥ २४-८९॥
छन्दोऽनुष्टुब्देवताऽत्र रुद्रो बीजं तु रेफकम् ।
नीलवर्णो वृषारूढः संहारे विनियोजनम् ॥ २४-९०॥
अघोरस्य कलाः पूज्यास्तामसी मोहमी(नी)क्षया ।
तृष्णा व्याघ्री मृता चापि क्षुधा चैव तृषा तथा ॥ २४-९१॥
अघोरस्य कला ह्येता अष्टौ च परिकीर्तिताः ।
नीलोत्पलैः करवीरैः पूजयेद्वृषवाहनम् ॥ २४-९२॥
कालाभ्रभ्रमराञ्जनाचलनिभं व्यावर्तपिङ्गेक्षणं
भालेन्दुद्य तिकोटिदंष्ट्रयुगलं प्रोद्भासिबिम्बाधरम् ।
सर्पोत्तुङ्गफलासहस्त्रमणिभिः कापालमालाधरं
घोरं दक्षिणमीश्वरस्य वदनं भ्रूभङ्गरौद्रं च यत् ॥ २४-९३॥
ततः पूर्वमुखं शम्भोः सूर्यरूपं महाद्युतिम् ।
तत्पुरुषस्य मन्त्रस्य पुरुषो(ष) ऋषिरीरितः ॥ २४-९४॥
गायत्री छन्द आख्यातं देवता सूर्य उच्यते ।
यं बीजं पीतवर्णश्च रथारूढो निगद्यते ॥ २४-९५॥
संसृष्टिस्थितिसंहारपिधानकृतरूपिणे ।
नत्वा कला यजेत् पश्चात्पूर्वादिक्रमतः सुधीः ॥ २४-९६॥
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।
तत्पुरुषकला ह्येताश्चतस्रः परिकीर्तिताः ॥ २४-९७॥
दूर्वाङ्कुरैरर्कपुष्पैः पूजयेद्रथवाहनम् ।
आयुष्यं वर्द्धयेत्तस्य ध्यायेत्सर्वार्थसिद्धये ॥ २४-९८॥
संवर्त्ताग्नितडित्प्रतप्तकनकं संस्पर्द्धितेजोमयं
गम्भोरस्वरसामवेदमुदितं प्रोद्भासिताम्राधरम् ।
गङ्गोत्तुङ्गतरङ्गपिङ्गलजटाभालेन्दुनेत्रत्रयं
वक्त्रं तत्पुरुषं सुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ २४-९९॥
अथोर्ध्वमुखमीशानमन्त्रस्य ऋषिरीरितः ।
ईशानस्त्रिष्टुबित्युक्तं देवता श्रीसदाशिवः ॥ २४-१००॥
हं बीजं हि सशक्तिश्च प्रणवः कीलकं परम् ।
जम्बूपक्वफलाभासो विनियोगार्थसिद्धये ॥ २४-१०१॥
तत ईशानमन्त्रेण तमीशानं प्रपूज्य च ।
ततः कला यजेत्तस्य परितः पूर्वतः क्रमात् ॥ २४-१०२॥
शशिनी चाङ्गदा रिष्टा मरीचिज्ञानदा तथा ।
ईशानस्य कलाः पञ्च निरञ्जनपदानुगाः ॥ २४-१०३॥
हंसो हंसेति यो ब्रूयात् हंसो नाम सदाशिवः ।
बिल्वैः कनकपुष्पैश्च पूजयेत् सिंहपीठगे ॥ २४-१०४॥
व्यक्ताव्यक्तगुणोत्तरं च विमलं षट्त्रिंशतत्त्वात्मकं
वेदाद्यक्षरमन्त्रशास्त्रनिलयं ध्येयं सदा योगिभिः ।
सर्वज्ञत्वमतीश्वरत्वमचलं सूक्ष्मातिसूक्ष्मं परं
शान्तं पञ्चममीश्वरस्य वदनं खंव्यापि तेजोमयम् ॥ २४-१०५॥
इति पुष्पाञ्जलिं दत्वा अर्घ्योदकमनन्यधीः ।
देवस्य दक्षिणे हस्ते सपर्यां तां निवेदयेत् ॥ २४-१०६॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पान्वये पञ्चवक्त्रपूजाकथनं नाम चतुर्विंशोऽध्यायः । २४॥
अथ पञ्चविंशोऽध्यायः । बाष्पान्वये पूजाकथनम् ।
25. There is continuation about Pūjā पूजा especially about the Pañcamukha Śiva पञ्चमुख शिव.
ततः षट्कोणमध्ये तु षडङ्गावरणं यजेत् ।
केसरेष्वग्निकोणादि हृदयादीनि पूजयेत् ॥ २५-१॥
नेत्रमध्ये दिक्षु चास्त्रमङ्गमन्त्रैर्नमोऽन्तकैः ।
तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ॥ २५-२॥
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ।
धातव्या विदुषाऽनेन क्रमेणैवाङ्गदेवताः ॥ २५-३॥
क्षालयित्वा ततः पाणिमादाय सुमनोऽञ्जलिम् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ॥ २५-४॥
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।
इत्युच्चार्यं क्षिपेत्पुष्पं देवतामूर्ध्नि साधकः ॥ २५-५॥
प्रत्यावृत्तिं बुधः कुर्यादित्थमावरणार्चनम् ।
ततः पूर्वादिपत्रस्थकेसरेषु क्रमेण च ॥ २५-६॥
उमा देवी ततः पूज्या पूज्या वै शङ्करप्रिया ।
गौरी च पार्वती काली कोटरी विश्वधारिणी ॥ २५-७॥
अष्टमी पार्वती ज्ञेया सपर्यां प्राग्वदर्पयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सल(ले) ॥ २५-८॥
भक्त्या समर्पये तुल्यं द्वितीयावरणार्चनम् ।
पत्रमध्ये गणपतिं क्षेत्रपालं कुमारकम् ॥ २५-९॥
स्वामिपूर्वं पुष्पदन्तं तथैव च कपर्द्दिनम् ।
नन्दिकेशं महाकालं भृङ्गिरीट(टि)मिति क्रमात् ॥ २५-१०॥
पूर्वादितः समभ्यर्च्य सपर्यां प्राग्वदर्पयेत् ।
आदित्यं पूर्वतोऽभ्यर्च्य सोममग्नौ च भूमिजम् ॥ २५-११॥
दक्षिणे निरृते सौम्यं पश्चिमे च बृहस्पतिम् ।
वायव्ये शुक्रमभ्यर्च्य शनिमुत्तरतो यजेत् ॥ २५-१२॥
ईशान्यां राहुकेतुभ्यां सपर्यां प्राग्वदर्पयेत् ।
नन्दिनं च महाकालं भृङ्गिरीटं(टिं) वृषं तथा ॥ २५-१३॥
स्कन्दं कपर्दिनं चैव ऋषिदेवं तथा पुनः ।
महादेवं ततोऽभ्यर्च्य सर्पयां प्राग्वदर्पयेत् ॥ २५-१४॥
पूर्वे हेतुकपीठं तु आग्नेय्यां त्रिपुरान्तकम् ।
वेतालं दक्षिणे भागे निरॄतार्वासपत्रकम् ॥ २५-१५॥
पश्चिमे वारुणं पीठं वायव्ये च कुलान्तकम् ।
उत्तरे यक्षपीठं तु ईशान्यां भीमपीठकम् ॥ २५-१६॥
इति क्रमेण सम्पूज्य सपर्यां प्राग्वदर्पयेत् ।
चतुरस्रत्रिरेखायां इन्द्रादीनर्चयेत् क्रमात् ॥ २५-१७॥
इन्द्रं वै पूर्वदिग्भागे अग्निमाग्नेयदिश्यथ ।
दक्षिणे यमराजानं नैरृतौ निरृतिं यजेत् ॥ २५-१८॥
पश्चिमे वरुणं वायौ वायुमुत्तरतो यजेत् ।
कुबेरमीशदिग्भागे ईशानं सम्यगर्चयेत् ॥ २५-१९॥
ऊर्ध्वं ब्रह्माऽप्य(णम) धोऽनन्तमिति राजन् ततोऽर्चयेत् ।
जातु तोयपयोमध्येऽनन्तं पूर्वेशयोस्तु कम् ॥ २५-२०॥
इति सम्यगथाभ्यर्च्य सपर्यां प्राग्वदर्पयेत् ।
इन्द्रादिपुरतः पश्चात् तेषामस्त्राणि पूजयेत् ॥ २५-२१॥
वज्रं शक्तिं तथा दण्डं खड्गं पाशमथाङ्कशम् ।
ततः सम्यगथाभ्यर्चेद्गदां शूलं कमण्डलुम् ॥ २५-२२॥
चक्रं सम्पूज्य राजेन्द्र सपर्यां प्राग्वदर्पयेत् ।
वाहनानि यजेत् पश्चात् तेषामग्रत एव हि ॥ २५-२३॥
ऐरावतं तथा मेषं महिषं प्रेतमेव च ।
मकरं च मृगाश्वं हि वृषभं हंसकूर्मकम् ॥ २५-२४॥
इति सम्पूज्य सम्प्रार्थ्यं कुसुमाञ्जलिमर्पयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ॥ २५-२५॥
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ।
इत्यावरणपूजां तु कृत्वा प्रक्षाल्य हस्तकौ ॥ २५-२६॥
धूपपात्रस्थिताङ्गारे क्षिप्त्वागरुशिरा(ला)दिकम् ।
पात्रमस्त्रेण सम्प्रोक्ष्य हृदा पुष्पं समर्पयेत् ॥ २५-२७॥
संस्पृश्य वामतर्जन्या मूलं श्लोकं च सम्पठेत् ।
वनस्पतिरसोपेतो गन्धाढ्यो गन्ध उत्तमः ॥ २५-२८॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
साङ्गाय सपरीत्यन्ते वाराय डेन्त देवता (?) ॥ २५-२९॥
धूपं समर्पयामीति नमोऽन्तं मन्त्रमुच्चरन् ।
अर्घ्याम्बु प्रक्षिपेद्भूमौ ततो घण्टां प्रपूजयेत् ॥ २५-३०॥
गजध्वनिमन्त्रमा(म)तः स्वाहान्तञ्च दशाक्षरः(रम्) ।
वादयन् वामहस्ते तां कीर्तयन् देवतागणान् ॥ २५-३१॥
धूपयेद(द्द)क्षहस्ते देवतां नाभिदेशतः ।
दीपदानं ततः कुर्यात् पूर्वमेव मयेरितम् ॥ २५-३२॥
स्वर्णादिभाजने साज्यशर्करं पयसादिकम् ।
परिवेष्य यथाशक्ति प्रोक्षेत्कैर(?)स्त्रमन्त्रितः ॥ २५-३३॥
अस्त्रेण पात्रं परितः परिषिच्य यथाविधि ।
चक्रमुद्रामथारच्य प्रोक्षेत्तैर्मन्त्रितैर्जलैः ॥ २५-३४॥
वायुबीजेनार्कवारं ततस्तज्जातमारुतैः ।
नैवेद्यदोषं संशोष्य(ध्य)चित(न्त)येद्दक्षिणे करे ॥ २५-३५॥
अग्निबीजं तस्य पृष्ठे वामं करतलं न्यसेत् ।
तं दर्शयित्वा नैवेद्यं तदुत्थेनाग्निनाखिलम् ॥ २५-३६॥
नैवेद्यदोषं सन्दह्य ध्यायेद्वामकरेऽमृतम् ।
तत्पृष्ठे दक्षिणं हस्तं कृत्वा तत्र प्रदर्शयेत् ॥ २५-३७॥
मुद्रां च सौरभीं पश्चाद्गन्धपुष्पैस्तमर्चयेत् ।
दक्षहस्ते जलं धृत्वा मूलं श्लोकं च सम्पठेत् ॥ २५-३८॥
साङ्गायादि पदं प्रोक्त्वा(च्य) नैवेद्यपदमुच्चरेत् ।
पर्यन्ते कल्पयामीति चुलुकोदकमर्पयेत् ॥ २५-३९॥
अथामृतोपस्तरणमसीत्यादि नयेत्ततः ।
ग्रासमुद्रां वामदोष्णा(षा) विकचोत्पलसन्निभाम् ॥ २५-४०॥
प्रदर्शयेद्दक्षिणेन प्राणादीनि प्रदर्शयेत् ।
प्राणाग्नितोत्रे पृ(प्र)थितास्तांस्तु वक्ष्यामि भूषते ॥ २५-४१॥
स्पृशेत्कनिष्ठोपकनिष्ठके द्वे स्वाङ्गुष्ठमूर्ध्ना प्रथमे तु मुद्रा ।
तथाऽपरा तर्जनिमध्यमे स्यात् अनामिका मध्यमिके तृतीया ॥ २५-४२॥
अनामिका तर्जनि मध्यमा स्यात् तद्वच्चतुर्थी सकनिष्ठिकास्ताः ।
स्यात्पञ्चमी तद्वदिति प्रदिष्टा प्राणादिमुद्रा निजमन्त्रयुक्ताः ॥ २५-४३॥
प्राणापानव्यानोदानसमानास्तारपूर्विकाः ।
चतुर्थ्यग्निवधूयुक्ताः प्राणाद्याः कथिता अमी ॥ २५-४४॥
ततो निवेद्य मुद्रिकां प्रधानया करद्वये ।
स्पृशन्ननामिकां निजां मनुं जपन् प्रदर्शयेत् ॥ २५-४५॥
मूलमन्त्रं पठित्वास्य सम्बोधनपुरःसरम् ।
सत्पात्रं सद्धविः सौख्यं विविधानेकभक्षणम् ॥ २५-४६॥
निवेदयामि भवते सानुगाय जुषाण तत् ।
इति पुष्पाञ्जलिं कुर्यादस्त्रेण कल्पयेद्दिशः ॥ २५-४७॥
ब्रह्मेशाद्यैः ससुखमभितः सूपविष्टै समेतो
देव्या सिञ्जद्वलयकलया सादरं वीज्यमानः ।
नर्मक्रीडाप्रहसनपरो हासयन् पङ्क्तिभोक्तॄन्
भुङ्क्ते पात्रे कनकघटिते षड्रसानेकलिङ्गः ॥ २५-४८॥
शालीभक्तं सुभक्तं शशिकरससितं पायसापूपसूपं
लेह्यं पेयं च चोष्यं सितममृतफलं घारिकाद्यं सखाद्यम् ।
आज्यं प्राच्यं समृज्यं नयनरुचिकरं राजिकैलामरीचि-
स्वादीयः शाकराजी परिकरममृताहारजोषं जुषस्व ॥ २५-४९॥
ध्यात्वेवं विधिवद्विद्वन् वैश्वदेवं समाचरेत् ।
दीर्घविस्तारितो हस्तं चतुरङ्गुलम(मु)च्छ्रितम् ॥ २५-५०॥
दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम् ।
संस्कृत्य तं यथान्यायं साधको देवताधिया ॥ २५-५१॥
तत्र सम्पूज्य गन्धाद्यैर्देवतामुक्तविग्रहम् ।
तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण मन्त्रवित् ॥ २५-५२॥
सर्पिषा वा तिलैर्वापि भक्षै(क्ष्यै)र्वा पायसेन वा ।
जुहुयात् साधकश्रेष्ठः पञ्चविंशतिसङ्ख्यया ॥ २५-५३॥
पश्चाद्व्याहृतिभिर्हुत्वा गन्धाद्यैः पुनरर्चयेत् ।
देवतां योजयेत्पीठमूर्त्तं वह्नि विसर्जयेत् ॥ २५-५४॥
अवशिष्टेन हविषा गन्धपुष्पाक्षतान्वितम् ।
देवतायाः पार्षदेभ्यो बलिं दद्याद्विचक्षणः ॥ २५-५५॥
ये रौद्राःस्थानपा ये च भैरवाश्च विनायकाः ।
योगिन्योऽप्युग्ररूपाश्च गणानामधिपाश्च ये ॥ २५-५६॥
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः ।
सर्वे ते प्रीतमनसः प्रतिगृणन्त्विमं बलिम् ॥ २५-५७॥
इत्यष्टदिक्षु दत्वा तु करौ सङ्क्षालयेत्ततः ।
चुलुकोदकममृतापिधानमसि वद्वयम् (मापिब स्वयम्) ॥ २५-५८॥
अनेन देवताहस्ते दत्वा चाथ विचिन्तयेत् ।
उच्छिष्टभोजनं स्वीयदेवताया निदेशितम् ॥ २५-५९॥
गतसारं तु नैवेद्यं ततश्चैनं समुद्धरेत् ।
उच्छिष्टं तद्भुजे दत्वा किञ्चित्स्थानं विशोधयेत् ॥ २५-६०॥
चण्डेशं च नमस्कृत्य गण्डूषादि निवेदयेत् ।
ताम्बूलं च ततो दत्वा मुखवासादिसंयुतम् ॥ २५-६१॥
पूगीचूर्णं सकर्पूरं नागवल्लीदलैर्युतम् ।
एलालवङ्गखदिरैस्ताम्बूलमिति कीर्तितम् ॥ २५-६२॥
पूगीफलानि निर्भिद्य मध्ये कीटादिवर्जितम् ।
सुचिक्कणनिपक्वानि योज्यानि विनिवेदयेत् ॥ २५-६३॥
घोटा(अधौता)न्यबाष्पितान्यत्र वर्जयेत् पूजनं(ने) सदा ।
सुधौतानि सुपक्वानि चन्द्रबिम्बसमानि च ॥ २५-६४॥
सुगन्धीनि मनोज्ञानि नागवल्लीदलानि च ।
सुतीक्ष्णानि निवेद्यानि जीर्णानि परिवर्जयेत् ॥ २५-६५॥
म्लानानि चैव शुष्काणि नात्यन्तसुतलानि च ।
मौक्तिकैर्निर्मितं चूर्णं प्रशस्तं विनिवेदयेत् ॥ २५-६६॥
पाषाणजं तु मध्यं स्याच्छर्करं चाधमं स्मृतम् ।
शुक्तिकासम्भवं नैव ताम्बूले विनिवेदयेत् ॥ २५-६७॥
आरार्तिकं ततोऽभ्यर्च्य क्रमान्नीराजयेच्च तम् ।
घण्टां वामकरेणाथ वादयन् साधकोत्तमः ॥ २५-६८॥
चतुष्टयं पादतले निराजनं द्वौ नाभिदेशे मुखमण्डलैकम् ।
सर्वाङ्गदेशेषु च सप्तवारानारार्तिकं भक्तजनाश्च कुर्युः ॥ २५-७९॥
पुष्पाञ्जलिं ततः कृत्वा छत्रमादर्शचामरान् ।
संवीज्य व्यजनेनाथ नृत्यवाद्यादिभिस्तथा ॥ २५-७०॥
सन्तोष्य देवं स्तुत्वा च प्रदक्षिणमथाचरेत् ।
नन्दिशङ्करयोर्मध्ये योऽन्तरायं व्रजन् चरेत् ।
प्रदक्षिणामतो राजन् सर्वे निरयगामिनः ॥ २५-७१॥
यथाशक्ति जपं कृत्वा ऋष्यादिन्यासपूर्वकम् ।
तं जपं देवताहस्ते दत्वा सम्पूज्य पूर्ववत् ॥ २५-७२॥
स्तुत्वा तु विविधैः स्तोत्रैः साष्टाङ्गेः प्रणिपत्य च ॥ २५-७३॥
शिष्टं गन्धमर्ध्यतोये विलोड्य पाणौ कृत्वा दक्षिणे मूलमन्त्रम् ।
सप्तावृत्त्या सञ्जपेत् सर्वतीर्थीभूतं ध्यात्वा प्रोक्षयेदात्मनोऽङ्गम् ॥ २५-७४॥
देवताचा(र्चा) वशिष्टं यत् सलिलं चार्घ्यमध्यगम् ।
अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥ २५-७५॥
पुष्पादिशिष्टं यद्वस्तु दत्वा तत्परिचारि(र)के ।
स्वयं स्वीकृत्य भक्त्या वै स्तुत्वा नत्वा पुनः पुनः ॥ २५-७६॥
आत्मार्पणविधानेन स्वात्मानं सम्यगर्पयेत् ।
शरीरमर्थसम्प्राप्तिमेकलिङ्गाय चार्पयेत् ।
आत्मदारादिकं चैव सद्गुरुभ्यो निवेदयेत् ॥ २५-७७॥
कृमिकीटकभस्मादिविष्ठादुर्गन्धमूत्रकम् ।
श्लेष्मरक्तत्वचाचर्म न वाचापि नृपोत्तम ॥ २५-७८॥
पुष्पाञ्जलिं पुनर्दत्वा तन्मूर्तावुपसंहरेत् ॥ २५-७९॥
परिवारणं सर्वमुपसंहारमुद्रया ।
क्षमस्वेति वदन् मूलमन्त्रेण व्यापकं त्रिधा ॥ २५-८०॥
विधाय देवतां पश्चात् स्वीयहृत्सरसीरुहे ।
सुषुम्णावर्त्मना पुष्पमाघ्रायोद्वर्तयेत्सुधोः ॥ २५-८१॥
गन्धाद्यैर्मानसैरिष्ट्वा ऋष्यादिन्यासपूर्वकम् ।
ध्यात्वेष्टदेवतारूपमात्मानं प्रजपेन्मनुम् ॥ २५-८२॥
शास्त्रदृष्टेण(न) विधिना भक्तिमान् स्थिरमानसः ।
सङ्ख्यापूर्तौ पुनः कुर्यात् ऋष्यादिप्राणसंयमान् ॥ २५-८३॥
ततो जपदशांशेन होमं कुर्याद्दिने दिने ।
अथवा लक्षसङ्ख्यायां पूर्णायां होममाचरेत् ॥ २५-८४॥
होमाद्दशांशतः कुर्यात् तर्पणं देवतामुखे ।
तर्पणस्य दशांशेन मार्जयेदात्ममूर्धनि ॥ २५-८५॥
मार्जनस्य दशांशेन कुर्याद्ब्राह्मणभोजनम् ।
होमाशक्तौ जपं कुर्युर्होमसङ्ख्याचतुर्गुणम् ॥ २५-८६॥
षड्गुणं चाष्टगुणितं यथासङ्ख्यं द्विजातयः ।
द्विजस्त्रीणां तु विज्ञेयो द्विजातीनां समो जपः ॥ २५-८७॥
स्वामिन्युक्तो जपः शूद्रे केचिदाहुरितोऽअन्यथा ।
होमाशक्तौ चतुर्नेत्रसङ्ख्यं सर्वो जपेन्मनुम् ॥ २५-८८॥
यस्मिंश्च निगदेनैव जपसङ्ख्या विधीयते ।
तत्र सर्वत्र मन्त्राणां सङ्ख्यावृत्तिर्युगक्रमात् ॥ २५-८९॥
कल्पोक्तैर्वक्र(र्ध)ते सङ्ख्या त्रेतायां द्विगुणा स्मृता ।
द्वापरे द्वि(त्रि)गुणा ज्ञेया कलौ प्रोक्ता चतुर्गुणा ॥ २५-९०॥
एवं यः पूजयेन्नित्यं स शैवपदवीं व्रजेत् ।
सूत उवाच -
इति ते कथितं सम्यग्यथाक्रममनुत्तमम् ॥ २५-९१॥
यः पठेन्नियतो भक्त्या श्रृणुयाद्वा समाहितः ।
पूजाफलमवाप्नोति शिवस्यानुचरो भवेत् ॥ २५-९२॥
शिवपूजाविहीनो यः स नरो नरके पचेत् ॥ २५-९३॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पान्वये पूजाकथनं नाम पञ्चविंशोऽध्यायः । २५॥
अथ षड्विंशोऽध्यायः । बाष्पान्वयम् ।
26.1 Upon being requested by Śaunaka शौनक, Sūta सूत describes about the Gururupiṇī Pādukā गुरुरूपिणी पादुका.
26.2 Overview of the Royal Lineage are given, in which each King handed over his kingdom to his successor son and accepted Saṃnyāsa संन्यास.
26.3 The Kings were Suṣumāṇa सुषुमाण, Govinda गोविन्द, Ālu आलु Viśvanātha विश्वनाथ, Kāla काल, Śālivāhana शालिवाहन, Naravāha नरवाह, Kīrtivarmā कीर्तिवर्मा, Naravarmā नरवर्मा, Karṇa karNa Sahasrākṣa सहस्राक्ष, Śrīpuñja श्रीपुञ्ज, Karṇa कर्ण, Caraṇamalla चरणमल्ल, Khaṅgāra खङ्गार, Kṣetrapa क्षेत्रप, Karṇa कर्ण, Tejasiṃha तेजसिंह, Amara अमर, Subāhu सुबाहु, Ratnasiṃha ratnasiMha Jayasiṃha जयसिंह, Lakṣmīsiṃha लक्ष्मीसिंह, Hammīra हम्मीर, Kṣetrapa क्षेत्रप, Mokala मोकल, Kumbhakarṇa (Mahārāṇā Kumbhā) कुम्भकर्ण (महाराणा कुम्भा).
26.4 Sons of Kumbhakarṇa (Mahārāṇā Kumbhā) कुम्भकर्ण (महाराणा कुम्भा), due to their actions became susceptible to atrocities caused by mlecchāḥ म्लेच्छाः; and therefore, approached the disciple of Hārīta हारीत, who advised them to worship Pārvatī पार्वती and Ekaliṅga एकलिङ्ग. Their leader was Rājamalla राजमल्ल. Ekaliṅga एकलिङ्ग accepted their worship and arranged for Rāṣtrasenā राष्ट्रसेना to assist them. Rāṣtrasenā राष्ट्रसेना established them in Citrakuṭa चित्रकूट. Thereafter, whenever their ŚivaBhakti शिवभक्ति declined, they would fall susceptible to the mlecchāḥ म्लेच्छाः.
26.5 The disciple of Hārīta हारीत was known as Vidyācārya विद्याचार्य who was very learned and was an asset to the Nāgahraḍa kṣetra नागह्रद क्षेत्र. Eventually, he too took to Saṃnyāsa संन्यास. His disciples ran the Maṭha मठ for some time based on the due knowledge and procedures; until KaliYuga कलियुग commenced and the kingdom eventually became subject to disorder and chaos. The miffed Guru-s गुरवः departed for Kāśī काशी. War with mlecchāḥ म्लेच्छाः continued.
26.6 Anticipated was the arrival of a righteous and majestic king who would follow the path of his ancestors, restore the Glory of Ekaliṅga एकलिङ्ग, bring back the disciples of the upset Guru-s and re-establish the Worshipping process.
शौनक उवाच -
पादुकामन्त्रमारव्यातं पूर्वं तत्प्रकटीकुरु ।
इदानीं श्रोतुमिच्छामि साङ्गमृष्यादिपूर्वकम् ॥ २६-१॥
सूत उवाच -
श्रूयतां मुनिशार्दूल पादुकां गुरुरूपिणीम् ।
यां ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ २६-२॥
सुषुमाणोऽप्यथ ब्रह्मन् विनयेन समन्वितः ।
वेदगर्भात्तु यां प्राप्य सर्वसौभाग्यवानभूत् ॥ २६-३॥
वाङ्माया कमला(लाः) प्रान्ते हसखफ्रें हसौं तथा ।
आनन्दभैरवौ प्रोक्तौ तथा पल्लववर्जितौ ॥ २६-४॥
सहखफ्रेमथोच्चार्य स्वगुरुत्रयनामकम् ।
सिद्धः श्रीह्यमुकानन्दनाथ(श्)चिच्छक्तिपूर्वकम् ॥ २६-५॥
देव्यं श्रीपदं प्रोच्य साघको दुःखनाशिनीम् ।
पादुकां पूजयामीति सर्वदा भक्तिमांश्चरेत् ॥ २६-६॥
नत्यन्तां संस्मरेन्मन्त्री स्वीयमूर्ध्नि फलप्रदाम् ।
पादुकाया ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ॥ २६-७॥
वाङ्मायाबीजशक्ती च चतुर्थं कीलकं स्मृतम् ।
चतुर्वर्गाप्तये प्रोक्तं ऋषिणा नृपतिं सदा ॥ २६-८॥
त्रिराद्यै(द्यैः) पुनरेकैकमेकैकेन षडङ्गकम् ।
बीजैर्यथाविधिं कृत्वा ध्यायेन्मूर्द्धाम्बुजे गुरुम् ॥ २६-९॥
शिवरूपं स्वप्रकाशमानन्दं परमव्ययम् ।
मनुष्यो नाट्यसंरम्भं द्विनेत्रं द्विभुजं सदा ॥ २६-१०॥
मानसैरुपचारैश्च सम्पूज्य गुरुमात्मनः ।
आदौ त्रिकालमेवं हि संस्मृत्यान्यत् समाचरेत् ॥ २६-११॥
द्विकालमेककालं वा संसेवेत् साधकोत्तमः ।
इति ते कथितं ब्रह्मन् किमन्यत् श्रोतुमिच्छसि ॥ २६-१२॥
शौनक उवाच -
सूत सूत महाभाग सुषुमाणस्य धीमतः ।
तत्पुत्रस्य च यद्वृत्तं तत्सर्वं कथयस्व मे ॥ २६-१३॥
सूत उवाच -
मन्त्रस्य ग्रहणाद्देवं(वः) पूजनादपि तत्क्षणात् ।
आविर्भूत्वा(य) दृषन्मूर्तौ तत्क्षणाद्वरदोऽभवत् ॥ २६-१४॥
यथा ध्यातं तथा तेन रूपं कृत्वाऽब्रवीदिदम् ।
सुषुमाण महाप्राज्ञ यत्ते मनसि वर्तते ॥ २६-१५॥
तदद्य प्रार्थयित्वाशु प्रसन्नोऽस्मि सदा त्वयि ।
भक्तोऽसि धर्मशीलोऽसि तद्वृणुष्व समीहितम् ॥ २६-१६॥
राजोवाच -
भगवंस्त्वत्प्रसादेन त्रिकालं ज्ञानमाप्नुयाम् ।
येनाहं दुःखसंसारात् मुक्त्वा सद्गतिमाप्नुयाम् ॥ २६-१७॥
तव पादाम्बुजे देव भक्तिरस्तु सदा मम ।
यथाऽधुना दृश(ष)न्मूर्तावाविभूत्वा(य) प्रसन्नतः (?) ॥ २६-१८॥
वरदोऽसि तथा नाथ सर्वदा मे कृपां कुरु ।
एतावदेव याचेऽहं किमन्यद्भक्तवत्सल ॥ २६-१९॥
श्रीमदेकलिङ्ग उवाच -
वत्स तुभ्यं मया दत्तं यदद्य प्रार्थितं त्विह ।
गोविन्द त्वं तथा मत्तो वृणीष्वावहितो वरम् ॥ २६-२०॥
गोविन्द उवाच -
मत्पित्रा याचितं यद्यत्तत्सर्वं दीयतां मम ।
मज्जनन्यास्तथा स्वामिन् सर्वान् कामान् प्रपूरय ॥ २६-२१॥
हृद्गतं त्वं विजानासि सर्वदृक्सर्वसाक्ष्यसि ।
किमन्यद्बहुधोक्तेन कृपां कुरु जगत्प्रभो ॥ २६-२२॥
श्रीमदेकलिङ्ग उवाच -
भर्वाद्भश्चिन्तितं चित्ते तत्सर्वं सम्भविष्यति ।
अत्रार्थे संशयो मास्तु सत्यमेतद्ब्रवीमि वः ॥ २६-२३॥
वायुरुवाच -
इत्येतत् श्रुतवान् राजा एकलिङ्गाज्जगत्पतेः ।
स्वं स्वं सुतं कलत्रं च वरदानेन तोषितम् ॥ २६-२४॥
हर्षादश्रूणि मुञ्चन् सो स) विनयेन ववन्द च ।
एकलिङ्ग तथा देवीं स्तुत्वा नत्वा विनिर्ययौ ॥ २६-२५॥
गुरुणा ज्ञापितः शीघ्रं गतो गच्छन्निजालयम् ।
गोविन्दोऽपि तथा बाल्यादारभ्याराधयन् शिवम् ॥ २६-२६॥
बुभुजे विविधान् भोगान् गार्हस्थस्याश्रमोचिताम् ।
यु(यौ)वराज्येऽथ संस्थाय पितरं पर्यसेवयत् ॥ २६-२७॥
एवं कतिपयैर्वर्षैः कृतं राज्यमकण्टकम् ।
स राजा सुषुमाणोऽपि भुक्त्वा भोगान् यदृच्छया ॥ २६-२८॥
राजधानीं स्वपुत्राय समर्प्य त्वरया ह्यगात् ।
गुरुपादौ स्मरन्नत्र त्यक्तं स्वीयं कलेवरम् ॥ २६-२९॥
योगमार्गस्य विधिना एकलिङ्गस्य सन्निधौ ।
गोविन्दोऽपि तदन्त्येष्टिं कृत्वा पृथ्वीं शशास ह ॥ २६-३०॥
क्षात्रधर्मेण धर्मज्ञस्त्रायन्नन्यान् स भूमिपान् ।
स्वीयान्पुष्णंस्तदा सोऽपि कालेन महता पुनः ॥ २६-३१॥
सोऽपि स्वराज्ये संस्थाप्य आलुनामानकं सुतम् ।
तस्मादभूद्विश्वनाथो विश्वस्य स्थितिहेतवे ॥ २६-३२॥
संस्थाप्य तं विश्वनाथं योगमार्गमवाप्तवान् ।
चतुर्थाश्रमधर्मज्ञः सत्यवादी जितेन्द्रियः ॥ २६-३३॥
एकलिङ्गस्य चाभ्यर्णे कालनामा नृपोत्तमः ।
विश्वनाथः स्वराज्ये तं कुमारं शक्तिपूर्वकम् ॥ २६-३४॥
संस्थाप्य विग्रहे सोऽपि शस्त्रपूतो दिवं ययौ ।
तस्मादभून्नृपश्रेष्ठः शालिवाहनसंज्ञकः ॥ २६-३५॥
तत्पुत्रो नरवाहश्च जातः सर्वत्र विश्रुतः ।
कीर्तिवर्मेति तत्पुत्रस्तत्पुत्रो नरवर्मकः ॥ २६-३६॥
तत्पुत्रः कर्णनामाऽभूत् राजा कर्ण इवापरः ।
तस्मादभूत्सहस्राक्षः श्रीपुञ्जस्तस्य नन्दनः ॥ २६-३७॥
श्रीपुञ्जादथ कर्णोऽभूत्कर्णोच्चरणमल्लकः ।
तस्मादभूच्च खङ्गारः खङ्गारात् क्षेत्रपो ह्यभूत् ॥ २६-३८॥
क्षेत्रपादथ कर्णोऽभूत्कर्णाज्जाता बहुप्रजाः ।
तेषां धुरन्धरः श्रीमान् तेजसिंह इति प्रभुः ॥ २६-३९॥
तदात्मजोऽमरः प्रोक्तः सिंहस्येव पराक्रमी ।
तस्मादभूत्स(सु)बाहुर्यः स्वबाहुबलविक्रमः ॥ २६-४०॥
तस्मादभूद्रत्नसिंहो रत्नाकर इवापरः ।
तत्पुत्रो जयसिंहश्च शास्त्राग्निदग्धकिल्बिषः ॥ २६-४१॥
लक्ष्मीसिंहश्च तत्पुत्रस्तत्पुत्रोऽतिपराक्रमी ।
हम्मीरसंज्ञको भूपः पालयन् पृथिवीमिमाम् ॥ २६-४२॥
तत्सूनुः क्षेत्रपो नाम मोकलस्तु तदात्मजः ।
तत्सूनुः कुम्भकर्णोऽभूत् कुम्भकर्णात्पराक्रमी ॥ २६-४३॥
तस्यैवं शासतः पृथ्वीं बहुकालमगात् तदा ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदविदांवरः ॥ २६-४४॥
योगमार्गेण स्वं देहं त्यक्त्वा सायुज्यमाप्तवान् ।
ततस्तत्तनुजा जाताः परस्परविरोधिनः ॥ २६-४५॥
स्पर्द्धया नीचसंसर्गाच्छूद्राचारपरा (अ)भवन् ।
अ(स्व)धर्माच्च च्युतास्ते वै भवान्याः शापकारणात् ॥ २६-४६॥
ब्राह्मणान् क्लेशयन् सर्वान् दत्तदानापहारकाः ।
देवस्वमपि हर्तारः क्रूराश्चौराश्च तेऽभवन् ॥ २६-४७॥
एतस्मिन्नन्तरे ब्रह्मन् म्लेच्छैरागत्य क्लेशिताः ।
परस्परमभूत्तेषां विग्रहश्चातिदारुणः ॥ २६-४८॥
एवं कतिपयैर्वर्षैर्गते(तैस्)तं मुनिसत्तम ।
हारीतस्य च शिष्यं ते विनयेनाभिवाद्य च ॥ २६-४९॥
म्लेच्छैराक्रमितां पृथ्वीं शाध्यस्मान् येन प्राप्नुमः ।
भ्रष्टराज्यान् कृपासिन्धो स्वराज्ये सन्निवेशय ॥ २६-५०॥
त्राहि त्राह्याश्रितान् भक्तान् ब्रह्मन्न गतिरन्यथा ।
सूत उवाच -
इति तेषां वचः श्रुत्वा क्षणमात्मनि चिन्तयन् ॥ २६-५१॥
भवान्या वचनाज्जातमिति निश्चित्य वै हृदि ।
शिवां तथैकलिङ्गं च पूजयध्वं यथाविधि ॥ २६-५२॥
गुरोः परम्परायातं त्यक्त्वाऽन्यपथगामिनः ।
अथश्चैतादृशं ज्ञातं देशोपद्रवजं भयम् ॥ २६-५३॥
तस्मादत्रैव संस्थाय पूजयध्वं सदाशिवम् ।
इति श्रुत्वा तदा ते वै शूद्राचारैरपूजयन् ॥ २६-५४॥
तेषां धुरन्धरो जातो राजमल्ल इति प्रभुः ।
एकलिङ्गोऽपि तां पूजामङ्गीकृत्य प्रसन्नतः (प्रसादितः) ॥ २६-५५॥
राष्ट्रसेनामथाहूय एकलिङ्गोऽब्रवीदिदम् ।
श्येने(सेने) सहायमेतेषां कुरु शीघ्रं ममाज्ञया ॥ २६-५६॥
इति श्रुत्वा तु सा देवी तेषां साहाय्यमाचरत् ।
चित्रकूटे पुनस्तेषां संस्थाप्यात्रागताऽथ सा ॥ २६-१७॥
तदारभ्य तु ते सर्वे शूद्राचारपरायणाः ।
राज्यं चक्रुर्यथापूर्वं क्षात्राभासाश्च ते पुनः ॥ २६-५८॥
यदा यदा शिवे भक्तिं न कुर्वन्ति तदा तदा ।
एवमेवोपद्रवैश्च म्लेच्छाधीना भवन्ति हि ॥ २६-५९॥
शौनक उवाच -
हारीतस्य च शिष्योऽसौ किंनाम्ना ख्यातिमागताः(तः) ।
एतन्मे संशयं सूत निराकर्तुमिहार्हसि ॥ २६-६०॥
सूत उवाच -
विद्याचार्य इति ख्यातो वेदवेदाङ्गपारगः ।
सर्वशास्त्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः ॥ २६-६१॥
दयावाननसूयश्च एकलिङ्गं च पूजयन् ।
तपश्चचार सुमहल्लोकानुग्रहकारणात् ।
तत्तेजसा च शुशुभे क्षेत्रं नागह्रदं परम् ॥ २६-६२॥
एकलिङ्गोऽथ भगवांस्तस्यैव वशमाययौ ।
तथा स विन्ध्यवासापि पाति पुत्रमिवौरसम् ॥ २६-६३॥
तपसा स्वीयवशगां कृत्वाऽत्रैव स्थितः स हि ।
तयो रूपमनुध्यायन् ब्रह्मचर्याश्रमाग्रणीः ॥ २६-६४॥
यस्य दर्शनमात्रेण नृणां सर्वार्थसिद्धये (यः) ।
भवन्ति च तथाभूतः सत्यधर्मपरायणः ॥ २६-६५॥
शिष्यप्रशिष्यैः सहितो मठे तत्र व्यवस्थितः ।
ब्राह्मणान् पाठयन्नित्यं तदा क्षत्रविशानपि ॥ २६-६६॥
कुम्भादयो नृपा ह्यासन् तदाज्ञापरिपालकाः ।
यष्टिं पाणौ गृहीत्वा ते स्वमौद्धत्यं विहाय च ॥ २६-६७॥
प्रतीहार इव द्वारि पूर्वज्ञाननियन्त्रिताः ।
स्वराजधानीं सम्प्राप्य राजचिह्नानि(न्य) धारयन् ॥ २६-६८॥
एकलिङ्गस्य तस्यापि (ऐक्यं समवगम्य) च ।
सोऽपि तान्वर्धयन्नाशीर्वादेनाभिविवृ(वर्)द्धय च ॥ २६-६९॥
ततः सोऽपि महाधीमान् चतुर्थाश्रममग्रहीत् ।
शिवानन्दाश्रमाभ्यर्णे कालेन निधनं गतः ॥ २६-७०॥
तस्य शिष्यप्रशिष्याश्च बहवस्तन्मठे किल ।
विद्याः प्रवर्तयन् देशे चतुर्दशाख्यकास्ततः ॥ २६-७१॥
आचरन् स्वयमाचारान् श्रुतिस्मृत्युदितान् स्वकान् ।
प्रेरयन् ब्राह्मणादींश्च स्वस्वधर्मे विशेषतः ।
एकलिङ्गाज्ञया ब्रह्मन् शुशुभुस्ते तपस्विनः ॥ २६-७२॥
एवं बहुसमा नीताः स्वधर्मं परिपालयन् ।
एतस्मिन्नन्तरे चैव कलिराविर्बभूव ह ॥ २६-७३॥
स तस्य भूपहृदये प्रविश्य मतिमन्यथा ।
करेण कारयामास चैकलिङ्गस्य सन्निधौ ॥ २६-७४॥
शम्भुनारायणो नाम संस्मरन् शिवमेत्य च ।
तमुद्दश्योपहास्येन यत्किञ्चिल्लपितो(तवान्) नृपः ॥ २६-७५॥
शम्भुर्निवारयामास मैवं वद नृपोत्तम ।
तथापि तेन हास्येन पूर्ववल्लपितं पुनः ॥ २६-७६॥
सोऽपि तापसवर्यस्तु क्रोधरक्तेक्षणोऽवदत् ।
भ्रष्टराज्यो भवाशु त्वं यतो राज्यमदेन हि ॥ २६-७७॥
भाषसे गुरुमुद्दिश्य गच्छ दुष्ट नृपाधम ।
एवमुक्त्वा गतः सोऽपि देशं त्यक्त्वा त्वरान्वितः ॥ २६-७८॥
नृपोऽपि चिन्तयाक्रान्तः सान्त्वयामास तं गुरुम् ।
गते नैव गतः सोऽपि सशिष्यः खिन्नमानसः ॥ २६-७९॥
काश्यां निवासमकरोन्निग्रहानुग्रहक्षमः ।
एतस्मिन्नन्तरे विप्र षण्मासाभ्यन्तरे महत् ॥ २६-८०॥
म्लेच्छैः सह विरोधेन युद्धमुग्रमभूत्तदा ।
वर्षद्वादशपर्यन्तं न सुखं लेभिरे पुनः ॥ २६-८१॥
सख्यं चक्रुश्च तैः साकं सेवया विनयेन च ।
एवं कतिपयैर्वर्षैर्गते(तैः) त (स्त)त्सन्ततौ पुनः ॥ २६-८२॥
भविष्यति नृपः कोऽपि धर्मनिष्ठः प्रतापवान् ।
पितृपैतामहादीनां राज्यं सम्पालयिष्यति ॥ २६-८३॥
चक्रवर्तीव शुशुभन् (?) म्लेच्छादींस्त्रासयन् पुनः ।
स्ववीर्यबलकोशेन स्वराज्यं स करिष्यति ॥ २६-८४॥
ततः परम्परायातो(ता) गुरुमार्गानुगामिनः ।
ततः सम्मान्य तानत्र स्थापयिष्यति तन्मठे ॥ २६-८५॥
शम्भुनारायणस्याथ शिष्यानाहूय भक्तितः ।
यथापूर्वं च महती पूजाऽग्रेऽपि भविष्यति ॥ २६-८६॥
एकलिङ्गस्य विधिना जीर्णोद्धारक्रमेण हि ।
कारयिष्यन्ति तच्छिष्या यथाशास्त्रं तथा ततः ॥ २६-८७॥
वायुरुवाच -
इति बाष्पस्य वृत्तान्तं कथितं ते महामुने ।
अन्वयं चापि भूतस्य बाष्पस्य च महात्मनः ॥ २६-८८॥
य इदं कीर्तयेन्नित्यं बाष्पान्वयमनुत्तमम् ।
शृणुयाद्वा प्रयत्नेन एकलिङ्गस्य सन्निधौ ॥ २६-८९॥
गृह्गोष्ठवनारामनदीनगसुरालये ।
समीपे वा गुरोः सिद्धिः शीघ्रं स्यादुत्तरोत्तरम् ॥ २६-९०॥
स दुःखौघाद्विनिर्मुक्तः सर्वान् कामानवाप्नुयात् ।
अश्वमेधसहस्राणि वाजि(ज)पेयशतानि च ॥ २६-९१॥
कोटिकन्याप्रदानेन यत्फलं प्राप्यते नरैः ।
तत्फलं प्राप्यते ह्यस्मिन् वंशश्रवणकीर्तनात् ॥ २६-९२॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पान्वये षड्विंशोऽध्यायः । २६॥
अथ सप्तविंशोऽध्यायः । श्रीनारायणप्रादुर्भावः ।
27. Upon being requested by Nārada नारद, Vāyu वायु describes about the AṣṭaTīrtha अष्टतीर्थ in proximity of Ekaliṅga एकलिङ्ग, and about the PūjāVidhi पूजाविधि.
नारद उवाच -
अष्ट तीर्थानि यानीह प्रथितानि समीरण ।
तान्यहं श्रोतुमिच्छामि नामतो व्यक्तितः क्रमात् ॥ २७-१॥
माहात्म्यमपि तेषां यत्तद्वर्णय विस्तरात् ।
सर्वे देवाः सऋषयो यत्र स्नात्वा सुभक्तितः ॥ २७-२॥
स्वं स्वमासाद्य कामानि (कामं तु) चैत्रे मासि विशेषतः ।
यात्रार्थिनो विशेषेण तीर्थयात्रां चरन्ति ह(हि) ॥ २७-२॥
वायुरुवाच -
यदा कामदुधा याता गोलोकादिह नारद ।
शङ्करं द्रष्टुकामा सा तदा कैलासपर्वतात् ॥ २७-४॥
भैरवोऽपि स्वयं हर्षादिहायातो महाबलः ।
शिवस्य दर्शनाकाङ्क्षी वियोगाद्बहुकालतः ॥ २७-५॥
सगणः सह योगिन्या भूतवैतालसंवृतः ।
चतुर्भुजस्त्रिनयनो बालार्कायुतसन्निभः ॥ २७-६॥
शूलं कपालं डमरुं खट्वाङ्गमपि धारयन् ।
रक्तमाल्याम्बरधरो रक्तमाल्यानुलेपनः ॥ २७-७॥
त्रिकूटाचलमध्ये तु पश्चिमायां तथा दिशि ।
स्वालयं स विनिर्माया(य) वापिका(कां) कारिता(कृतवान्) पुनः ॥ २७-८॥
सर्वतीर्थान्यथानीय सूर्यमण्डलतः प्रभुः ।
प्रतिष्ठां कारयित्वास्या वेदागमविधानतः ॥ २७-९॥
तत्र स्वयं सुसंस्नातो हर्षेण शिवमादरात् ।
ध्यायन् शिवां च तत्रैव शिवस्याविर्भवोत्सवे ॥ २७-१०॥
तदारभ्यादितीर्थं तत् सर्वतीर्थमिति श्रुतम् ।
तस्मिंस्तीर्थे नरो यस्तु स्नात्वा भैरवमर्चयेत् ।
स सर्वतीर्थस्नानस्य फलं प्राप्नोत्यसंशयम् ॥ २७-११॥
चैत्रकृष्णचतुर्दश्यां कार्तिकस्यापि भैरवम् ।
भक्त्या ये पूजयिष्यन्ति ब्राह्मणानपि नारद ॥ २७-१२॥
भैरवः सर्वदस्तेषां सर्वदा सुप्रसन्नदृक् ।
यात्रार्थिनोऽप्यथादौ हि भैरवं सम्यगर्थ्य च ॥ २७-१३॥
तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ २७-१४॥
इत्यनेन च मन्त्रेण सम्प्रार्थ्य प्रथमं ततः ।
एकलिङ्गं समभ्यर्चेदन्यथा निष्फलं भवेत् ॥ २७-१५॥
नारद उवाच -
एकलिङ्गस्य पूजायां कानि कानि ह (किं किमत्र हि) चोदितम् ।
पत्रपुष्पफलादीनां फलं त्वं वक्तुमर्हसि ॥ २७-१६॥
वायुरुवाच -
अथावरणपूजादौ यथालाभं सुभक्तितः ॥ २७-१७॥
माल्यानि तु ततो दद्यात् सुगन्धैः कुसुमैस्तथा ।
निर्मितानि मनोज्ञानि पत्रैर्मरुबकोद्भवैः ॥ २७-१८॥
तुलसीपत्रिकापत्रैर्बर्बरीं तु विवर्जयेत् ।
मत्कुणीं बाकुचीं चैव तथा श्वेततुलस्यपि ॥ २७-१९॥
करवीराणि योज्यानि श्वेतरक्तभवानि च ।
नीलरक्तोत्पलैः श्वेतैः कमलानि सदा ददेत् ॥ २७-२०॥
कल्हाराणि तथा शस्तमे (शस्तान्ये) कलिङ्गार्चने सदा ।
कुमुदानि तु योज्यानि चम्पकानि (च) मालती ॥ २७-२१॥
मल्लिका वै कुरबकं बकुलं बन्धुजीवकम् ।
नागपुष्पं केसरजं कुङ्कुमोद्भवमेव च ॥ २७-२२॥
शतपत्री तथा श्रेष्ठा केतकीं वर्जयेत् सदा ।
देव्यै तु सर्वदा योज्या केतकी तु विशेषतः ॥ २७-२३॥
शिवे माधविका शस्ता शिवां चापि विशेषतः ।
करुणाकुसुमानि स्युः कुन्दाशोकभवानि च ॥ २७-२४॥
ह्रीवेरं च तथा श्रेष्ठं नन्दावर्तभवं तथा ।
काञ्चनारभवं पुष्पं कर्णिकारजमेव च ॥ २७-२५॥
शिवमल्ली तथा श्रेष्ठा पाटली द्विविधा भवेत् ।
भूतपत्राणि तत्पुष्पं कोमलाः पल्लवाः शुभाः ॥ २७-२६॥
शालमालतमालादिपल्लवाः परिकीर्तिताः ।
किंशुकं पारिभद्रं स्यादतिमुक्तकमेव च ॥ २७-२७॥
धत्तूरार्कभवं पुष्पमपामार्गस्य पल्लवाः ।
पत्रं नागबलायाश्च तत्पुष्पाणि च योजयेत् ॥ २७-२८॥
अगस्त्यपुष्पं तत्पत्रं पूजने श्रेष्ठमिष्यते ।
भृङ्गराजस्य पत्राणि मुण्डी गान्धारिका तथा ॥ २७-२९॥
आम्रातकस्य पत्राणि तथा दूर्वाङ्कुरा मताः ।
कुशपुष्पाणि योज्यानि जलजम्बूभवानि च ॥ २७-३०॥
बिल्वपत्रं सदा योज्यं हरितं शुष्कमेव च ।
चूर्णीभूतमथापि स्यात् सर्वतः श्रेष्ठमुच्यते ॥ २७-३१॥
तुलस्यपि तथैव स्यादेकलिङ्गार्चने सदा ।
आहरेदथ पुष्पाणि स्वयमेव विचक्षणः ॥ २७-३२॥
अन्याहृतेषु पुष्पेषु फलं स्वल्पं तथा भवेत् ।
क्रयक्रीते तथा पादं याचिते निष्फलं भवेत् ॥ २७-३३॥
चोरिते महदेनं(नः) स्यात्ततस्तं(तत्) परिवर्जयेत् ।
पुष्पाध्यायोक्तम्पुष्पाणि पत्राणि विविधानि च ॥ २७-३४॥
स्वयं निष्पाद्य यत्नेन क्षालयित्वा जलैस्ततः ।
उक्तस्थाने च संस्थाप्य निर्माल्यानि विसर्जयेत् ॥ २७-३५॥
सौवर्णानि च पुष्पाणि निर्माल्यानि कदाचन ।
मौक्तिकादीनि रत्नानि योजयेच्च पुनः पुनः ॥ २७-३६॥
नूतनं वस्त्रयुग्मं स्यात् नित्यं सङ्क्षाल्य चार्पयेत् ।
सच्छिद्रं मलिनं जीर्णं त्यजेत् तैलादिदूषितम् ॥ २७-३७॥
निर्गन्धकेशकीटादिदूषितं चोग्रगन्धकम् ।
मलिनं तत्तु संस्पृष्टमाघ्रातं ख(त्व) विकाशितम् ॥ २७-३८॥
अशुद्धभाजनानीतं स्वा (हृ) त्वानीत्तं च याचितम् ।
कदापि न सपर्यार्थमाहरेच्च विचक्षणः ॥ २७-३९॥
चम्पकं कमलं त्यक्त्वा कलिकामपि वर्जयेत् ।
पत्रं पुष्पं फलं देवे न प्रदद्यादधोमुखम् ॥ २७-४०॥
पुष्पाञ्जलौ न तद्दोषस्तथा सर्वत्र भूपते ।
जम्बूदाडिमजम्बीरतिन्तिणीबीज पूरिकाः ॥ २७-४१॥
रम्भा धात्री च बदरी रसालः पनसोऽपि च ।
येषां फलैर्यजेद्देवमेकलिङ्गाख्यमव्ययम् ॥ २७-४२॥
यद्यद्वाञ्छति भृत्यो यस्तत्तदस्मादवाप्नुयात् ।
इति भैरवमाहात्म्यं ये शृण्वन्ति पठन्ति च ॥ २७-४३॥
सर्वतीर्थस्य माहात्म्यं प्राप्नुवन्त्यतिभक्तितः ।
भैरवस्तु सहायः स्यात्तेषां नास्त्यत्र संशयः ॥ २७-४४॥
वेदागमपुराणेषु प्रथितो भैरवस्तथा ।
तस्य नित्यं विशेषेण पूजयेद्योऽतिभक्तितः ।
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ २७-४५॥
नारद उवाच -
अन्यानि कथमत्रासन् तीर्थानि हि समीरण ॥ २७-४६॥
शृण्वन्न मे मनस्तुष्टिमुपयाति कुतूहलात् ।
वायुरुवाच -
विन्ध्यवासा यदायाता स(स्व)सखीभिः समन्विता ।
कैलासादिह तं द्रष्टुं शङ्करं लोकशङ्करम् ॥ २७-४७॥
स्थानं दृष्ट्वाऽतिरम्यं च हर्षेण महता पुनः ।
विश्वकर्माणमाहूय वाटिका कारिता शुभा ।
सर्वतुर्फलपुष्पाढ्या नानाद्रुमलतान्विता ॥ २७-४८॥
तस्यां सा क्रीडयामास सखीभिः सह नारद ।
एतस्मिन्नन्तरे तस्यां भैरवः स समागतः ॥ २७-४९॥
विन्ध्यवासां नमस्कृत्य विनयेन समन्वितः ।
अम्बाऽहं तृषितोऽस्म्यत्र जलं मे देहि सत्वरम् ॥ २७-५०॥
तच्छछ्रुत्वा साऽतिहर्षेण कथयामास तं पुनः ॥ २७-५१॥
वत्स शूलाग्रभागेण पातालाज्जलमानय ।
तव नाम्ना भवत्वत्र वापिका सर्वंकामदा ॥ २७-५२॥
इति तद्वाक्यमाकर्ण्य स तथैवाकरोत् पुनः ।
पपौ सोऽपि जलं तत्र तस्याज्ञापरिपालकः ॥ २७-५३॥
तदारभ्याथ सा वापी ख्याता भैरवसंज्ञिका ।
तस्या वाप्यास्तु तोयेन उद्धृतेन समाहितः ॥ २७-५४॥
स्नात्वा च विन्ध्यवासां तामभ्यर्च्य सविधानतः ।
स्तुत्वा नत्वा च यो मर्त्यः स सर्वफलभाग्भवेत् ॥ २७-५५॥
इति भैरववाप्यास्तु उत्पत्तिं शृणुयात्तु यः ।
स विधूयेह पापानि देवीसायुज्यमाप्नुयात् ॥ २७-५६॥
नारद उवाच -
त्वन्मुखादष्टतीर्थानि श्रुतानि च मयानघ ।
नारायणस्य माहात्म्यं सलक्ष्मीकस्य कथ्यताम् ॥ २७-५७॥
वायुरुवाच -
यदा देव्या तु क्रोधेन शप्ताः सर्वे दिवौकसः ।
तदा स देवदेवोऽपि एकलिङ्गस्य सन्निधौ ॥ २७-५८॥
प्राकारान्तर्गते रम्ये रत्नमण्डपमध्यगे ।
रत्नसिंहासने तत्र शुशुभे स महामुने ॥ २७-५९॥
लक्ष्म्या सहारविन्दाक्षः सगणः स गरुत्मता ।
शङ्खचक्रगदापद्मपीताम्बरधरो विभुः ॥ २७-६०॥
किरीटकुण्डलधरो वनमालाविभूषितः ।
स्वर्णरत्नाङ्गदादीनि श्रीवत्साङ्कितविग्रहः ॥ २७-६१॥
अतसीपुष्पसङ्काशो विद्युदाभां रमां दधत् ।
रक्तवस्त्रपरीधानां नीलकञ्चुकिवक्षसम् ॥ २७-६२॥
नासामौक्तिकशोभाढ्यां रत्नताटङ्कमण्डिताम् ।
कोमलाङ्गीं विशालाक्षीं नवयौवनगर्विताम् ॥ २७-६३॥
कङ्कणादिविभूषाढ्यां रत्नोपलकराम्बुजाम् ।
नूपुराए(रा)वसुभगां पीनोन्नतपयोधराम् ॥ २७-६४॥
मन्दहासां प्रमुदितामन्योन्यालिङ्गनोत्सुकाम् ।
तामालिङ्ग्य प्रियां सोऽपि नारायणोऽवसत्तथा ॥ २७-६५॥
चक्रेण सितधारेणाकरोत्पुष्करिणीं तदा ।
निजमण्डपपृष्ठेऽथ कमलाकुलिताम्बराम् ॥ २७-६६॥
तामालोक्यैकलिङ्गोऽपि साधु साध्विति चाब्रुवन्(चाब्रवीत्) ।
चक्रपुष्करिणीनाम्ना ख्यातिमेष्यति माधव ॥ २७-६७॥
योऽस्यां स्नाति सदा भक्त्या चोद्धृतेन जलेन हि ।
तमाशु वरदो भूत्वा प्रसीदामि न संशयः ॥ २७-६८॥
माघफाल्गुनचैत्रे च अस्यां यो धर्ममाचरेत् ।
स याति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ २७-६९॥
चक्रपुष्करिणीतोये नारायणं च योऽर्चयेत् ।
लक्ष्म्या सहैव सो(स) याति वैष्णवं पदमुत्तमम् ॥ २७-७०॥
नारायणस्य माहात्म्यं यः शृणोतीह भक्तितः ।
पठेद्वा यः प्रयत्नेन स तस्य गतिमाप्नुयात् ॥ २७-७१॥
अण्डजाश्चोद्भिजा वापि स्वेदजाश्च जरायुजाः ।
सर्वे ते सद्गतिं यान्ति चक्रपुष्करिणीजलात् ।
अथ वा तत्समीरेण स्पर्शतो मोक्षमाप्नुयात् ॥ २७-७२॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये श्रीनारायणप्रादुर्भावो नाम सप्तविंशोऽध्यायः । २७॥
अथाष्टाविंशोऽध्यायः । तीर्थक्रमवर्णनम् ।
28. Vayu वायु responds to request from Nārada नारद about procedures related to AṣṭaTīrtha अष्टतीर्थ.
नारद उवाच -
येन क्रमेण स मुनिः स्नानं चक्रे यथाविधि ।
कुटिलाद्यष्टतीर्थेषु तन्मे ब्रूहि समीरण ॥ २८-१॥
वायुरुवाच -
भैरवं तु नमस्कृत्य तदाज्ञां परिगृह्य च ।
तीक्ष्णदंष्ट्रेति मन्त्रेण शिवशर्मा द्विजोत्तमः ॥ २८-२॥
कुटिलोद्भवकुण्डे तु स्नात्वा सम्पूज्य शङ्करम् ।
दानं दत्वाऽऽह्निकं कृत्वा पुत्रपौत्रादिभिः सह ॥ २८-३॥
तपस्विनो महासिद्धा योगिनो नियतव्रताः ।
कणभक्षा निराहारा वायुभक्षा जितेन्द्रियाः ॥ २८-४॥
अम्बुपर्णाशिनः केचित् केचिन्मूलफलाशिनः ।
सिंहव्याघ्रादिभिः कीर्णैर्निवसन्ति मनस्विनः ॥ २८-५॥
खगा मृगाश्च गवया वाराहा वृक्बिडालकाः ।
निवसन्ति मुनिश्रेष्ठ पक्षिणः प्रमदानुगाः ॥
पूर्वसंस्कारभावं हि भजमाना महाशयाः ॥ २८-६॥
गन्धर्वसिद्धमुनिकिन्नरगुह्यकाद्यैः
संसेव्यमानमनिशं सरसीरुहाः ।
श्रीसुन्दरीवलयसिञ्जितमङ्घ्रिभागे
नृत्यन्मयूरमणिमण्डितवेदिमध्ये ॥ २८-७॥
आधारेशो महेशस्तु वर्त्तते यत्र नारद ।
तस्य दर्शनमात्रेण महापातककोटयः ॥ २८-८॥
तत्क्षणाद्विलयं यान्ति सञ्चिताः पूर्वजन्मभिः ।
ततस्तु दक्षिणे भागे तक्षकेशो महेश्वरः ॥ २८-९॥
तक्षकेण पुरा ब्रह्मन् स्वस्य संस्थितिहेतवे ।
स्थापितस्तत्र वै चक्रे स्वनाम्ना तीर्थमुत्तमम् ॥ २८-१०॥
ततः प्रभृति क्षेत्रेऽस्मिन् नास्ति नागभयं महत् ।
स्नानात् सर्वप्रयत्नेन नो नागकुलजं भयम् ॥ २८-११॥
तत्र स्नात्वा नमस्कृत्य तक्षकेशं महेश्वरम् ।
नागसूक्तेन स मुनिः पूजां चक्रे विधानतः ॥ २८-१२॥
पुनस्तु भैरवेणाथ सर्वतीर्थमयं च यत् ।
तीर्थं सम्पादितं पूर्वं . . . . . . . . . . ॥ २८-१३॥
सर्वतीर्थेषु गदितं यत्फलं मुनिपुङ्गवैः ।
तत्फलं लभते जन्तुर्दर्शनान्मज्जनात्किमु ॥ २८-१४॥
भूतप्रेतपिशाचानां न भयं तत्र नारद ।
डाकिन्यः क्षेत्रपालाश्च यक्षाः किम्पुरुषास्तथा ॥ २८-१५॥
तं नरं पश्य (दृष्ट्वा) भीताः स्युः पलायन्ति दिशो दश ।
भूतप्रेतादिभीतश्चेत्तत्र स्नानं समाचरेत् ॥ २८-१६॥
तदा प्रभृति नो भूतप्रेतादिगणजं भयम् ।
सत्यं सत्यं मुनिश्रेष्ठ मदुक्तमवधारय ॥ २८-१७॥
ततस्तु करजे कुण्डे स्नात्वा देवीं प्रपूज्य च ।
वेदोक्तविधिना तत्र नित्यं कर्म समाप्यते ॥ २८-१८॥
तत्रस्थानां मुनीनां तु दर्शनं शिवभाविनाम् ।
महापातकराशीनां नाशनं कलिनाशनम् ॥ २८-१९॥
ततस्तु मुनिशार्दूल चक्रपुष्करिणीं शुभाम् ।
विष्णुना चक्रवर्येण निर्मितां पापनाशिनीम् ॥ २८-२०॥
मृत्कुशानपि सङ्गृह्य हस्ते पादादिकं सुधीः ।
प्रक्षाल्याचम्य विधिवत्स्नात्वा विष्णुं प्रपूज्य च ॥ २८-२१॥
लक्ष्मीं पद्मासनां तत्र वक्षःस्थलनिवासिनीम् ।
पुष्पगन्धादिभिः पूज्य नमस्कृत्य विधानतः ॥ २८-२२॥
तत उत्तरदिग्भागे सर्वसौभाग्यदायिनी ।
सर्वेषां मनुजानां तु विन्ध्यवासेति विश्रुता ॥ २८-२३॥
एकलिङ्गस्य भक्तानां प्रथमं हि फलप्रदा ।
धेनुहारीतनागाद्यैस्तथेन्द्रेणापि वज्रिणा ॥ २८-२४॥
सेविता फलदा देवी मया दृष्टा पुरा किल ।
तत्समीपे तु महती वाटिका गह्वरे वने ॥ २८-२५॥
आम्रनिम्बकदम्बाद्यैर्बीजपूरैः सदाडिमैः ।
पनसैर्नालिकेरैश्च पुन्नागैर्नागकेसरैः ॥ २८-२६॥
तालैस्तमालैर्हिन्तालैः पाटलैर्जातिचम्पकैः ।
कुटजैः कर्णिकारैश्च जम्बूप्लक्षविभीतकै(कैः) ॥ २८-२७॥
जम्बीरैः करवीरैश्च नारिङ्गैः कदलीवटैः ।
पलाशैः खादिरैर्वंशैस्तथोदुम्बरबिल्वकै(कैः) ॥ २८-२८॥
नानाद्रुमलताकीर्णं नानापक्षिगणावृतम् ।
मुनिचारणसिद्धैश्च किन्नरैर्युवतीवृतैः ॥ २८-२९॥
नृत्यवादित्रगीतैश्च वयोभिश्च निनादिता ।
तत्रास्ते सुमहत्तीर्थं भैरवेण पुराकृतम् ॥ २८-३०॥
रत्नवैडूर्यमणिभिर्वेदिकोपवने तथा ।
तत्र स्नात्वा मुनिवरो विन्ध्यवासां प्रपूज्य च ॥ २८-३१॥
तत्राह्नं कर्मविधिवत् सम्पाद्य द्विजसत्तमः ।
ततस्तु मुनिशार्दूल तीर्थानां परमं शुभम् ॥ २८-३२॥
उत्तरस्यां दिशि स्थितं जानीहि कुटिलातटे ।
खगैर्मृगैस्तथा व्याघ्रैः पक्षिभिर्विनिनादितम् ॥ २८-३३॥
केदारसंज्ञकं तीर्थं तन्नामानं महेश्वरम् ।
तत्र स्नानविधिं चक्रे विधिवद्विधिदर्शकः ॥ २८-३४॥
ततस्तु पूर्वदिग्भागे केदारक्षेत्रतोऽमलम् ।
अमृताख्यं महातीर्थं सिद्धौघमुनिसेवितम् ॥ २८-३५॥
सर्वतीर्थाधिकं प्रोक्तं मोक्षदं सर्वदेहिनाम् ।
यस्य सन्दर्शनादेव नृणां भवति वाञ्छितम् ॥ २८-३६॥
तत्र स्नानं प्रकुरुते लभते वाञ्छितं फलम् ।
सर्वपापोपपापानां नाशनं कामद परम् ॥ २८-३७॥
तत्रस्था मुनयः सर्वे अमृतत्वं प्रपेदिरे ।
मया दृष्टा मुनिश्रेष्ठ योषितः पशुपालकाः ॥ २८-३८॥
पक्षिणश्च पतङ्गाश्च ये चान्ये दुष्टजातयः ।
स्वेच्छयैवामृतं तत्र लेभिरे मुक्तकल्मषाः ॥ २८-३९॥
तत इत्यष्टतीर्थेषु स्नात्वा चैन्द्रं सरो ययौ ।
हंसकारण्डवाकीर्णं सारसैश्च बकैस्तथा ॥ २८-४०॥
जलजैः स्थलजैश्चैव कमलैरुपशोभितम् ।
नानापक्षिगणाकीर्णं नानाद्रुमलतावृतम् ॥ २८-४१॥
चतुर्दिक्षु विशेषेण शुद्धात्मानस्तपस्विनः ।
निवसन्ति महात्मानः सर्वभूतहिते रताः ॥ २८-४२॥
केचित् पठन्ति सुधियः केचिद्ध्यायन्ति योगिनः ।
केचिच्छिष्यान् महाप्राज्ञान् पाठयन्ति द्विजोत्तमाः ॥ २८-४३॥
केचिज्जपन्ति विधिवत्स्नात्वा ध्यात्वा कृताह्निकाः ।
केचित्पुराणनिपुणाः श्रावयन्ति जनान् बहून् ॥ २८-४४॥
संन्यासिनो जितक्रोधास्त्यागिनः परमार्थिनः ।
भिल्लैश्च विविधाकारैर्वृतं परमधार्मिकैः ॥ २८-४५॥
शिवभक्तिरतैर्वीरैर्भूतहिंसादिवर्जितैः ।
दिव्यरूपविभूषाभिः सुरकन्याभिरावृतम् ॥ २८-४६॥
मुनिचारणगन्धर्वकिन्नरैः परिपूरितम् ।
ऋषिभिः सप्तभिः सार्धं निवसन्ति महर्षयः ॥ २८-४७॥
तत्र स्नात्वा मुनिवरः शिवशर्मा विधानवित् ।
तत्राह्निकीं क्रियां कृत्वा दत्वा हुत्वाभिपूज्य च ॥ २८-४८॥
पुत्रपौत्रादिभिः सार्द्धमेकलिङ्गं महेश्वरम् ।
अभिपूज्य पुनस्तत्र कं कं (किं किं) धाम ययौ मुनिः ॥ २८-४९॥
इति ते कथितं ब्रह्मन् तीर्थानामुत्तमः क्रमः ।
सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षान्महापातकनाशनम् ॥ २८-५०॥
यः पठेत् प्रातरुत्थाय साधकः स्थिरमानसः ।
स याति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ २८-५१॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
कृतानि तेन चान्यानि सुकृतानि महीतले ॥ २८-५२॥
तस्मात् सर्वप्रयत्नेन शृणुयात् सुकृती नरः ॥ २८-५३॥
ये शृण्वन्ति पठन्ति भक्तिनिरता दृष्ट्वैकलिङ्गं शिवं
सर्वाभीष्टफलप्रदं मुनिवरैराराधितं सुव्रतैः ।
योगि(ग)ध्यानरतैर्वशीकृतमनोव्यालैः सुरै राजितं
सर्वाभिः सुरकन्यकाभिरनिशं संसेव्यमानं परम् ॥ २८-५४॥
पञ्चक्रोशमिते समस्तसुखदे नागह्रदाख्ये परे
क्षेत्रे ये निवसन्ति मुक्तिसुलभास्तैरावृतं सुप्रभैः ।
गाङ्गेयं सकलं जलं सुरतरुप्रायः परं तद्वनं
शैवास्ते मनुजा भवन्ति सततं सिद्धिं लभन्ते पराम् ॥ २८-५५॥
इति श्रोवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये तीर्थक्रमवर्णनं नाम अष्टाविंशोऽध्यायः । २८॥
अथ एकोनत्रिंशोऽध्यायः । राष्ट्रश्येनापूजाविधिः ।
29. Vayu वायु responds to request from Nārada नारद about Rāṣṭraśyenī राष्ट्रश्येनी (Rāṣṭrasenā राष्ट्रसेना). Vedagarbha वेदगर्भ addresses Suṣumāṇa सुषुमाण.
नारद उवाच -
राष्ट्रश्येनी पुरा प्रोक्ता या देवी रिपुनाशिनी ।
तस्याः पूजाविधिं ब्रूहि बाष्पाणां कुलदैवतम् ॥ २९-१॥
केन क्रमेण स मुनिः पूजां चक्रे विधानतः ।
तत्समासेन मे वायो संशयं छेत्तुमर्हसि ॥ २९-२॥
वायुरुवाच -
शृणु नारद यत्नेन वक्ष्यमाणं शुभप्रदम् ।
यस्य संश्रवणादेव सद्यो मुच्येत किल्विषात् ॥ २९-३॥
कुटिलाद्यष्टतीर्थेषु स्नात्वा इन्द्रसरस्यथ ।
पुत्रपौत्रादिभिः सार्द्धं राष्ट्रश्ये नां समाययौ ॥ २९-४॥
तत्रस्थं भैरवं तत्र प्रथमं प्रतिपूज्य च ।
अन्यानपि गणांस्तत्र सम्पूज्य मुनिसत्तम ॥ २९-५॥
मणिवैडूर्यखचिते स्फाटिते(के) स्वर्णभूषिते ।
रक्तवस्त्रावृतां देवीं गौराङ्गीं स्वर्णभूषणाम् ॥ २९-६॥
कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ।
पद्मपत्रविशालाक्षीं सुनासां पिकभाषिणीम् ॥ २९-७॥
मुक्ताविद्रुमहाराढ्यां पीनोन्नतपयोधराम् ।
खड्गचर्मधरां वीरां धनुर्बाणोपशोभिताम् ॥ २९-८॥
सदा प्रसन्नवदनां शरच्चन्द्रनिभाननाम् ।
चतुर्भुजां महादेवीं बाह्यादियुवतीवृताम् ॥ २९-९॥
किन्नरैश्च मुनिश्रेष्ठ गन्धर्वैरुपसेविताम् ।
ददर्श मुनिशार्दूलः स्वयं भक्त्या ननाम च ॥ २९-१०॥
आगमोक्तेन विधिना धूपगन्धादिभिः सह ।
नानाफलैश्च नैवेद्यैः क्षीरखण्डाज्यमिश्रितम् ॥ २९-११॥
ताम्बूलादि समप्यार्थ आरार्ति(त्रि)कमथाचरेत् ।
मूलमन्त्रं मुनिश्रेष्ठ कृताङ्गन्यासपूर्वकम् ॥ २९-१२॥
यथा शक्त्या प्रजप्याथ पुनः स्तुत्वा उवाच ह ।
(शिवशर्मोवाच -)
मातर्मे दीयतामाज्ञा मि(त्वि)ह स्थातुं सदानघे ॥ २९-१३॥
निर्विघ्नं त्वत्प्रसादेन भवत्विति ननाम च ।
तदारभ्य च तीर्थेऽस्मिन् वासं चक्रे महामुनिः ॥ २९-१४॥
शिवशर्मा सहैवाथ अथर्वाङ्गिरसस्तथा ।
शिष्यप्रशिष्यैः सहितमेकलिङ्गं हृदि स्मरन् ॥ २९-१५॥
नारद उवाच -
साङ्गं विधि च मे वायो त्वं सम्यग्वक्तुमर्हसि ।
समन्त्रन्यासमस्यास्तु महाभयनिवृत्तये ॥ २९-१६॥
वायुरुवाच -
हारीताद्यैश्च मुनिभिस्तक्षकेन्द्रादिभिस्तथा ।
सेविता परमा शक्तो राष्ट्रश्येनेति विश्रुता ॥ २९-१७॥
तस्या मन्त्रं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ।
रमलान्तं वर इति यूकारं बिन्दुसंयुतम् ॥ २९-१८॥
ततस्तु मन्त्रविद्राष्ट्रश्येनां तं(तां) समुद्धरेत् ।
नमःपदं(रः) समुच्चार्ये(र्यो) ह्यष्टवर्णात्मको मनुः ॥ २९-१९॥
एकलक्षं जपेन्मन्त्रं पायसैस्तद्दशांशतः ।
जुहुयादर्चिते वह्नौ देवीसन्तोषहेतवे ॥ २९-२०॥
ऋषिर्ब्रह्मा समुद्दिष्टो गायत्रीछन्द उच्यते ।
देवता राष्ट्रश्येनेति रं वीजं यूं च शक्तिकम् ॥ २९-२१॥
कीलकं व्यजनं प्रोक्तं चतुर्वर्गार्थसिद्धये ।
विनियोगस्तु कथितो राद्यङ्गैरङ्गकल्पना ॥ २९-२२॥
मातृकान्यासपूर्वं तु षडङ्गं परिकल्प्य च ।
भूतशुद्धिं विधायाथ प्राणस्थापनमाचरेत् ॥ २९-२३॥
ततः शुद्धतनू मन्त्री देवतां भक्तितो यजेत् ।
पञ्चोपचारमार्गेण वित्तशाठ्यविवर्जितः ॥ २९-२४॥
नैवेद्यादिषु सर्वेषु स्यादादावमृतीक्रिया ।
मूलमन्त्रेण पश्चात्तु कवचेनावगुण्ठनम् ॥
अस्त्रेण रक्षणं प्रोक्तं सर्वत्रैतन्न विस्मरेत् ॥ २९-२५॥
अर्घ्यादकेन तद्देव्यै मूलमन्त्रं समुच्चरन् ।
स्वाहेति कल्पयेद्देव्यै न ममेत्यन्ततो वदेत् ॥ २९-२६॥
आचामं(च) ततो दद्यात्ताम्बूलं विनिवेदयेत् ।
अनुलेपं ततो दद्यान्माल्यानि विविधानि च ॥ २९-२७॥
निर्मितानि मनोज्ञानि दत्वा पुष्पाञ्जलिं क्षिपेत् ।
ततोऽङ्गाद्यावृतीनां च पूजनं सम्यगाचरेत् ॥ २९-२८॥
षट्कोणगर्भितं कुर्यात् अष्टपत्रं मनोहरम् ।
चतुर्द्वारसमोपेतं चतुरस्रं तथा लिखेत् ॥ २९-२९॥
मातृकायाः पीठशक्तीस्तत्र सम्पूज्य साधकः ।
षट्कोणेषु षडङ्गानि ब्राह्म्याद्याश्चाष्टपत्रके ॥ २९-३०॥
चतुरस्रास्ररेखासु इन्द्राद्यायुधवाहनाम् ।
पञ्चावरणसंयुक्तां देवीं सम्पूज्य भक्तितः ॥ २९-३१॥
पुनः प्रपूज्य विधिवद्विससर्ज मुनीश्वरः ।
इति ते कथितं (तो) ब्रह्मन् पूजाविधिरनुत्तमः ॥ २९-३२॥
एवं यः पूजयेद्भक्त्या स याति परमं पदम् ।
रणे वादे तथाऽरण्ये भयं तस्य न जायते ॥ २९-३३॥
एवं यः शृणुयान्नित्यं श्रावयेद्वा समाहितः ।
तयोस्तु वरदा देवी सद्य एव न संशयः ॥ २९-३४॥
तत्रस्था ये प्रकुर्वन्ति जपहोमार्चनादिकम् ।
श्रद्धयाऽश्रद्धया वापि सर्वं तत्सङ्गतां व्रजेत् ॥ २९-३५॥
नवरात्रं यताहारो मुनिर्ध्यानपरायणः ।
. . . . . . . . . . . . . . . . . . . . . . . ॥ २९-३६॥
सूत उवाच -
इति(ती)दं वायुना प्रोक्तं पुराणं परमार्थदम् ।
ब्रह्मपुत्रस्तथा श्रुत्वा पूजां कृत्वा दिवं ययौ ॥ २९-३७॥
त्रिकालं पूजयेद्भक्त्या तस्यासाध्यं न किञ्चन ॥ २९-३८॥
कुमारीपूजनं तद्वद्ये कुर्वन्ति नरोत्तमाः ।
यद्यद्वाञ्छति(न्ति) तत्सर्वं ददाति परमेश्वरी ॥ २९-३९॥
महाभये महोत्पाते बलिं तत्र विधानतः ।
राजानो ये प्रकुर्वन्ति तेषां शत्रुभयं न हि ॥ २९-४०॥
रणे क्रूरादिकार्येषु वज्रहस्तां च पक्षिणीम् ।
स्मरेत्सर्वप्रयत्नेन सौम्यरूपां च सौम्यके ॥ २९-४१॥
जन्मकोटिसहस्त्रैस्तु वक्त्रकोटिशतैरपि ।
शारदाऽपि च नो वक्तुं शक्नोति तद्गुणार्णवम् ॥ २९-४२॥
मदुक्तं तत्समासेन ब्रह्मपुत्रावधारय ।
मयाऽपि शक्यते नैव वक्तुं तद्गुणवैभवम् ॥ २९-४३॥
धन्योऽसि कृतकृत्योऽसि सर्वज्ञोऽसि विशेषतः ।
अज्ञवत्पृच्छ्यते यस्मादेकलिङ्गस्य वैभवम् ॥ २९-४४॥
स्मारितं विस्मृतं विद्वन् लोकानां हितकाम्यया ।
ममापि जन्मसाफल्यं जातं जातं मुनीश्वर ॥ २९-४५॥
वेदगर्भ उवाच -
सुषुमाण महाप्राज्ञ मदुक्तमवधार्यं च ।
गणर्प पूर्वमभ्यर्च्य साङ्गमृष्यादिपूर्वकम् ॥ २९-४६॥
देवानामधिदेवो यः पूजितः स फलप्रदः ।
त्वमेवं कुरु ते विघ्नं न भविष्यति सर्वथा ॥ २९-४७॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये राष्ट्रश्येनापूजाविधिर्नामैकोनविंशोऽध्यायः । २९॥
अथ त्रिंशोऽध्यायः । गणेशमन्त्रकथनम् ।
30. Vedagarbha वेदगर्भ responds to query by Suṣumāṇa सुषुमाण about overcoming obstacles, by detailing about the Gaṇeśa Śaḍakṣara Mantrarāja गणेश षडक्षर मन्त्रराज and Gaṇapati StutiPūjā गणपति स्तुतिपूजा that was transmitted to the Devāḥ देवाः by Rṣi Atharvan ऋषि अथर्वण.
सुषुमाण उवाच -
भगवन् भवता पूर्वं निर्विघ्नं ते भविष्यति ।
इति यत्कथितं तच्च इदानीं वक्तुमर्हसि ॥ ३०-१॥
वेदगर्भ उवाच -
वक्ष्यामि परमं गुह्यं सर्वसिद्धिकरं नृणाम् ।
विनायकस्य माहात्म्यं यथाथर्वा(?)च्छ्रुतं मया ॥ ३०-२॥
तच्छ्रुत्वा त्वं समासेन विधिबोधितवर्त्मना ।
कुरुष्व शीघ्रं विपेन्द्र मदुक्तं गोप्यमादरात् ॥ ३०-३॥
एकलिङ्गस्य माहात्म्यं सर्वदेवोत्तमस्य च ।
ना शिष्याय प्रदातव्यं नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं यदि(दी)च्छेदात्मनः सुखम् ॥ ३०-४॥
य (? ) इमं परमं गुह्यं श्रुत्वा गुरुमुखात्ततः ।
सर्वानभीप्सितान् सद्यः प्राप्नुयान्नात्र संशयः ॥ ३०-५॥
पुरा कृतयुगे विप्राः कल्पे वैवस्वते युगे ।
मुनयः कलिदोषेण भाग्यहीनाः सुदुःखिताः ॥ ३०-६॥
राजानश्च महात्मानो हीनसत्त्वाः सुविह्वलाः ।
सदाराः साग्निहोत्राश्चाथर्वाणं शरणं ययुः ॥ ३०-७॥
एकलिङ्गं समीपस्थं सुरासुरनमस्कृतम् ।
तत्राथर्वाणमासाद्य मुनयो मुनिपुङ्गवम् ॥ ३०-८॥
ऊचुः प्राञ्जलयः सर्वे ध्यायन्तं शिवमव्ययम् ।
भगवन् कलिदोषेण हीनसत्त्वाः सुदुःखिताः ॥ ३०-९॥
श्रिया बहिःकृताः सर्वे तपःसिद्धिविवर्जिताः ।
प्रत्युपायमपश्यन्तस्त्वामद्य शरणं गताः ॥ ३०-१०॥
यथा न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ।
न भवेच्चाग्निहोत्रस्य तथोपायं वदस्व नः ॥ ३०-११॥
एवमुक्तो मुनिवरो अथर्व(र्वा) वेदवित्तमः ।
चिन्तयामास युक्तात्मा प्रत्युपायं तपस्विनाम् ॥ ३०-१२॥
चिरं चिन्तयतस्तस्य महर्षेर्भावितात्मनः ।
प्रादुर्बभूव मनसा मन्त्रराजः षडक्षरः ॥ ३०-१३॥
तप्तचामीकरप्ररव्यो वक्रतुण्डाय हूमिति ।
चिन्त्यमानस्य तस्याप्याथर्वणस्य (? ) च भूपते ॥ ३०-१४॥
षडक्षरस्य जपतो मन्त्रराजस्य तस्य च ।
षडङ्गानि क्रमेणैव प्रादुरासीन्मुनीश्वरे ॥ ३०-१५॥
हृदये वै नमस्कारं स्वाहाकारं च मूर्द्धनि ।
शिखायां च वषट्कारं बाह्वोस्तु कवचं तथा ॥ ३०-१६॥
वौषट्कारस्तु नेत्राभ्यां फट्कारोऽस्त्रेण संयुतम् ॥ ३०-१७॥
स लब्ध्वा तु महामन्त्रं सषडङ्गं षडक्षरम् ।
सहस्रकृत्वो मतिमान् जजाप स महामुनिः ॥ ३०-१८॥
जपंश्चैव सदाऽपश्यद्गजवक्त्रं चतुर्भुजम् ।
लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् ॥ ३०-१९॥
वरदाभयहस्तं च सर्वाभरणसंयुतम् ।
तं दृष्ट्वा वरदं देवमेकलिङ्गस्य सन्निधौ ॥ ३०-२०॥
वायव्यां दिशि संस्थं तं सौम्यं सौम्यगणावृतम् ।
तुष्टाव परया भक्त्या वेदमन्त्रैस्तदा नृप ॥ ३०-२१॥
तेन स्तवेन सन्तुष्टः प्रोवाच च गजाननः ।
प्रीतोऽस्मि साम्प्रतं ब्रह्मन् स्तवेनानेन सुव्रत ॥ ३०-२२॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ।
तत्सर्वं प्रार्थयस्वाशु मा विलम्बं कुरुष्व च ॥ ३०-२३॥
अथर्वाङ्गिरस उवाच -
मन्त्रस्यास्य विधानं मे यथावदनुवर्णय ।
येनानुष्ठितमात्रेण सर्वसौभाग्यमाप्नुयाम् ॥ ३०-२४॥
गणेश उवाच -
ऋषिं च देवं च षडक्षरस्य छन्दश्च शक्तिं च शृणुष्व चैव ।
ऋषिं च शुक्रं त्वभिधेयभावान्मां विद्धि देवं वरदं गणेशम् ।
अनुष्टुभं शान्तिकपौष्टिकाद्यैराथर्वणं मन्त्रमिमं पठन्ति ॥ ३०-२५॥
रायस्योषस्य दाता च निधिदानान्नदो मतः ।
रक्षहणो बलगहनो मन्त्रराजः षडक्षरः ॥ ३०-२६॥
राजोवाच -
भगवन् कृपया मह्यं स्तुति तच्छ्रावयाशु माम् ।
येन स्तवेन सन्तुष्टो गजास्यः फलदो ह्यभूत् ॥ ३०-२७॥
वेदगर्भ उवाच -
गजाननं सिद्धगणादिसेवितं कपित्थजम्बूफलसारभक्षितम् ।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥ ३०-२८॥
मूषकोत्तममारुह्य देवासुरमहाहवे ।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ३०-२९॥
सूत उवाच -
चित्रवस्त्रविचित्राङ्गचित्रमालाविभूषितम् ।
कामरूपधरं देवं वन्देऽहं गणनायकम् ॥ ३०-३०॥
इति स्तुत्वा तु नत्वा च कृताञ्जलिपुटस्ततः ।
मौनमास्थाय पुरतः स्थितो (तं) ब्रह्मर्षिणा तदा ॥ ३०-३१॥
गणेशस्तु पुनस्तं तु बोधयामास भूपते ।
गणेश उवाच -
य एतेन चतुर्थीषु पक्षयोरुभयोरपि ॥ ३०-३२॥
शतं जुहोत्यपूपानां वत्सराल्लभते धनम् ।
इत्याम्नातं महामन्त्रं गुरोर्लब्ध्वा समाहितः ॥ ३०-३३॥
ब्रह्मचर्यपरो दान्तः सत्यवाग्गुरुपूजकः ।
ब्रह्माध्ययनसंयुक्तो हविरश्नन्ममाग्रतः ॥ ३०-३४॥
जपेद्द्वादशसाहस्रं तत्पुरश्चरणं भवेत् ।
अङ्गारकदिने प्राप्ते चतुर्थ्यां तु समाहितः ॥ ३०-३५॥
अभ्यर्च्य गन्धपुष्पाद्यैर्हविषा पायसेन माम् ।
भोजयेत्कार्यसिद्ध्यर्थं मन्त्रप्रवरदं गुरुम् ॥ ३०-३६॥
अतःपरं किं बहुनोदितेन ब्रवीमि मत्प्राप्तिकरं ह्युपायम् ।
बद्ध्वासनं स्वस्तिकपङ्कजं च सुखासनं ध्यानगतं विचिन्त्य ॥ ३०-३७॥
मण्डूकादीनि विन्यस्य परतत्त्वान्तमादितः ।
तत्र इक्षुरसाब्धिं च उपर्युपरिभावतः ॥ ३०-३८॥
तत्कर्णिकायामुदितप्रकाशं मदीयमन्त्रप्रवरं तु भूयः ।
षडक्षरं बिन्दुसुखासनाढ्यं ध्यायेद्दलेष्वष्टसु चाष्टशक्तीः ॥ ३०-३९॥
पूर्वादिक(क्र)मतो ज्ञेयास्तासां नामानि ते ब्रुवे ।
अणिमां महिमा चैव लघिमा गरिमा तथा ॥ ३०-४०॥
ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ।
इत्यष्टसिद्धयः प्रोक्ताः शक्तयोऽष्टाऽथ सम्ब्रुवे ॥ ३०-४१॥
रुचिराऽव्याहता कामाऽमोघा शक्ता वरप्रदा ।
बुभुक्षा जीर्णिकेत्यष्टौ गणनाथस्य शक्तयः ॥ ३०-४२॥
भद्रो मानी वरो नाम इत्येते शक्तिचारकाः ।
एवं स्वनाभौ हृदये गले वा आस्ये भ्रुवोरन्तयोर्ललाटे ।
समस्तदेहेस्वथवा शिखाग्रे विचिन्तयेन्मामभिपूजयेच्च ॥ ३०-४३॥
एवं हि युञ्जन् विनिहन्त्यघौघान् मासेन निर्वाणमुपैति योगी ।
इमं च मन्त्रप्रवरं महार्हं ब्रवीमि ते तुष्टिकरं द्वितीयम् ॥ ३०-४४॥
षडक्षरं गुह्यतमं नमोऽन्तमाढ्यं कली सिद्धिकरं नराणाम् ।
एतेन मां मङ्कणको महर्षिरतोषयत्सागरतीरभूमौ ॥ ३०-४५॥
तस्मादृषिं मङ्कणको तमेव षडक्षरस्यास्य समामनन्ति ।
अङ्गानि पञ्चैव समामनन्ति अन्यत्समं त्वस्य समानभावात् ॥ ३०-४६॥
एतावुभौ मन्त्रवरौ सगुह्यौ मम प्रियो वेदरहस्यजातौ ।
साङ्गौ सकल्पौ सगुरूपदेशौ कल्पेन यो वेद स वेद वेदान् ॥ ३०-४७॥
मनोगतं वा सकलं वदामि मन्त्रप्रसादेन जगद्धिताय ।
मन्त्रस्य माहात्म्यमपीह वक्तुं न शक्यतेऽथर्वण सत्यमेतत् ॥ ३०-४८॥
वेदगर्भ (सूत) उवाच -
प्रदाय मन्त्रप्रवरं माहात्म्यमा(महात्मना)थर्वणे चार्थविदे तदा मुदा ।
संस्तूयमानो दिवि सिद्धसङ्घैरन्तर्दधे कुञ्जरराजवक्त्रः ॥ ३०-४९॥
वेदगर्भ उवाच -
ब्रह्मन् पूजाविधानं मे सम्यग्बोधित(तु)मर्हथ(सि) ।
सङ्ग्रहेणेह कथितं न मया विदितं प्रभो ॥ ३०-५०॥
(अथर्वाङ्गिरस उवाच) -
अग्नि(ग्नी)शासुरवायव्यकोणेषु हृदयादिकम् ।
नेत्रं मध्ये दिक्षु चास्त्रं सम्पूज्य पत्रमूलके ॥ ३०-५१॥
अणिमाद्या द्वितीयं तु इन्द्राद्याश्चैव भु(भू)पुरे ।
तृतीयावरणं प्रोक्तं वज्राद्याश्च चतुर्थकम् ॥ ३०-५२॥
पञ्चमावरणे चाथ वाहनानि प्रपूज्य च ।
पुनर्गन्धादिना यष्ट्वा ताम्बूलं विनिवेद्य च ॥ ३०-५३॥
आत्मार्पणविधानेन आत्मानं विनिवेद्य च ।
परिवारगणं सर्वमुपसंहारमुद्रया ॥ ३०-५४॥
देवे लीनानि सम्भाव्य स्वीयहृत्सरसीरुहे ।
विसृज्य च पुनर्यष्ट्वा ननाम च मुहुर्मुहुः ॥ ३०-५५॥
अथर्वा गणपं तोष्य गणेशाल्लब्धवैभवः ।
सर्वानाहूय तत्रस्थान् पार्श्वस्थानभिपूज्य च ॥ ३०-५६॥
गणेशस्य च वृत्तान्तं सर्वं तेषां न्यवेदयत् ।
मन्त्रदानक्रमेणैव आशीर्दत्ता पुनस्तदा ॥ ३०-५७॥
ते तु तद्विधिना ग्राह्य(ह्यं) सुखं प्राप्तुं परं मुदा ।
अतस्त्वमपि राजेन्द्र ! गणपं पूर्वमयं च ॥ ३०-५८॥
अनेन विधिना भक्त्या पश्चात्तां मातरं भज ।
विन्ध्याद्रिवासिनीं सम्यगेकलिङ्ग पुनर्यज ॥ ३०-५९॥
एवं च तत्र निर्विघ्नं भविष्यति न संशयः ।
गणेशस्य च माहात्म्यं ये शृण्वन्ति पठन्ति च ॥
तेषां शिवः सहायः स्यादुमास्कन्दसगाणपैः ॥ ३०-६०॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये गणेशमन्त्रकथनं नाम त्रिंशोऽध्यायः । ३०॥
अथ एकत्रिंशोऽध्यायः । बाष्पान्वयम् ।
31. Suṣumāṇa सुषुमाण asks about Vindhyavāsā Pūjā विन्ध्यवासा पूजा, to which Vedagarbha वेदगर्भ responds in detail, including Pañcamukha Śiva Mantra-s पञ्चमुखशिवमन्त्राः.
सुषुमाण उवाच -
कथं सा विन्ध्यवासा वै पूज्या मे वद साम्प्रतम् ।
असो भाग्येन लोकोऽयं दारिद्र्येण च पीडितः ॥ ३१-१॥
येन सौभाग्यमतुलं महदैश्वर्यसम्भवम् ।
शास्त्रज्ञानं कवित्वं च यशस्यं लभते नरः ॥ ३१-२॥
वेदगर्भ उवाच -
साधु पृष्टं त्वया राजन् वक्ष्यामि सकलं तव ।
ब्रह्मणा कथितं पूर्वमङ्गिराय (?) महात्मने ॥ ३१-३॥
अङ्गिरोऽपि स्वशिष्यायाथर्वणाय (?) ददौ स च ।
हारीताय स्वशिष्याय सोऽपि मह्यं ददौ पुनः ॥ ३१-४॥
मयाऽप्यत्रैव विधिना जपहोमार्चनादिभिः ।
साधितं च विशेषेण जप्यतेऽद्यापि वै मया ॥ ३१-५॥
इतः पूर्वं मया प्रोक्तो मन्त्रराजो न कस्यचित् ।
एवं परम्पराप्राप्तं मन्त्रं भक्त्या श्रृणुष्व मे ॥ ३१-६॥
अयोग्याय न दातव्यो मन्त्रो वै नृपसत्तम ।
यत्नेन गोपय त्वं च रहस्यं शीघ्रसिद्धिदम् ॥ ३१-७॥
अलसं मलिनं कष्टं दम्भलोभसमन्वितम् ।
दरिद्रं रोगिणं क्रुद्धं कृपणं भोगलालसम् ॥ ३१-८॥
असूयामत्सरग्रस्तं शठं परुषवादिनम् ।
अन्यायेनार्जितधनं परदारापरं सदा ॥ ३१-९॥
विदुषां वैरिणं नित्यं ह्यज्ञं पण्डितमानिनम् ।
भ्रष्टव्रतं कष्टवृत्तिं पिशुनं दुष्टमानसम् ॥ ३१-१०॥
वह्वाशिनं क्रूरचेष्टग्रगण्यं दुरात्मनाम् ।
एवमाद्यगुणैर्युक्तं शिष्यत्वेन परिग्रहात् ॥ ३१-११॥
गृह्णी(?)याद्यदि तद्दोषः प्रायो गुरुमपि स्पृशेत् ।
अमात्यदोषो राजानं जायादोषः पतिं यथा ॥
तथा शिष्यकृतो दोषो गुरुं प्राप्नोति निश्चितम् ॥ ३१-१२॥
तस्मात् शिष्यं गुरुर्नित्यं परीक्ष्य तु परिग्रहेत् ॥ ३१-१३॥
कायेन मनसा वाचा गुरुशुश्रूषणे रतम् ।
अस्तेयवृत्तिमास्तिक्यं सदा धर्मकृतोद्यमम् ॥ ३१-१४॥
ब्रह्मचर्यरतं नित्यं सत्यव्रतमकल्मषम् ।
प्रसन्नहृदयं शुद्धमशठं विमलाशयम् ॥ ३१-१५॥
परोपकारनिरतं परार्थविगतस्पृहम् ।
स्ववित्तचित्तदेहैश्च परतोषकरं गुरोः ॥ ३१-१६॥
ईदृग्विधाय शिष्याय मन्त्रं दद्यात्तु नान्यथा ।
यद(द्य)न्यथा वदेत्तस्मिन् देवताशाप आपतेत् ॥ ३१-१७॥
माधवे यस्य या भक्तिर्महादेवे च या परा ।
मातापित्रोश्च या भक्तिस्तथा कार्या निजे गुरौ ॥ ३१-१८॥
अथ मन्त्रं प्रवक्ष्यामि विन्ध्यवासास्वरूपदम् ।
उपदेशविधानेन गृहाण नृपसत्तम ॥ ३१-१९॥
सर्वसौभाग्यजनकं सर्वलोकवशङ्करम् ।
विद्यात् सिद्धिप्रदं नृणां महदाज्ञाकरं मनुम् ॥ ३१-२०॥
उत्तिष्ठ पुरुष(षे)त्युक्त्वा किं स्वपिषीति चोच्चरेत् ।
भयं मे समुपेत्यन्ते (? ) स्थितं पदं समुच्चरेत् ॥ ३१-२१॥
यदि शक्यमशक्यं वा तन्मे भगवतीति (?) च ।
शमयाग्निवधूयुक्तं सप्तत्रिंशाक्षरात्मकः (?) ॥ ३१-२२॥
बृहदारण्यको नाम ऋषिरस्य प्रकीर्तितः ।
अन्त्यानुष्टुप् तथा चोक्तं छन्दो मन्त्रस्य देवता ॥ ३१-२३॥
विन्ध्यवासा परानन्दस्वरूपा नृपसत्तम ।
ओंङ्कारं बिन्दुसंयुक्तं वीजं प्रोक्तं समृद्धिदम् ॥ ३१-२४॥
स्वाहाशक्तिरिह प्रोक्ता वा तन्मे (?) इति कीलकम् ।
चतुर्वर्गाप्तये प्रोक्तं विनियोगोऽत्र वै नृणाम् ॥ ३१-२५॥
षड्भिश्चतुभिरष्टाभिरष्टभिः षड्भिरिन्द्रियैः ।
मन्त्रार्णैरङ्गक्लृप्तिः स्याज्जातियुक्तैर्यथाक्रमम् ॥ ३१-२६॥
सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां
चक्रं शङ्खवराभयानिदधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां
ध्याये विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ ३१-२७॥
एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ।
जुहुयाद्धविषा मन्त्री शालिभिः सर्पिषा तिलैः ॥ ३१-२८॥
पीठमित्थं यजेत्सम्यक् नवशक्तिसमन्वितम् ।
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी पुनः ॥ ३१-२९॥
सुप्रभावो(वा) जया(पा) सर्वसिद्धिदा नवशक्तयः ।
पूर्वादिक्रमतोऽभ्यर्च्य तत्रावाह्यार्चयेत्पराम् ॥ ३१-३०॥
पञ्चोपचारमार्गेण पश्चादावृत्तयो(तिम)र्चयेत् ।
षट्कोणेषु षडङ्गं स्यात् प्रथमावरणार्चनम् ॥ ३१-३१॥
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ।
एवं षडङ्गमाराध्य दलमूलेष्विमाः पुनः ॥ ३१-३२॥
आर्या दुर्गा तथा भद्रा भद्रकाली तथाम्बिका ।
क्षेमान्या वेदगर्भा च क्षेमङ्का(ङ्क)र्यष्टशक्तयः ॥ ३१-३३॥
अस्त्राणि पत्रमध्येषु चक्रशङ्खासिखेटकान् ।
बाणकोदण्डशूलानि कपालान्तानि पूजयेत् ॥ ३१-३४॥
ब्राह्म्याद्याः स्युर्दलाग्रेषु लोकपालास्ततः परम् ।
ततस्तेषामथास्त्राणि वाहनानि विधानतः ॥ ३१-३५॥
चतुरस्रः समभ्यर्च्य पुनर्गन्धादिना यजेत् ।
सम्पूज्य भक्त्या विधिवत् नैवेद्यं परिकल्पयेत् ॥ ३१-३६॥
राजोपचारानखिलान् दर्शयित्वा नृपोत्तम ।
स्तुत्वा यथावत् प्रणभेद्भक्तियुक्तस्तु साधकः ॥ ३१-३७॥
ततः समुद्धरेद्देवीं परिवारसमन्विताम् ।
संहारमुद्रया राजन् स्वीयहृत्सरसीरुहे ॥ ३१-३८॥
आनीय च पुनर्यष्ट्वा मानसैरुपचारकैः ।
आत्मदैवतयोरैक्यं सम्भाव्य विधिपूर्वकम् ।
गुरुं चैव तथाभ्यर्च्य ततः पूजां समापयेत् ॥ ३१-३९॥
एवं प्रतिदिनं कुर्वन् कृतकृत्यो भवेद्ध्रुवम् ।
विन्ध्यवासाप्रसादात्तु शिव एव भवेद्ध्रुवम् ॥ ३१-४०॥
राजोवाच-
भगवन् भवता पूर्वं बीजमन्त्रस्य विस्तरात् ।
विधानं सम्यगाख्यातं श्रुतं चैव मयाऽप्युत ॥ ३१-४१॥
धन्योऽस्मि कृतकृत्योऽस्मि सफलं जीवितं मम ।
त्वत्कृपालेशसम्पर्कात् सत्यमेतद्वदाम्यहम् ॥ ३१-४२॥
नाममन्त्रस्य माहात्म्यं विधानमपि तस्य च ।
श्रोतुमिच्छाम्यहं ब्रह्मन् यथावद्वक्तुमर्हसि ॥ ३१-४३॥
भक्तोऽस्मि तव दासोऽस्मि त्वमेव शरणं मम ॥ ३१-४४॥
वेदगर्भ उवाच -
नाममन्त्रस्य माहात्म्यं निरुक्तिर(म)पि वच्मि ते ।
येन विज्ञान(त)मात्रेण भवाम्भोधो न मज्जसे ॥ ३१-४५॥
एकारेणोदिता माया ककारेणोच्यते शिवः ।
लिमित्याश्लेषवाच्यत्वात्तयोराश्लेषकारणात् ॥ ३१-४६॥
(गो)गतिः सर्वत्रेति यदेकलिङ्ग इति स्मृतः ।
इत्येकलिङ्ग इति यत्स्वप्रकाशोऽत्र वर्ण्यते ॥ ३१-४७॥
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चापि दृश्यते जलचन्द्रवत् ॥ ३१-४८॥
(ब्रह्मबिन्दूपनिषद् १२।)
एकमेवाद्वितीयं यन्नेह नानास्ति किञ्चन ।
इति यत्पठ्यते वेदे तदेवाविरभूदिह ॥ ३१-४९॥
इति ते नाममाहात्म्यं दिङ्मात्रेण प्रकाशितम् ।
को वा (केन) विस्तरतो वक्तुं शक्यते बाष्पवंशज ॥ ३१-५०॥
राजोवाच -
नाममन्त्रस्य यद्गोप्यं(प्यो) महिमानं(यं) श्रुतं(तो) मया ।
त्वत्प्रसादादहं(थो) ब्रह्मन् विधानं चास्य कथ्यताम् ॥ ३१-५१॥
एकलिङ्गैकलिङ्गेति ये जपन्त्यतिभक्तितः ।
तेषां पुरः समागत्य क्रीडते स जगत्प्रभुः ॥ ३१-५२॥
वर्णान्तरसमायोगान्मन्त्रश्चाष्टाक्षरो भवेत् ।
तदहं ते प्रवक्ष्यामि हिताय सकलस्य च ॥ ३१-५३॥
परा प्रासादबीजं तु नामादी योज्य सञ्जपेत् ।
तदे(दी)शानाख्यदेवस्य रूपं भवति भूपते ॥ ३१-५४॥
नामान्ते स चतुर्थ्यन्तं(न्तः)नत्यन्तं(न्तः) च तथा स्मृतं(तः) ।
अष्टाक्षरो भवेन्मन्त्रः सर्वसौभाग्यदायकः ॥ ३१-५५॥
प्रणवाद्यो यदा जप्यस्तदा तत्पुरुषस्य तु ।
स्वरूपं तद्विजानीयात् सर्वकामार्थसिद्धये ॥ ३१-५६॥
ह्रीमादौ तु तथा योज्य जप्यतै वै यदा तदा ।
अघोरस्य स्वरूपं तज्जानीहि भुवि दुर्लभम् ॥ ३१-५७॥
वागादौ तु यदा ध्यायेत् सद्योजातस्य धाम तत् ।
श्रीबीजमादौ संयोज्य यदा सञ्जप्यते तदा ॥ ३१-५८॥
वामदेवस्तथा(दा) ध्येयः सर्वतः सुखमिच्छता ।
पञ्चानामपि मन्त्राणामृषिर्ब्रह्मा समीरितः ॥ ३१-५९॥
छन्दो गायत्रमाख्यातं देवः स्यादेकलिङ्गकः ।
अकारो बीजमित्युक्तो मकारः शक्तिरीरिता ॥ ३१-६०॥
उकारः कीलकं प्रोक्तं विनियोगोऽत्र उच्यते ।
चतुर्वर्गाप्तये चैव यथावदनुपूर्वकम् ॥ ३१-६१॥
प्रणवांशैर्द्विरावृत्या षडङ्गन्यासमाचरेत् ।
एवं तु प्रणवाद्यस्य मन्त्रस्य विधिरीरितः ॥ ३१-६२॥
तत्पुरुषमथो ध्यायेत्सर्वसम्पत्तिहेतवे ।
मायाद्यस्य च मन्त्रस्य हं बीजं शक्तिरीमिति ॥ ३१-६३॥
रेफस्तु कीलकं प्रोक्तमन्यत् पूर्ववदेव हि ।
सद्योजातस्य मन्त्रस्य प्रणवांशैः षडंशकम् ॥ ३१-६४॥
कुर्याद्यथाविधिः(धि) पूर्वं वामदेवस्य च ब्रुवे ।
शकारो बीजमित्युक्तमीकारः शक्तिरुच्यते ॥ ३१-६५॥
रेफः कीलकसंज्ञः स्यादन्यान् पूर्ववदाचरेत् ।
अथेशानस्य मन्त्रस्य बीजस्यैवं विधिः स्मृतः ॥ ३१-६६॥
एवं गुरुमुखात् प्राप्य यो जपेन्मन्त्रनायकम् ।
स एव पूज्यः सर्वेषां ब्रह्मादीनां न संशयः ॥ ३१-६७॥
मयाप्येवं प्रतिदिनं जप्यते नृपसत्तम ।
मन्त्रस्यास्य प्रभावेन त्रिकालज्ञानमाप्य च ।
स्वं स्वं पदमनायासात्(गताः) शक्रादयः सुराः ॥ ३१-६८॥
त्वमप्येवं नृपश्रेष्ठ मदुक्तमवधार्य च ।
एकलिङ्गं समाराध्य भुङ्क्ष्व भोगान् यदृच्छया ॥ ३१-६९॥
राजोवाच -
भगवन् भवता पूर्वमृष्यादिविनियोजनम् ।
कथितं तत्र बीजादि विविच्याख्यातुमर्हसि ॥ ३१-७०॥
ऋषिरुवाच -
ईश्वरो जगतां बीजं शक्तिर्गुणमयी त्वजा ।
परमात्मा तथा बुद्धिर्वायुः कुण्डलिनीति च ॥ ३१-७१॥
चतुर्विधे बीजशक्ती सर्वमन्त्रेषु चिन्तयेत् ।
ज्ञातव्यां(व्ये) सर्वमन्त्रेषु बीजशक्ती ततो निजे ॥ ३१-७२॥
अन्यथा सिद्धिरोधः स्यात्(न्) नात्र कार्या विचारणा ॥ ३१-७३॥
एवं सञ्चिन्त्य सुधिया पुरश्चर्यां समाचरेत् ।
ततो होमं तर्पणं च पूजाजां ब्राह्मणभोजनम् ।
एकलक्षं जपेन्मन्त्रं पुरश्चरणकृद्भवेत् ॥ ३१-७४॥
नाध्यातो नार्चितो मन्त्रः सुसिद्धोऽपि प्रसीदति ।
नाजप्तः सिद्धिदानेदु(प्सु)र्नाहुतः फलदो भवेत् ॥ ३१-७५॥
पूजाहोमजपं ध्यानं तस्मात्कर्मचतुष्टयम् ।
प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिमिच्छति ॥ ३१-७६॥
वृथा न कालं गमयेन् निद्रालस्यादिना तथा ।
षडृतुप्रसवैर्द्रव्यैर्यथावदनुपूजयेत् ॥ ३१-७७॥
अनिर्माल्यं सनिर्माल्यमर्चनं द्विविधं स्मृतम् ॥ ३१-७८॥
दिव्यैर्मनोभवैर्द्रव्यैर्गन्धपुष्पैः स्रगादिभिः ।
यदर्चनमनिर्माल्यं दिव्यभोगापवर्गदम् ॥ ३१-७९॥
ग्राम्यारण्यादिसम्भूतैर्यागद्रव्यैर्मनोरमैः ।
भक्तैर्यत् क्रियते सम्यक् सनिर्माल्यं तदर्चनम् ॥ ३१-८०॥
जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः ।
पञ्चमिश्रमहाभूतैर्भानुना शशिना तथा ॥ ३१-८१॥
प्राणिभिश्च द्विरेफाद्यै पौष्पैरेव न संशयः ।
घ्रातपुष्पात्फलं सिद्ध्येदल्प(ल्पं) नो मानसो(से) तथा ॥ ३१-८२॥
तस्मादपरिहार्यत्वादन्यथा चानुपायतः ।
अल्पबुद्धित्वतो नॄणां बाह्यपुष्पैर्भवेत्क्रिया ॥ ३१-८३॥
सा क्रिया त्रिविधा ज्ञेया फलनिष्पत्तिहेतवे ।
शृणु राजन् प्रवक्ष्यामि सर्वं यद्य(द)नुपूर्वशः ॥ ३१-८४॥
यागोपकरणैः सर्वैः क्रियमाणोत्तमा मता ।
यथालब्धैर्विनिष्पाद्या दृष्टैः पूजा तु मध्यमा ॥ ३१-८५॥
मन्त्रपुष्पात्तु निष्पाद्या पूजा चाधमसंज्ञिता ।
इत्यधिकारिभेदेन त्रिविधा परिकीर्तिता ॥ ३१-८६॥
इत्येतत् कथितं दिव्यं रहस्यं सर्वसिद्धिदम् ।
यः पठेच्छृणुयाद्वापि भक्त्या नित्यं प्रपूज्य च ।
न तस्य विद्यते किञ्चिद्दुर्लभं भुवनत्रये ॥ ३१-८७॥
क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ ३१-८८॥
त्वमपि श्रद्धया वत्स पूजनं शैवमुत्तमम् ।
कुरुष्व त्वं मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३१-८९॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये बाष्पान्वयो नाम एकत्रिंशोऽध्यायः । ३१॥
अथ द्वात्रिंशोऽध्यायः । यात्राविधिमहोत्सववर्णनम् ।
32. Upon being asked by Śaunaka शौनक about who the unrighteous and cruel king in the lineage of Kumbhakarṇa (Mahārāṇā Kumbhā) कुम्भकर्ण (महाराणा कुम्भा) was, Sūta सूत reveals him to be Yoga(Bhoja)raja योग(भोज)राज. The latter's son Raṇavīra रणवीर reinstated the annual Ekaliṅga Yātrā (Utsava) एकलिङ्ग यात्रा (उत्सव). Sūta सूत responds to queries by Śaunaka शौनक about the Ekaliṅga Yātrā (Utsava) एकलिङ्ग यात्रा (उत्सव).
शौनक उवाच -
कोऽसौ राजाऽभवत्तस्य कुम्भकर्णस्य चान्वये ।
विरुद्धधर्मा क्रूरात्मा विस्तरेण वदस्व मे ॥ ३२-१॥
सूत उवाच -
योगराज इति ख्यातः क्रूरनक्षत्रयोगतः ।
भवान्याः शापयोगेन कलेश्चापि प्रभावतः ॥ ३२-२॥
दुष्टभावं समासाद्य देवान् विप्रान् मुनीश्वरान् ।
मिथ्याभिशापतः केषां केषाञ्चिच्चेष्टया रुषा ॥ ३२-३॥
त्रासयामास दुर्बुद्धिः शूद्राचारपरायणः ।
वृत्तिलोपश्च देवानां ब्राह्मणानां चकार ह ॥ ३२-४॥
विरोधी सर्वलोकानां दुष्टानां प्रतिपालकः ।
मद्यपानपरो नित्यं वेश्याक्रीडनकौतुकी ॥ ३२-५॥
द्यूतक्रीडा तथा चौर्यं कुलस्त्रीणां च धर्षणम् ।
आखेटनं वा प्राणीनां घातनं तस्य भूपतेः ॥ ३२-६॥
एवं दुर्वृत्ततस्तस्य म्लेच्छैः सह विरोधतः ।
आक्रामितः सर्वदेशो युद्धं चापि महद्ध्यभूत् ॥ ३२-७॥
तस्य वापप्रभावेण स्वपुत्रेण निपातितः ।
रणवीरेति नाम्नाऽसौ धर्मात्मा सत्यसङ्गरः ।
देवता गुरुभक्तश्च श्रद्धावान् शिवपूजकः ॥ ३२-८॥
हितैषी प्रियवाग्दाता शूद्राचारपरो जयी ।
देवानां ब्राह्मणानां च ददौ वृत्तिं च संस्कृताम् ॥ ३२-९॥
प्रतिवर्षमेकलिङ्गे यात्रां शिवमहोत्सवे ।
कृत्वा पुनः स्वराष्ट्रे ए च शशास पृथिवीमिमाम् ॥ ३२-१०॥
शौनक उवाच -
कोऽसो महोत्सवः शभ्भोः कथं कस्मी(स्मि)नृतौ दिने ॥ ३२-११॥
किं फलं तस्य माहात्म्यं विधिना केन वा भवेत् ।
सूत उवाच -
साधु पृष्टं त्वया ब्रह्मन् शिवस्य चरितं महत् ॥ ३२-१२॥
सर्वपापप्रशमनं सर्वसम्पत्तिवर्धनम् ।
नरनारीनृपाणां च मनोरथफलप्रदम् ॥ ३२-१३॥
व्रतं पाशुपतं नाम शिवलोकगतिप्रदम् ।
शिवभक्तैः सदा कार्यमेकलिङ्गस्य सन्निधौ ॥ ३२-१४॥
वसन्तर्तौ मघोः कृष्णे प्रतिपद्यां(दि) रवौ करे ।
धेन्वा संस्मारितो देव एकलिङ्गसमुद्भवः ॥ ३२-१५॥
त्तदा देवाः समाजग्मुर्ब्रह्मेन्द्राद्या महर्षयः ।
गन्धर्वाप्सरसः सिद्धाः किन्नरा यक्षपन्नगाः ॥ ३२-१६॥
दिव्यदुन्दुभयो नेदुः पुष्पवृष्टीरिवाकिरन् ।
बहुकालवियोगेन दर्शनं तस्य चाभवत् ॥ ३२-१७॥
शम्भुं दृष्ट्वा ततो देवा हर्षनिर्भरमानसाः ।
पूजां चक्रुर्यथान्यायं स्तुत्वा दिव्यैः स्तवैर्विभुम् ॥ ३२-१८॥
तदा महोत्सवं चक्रु(क्रू) रात्रौ जागरणेन च ।
गीतवाद्यादिभिः शभ्भुं तोषयन्मु(न्तो) मुहुर्मुने ॥ ३२-१९॥
प्रतिपद्या(दा)दितिथिषु पूजां चक्रुर्दिवौकसः ।
यस्यां यस्यां तिथौ येन येन शम्भः प्रतोषितः ॥
तस्यास्तस्यास्तिथीशत्वं ददौ तेषां सदाशिवः ॥ ३२-२०॥
चतुर्दश्यां स्वयं देवो महोत्सवमथाकरोत् ।
हर्षयामास तान् देवान् मुमुदे शिरसा(शिवया) सह ॥ ३२-२१॥
शौनक उवाच -
शम्भुना स्थापिता येऽत्र तिथीशास्तान् वदस्वं मे ।
येषां विज्ञानतः सूत फलमाप्नोति मानवः ॥ ३२-२२॥
सूत उवाच -
अग्निर्ब्रह्मा तथा गौरी गणेशः पन्नगेश्वरः ।
स्कन्धौ(न्दो)रविर्भैरवश्च दुर्गा धर्मोऽथ विश्वभृत् ॥ ३२-२३॥
विष्णुर्मन्मथशम्भुश्च चन्द्रश्च पितरस्तथा ।
प्रतिपद्याद्यमान्तं (?) तु तिथीशाः परिकीर्तिताः ॥ ३२-२५॥
तासु तेषां पूजनाच्च एकलिङ्गः प्रसीदति ।
संवत्सरफलं पूर्णं प्राप्नुवन्ति नरोत्तमाः ॥
तस्य व्रतविधिं वक्ष्ये पक्षैकोत्सववर्तने ॥ ३२-२६॥
प्रतिपद्या(दा)दिसर्वासु तीथीशु(तिषु) क्रमतो यजेत् ।
सम्भारं सर्वमासाद्य यात्रायाश्च शिवस्य च ॥ ३२-२७॥
पूर्वेद्युः स्नानशौचादीन् कृत्वा रात्रौ हविष्यभुक् ।
ब्रह्मचारी भूमिशायी यज्जाग्रतमनुस्मरन् ॥ ३२-२८॥
प्रातरुत्थाय गुर्वादीन् नत्वाह्निकं समाचरेत् ।
पुण्याहं वाचयित्वा च स्वस्तिवाचनपूर्वकम् ॥ ३२-२९॥
गणेशादींश्च सम्पूज्य कुलदेवांस्तथा द्विजान् ।
सुवासिनीः कुमारीश्च सन्तोष्य दत्तदक्षिणः ॥ ३२-३०॥
सङ्कल्पं कारयेद्भक्त्या अद्येत्यादि (?) प्रयोगतः ।
नियमं किञ्चिदालम्ब्य यात्रां कुर्यात् प्रसन्नधी(धीः) ॥ ३२-३१॥
जय शम्भो महादेव पार्वतीश जगत्पते ।
एकलिङ्ग कृपासिन्धो त्राहि मां शरणागताम्(तम्) ॥ ३२-३२॥
इत्युच्चार्य शनैर्मार्ग गच्छन्नौद्धत्यवर्जितः ।
दयावान्नकृतद्रोहो वाद्याद्यैस्तोषयन् शिवम् ॥ ३२-३३॥
रात्री जागरणं कुर्वन् गीतनृत्यादिभिर्मुदा ।
पौराणैर्वा कथालापैर्भक्तिभावसमन्वितैः ॥ ३२-३४॥
प्राप्य नागह्रदं क्षेत्रमुपवासं चरेन्मुदा ।
प्रातरुत्थाय श्रद्धावान् प्रातःकृत्यादिकाः क्रियाः ॥ ३२-३५॥
कृत्वेन्द्रसरसि स्नानं विधिना भस्मधारणम् ।
रुद्राक्षांश्च तथा शीर्षे कर्णयोर्वक्षसी(सि) भुजे ॥ ३२-३६॥
प्राणायामादि सन्ध्या(न्ध्यां) च कुर्यात्तर्पणमेव च ।
श्राद्धं कृत्वा यथाशक्त्या दानं दद्यात्सुभक्तितः ॥ ३२-३७॥
तत्रेन्द्रेशं समभ्यर्च्य भैरवादीन् ततो यजेत् ।
विन्ध्यवासां चैकलिङ्गं षोडशैरुपचारकैः ॥ ३२-३८॥
सन्तोष्य गीतनृत्याद्यैः स्तुत्वा नत्वाभिनन्द्य च ।
ब्राह्मणान् भोजयेत् पश्चात् पायसाद्यैः सुसंस्कृतैः ॥ ३२-३९॥
गोभूहिरण्यदानानि दत्वा नत्वाऽभिनन्दयेत् ।
स्वकुटुम्बसमायुक्तः पारणं च समाचरेत् ॥ ३२-४०॥
रात्रौ जागरणं कुर्याच्छिवसङ्कीर्तनादिभिः ।
एवं यः कुरुते भक्त्या न विघ्नैः परिभूयते ॥ ३२-४१॥
धनधान्यसमृद्धैश्च स्वजनैः सह मोदते ।
ततः प्रतिपदायान्तु प्रातरुत्थाय दैहिकम् ॥ ३२-४२॥
आवश्यकं च कृत्वाऽथ स्नायादिन्द्रसरोवरे ।
आह्निकं च निवृत्याथ (निर्वर्त्याथ) एकलिङ्गं समुच्चरेत् ॥ ३२-४३॥
एकलिङ्गस्य चाग्नेय्यामग्नीश्वरमथार्चयेत् ।
अग्निना पूजितः शम्भुः प्रादुर्भूतस्तदग्रतः ॥ ३२-४४॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ।
शिवस्य वचनं श्रुत्वा प्रणम्याग्निरुवाच ह ॥ ३२-४५॥
ओजस्तेजो बलं ज्ञानं यज्ञादिकर्मसाधनम् ।
त्वत्पादपूजनं चास्तु सान्निध्यं तेऽस्तु मे सदा ॥ ३२-४६॥
शिव उवाच -
तथाऽस्तु तव नाम्नाऽहं स्थास्याम्यत्रैव पावक ।
अग्नीश्वरेति मां भक्त्या पूजां कुर्वन्ति ये नराः ॥ ३२-४७॥
तेषां सौख्यं धनं धान्यमारोग्यं चाङ्गपाटवम् ।
नाग्निजं च भयं तेषां पापरोगान्दि किञ्चन ॥ ३२-४८॥
ममाग्रे श्राद्धदानादि जपहोमादिकाः क्रियाः ।
विधिना ये प्रकुर्वन्ति लभते(न्ते) वाञ्छितं फलम् ॥ ३२-४९॥
सूत उवाच -
इत्युक्त्वा लिङ्गरूपेण स्थितस्तत्रैव शङ्करः ।
प्रतिपद्यां(दि)मधोः पूजां विशेषेण समाचरेत् ॥ ३२-५०॥
रात्री जागरणं गीतवाद्याद्यैस्तोषयेच्छिवम् ।
एवं यः पूजयेद्भक्त्या सर्वान् कामान् समश्नुते ॥ ३२-५१॥
द्वितीयायां विशेषेण कृत्वाह्निकविधानतः ।
एकलिङ्गाच्च ईशान्यां ब्रह्मेश्वरमथार्चयेत् ॥ ३२-५२॥
स्वयम्भुवा पुराराध्य(द्धो) रुद्रपाठादिभिः शिवः ।
प्रसन्नवरदः शम्भुराविर्भूतस्तदग्रतः ॥ ३२-५३॥
तत्र श्राद्धं जपो होमो विद्यादानादिकं कृतम् ।
तदक्षयफलं याति ब्रह्मेशस्य प्रसादतः ॥ ३२-५४॥
रात्री जागरणं कुर्यात् तू(तो) यन्त्रिकयुतो मुदा ।
पारायणं वा वेदस्य पुराणश्रवणादिभिः ॥ ३२-५५॥
भुक्त्वा भोग्यान् यथाकामान् शिवलोके महीयते ।
तृतीयायां विन्ध्यवासां पूजयेद्भुक्तिमुक्तिदाम् ॥ ३२-५६॥
आगमोक्तेन विधिना षोडशैरुपचारकैः ।
सुवासिनीः कुमारीश्च पूजयेद्देवताधिया ॥ ३२-५७॥
भूषणैः पट्टकूलैश्च दक्षिणाभिश्च तोषयेत् ।
गीतनृत्यादिना रात्रौ महोत्सवं समाचरेत् ॥ ३२-५८॥
सौभाग्यं वर्धते तस्य पुत्रपौत्रादिसम्पदः ।
अवैधव्यं च नारीणां सर्वमाङ्गल्यवर्धनम् ॥ ३२-५९॥
शतचण्ड्यादिकं कर्म जपहोमादिकं कृतम् ।
विन्ध्यवासाप्रसादेन तदक्षयफलं लभेत् ॥ ३२-६०॥
चतुर्थ्यां तु गणेशस्य पूजनं विधिवच्चरेत् ।
दूर्वाङ्कुरै रक्तपुष्पैः सिन्दूरैमोदकैः फलैः ॥ ३२-६१॥
नालिकेरैः पानकैश्च तर्पयेद्विघ्ननायकम् ।
सङ्गीताद्यैश्च सन्तोष्य स्तुत्याद्यैश्च सुभक्तितः ॥ ३२-६२॥
निर्विघ्नं जायते तस्य सर्वकार्येषु सर्वदा ।
पञ्चम्यां तक्षकेशस्य पूजनं कारयेद्बुधः ॥ ३२-६३॥
कुण्डे तक्षकके स्नात्वा श्राद्धं कृत्वा विधानतः ।
ब्राह्मणान् भोजयेत् पश्चात् पायसाद्यैश्च षड्रसै(सैः) ॥ ३२-६४॥
गीतं तुर्यादिभिस्तत्र जागरं कारयेन्निशि ।
नागानां वाऽथ सर्पाणां भीतिस्तस्य न जायते ॥ ३२-६५॥
सौभाग्यं धनधान्यादि रत्नानि विविधानि च ।
लभते वाञ्छितं सर्वमेकलिङ्गप्रसादतः ॥ ३२-६६॥
ततः षष्ठ्यां कुमारस्य पूजा कार्या विशेषतः ।
तत्र श्राद्धादिकं कर्म दानानि विविधानि च ॥ ३२-६७॥
दत्तमक्षयतां याति शिवलोके महीयते ।
तस्य चौरभयं नास्ति व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३२-६८॥
शत्रुतो न भयं तस्य सङ्ग्रामे विजयी भवेत् ।
व्यवहारे रणे दुर्गे सर्वत्रैव जयी भवेत् ॥ ३२-६९॥
सप्तम्यां भास्करं भक्त्या पूजनं विधिवच्चरेत् ।
रक्तचन्दनदूर्वाभिः पुष्पै रक्ताश्वमारजैः ॥ ३२-७०॥
अर्घ्यैः प्रीणाति सविता समन्त्र मण्डलादिभिः ।
जपादिकं कृतं तत्र तत्सर्वं सफलं भवेत् ॥ ३२-७१॥
अष्टम्यां भैरवेशस्य पूजा कार्या विशेषतः ।
आगमोक्तेन विधिना बलिदानादिभिस्तथा ॥ ३२-७२॥
रात्रौ च गीतनृत्याद्यैर्महोत्सवं समाचरेत् ।
सन्तोष्य भैरवं भक्त्या सर्वान् कामान् समश्नुते ॥ ३२-७३॥
सर्वापद्भ्यो विमुच्येत सर्वत्र विजयी भवेत् ।
भूतप्रेतपिशाचाद्यैर्निविघ्नैः परिभूयते ॥ ३२-७४॥
नवम्यां पूजयेद्दुर्गां शुचिः प्रयतमानसः ।
षोडशैरुपचारैस्तु बलिदानादिभिर्मुदा ॥ ३२-७५॥
होमं कुर्याच्च विधिवच्छतचण्ड्यादिमान्त्रिकम् ।
जपादिकं कृतं तत्र तदक्षयफलं भवेत् ॥ ३२-७६॥
दशम्यां पूजयेद्भक्त्या धर्मेश्वरं द्विजोत्तम ।
दक्षिणे चैकलिङ्गस्य धर्मेणाराधितः पुरा ॥ ३२-७७॥
तस्य पूजनमात्रेण यमभीतिर्न जायते ।
न पापेषु भवेद्बुद्धिः सदा धर्मे मतिर्भवेत् ॥ ३२-७८॥
एकादश्यां विशेषेण विष्णोराराधनं चरेत् ।
पञ्चामृतैः सुगन्धैश्च तुलसीशतपत्रकैः ॥ ३२-७९॥
नानाभूषणवस्त्राद्यैधूपदीपैः सुभक्तितः ।
नैवेद्यैः षड्रसोपेतैः पायसैर्मधुरान्वितैः ॥ ३२-७०॥
नीराजनादिभिः कृत्वा उपवासं समाचरेत् ।
रात्रौ जागरणं कुर्याद्गीतवाद्यादिभिर्मुदा ॥ ३२-८१॥
श्राद्धं दानं जपो होमः कृतं तदक्षयं भवेत् ।
द्वादश्यां पूजयेद्भक्त्या लक्ष्मीनारायणं हरिम् ॥ ३२-८२॥
षोडशैरुपचारैस्तु सम्पूज्य स्तवनादिभिः ।
ब्राह्मणान् भोजयेद्भक्त्या पायसाद्यैर्मन्नोरमैः ॥ ३२-८३॥
दीनाननाथान् सन्तोष्य पारणं च समाचरेत् ।
सङ्गीतविधिना रात्रौ जागरं कारयेन्नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ३२-८४॥
त्रयोदश्यां तु कामेशं पूजयेत्सुसमाहितः ॥ ३२-८५॥
पूर्वतश्चैकलिङ्गस्य कुमारस्य च दक्षिणे ।
कामेनाराधितः शम्भुस्तन्नाम्नाऽभून्महेश्वरः ॥ ३२-८६॥
पूजयेत्तं विधानेन रात्रौ जागरणादिभिः ।
महोत्सवं गीतनृत्यैरितिहासकथानकैः ॥ ३२-८७॥
सुखसोभाग्यसौन्दर्यं सौजन्यं लभते नरः ।
प्रियत्वं सर्वलोकेषु कौशल्यं स्यात्कलासु च ॥ ३२-८८॥
तत्र दानादिकं कर्म शिवाप्रियकरं भवेत् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति वै नरः ॥ ३२-८९॥
चतुर्दश्यां विशेषेण एकलिङ्गं समा(म)र्चयेत् ।
पञ्चशुद्धिं विधायादौ ततो यजनमाचरेत् ॥ ३२-९०॥
शौनक उवाच -
पञ्चशुद्धिः कथं कुर्याद्येन पूजाफलं लभेत् ।
विधानं तस्य मे ब्रूहि सर्वज्ञोऽसि मतो मम ॥ ३२-८१॥
सूत उवाच -
आत्मस्थानं द्रव्यमन्त्रं देवशुद्धिश्च पञ्चमी ।
यावन्न कुरुते ब्रह्मन् तावद्देवार्चनं कुतः ॥ ३२-९२॥
स्नानभूतेन संशुद्धिः प्राणायामादिभिस्तथा ।
षडङ्गाद्यखिलैर्न्यासैरात्मशुद्धिरुदीरिता ॥ ३२-९३॥
सन्मार्जनाऽनुलेपाद्यैर्दर्पणोदरवत् कृतम् ।
वितानधूपदीपाद्यैः पुष्पमालादिशोभितम् ॥ ३२-९४॥
पञ्चवर्णरजश्चित्रं स्थानशुद्धिरितीरिता ।
पूजाद्रव्याणि सम्प्रोक्ष्य मूलमन्त्रैर्विधानवित् ॥ ३२-९५॥
दर्शयेद्धेनुमुद्रां वै द्रव्यशुद्धिरुदीरिता ।
ग्रथिता मातृकावर्णैमू(र्मू)लमन्त्राक्षराणि च ॥ ३२-९६॥
क्रमोत्क्रमत्रिरावृत्तिर्मन्त्रशुद्धिरुदीरिता ।
पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ॥ ३२-९७॥
मूलमन्त्रेण दीपिन्या मालिन्याऽर्धोदकेन च ।
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता ॥ ३२-९८॥
पञ्चशुद्धिं विधायेत्थं पश्चाद्यजनमाचरेत् ।
सा पूजा सफला ज्ञेया चान्यथा निष्फला भवेत् ॥ ३२-९९॥
षोडशैरुपचारैश्च रुद्रपादादिसूक्तकैः ।
पञ्चामृतैः सुगन्धाद्भिर्वस्त्रालङ्कारभूषणैः ॥ ३२-१००॥
सुगन्धैः कुङ्कुमाद्यैश्च पुष्पैर्नानाविधैः शुभैः ।
धूपैर्दिव्यैश्च दीपैश्च पक्वान्नैः पायसादिभिः ॥ ३२-१०१॥
पानीयैर्दिव्यताम्बूलैस्तोषयेज्जगदीश्वरम् ।
नीराजनं च कर्पूरैर्दिव्यवादित्रसंयुतम् ॥ ३२-१०२॥
छत्रं च चामरे चार्प्य व्यजनं दर्पणं तथा ।
सङ्गीतं नटनाट्यं च पुराणश्रवणादिकम् ॥ ३२-१०३॥
रात्रौ जागरणं कार्यं महोत्सवविधानतः ।
स्वयं संहर्षयन् देवान् शम्भुनाऽपि यतः कृतम् ॥ ३२-१०४॥
देवैः सम्पूजितः शम्भुः प्रसन्नो भक्तवत्सलः ।
तोषयामास देवादीन् यथायोग्यविधानतः ॥ ३२-१०५॥
पूजितास्तर्पिताः सर्वे स्थापिताः स्वसमन्ततः ।
उवाच परया प्रीत्या लोकानां हितकाम्यया ॥ ३२-१०६॥
शम्भुरुवाच -
अद्यप्रभृति भो देवा वार्षिकीयं महोत्सवम् ।
ये करिष्यन्ति मद्भक्त्या तेषां पुण्योदयो भवेत् ॥ ३२-१०७॥
सर्वान् कामान् पूरयध्वं निजभक्तान् प्रसन्नतः
(सर्वान् कामान् पूरयध्वं स्वभक्तानां प्रसादतः) ॥ ३२-१०८॥
चतुर्द्दश्यां सदा पूजा(जां) ये करिष्यन्ति भत्पराः ।
ऐश्वर्यं विजयं राज्यमारोग्यं प्राप्नुवन्ति ते ।
भुक्त्वा भोगान् यथाकामान् शिवलोके महीयते ॥ ३२-१०९॥
सूत उवाच -
इत्युक्त्वाथ सुरान् देवः स्थितस्तत्रैव तोषय(षितः) ।
अमावस्यां पौर्णमास्यां सोमनाथं प्रपूजयेत् ॥ ३२-११०॥
तत्र श्राद्धादिकं कार्यमनन्तफलदं भवेत् ।
रात्री जागरणं कुर्याच्छिवभक्तिपरायणः ॥ ३२-१११॥
शिवध्यानपरो नित्यं शिवनामानुकीर्तयन् ।
सर्वं शिवमयं पश्यन् भुक्तिमुक्त्योश्च भाजनः(नम्) ॥ ३२-११२॥
विधिना वा मिषेणापि व्यासङ्गाद्वा प्रयत्नतः ।
कुर्वन्ति वार्षिकीं यात्रामेकलिङ्गस्य सन्निधौ ॥ ३२-११३॥
सर्वपापैर्विनिर्मुक्ता यान्ति शम्भोः परं पदम् ।
पक्षमात्रं च मे(ये) भक्त्या शिवपूजां विधानतः ॥ ३२-११४॥
करिष्यन्ति महात्मान एकलिङ्गस्य सन्निधौ ।
सर्वयज्ञफलं ते वै लभन्ते भुवि मानवाः ॥ ३२-११५॥
पक्षार्द्धं वा प्रकुर्वन्ति ह्येकलिङ्गमहोत्सवम् ।
सर्वतीर्थकृतं पुण्यं शिवसायुज्यदं भवेत् ॥ ३२-११६॥
एकादश्यादिदर्शान्तं महत्पुण्यफलप्रदम् ।
पञ्चरात्रं विशेषेण भक्त्या महोत्सवं चरेत् ॥ ३२-११७॥
प्रीणाति शङ्करः साक्षाद्भवतानामभयप्रदः ।
बहुना किमिहोक्तेन शिवसायुज्यदायकम् ॥ ३२-११८॥
वायुना कथितं पूर्वं नारदाय महात्मने ।
एकलिङ्गस्य माहात्म्यं तवाग्रे कथितं मया ॥ ३२-११९॥
ये शृण्वन्ति समाहिताः शिवकथां पापौघविध्वंसिनीं
पाठं शुद्धमनाः करोति मनुजः संसारसिन्धुप्लवम् ।
ते सौख्यं धनधान्यबन्धुसुजनैर्भुक्त्वा यथेष्टान् सुखान्
प्राप्यान्ते शिवलोकमक्षयसुखं सायुज्यतां शाम्भवाः ॥ ३२-१२०॥
यात्राभङ्गं ये करिष्यन्ति मूढाः शम्भोर्द्वेषं सज्जनानां च दुष्टाः
ये(ते) पच्यन्ते कुम्भिपाकादिघोरे नानायोनीर्भ्राम्यमाणाधमास्ते
शम्भोर्यात्रां यत्नतःकारयन्ति साहाय्यं वा कायवाग्निः(भिः) प्रकुर्यात्(र्युः)
मार्गे क्षेत्रे चान्नदानं प्रपादि कुर्वन्ते ये प्रीततां याति शम्भुः ॥ ३२-१२२॥
सद्यो वामस्त्वघोरः पुरुष इति मुखैरीश्वरोऽपीन्दुकाष्ठा-
वाची पूर्वोर्ध्वगैः सत्कुजलशुचिमरुत्खैर्विधाता रमेशः ।
रुद्रश्चेशः सदादिः शिव इति जगत्सृष्टिसंस्थाननाशा-
न्तर्द्धानानुग्रहैश्च प्रणवमयगुरुश्चैकलिङ्गोऽवताद्वः ॥ ३२-१२३॥
इति श्रीवायुपुराणे मेदपाटीये श्रीमदेकलिङ्गमाहात्म्ये यात्राविधिमहोत्सववर्णनं नाम द्वात्रिंशोऽध्यायः । ३२॥
॥ इति श्रीवायुपुराणे मेदपाटीये एकलिङ्गमाहात्म्यं (पौराणिकं) सम्पूर्णम् ॥
Notes:
EkaliṅgaMāhātmyam एकलिङ्गमाहात्म्यम्, that constitutes a SthalaPurāṇa स्थलपुराण and SthalaMāhātmyam स्थलमाहात्म्यम्, has been composed in two styles - Paurāṇika पौराणिक and Kāvyamaya काव्यमय. It includes the descriptions about the manifestation of the Ekaliṅga Śiva Kṣetra एकलिङ्ग शिव क्षेत्र in relation to the story of the duo - Baṣpa Rājā बाष्प राजा - Hārīta Muni हारीत मुनि, and the lineage of kings of Citrakūṭa चित्रकूट (now k.a. Cittaur̤agar̤ha चित्तौड़गढ़) and Medapāṭa मेदपाट (now k.a. Mevār̤a mevA.Da) including Mahārāṇā Kumbhā महाराणा कुम्भा.
Baṣpa Rājā बाष्प राजा is now popularly known as Bappā Rāvala बप्पा रावल.
The VāyuPurāṇam वायुपुराणम् has been attributed to be the source composition of EkaliṅgaMāhātmyam एकलिङ्गमाहात्म्यम् as the main narrator of the same is Vāyu वायु.
EkaliṅgaMāhātmyam - Paurāṇika एकलिङ्गमाहात्म्यम् - पौराणिक is composed in 32 chapters that are given on this page with a brief summary of each chapter.
Shloka/Line formatting and numbering from 8-66 to 8-69 in the source text, seems to require some editing.
Verse 121 of chapter 32 is either missing or the numbering after verse 120 is incorrect.
Proofread and summary by Ruma Dewan